बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 2 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
९६ बृहत्संहिता
जहाँ सफेद काँटों से युत शमी वृक्ष हो, वहाँ उस वृक्ष से दक्षिण हाथ पर पचहत्तर
पुरुषप्रमाण नीचे जल होता है। यहाँ पर खुदाई करने पर आधा पुरुषप्रमाण नीचे सर्प
निकलता है।।८५।।
यत्र यस्मिन् प्रदेशे श्वेता शुक्लवर्णा कण्टकबहुला प्रभूतकण्टका शमी भवति, तत्र
शम्या दक्षिणेन हस्तमात्रात् परतो नरपञ्चकसंयुतया सप्तत्या पञ्चसप्तत्या पुरुषैरधो जलं
पयो भवति। नरार्धे पुरुषार्धे च खाते अहिः सर्पो भवति। तथा च सारस्वतः—
श्वेतातिकण्टका यत्र शमी स्यात्तत्र दक्षिणे।
हस्तेन पञ्चसप्तत्या नराणां निर्दिशेज्जलम्।।
खातेऽर्धपुरुषे सर्पो दृश्यतेऽञ्जनप्रभः।
सुरसं च जलं ज्ञेयं चिरकालप्रवाहितम्।। इति।।८५।।
अत्रैव विशेषान्तरमाह—
मरुदेशे यच्चिह्नं न जाङ्गले तैर्र्जलं विनिर्देश्यम् ।
जम्बूवेतसपूर्वैर्ये पुरुषास्ते मरौ द्विगुणाः ।।८६।।
जिन चिह्नों से मरुस्थल में जल-ज्ञान कहा गया है, उन चिह्नों से जाङ्गल ( स्वल्प
जल वाले ) देश में जल-ज्ञान नहीं कहना चाहिये। पहले जामुन, बेंत आदि के द्वारा
जल-ज्ञान के समय जो पुरुष-प्रमाण कहा गया है, उसको द्विगुणित करके मरु देश में
ग्रहण करना चाहिये।।८६।।
यच्चिह्नं यल्लक्षणं मरुदेशे कथितं तैश्चिह्नैर्जाङ्गले स्वल्पोदके देशे जलमुदकं न
विनिर्देश्यं न वक्तव्यम्। जम्बूवेतसपूर्वैरिति । यदि 'वेतसोऽम्बुरहिते देशे' तथा 'जम्ब्वाश्चो-
दग्धस्तैः' इत्यादिकैर्जम्बूवेतसपूर्वैलक्षणैर्यै पुरुषाः कथितास्तैरेव चिह्नैर्मरौ मरुभूमौ दृष्टैर्द्विगुणास्त
एव पुरुषा वाच्या इति।।८६।।
अन्यदप्याह—
जम्बूस्त्रिवृता मौर्वी शिशुमारी सारिवा शिवा श्यामा ।
वीरुधयो वाराही ज्योतिष्मती गरुडवेगा च ॥८७॥
सूकरिकमाषपर्णीव्याघ्रपदाश्चेति यद्यहेर्निलये ।
वल्मीकादुत्तरतस्त्रिभिः करैस्त्रिपुरुषे तोयम् ॥८८॥
यदि वल्मीक के ऊपर जामुन, निसोत, मौर्वी, शिशुमारी, सारिवा, शिवा ( शमी ),
• श्यामा, वाराही, ज्योतिष्मती ( मालकाकणी ), गरुडवेगा, सूकरिका, माषपर्णी ( मूड़ ),
व्याघ्रपदा—ये औषधियाँ हों तो वल्मीक से उत्तर की ओर तीन हाथ पर तीन पुरुषप्रमाण
नीचे जल होता है।।८७-८८।।
जम्बूवृक्षविशेषः त्रिवृता, मौर्वी, शिशुमारी, सारिवा, शिवा, श्यामा—एता वीरुधय
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
दकार्गलाध्यायः ९७
ओषधयः, तथा वक्ष्यमाणाश्च वीरुधय एव। कास्ताः? वाराही ज्योतिष्मती गरुडवेगा
च। सूकरिकमाषपर्णीव्याघ्रपदाश्चैता ओषधयो यद्यहेर्निलये सर्पगृहे वल्मीके भवन्ति,
तदा वल्मीकादुत्तरत उत्तरास्यां दिशि त्रिभिः करैस्त्रिभिर्हस्तैः परतः पुरुषत्रये खाते अधस्तोयं
वक्तव्यम्॥८७-८८॥
किं सर्वत्र? नेत्याह—
एतदनूपे वाच्यं जाङ्गलभूमौ तु पञ्चभिः पुरुषैः।
एतैरेव निमित्तैर्मरुदेशे सप्तभिः कथयेत्॥८९॥
पूर्वकथित तीन पुरुषप्रमाण अनूप (जलप्राय) देश के लिये है। स्वल्प जल वाले
देश में इन्हीं पूर्वोक्त लक्षणों से पाँच पुरुषप्रमाण नीचे और मरु देश में सात पुरुषप्रमाण
नीचे जल कहना चाहिये॥८९॥
एतद्यदुक्तं तदनूपे बहूदके वाच्यं वक्तव्यम्। बहूदको देशोऽनूपः। जाङ्गलभूमौ तु
स्वल्पोदके एभिरेव लक्षणैः पञ्चभिः पुरुषैर्वाच्यम्। एतैरेव प्रागुक्तैर्निमित्तैश्चिह्नैर्मरुभूमौ
सप्तभिः पुरुषैः कथयेद् वदेत्॥८९॥
अन्यदप्याह—
एकनिभा यत्र मही तृणतरुवल्मीकगुल्मपरिहीना।
तस्यां यत्र विकारो भवति धरित्र्यां जलं तत्र॥९०॥
जहाँ तृण, वृक्ष, वल्मीक और गुल्मों से रहित एक वर्ण की भूमि हो तथा उस भूमि
में कहीं एक जगह विकार दिखाई दे तो उस विकारयुत भूमि के पाँच पुरुषप्रमाण नीचे
जल कहना चाहिये॥९०॥
यत्र यस्मिन् स्थाने मही भूरेकनिभा एकवर्णा सा च तृणतरुवल्मीकगुल्मपरिहीना,
तृणैः, तरुभिः, वल्मीकैः, गुल्मैरेकमूलैः, शाखासमूहो गुल्मः। एतैः परिहीना वर्जिता।
तस्यां मह्यां यत्र यस्मिन् स्थाने विकारोऽन्यसदृशत्वम्, तत्र तस्मिन् धरित्र्यां भूमौ पञ्चभिः
पुरुषैर्जलं भवति। तथा च सारस्वतः—
एकवर्णा मही यत्र वृक्षगुल्मतृणादिभिः।
वल्मीकैश्चापि रहिता तस्यां तत्र विपर्ययः॥
पञ्चभिः पुरुषैस्तत्र जलं भूमावधः स्थितम्॥ इति॥९०॥
अन्यदप्याह—
यत्र स्निग्धा निम्ना सवालुका सानुनादिनी वा स्यात्।
तत्रार्धपञ्चकैर्वारि मानवैः पञ्चभिर्यदि वा॥९१॥
जहाँ स्निग्ध, नीची, रेतदार और पाँव के रखने से शब्दयुत भूमि हो, वहाँ साढ़े चार
या पाँच पुरुषप्रमाण नीचे जल कहना चाहिये॥९१॥
बृ० भ० द्वि०-७
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
९८ बृहत्संहिता
यत्र यस्मिन् देशे स्निग्धा सस्नेहा मही निम्नाऽनुच्चा सवालुका वालुकासहिता
सानुनादिनी सशब्दा वा भूः स्याद् भवेत्, तत्र तस्मिन् स्थाने अर्धपञ्चकैः सार्धैश्चतुर्भिः
पुरुषैः पञ्चभिर्वा पुरुषैरधो जलं भवति ।। ९१ ।।
अन्यदप्याह—
स्निग्धतरूणां याम्ये नरैश्चतुर्भिर्जलं प्रभूतं च ।
तरुगहनेऽपि हि विकृतो यस्तस्मात् तद्वदेव वदेत् ॥ ९२ ॥
जहाँ स्निग्ध वृक्ष हों, वहाँ उन वृक्षों से चार पुरुषप्रमाण नीचे जल होता है तथा
जहाँ बहुत वृक्षों के मध्य में एक वृक्ष विकारयुत दिखाई दे तो वहाँ उस विकारयुत वृक्ष
से दक्षिण चार पुरुषप्रमाण नीचे जल होता है ।। ९२ ।।
यत्र स्निग्धाः सस्नेहास्तरवो वृक्षा भवन्ति तत्र तेषां स्निग्धतरूणां याम्ये दक्षिणे
चतुर्भिर्नरैः पुरुषैरधः प्रभूतं बहु जलं भवति। तरुगहने वृक्षगहनेऽपि यो वृक्षो बहूनां मध्ये
विकृतः सविकारो दृश्यते पुष्पफलानां स्वरूपान्यत्वं दृश्यते, तस्माद्वृक्षादुदकं तद्वत् तेनैव
प्रकारेण वदेत्। याम्ये नरैश्चतुर्भिरित्यर्थः ।। ९२ ।।
अन्यदप्याह—
नमते यत्र धरित्री सार्धे पुरुषेऽम्बु जाङ्गलानूपे ।
कीटा वा यत्र विनालयेन बहवोऽम्बु तत्रापि ।। ९३ ।।
जिस बहुत जल वाले या स्वल्प जल वाले देश में पाँव रखने से धरती दब जाय
और जहाँ विना रहने के स्थान के बहुत-से कीड़े हों, वहाँ डेढ़ पुरुषप्रमाण नीचे जल
कहना चाहिये ।। ९३ ।।
यत्र यस्मिन् प्रदेशे धरित्री भूः। नमते पादपीडिता सत्यधो याति, जाङ्गलानूपे जाङ्गले
अनूपे वा, तत्र सार्धे पुरुषे अम्बु जलं भवति। कीटा वा कृमयो यत्र यस्मिन् प्रदेशे आलयेन
विना दृश्यन्ते बहवः प्रभूताः, तत्राम्बु जलं भवति। अपिशब्दात् सार्धे पुरुषे ।। ९३ ।।
उष्णा शीता च मही शीतोष्णाम्भस्त्रिभिर्नरैः सार्धैः ।
इन्द्रधनुर्मत्स्यो वा वल्मीको वा चतुर्हस्तात् ॥ ९४ ॥
जहाँ सब जगह गरम और एक जगह ठण्डी या सब जगह ठण्डी और एक जगह
गरम भूमि हो, वहाँ साढ़े तीन पुरुषप्रमाण नीचे जल होता है। जिस स्वल्प जल वाले या
अधिक जल वाले प्रदेश में इन्द्रधनुष, मछली या वल्मीक हो, उस भूमि में चार हाथ
नीचे जल होता है ।। ९४ ।।
यत्र सर्वत्रोष्णा मही भूः। एकस्मिन् देशे शीता भवति, अथवा सर्वत्र शीता एकस्मिन्
देशे उष्णा भवति। तत्र त्रिभिर्नरैः सार्धैरम्भो जलं भवति। इन्द्रधनुस्त्रिदशचापं तच्च सूर्यरश्मि-
सम्बन्धाद्यत्रोत्पद्यते मत्स्यो वा मत्स्यो दारकत्वाद्भवो वल्मीको वा यस्यां भूमौ जाङ्गला-
नूपयोर्दृश्यते, तत्र चतुर्हस्तात् परतोऽधोऽम्भो जलं भवति ।। ९४ ।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
दकार्गलाध्यायः ९९
अन्यदप्याह—
वल्मीकानां पङ्क्त्यां यद्येकोऽभ्युच्छ्रितः शिरा तदधः।
शुष्यति न रोहते वा सस्यं यस्यां च तत्राम्भः ॥९५॥
जहाँ बहुत वल्मीकों में एक वल्मीक सबसे ऊँचा हो, वहाँ उस ऊँचे वल्मीक के
नीचे चार पुरुषप्रमाण खोदने पर जल मिलता है अथवा जिस खेत में धान्य जम कर
सूख जाय या जमे ही नहीं, वहाँ चार पुरुषप्रमाण नीचे जल कहना चाहिये।।९५।।
वल्मीकानां पंक्त्यां स्थितानां मध्याद् यद्येको वल्मीकोऽभ्युच्छ्रित उच्चतरो भवति,
तदा तदधस्तयोच्छ्रितस्य वल्मीकस्याधस्तले चतुर्भिर्हस्तैः शिरा जलं भवति। यस्यां
भूमौ जातं सस्यं शुष्यति शोषं प्राप्नोति, उप्तं वा न रोहते न जायते, तस्यां भूमौ चतुर्भि-
र्हस्तैरधो जलं भवति। एतज्जाङ्गलानूपयोः। तथा च सारस्वतः—
वल्मीकपक्त्यां यद्येकोऽभ्युच्छ्रितस्तदधो जलम्।
न रोहते शुष्यते वा यत्र सस्यं चतुष्करात्।।
जलं तत्रैव निर्देश्यं भूमौ निःसंशयं तदा।। इति।।९५।।
अन्यदप्याह—
न्यग्रोधपलाशोदुम्बरैः समेतैस्त्रिभिर्जलं तदधः।
वटपिप्पलसमवाये तद्वद्वाच्यं शिरा चोदक् ॥९६॥
जहाँ बड़, पीपल, गूलर—ये तीनों वृक्ष इकट्ठे हों तथा जहाँ बड़, पीपल—ये दोनों
वृक्ष एक साथ अवस्थित हों, वहाँ इन वृक्षों के नीचे तीन हाथ खोदने पर जल और
उत्तर शिरा मिलती है।।९६।।
न्यग्रोधपलाशोदुम्बरैः समेतैस्त्रिभिर्जलं तदधः। वटपलाशोदुम्बरैस्त्रिभिर्वृक्षैः समेतैरेकत्र
संयुक्तैस्तदधस्तेषामेवाधस्त्रिभिर्हस्तैर्जलं भवति, शिरा च तत्रोदगुत्तरा भवति। तथा वटपिप्पल-
समवाये वटपिप्पलयोगे तद्वत् तेनैव प्रकारेणाधो जलं वाच्यम्, त्रिभिः करैः शिरा चोद-
गिति। तथा च सारस्वतः—
पलाशोदुम्बरौ यत्र स्यातां न्यग्रोधसंयुतौ।
वटपिप्पलको वाऽथ समेतौ तदधो जलम्।।
करैस्त्रिभिरुदक् चाम्भः शिरां शुभजलां वदेत्।। इति।।९६।।
अथ कूपलक्षणमाह—
आग्नेये यदि कोणे ग्रामस्य पुरस्य वा भवेत् कूपः।
नित्यं स करोति भयं दाहं च समानुषं प्रायः ॥९७॥
नैर्ऋतकोणे बालक्षयं च वनिताभयं च वायव्ये।
दिक्तत्रयमेतन्त्यक्त्वा शेषासु शुभावहाः कूपाः ॥९८॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
१०० बृहत्संहिता
यदि गाँव या नगर के आग्नेय कोण में कूप हो तो उस गाँव या नगर में नित्य अनेक
प्रकार का भय होता है। अधिकतर आग लगती है और मनुष्य भी जल कर मरते हैं।
नैर्ऋत्य कोण में कूप हो तो बालकों का क्षय और वायव्य कोण में हो तो स्त्रियों को भय
होता है। शेष पाँच दिशाओं में कूप का होना शुभ होता है॥९७-९८॥
ग्रामस्य पुरस्य वा यद्याग्नेयकोणे पूर्वदक्षिणस्यां दिशि कूपो भवेत् स्यात्, तदा स
कूपः तस्मिन् ग्रामे पुरे वा नित्यं सर्वकाले भयं करोतीत्यर्थः। प्रायो बाहुल्येन समानुषं
दाहं च करोति। मनुष्यादि दहति अग्निभयं करोतीत्यर्थः।
ग्रामस्य पुरस्य वा नैर्ऋतकोणे दक्षिणपश्चिमायां दिशि कूपो भवति तदा बालानां
शिशूनां क्षयं करोति। वायव्यकोणे पश्चिमोत्तरस्यां दिशि च वनितानां स्त्रीणां भयं करोति।
एतद्यथोक्तं दिक्त्रयं त्यक्त्वा यथान्यासु पञ्चसु पूर्वदक्षिणपश्चिमोत्तरैशानीषु शुभावहाः शुभ-
प्रदाः कूपा इति॥६९-९७॥
एतद्यदुक्तं दकार्गलं तत्सारस्वतं दृष्टेदानीं मानवं वक्ष्यामीत्याह—
सारस्वतेन मुनिना दकार्गलं यत्कृतं तदवलोक्य ।
आर्याभिः कृतमेतद् वृत्तैरपि मानवं वक्ष्ये ॥९९॥
सारस्वत मुनि द्वारा जो उदकार्गल कहे गये हैं, उनको देखकर मैंने आर्या छन्दों के
द्वारा यह उदकार्गल कहा है। अब मनु द्वारा प्रतिपादित उदकार्गल को वृत्तों के द्वारा
कहता हूँ॥९९॥
सारस्वतेन मुनिना कृतं रचितं तदवलोक्य दृष्ट्वा एतदार्याभिः कृतम्, मानवं मनुना
विरचितं दकार्गलमिदानीं वृत्तैर्वक्ष्ये कथयिष्ये॥९९॥
तच्चाह—
स्निग्धा यतः पादपगुल्मवल्ल्यो
निश्छिद्रपत्राश्च ततः शिरास्ति।
पद्माक्षुरोशीरकुलाः सगुण्ड्राः
काशाः कुशा वा नलिका नलो वा ॥१००॥
खर्जूरजम्ब्बर्जुनवेतसाः स्युः
क्षीरान्विता वा द्रुमगुल्मवल्ल्यः।
छत्रेभनागाः शतपत्रनीपाः
स्युर्नक्तमालाश्च ससिन्दुवाराः ॥१०१॥
विभीतको वा मदयन्तिका वा
यत्रास्ति तस्मिन् पुरुषत्रयेऽम्भः।
स्यात् पर्वतस्योपरि पर्वतोऽन्य-
स्तत्रापि मूले पुरुषत्रयेऽम्भः ॥१०२॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
दकार्गलाध्यायः १०१
जहाँ पर स्निग्ध, छिद्ररहित पत्तों से युत वृक्ष, गुल्म या लता हो; वहाँ तीन
पुरुषप्रमाण नीचे जल होता है। अथवा स्थलकमल, गोखरू, उशीर ( खस ), कुल—
ये द्रव्यविशेष; गुण्ड्र ( सरकण्डा, शर ), काश, कुशा, नलिका, नल—ये तृणविशेष;
खजूर, जामुन, अर्जुन, बेंत—ये वृक्षविशेष; दूध वाले वृक्ष, गुल्म और लता, छत्री,
हस्तीकर्णी, नागकेशर, कमल, कदम्ब, करञ्ज—ये सभी सिन्दुवार वृक्ष के साथ; बहेड़ा
वृक्षविशेष, मदयन्तिका द्रव्यविशेष—ये सब जहाँ पर अवस्थित हों; वहाँ पर तीन पुरुष-
प्रमाण नीचे जल होता है। साथ ही जहाँ पर एक पर्वत के ऊपर दूसरा पर्वत हो, वहाँ
पर भी तीन पुरुषप्रमाण नीचे जल होता है।।१००-१०२।।
स्निग्धा यत इति। यत इति निपातः सप्तम्यन्ते। यतो यस्यां भूमौ पादपा वृक्षाः,
गुल्मा एकमूलाः शाखासमूहाः, वल्ली व्रततिः, एताः सर्वा यत्र स्निग्धाः सस्नेहाः; तथा
निश्छिद्रपत्राश्च निश्छिद्राणि पत्राणि च यासाम्। ततस्तस्मिन्नेव स्थाने अधः पुरुषत्रये शिरा
अस्ति विद्यते। अथवा पद्मं स्थलपद्मम्, क्षुरो गोक्षुरः, उशीरः, कुलः एते द्रव्यविशेषाः।
सगुण्ड्रा गुण्ड्रसहिताः, गुण्ड्रस्तृणविशेषः, काशाः कुशा नलिका नलो वा एते सर्व एव
तृणविशेषाः।
खर्जूरः, जम्बूः, अर्जुनः, वेतसः—एते सर्वे वृक्षविशेषा यत्र स्युर्भवेयुः। अथवा क्षीरा-
न्विताः सक्षीरा द्रुमा वृक्षाः। गुल्म एकमूलः शाखासमूहः, वल्ल्यो व्रतत्य—एते यत्र
सक्षीराः। छत्रः प्रसिद्धः, इभो हस्तिकर्णः, नागो नागकेसरं यस्मादुत्पद्यते; शतपत्रं पद्मम्,
नीपो वृक्षविशेषः, नक्तमालाः करजाः—एते पूर्वोक्ताः ससिन्दुवाराः सिन्दुवारैर्वृक्षविशेषैः
सहिता यत्र स्युः।
विभीतको वृक्षविशेषः, मदयन्तिका द्रव्यविशेषः—एते यत्र यस्मिन् प्रदेशे भवन्ति,
तत्र अधस्तले पुरुषत्रये अम्भो जलं स्यात्। पर्वतस्योपरि पर्वतोऽन्यस्तत्रापि मूले पुरुष-
त्रये वेति। अथवा पर्वतस्योपर्यन्यो द्वितीयः पर्वतो यत्र स्याद् भवेत् तत्रोपरिष्टस्य मूले
पुरुषत्रये वा अम्भो जलमस्ति विद्यते। तथा च मनुः—
गुल्मपादपवल्ल्यः स्युः पत्रैश्शाखण्डितैर्युताः।
तदधो विद्यते वारि खाते तु पुरुषत्रये।।
पद्मक्षुरोशीरकुला गुण्ड्रा काशः कुशोऽथवा।
नलिकानलखर्जूरजम्बूवेतसकार्जुनाः ।।
यत्र स्युर्द्रुमवल्ल्यश्च क्षीरयुक्ताः फलान्विताः।
छत्रेभनागनीपाश्च शतपत्रविभीतकाः।।
सिन्दुवारा नक्तमालाः सुगन्धा मदयन्तिकाः।
यत्रैते स्युस्तत्र जलं खातेऽम्भः पुरुषत्रये।।
गिरेरुपरि यत्रान्यः पर्वतः स्यात्ततो जलम्।
तस्यैव मूले पुरुषैस्त्रिभिर्वाऽधो विनिर्दिशेत्।। इति।।१००-१०२।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
१०२ बृहत्संहिता
अन्यदप्याह—
या मौञ्जिकैः काशकुशैश्च युक्ता
नीला च मृद्यत्र सशर्करा च।
तस्यां प्रभूतं सुरसं च तोयं
कृष्णाथवा यत्र च रक्तमृद्वा ॥१०३ ॥
मूञ्ज, काश और कुश से युत भूमि में, पत्थर की कणाओं से मिली हुई नीली मिट्टी
वाली भूमि में और काली या लाल मिट्टी वाली भूमि में प्रचुर मात्रा में तथा मधुर जल
होता है॥१०३॥
या भूर्मौञ्जिकैः काशैः कुशैश्च तृणविशेषैर्युक्ता, यत्र यस्यां भूमौ नीला नीलवर्णा मृत्
सशर्करा सकणिका च भवति, तस्यां भूमौ प्रभूतं बहु सुरसं मृष्टं च तोयं जलं भवति।
यत्र कृष्णा कृष्णवर्णा रक्ता रक्तवर्णा वा मृत् तत्र च प्रभूतं बहु सुरसं तोयं भवेदिति॥१०३॥
अथ भूगुणानाह—
सशर्करा ताम्रमही कषायं क्षारं धरित्री कपिला करोति ।
आपाण्डुरायां लवणं प्रदिष्टं मृष्टं पयो नीलवसुन्धरायाम् ॥१०४॥
पत्थर के कणों से मिली हुई ताम्र वर्ण की भूमि में कसैला, पीली भूमि में खारा,
पाण्डु रङ्ग की भूमि में नमकीन और नीली भूमि में मीठा जल होता है॥१०४॥
या मही भूः सशर्करा सकणिका ताम्रवर्णा च सा कषायं पयः पानीयं करोति। कपिला
कपिलवर्णा च धरित्री भूः क्षारं पयः करोति। आपाण्डुरायां धरित्र्यां लवणं पयः प्रदिष्ट-
मुक्तम्। नीलवसुन्धरायां नीलायां भूमौ मृष्टं पयो भवति॥१०४॥
अन्यदप्याह—
शाकाश्वकर्णार्जुनविल्वसर्जाः श्रीपर्ण्यरिटाधवशिशपाश्च ।
छिद्रैश्च पत्रैर्द्रुमगुल्मवल्ल्यो रूक्षाश्च दूरेऽम्बु निवेदयन्ति ॥१०५॥
जहाँ पर छिद्र वाले पत्तों से युत शाक ( तरकारी = सब्जी ), अश्वकर्ण ( संखुआ ),
अर्जुन, बेल, सर्ज, श्रीपर्णी, अरिष्ट, धव, शीशम—ये वृक्ष हों तथा जहाँ पर छिद्र वाले
रूखे पत्तों से युत वृक्ष, गुल्म, लता हों; वहाँ बहुत दूर पर जल होता है॥१०५॥
शाकः, अश्वकर्णः, अर्जुनः, विल्वः, सर्जः, श्रीपर्णीः, अरिष्टा, धवः, शिंशपः—
एते सर्व एव वृक्षविशेषाः। यत्र छिद्रैः पत्रैः छिद्रसंयुक्तैः पर्णेर्भवन्ति, तथा द्रुमगुल्मवल्ल्यः
छिद्रैश्च पत्रै रूक्षाश्च निःस्नेहाः। दूरे अनिकटे अम्बु जलं निवेदयन्ति। तत्रातिदूरे जलं
भवतीत्यर्थः॥१०५॥
अन्यदप्याह—
सूर्याग्निभस्मोट्रखरानुवर्णा या निर्जला सा वसुधा प्रदिष्टा ।
रक्ताङ्कुराः क्षीरयुताः करीरा रक्ता धरा चेज्जलमश्मनोऽधः ॥१०६॥
CC-0. JK Sanskrit Academy, Jammu. Digitized by S3 Foundation USA
दकार्गलाध्यायः १०३
जहाँ सूर्य, अग्नि, भस्म, ऊँट या गदहे के रंग की या लाल रंग की भूमि में लाल
अंकुर वाला, दूध वाला करीर वृक्ष हो या लाल वर्ण की भूमि हो, वहाँ पत्थर के नीचे
जल होता है।।१०६।।
या वसुधा भूः सूर्यस्यादित्यस्याग्नेर्वह्नेर्भस्मन उष्ट्रस्य करभस्य खरस्य गर्दभस्य एषा-
मनुवर्णा सदृशप्रभा सा निर्जला जलरहिता प्रदिष्टोक्ता। तथा करीरवृक्षा यत्र रक्ताङ्कुरा लोहितै-
रङ्कुरैः संयुक्ताः क्षीरयुताः क्षीरसंयुक्ताः, धरा भूर्यदि च रक्ता लोहितवर्णा भवति, तत्राश्म-
नोऽधः पाषाणस्य तले जलमुदकं भवति।।१०६।।
अन्यदप्याह—
वैदूर्यमुद्गाम्बुदमेचकाभा पाकोन्मुखोदुम्बरसन्निभा वा।
भङ्गाञ्जनाभा कपिलाथवा या ज्ञेया शिला भूरिसमीपतोया ॥१०७॥
वैदूर्य मणि, मूंग या मेघ के समान काला, पकने वाले गूलर के फल के समान,
फोड़ने से अञ्जन के समान काला या पीला पत्थर जहाँ हो, वहाँ पर समीप में ही बहुत
जल होता है।।१०७।।
या शिला वैदूर्यमणेर्मुद्गानामम्बुदस्य मेघस्य मेचकस्य कृष्णवर्णस्य सदृशवर्णा, तथा
या शिला पाकोन्मुखस्य सुपरिपक्वस्योदुम्बरस्य फलस्य सन्निभा सदृशी, या च शिला
भङ्गे स्फोटने अञ्जनाभा अञ्जनसदृशी, अथवा कपिलवर्णा या च शिला, सा भूरिसमीपतोया
भूरि प्रभूतं समीपं निकटं तोयं जलं यस्यां तथाभूता सापि शिला ज्ञेया ज्ञातव्या।।१०७।।
अन्यदप्याह—
पारावतक्षौद्रघृतोपमा या क्षौमस्य वस्त्रस्य च तुल्यवर्णा।
या सोमवल्ल्याश्च समानरूपा साप्याशु तोयं कुरुतेऽक्षयञ्च ॥१०८॥
कबूतर, शहद, घृत या सोमलता के समान रंग वाला पत्थर जहाँ पर हो, वहाँ भी
कभी नहीं नष्ट होने वाला जल शीघ्र निकलता है।।१०८।।
या च शिला पारावतस्य पक्षिणः सदृशी, क्षौद्रं माक्षिकं घृतमाज्यं तदुपमा तत्स-
दृशी, या च सोमवल्ल्याः समानरूपा सदृशवर्णा, सोमयाज्ञिकस्य वल्लीव। सापि शिला
या आशु शीघ्रमेव अक्षयं स्थिरं तोयमुदकं कुरुते।।१०८।।
अन्यदप्याह—
ताम्रैः समेता पृषतैर्विचित्रै-
रापाण्डुभस्मोष्ट्रखरानुरूपा ।
भृङ्गोपमाङ्गुष्ठिकपुष्पिका वा
सूर्याग्निवर्णा च शिला वितोया ॥१०९॥
ताम्र वर्ण के बिन्दुओं से युत, विचित्र बिन्दुओं से युत, पाण्डु वर्ण वाला, भस्म
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
१०४ बृहत्संहिता
ऊँट या गदहे के समान वर्ण वाला, अङ्गुष्ठिका वृक्ष के समान नीला, सूर्य या अग्नि के
समान वर्ण वाला पत्थर जहाँ पर हो, वहाँ पर जल नहीं होता है ।।१०९।।
या च शिला ताम्रैस्ताम्रवर्णैः, पृषतैस्तिलकैः, तथा विचित्रैर्नानावर्णैस्तिलकैः समेता
संयुक्ता, तथा चापाण्डुरा पाण्डुवर्णा। भस्मन उष्ट्रस्य करभस्य खरस्य गर्दभस्य चानुरूपा
तत्सदृशवर्णा। भृङ्गोपमा भ्रमरसदृशवर्णा। अङ्गुष्ठिका विटपविशेषः, तत्पुष्पसदृशी वा।
नीललोहितेत्यर्थः। सूर्यस्यादित्यस्याग्नेश्च सदृशवर्णा या शिला सा वितोया जलरहिता
भवति ।।१०९।।
अन्यदप्याह—
चन्द्रातपस्फटिकमौक्तिकहेमरूपा
याश्चेन्द्रनीलमणिहिङ्गुलकाञ्जनाभाः ।
सूर्योदयांशुहरितालनिभाश्च याः स्यु-
स्ताः शोभना मुनिवचोऽत्र च वृत्तमेतत् ।।११०।।
चन्द्रकिरण, स्फटिक, मोती, सोना, इन्द्रनील मणि, सिंगरफ, अञ्जन, उदयकालिक
सूर्यकिरण और हरिताल के समान रंग वाला पत्थर शुभ होता है। अब यहाँ इसके बाद
ये वक्ष्यमाण वृत्तान्त मुनिकथित हैं।।११०।।
याः शिलाश्चन्द्रातपस्य चन्द्रप्रभायाः स्फटिकस्य स्फटिकमणेः। मौक्तिकस्य च मुक्ता-
हारस्य च वा। हेम्नः सुवर्णस्य च याः समानरूपाः सदृशवर्णाः। याश्च शिला इन्द्रनीलस्य
मणेः। हिङ्गुलकस्य हिङ्गुलकमिति रक्तवर्णमिति यत् प्रसिद्धम्। अञ्जनं कज्जलमतिकृष्णः।
एतेषां सदृशी आभा कान्तिर्यासां तथा। याश्च सूर्योदयांशुनिभाः। सूर्यस्यादित्यस्योदयकाले
यादृशा अंशवो रश्मयो दृश्यन्ते तत्तुल्यवर्णा अतिरोहिता इत्यर्थः। याश्च हरितालनिभाः
स्युर्भवेयुः। ताः सर्वाः शोभनाः। अत्रास्मिन् प्रकरणे एतद्वक्ष्यमाणं वृत्तं मुनिवचः ऋषेर्वाक्य-
मित्यनेनागममनुसृतं भवतीति ।।११०।।
ततश्च मुनिवचनमाह—
एता ह्यभेद्याश्च शिलाः शिवाश्च यक्षैश्च नागैश्च सदाभिजुष्टाः ।
येषां च राष्ट्रेषु भवन्ति राज्ञां तेषामवृष्टिर्न भवेत् कदाचित् ।।१११।।
पूर्वकथित समस्त शुभ शिलायें कल्याण करने वाली होती हैं एवं वे सदा ही यक्षों
और नागों से सेवित रहती हैं। जिनके राज्य में ये शिलायें होती हैं, उनके यहाँ कभी भी
अवृष्टि नहीं होती।।१११।।
एताः शिलाः सर्वा अभेद्या निर्विदार्याः। यतः शिवाः श्रेयस्कर्यः सदा सर्वकालं
यक्षैर्देवयोनिभिर्नागैश्चाभिजुष्टाः सेविता येषां राज्ञां नृपाणां राष्ट्रेषु देशेषु भवन्ति, तेषां कदा-
चिदप्यवृष्टिर्न भवेत्, नित्यमेवेन्द्रस्तेषु वर्षतीत्यर्थः।।१११।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
दकार्गलाध्यायः १०५
अधुना शिलानां विदारणार्थमाह—
भेदं यदा नैति शिला तदानीं पलाशकाष्ठैः सह तिन्दुकानाम् ।
प्रज्वालयित्वानलमग्निवर्णां सुधाम्बुसिक्ता प्रविदारमेति ॥११२॥
यदि कूप आदि खोदने के समय पत्थर निकल जाय और वह आसानी से न फूट
सके तो उसके ऊपर ढाक और तेन्दु की लकड़ी जला कर आग के समान लाल बना
कर उसके ऊपर चूने की कली से मिश्रित जल का छिड़काव करने से वह शिला फूट
जाती है॥११२॥
शिला विदार्यमाणा यदा भेदं नैति न याति तदानीं तस्मिन् काले किं कुर्यात्?
उच्यते—पलाशकाष्ठैः सह तिन्दुकानां वृक्षविशेषाणां काष्ठानि दारूणि प्रज्वालयित्वाऽनल-
मग्निं शिलापृष्ठगतं शिलां हुताशनवर्णामग्निवर्णां कृत्वा सुधाम्बुसिक्ता सुधा क्षीरं तत्सं-
युक्तेनाम्बुना जलेन सिक्ता संसेचिता प्रविदारमेति भेदमेति भेदमायाति।।११२।।
अन्यदप्याह—
तोयं शृतं मोक्षकभस्मना वा यत्सप्तकृत्वः परिषेचनं तत् ।
कार्यं शरक्षारयुतं शिलायाः प्रस्फोटनं वह्निवितापितायाः ॥११३॥
मोक्षक ( काली पाढरि ) वृक्ष की लकड़ी का भस्म मिलाकर जल को गर्म करे
और फिर उसमें शर के वृक्ष का भस्म मिलावे; बाद में अग्नि से तपाई हुई शिला पर
उसे सात बार छिड़कने से शिला फूट जाती है॥११३॥
मोक्षको वृक्षः। यश्च मणीवकमिति प्रसिद्धः। तोयं जलम्। मोक्षकभस्मना यत्तोयं
जलं शृतं क्वथितं तच्छरक्षारयुतं शरभस्मना संयुक्तं कृत्वा तेन वह्निवितापितायाः पूर्वोक्त-
विधानेनाग्निसन्तप्तायाः सप्तकृत्वः सप्तवारं परिषेचनं कार्यं सन्ताप्य ततः परिषेचनं कार्यम्।
ततस्तस्याः प्रस्फोटनं भेदनं भवति।।११३।।
अन्यदपि शिलाभेदनमाह—
तक्रकाञ्जिकसुराः सकुलत्था योजितानि बदराणि च तस्मिन् ।
सप्तरात्रमुषितान्यभितप्तां दारयन्ति हि शिलां परिषेकैः ॥११४॥
छाछ, काँजी, मद्य, कुलथी—इन सबको मिलाकर एक बरतन में सात रात तक
छोड़ दे, बाद में अग्नि से तपाई हुई शिला पर उसे बार-बार छिड़कने से शिला फूट
जाती है॥११४॥
तक्रं मथितं काञ्जिकं सौवीरम्। सुरा प्रसिद्धा। एताः सकुलत्थाः कुलत्थसहिताः।
तस्मिन् बदराणि बदरिफलानि च योजितानि मध्ये प्रक्षिप्तानि। एतानि सर्वाणि सप्तरात्र-
मुषितानि परिषेकैः प्रसेकैरभितप्तामभिसन्तापितां प्राग्विधिना शिलां विदारयन्ति स्फोट-
यन्ति।।११४।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
१०६ बृहत्संहिता
अन्यदप्याह—
नैम्बं पत्रं त्वक्च नालं तिलानां
सापामार्गं तिन्दुकं स्याद् गुडूची।
गोमूत्रेण स्रावितः क्षार एषां
षट्कृत्वोऽस्ततापितो भिद्यतेऽश्मा ॥११५॥
नीम के पत्ते, नीम की छाल, तिलों का नाल, अपामार्ग, तेन्दू का फल, गिलोय—
इन सबों के भस्म को गोमूत्र में मिलाकर उसे तपाई हुई शिला पर छः बार छिड़कने से
शिला फूट जाती है॥११५॥
नैम्बमिति। पत्रं त्वक् च नैम्बमेव। तिलानां नालं यस्मिन्नभ्यन्तरे कोशाकारे तिला
भवन्ति। सापामार्गमपामार्गसहितं तिन्दुकफलं स्याद् भवेत्। गुडूची अमृता। एषामेकीकृतानां
क्षारो भस्म गोमूत्रेण स्रावितः परिस्रावितः। तेनाश्मा पाषाणस्तापितः प्राग्विधिना षट्कृत्वः
षड्वारं परिषेचनं कृत्वा भिद्यते॥११५॥
अधुना शस्त्रपानमाह—
आर्कं पयो हुडुविषाणमषीसमेतं
पारावताखुशकृता च युतः प्रलेपः।
टङ्कस्य तैलमथितस्य ततोऽस्य पानं
पश्चाच्छितस्य न शिलासु भवेद्विघातः ॥११६॥
शस्त्र पर पहले तिल का तेल मले, फिर मेष के सींग का भस्म तथा कबूतर और
चूहे की बीट से युत आक के वृक्ष के दूध का लेप करे, फिर उसको आग में तपा कर
पूर्वोक्त पान देवे। ऐसा करने के पश्चात् तेज करके पत्थर पर प्रहार करने से भी उसकी
धार नहीं टूटती है॥ ११६॥
टङ्कं शस्त्रम्। एष श्लोकः खड्गलक्षणे व्याख्यातः॥११६॥
अन्यदप्याह—
क्षारे कदल्या मथितेन युक्ते
दिनोषिते पायितमायसं यत्।
सम्यक् शितं चाश्मनि नैति भङ्गं
न चान्यलोहेष्वपि तस्य कौण्ठ्यम् ॥११७॥
एक अहोरात्र तक तक्र से युत कदली वृक्ष की भस्म में स्थापित लोहे में पूर्वोक्त
पान देकर तीक्ष्ण करके पत्थर पर प्रहार करने से भी उस शस्त्र की धार नहीं टूटती है
तथा अन्य लोहे पर प्रहार करने से भी वह शस्त्र कुण्ठता (अतीक्ष्णता) को नहीं प्राप्त
होता है॥११७॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
दकार्गलाध्यायः १०७
एषोऽपि खड्गलक्षणे व्याख्यातः।।११७।।
अथ वापीलक्षणमाह—
पाली प्रागपरायताम्बु सुचिरं धत्ते न याम्योत्तरा
कल्लोलैरवदारमेति मरुता सा प्रायशः प्रेरितैः ।
तां चेदिच्छति सारदारुभिरपां सम्पातमावारयेत्
पाषाणादिभिरेव वा प्रतिचयं क्षुण्णं द्विपाश्वादिभिः ।।११८।।
पूर्वापरायत वापी में अधिक समय तक जल ठहरता है। दक्षिणोत्तरायत वापी में
जल नहीं ठहरता है; क्योंकि वायु के तरङ्गों से वह वापी नष्ट हो जाती है। यदि दक्षिणो-
त्तरायत वापी बनाना चाहे तो तरङ्गों से बचाने के लिये उसके किनारों को मजबूत
लकड़ी या पत्थर आदि से चुनवा दे तथा बनाने के समय मिट्टी की हरेक तह को
हाथी-घोड़े आदि को उस पर दौड़ाकर बैठाता जाय, जिससे कि मिट्टी दबकर विशेष
मजबूत हो जाय।।११८।।
पाली वापी प्रागपरायता या पूर्वपश्चिमयोर्दिशोरायता दीर्घा सा सुचिरं बहुकालं अम्बु
जलं धत्ते धारयति। याम्योत्तरा या पाली दक्षिणोत्तरयोर्दिशोरायता सा सुचिरं चिरमम्बु न
धत्ते, यतः सा मरुतो वायुना प्रायशो बाहुल्येन प्रेरितैः कल्लोलैर्जलसंक्षोभैरवदारं विनाशमे-
त्यायाति। तां याम्योत्तरायतां पालीं यदीच्छति कर्ता कर्तुं तदापां सम्पातं सारदारुभिरावारयेत्।
पाल्यां जलेन सह यत्र सम्पर्कस्तत्र भित्तौ सारैर्दृढैर्दारुभिः काष्ठैरावरणं कुर्यात्। पाषाणादिभिरेव
पाषाणैरश्मभिर्वा अपां सम्पातमावारयेत्। आदिग्रहणात् पक्वेष्टकादिभिः स्थूलैः शर्करैश्च।
तत्र च प्रतिचयं चयं चयं प्रति द्विपैर्गजैरश्वैस्तुरगैरादिग्रहणादुष्ट्रमहिषबलीवर्दैः क्षुण्णं मर्दितं
कार्यम्, येन सुदृढं भवति।।११८।।
कीदृशं वाप्यास्तीरं कारयेदित्याह—
ककुभवटाप्रप्लक्षकदम्बैः सनिचुलजम्बूवेतसनीपैः ।
कुरबकतालाशोकमधूकैर्बकुलविमिश्रैश्चावृततीराम् ।।११९।।
निचुल, जामुन, बेंत, नीप ( एक तरह का कदम्ब )—इन वृक्षों के साथ अर्जुन,
बड़, आम, पिलखन, कदम्ब और बकुल के साथ कुरवक, ताड़, अशोक, महुआ,
मौलसिरी—इन वृक्षों को वापी के तट पर लगाना चाहिये।।११९।।
ककुभादयः सर्व एव वृक्षविशेषाः। ककुभः, वटः, आम्रः, प्लक्षः, कदम्बः—
एतैः। किम्भूतैः? सनिचुलजम्बूवेतसनीपैः। निचुलेन, जम्ब्वा, वेतसेन, नीपेन—एभिः
सहितैः संयुक्तैः। तथा कुरबकः, तालः, अशोकः, मधूकः—एतैरपि। किम्भूतैः? बकुल-
विमिश्रैर्बकुलसंयुक्तैः। एतैरावृतो व्याप्तस्तीरस्तटो यस्याः पाल्यास्तां तथाभूतां कारये-
दिति।।११९।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
१०८ बृहत्संहिता
अथ नैर्वाहिकद्वारलक्षणमाह—
द्वारं च नैर्वाहिकमेकदेशे कार्यं शिलासञ्चितवारिमार्गम् ।
कोशस्थितं निर्विवरं कपाटं कृत्वा ततः पांशुभिरावपेत्तम् ॥१२०॥
वापी की एक तरफ जल निकलने के लिये पत्थरों से बन्धवाया हुआ एक मार्ग
बनाना चाहिये। उस मार्ग को छिद्ररहित लकड़ी के तख्ते से ढककर मिट्टी से दृढ़ कर
देना चाहिये।।१२०।।
एकदेशे एकस्मिन् स्थाने जलस्य नैर्वाहिकं द्वारं निर्गमनद्वारं कार्यम्। कीदृशम्?
शिलासञ्चितवारिमार्गम्। शिलाभिः सञ्चितं पाषाणैश्चितं वारिमार्गं यत्र तत् तथाभूतम्।
तच्च कोशस्थितं तले व्यवस्थितम्। तत्र च कपाटं निर्विवरं विवररहितं कृत्वा फलक-
माच्छादनायोपरि दत्वा ततस्तं पांशुभिरावपेत्, मृत्तिकाभिः स्थगयेदित्यर्थः ॥१२०॥
अधुना द्रव्ययोगमाह—
अञ्जनमुस्तोशीरैः सराजकोशातकामलकचूर्णैः ।
कतकफलसमायुक्तैर्यौगः कूपे प्रदातव्यः ॥१२१॥
अञ्जन, मोथा, खस, राजकोशातक, आँवला, कतक का फल—इन सबका चूर्ण
कूप में डालना चाहिये।।१२१।।
अञ्जनं प्रसिद्धो वृक्षविशेषः । सौवीरक इति केचित् । मुस्ता अब्दाः । उशीरं प्रसिद्धम् ।
एतैः किम्भूतैः ? सराजकोशातकामलकचूर्णैः सह राजकोशातकेन अमलscopes? no, अमलकचूर्णेन च।
एतैरपि कतकफलसमायुक्तैः कतकफलेन सहितैः । ईदृशैर्योगो द्रव्यसंयोगः । स च द्रव्य-
समायोगश्चूर्णीकृतः कूपे प्रदातव्यो देयः ॥१२१॥
अस्य गुणानाह—
कलुषं कटुकं लवणं विरसं सलिलं यदि वा शुभगन्धि भवेत् ।
तदनेन भवत्यमलं सुरसं सुसुगन्धि गुणैरपरैश्च युतम् ॥१२२॥
जो जल गन्दला, कड़ुआ, खारा, बेस्वाद या दुर्गन्ध वाला हो, वह इन पूर्वोक्त
औषधियों के डालने पर निर्मल, मधुर, सुन्दर गन्ध वाला और अनेक गुणों से युक्त हो
जाता है।।१२२।।
यत् सलिलं जलं कलुषमनिर्मलम्, कटुकं तिक्तम्, लवणम्, विरसं विगतरसममृष्टम्,
यदि वा अशुभगन्धि दुर्गन्धि भवेत् स्यात्? तत् सलिलमनेनयोगेनामलं निर्मलम्, सुरसं
मृष्टम्, सुसुगन्धि शोभनगन्धि भवति, तथा अपरैश्चान्यैर्गुणैर्युतम्, अकटुकालवणपरिणाम-
करैर्युतं संयुक्तं भवति॥१२२॥
अधुना नक्षत्राण्याह—
हस्तो मघानुराधापुष्यधनिष्ठोत्तराणि रोहिण्यः ।
शतभिषगित्यारम्भे कूपानां शस्यते भगणः ॥१२३॥
CC-0. JK Sanskrit Academy, Jammu. Digitized by S3 Foundation USA
दकार्गलाध्यायः १०९
हस्त, मघा, अनुराधा, पुष्य, धनिष्ठा, तीनों उत्तरा, रोहिणी, शतभिषा—इन नक्षत्रों
में कूप का आरम्भ करना शुभ होता है।।१२३।।
हस्तः, मघा, अनुराधा, पुष्यः, धनिष्ठा, उत्तरास्तिस्र उत्तरफल्गुन्युत्तराषाढोत्तरभद्रपदा
चेति एतानि, तथा रोहिण्यः, शतभिषक्शब्दो व्यवच्छेदाय। अयं भगणे नक्षत्रसमूहः कूपा-
नामारम्भे शस्यते इष्यते।।१२३।।
अधुना प्रतिष्ठाविधानमाह—
कृत्वा वरुणस्य बलिं वटवेतसकीलकं शिरास्थाने ।
कुसुमैर्गन्धैर्धूपैः सम्पूज्य निधापयेत् प्रथमम् ।।१२४।।
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां दकार्गलं
नाम चतुष्पञ्चाशत्तमोऽध्यायः ।।५४।।
वरुण को बलि देकर गन्ध, पुष्प, धूप आदि से बड़ या वेतस की लकड़ी की
कील की पूजन करके पहले शिरास्थान में उसको स्थापित करना चाहिये।।१२४।।
वरुणस्यापाम्पतेर्बलिमुपहारं कृत्वा विधाय वटवेतसकीलकं वटकीलकं वेतसकीलकं
च कुसुमैः पुष्पैर्गन्धैर्गन्धद्रव्यैर्धूपैर्गुग्गुलप्रभृतिभिः सम्पूज्याभ्यर्च्य प्रथममादौ शिरास्थाने
शिराप्रदेशे विनिधापयेद् निखनेत् स्थिरं स्थापयेदिति ।।१२४।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ दकार्गलं
नाम चतुष्पञ्चाशत्तमोऽध्यायः ।।५४।।
( मेघोद्भवं प्रथममेव मया प्रदिष्टं
ज्येष्ठामतीत्य बलदेवमतादि दृष्ट्वा ।
भौमं दकार्गलमिदं कथितं द्वितीयं
सम्यग्वराहमिहिरेण मुनिप्रसादात् ।।
ज्येष्ठ की पूर्णिमा के बाद में जिस प्रकार जल का ज्ञान होता है, उसको मैंने पहले
ही कह दिया है। यहाँ बलदेव आदि आचार्यों का मत देखकर मुनियों की कृपा से मैंने
जलज्ञान के लिये यह दूसरा 'दकार्गल' नामक अध्याय कहा है।)
इति 'विमला' हिन्दीटीकायां दकार्गलाध्यायश्चतुष्पञ्चाशत्तमः ।।५४।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
अथ वृक्षायुर्वेदाध्यायः
अथ वृक्षायुर्वेदाध्यायो व्याख्यायते। तत्रादावेव प्रयोजनप्रदर्शनार्थमाह—
प्रान्तच्छायाविनिर्मुक्ता न मनोज्ञा जलाशयाः ।
यस्मादतो जलप्रान्तेष्वारामान् विनिवेशयेत् ॥१॥
वापी, कूप, तालाब आदि जलाशयों के प्रान्त छायारहित हों तो सुन्दर नहीं होता;
अतः जलाशयों के किनारे पर बागीचा लगाना चाहिये ॥१॥
यस्माज्जलाशया उदकाधारा वापीकूपतडागाः, प्रान्तच्छायाविनिर्मुक्ताः पर्यन्तच्छायावि-
रहिता मनोज्ञाश्चित्ताह्लादका न भवन्ति। अतस्तस्माज्जलप्रान्तेषूदकपर्येन्तेष्वारामान् विशेषेण
विनिवेशयेत् कारयेत्। आरमन्तेऽस्मिन्नित्यारामो वृक्षवाटिकेत्यर्थः ॥१॥
अथ तत्र भूर्लक्षणमाह—
मृद्वी भूः सर्ववृक्षाणां हिता तस्यां तिलान् वपेत् ।
पुष्पितांस्तांश्च मृद्नीयात् कर्मैतत् प्रथमं भुवः ॥२॥
सभी वृक्षों के लिये कोमल भूमि अच्छी होती है। जिस भूमि में बागीचा लगाना
हो, उसमें पहले तिल बोना चाहिये और जब वे तिल फूल जायें तब उनको उसी भूमि
में मर्दन कर देना चाहिये। यह भूमि का प्रथम कर्म है॥२॥
सर्ववृक्षाणां मृद्वी मधुरा कोमला भूः अवनिः हिता हितवहा शोभनेत्यर्थः। तस्यां
भूमौ प्रथमं तिलान् वपेद् उप्यात्। तांस्तिलान् पुष्पितान् सञ्जातकुसुमान् मृद्नीयादुपमर्दयेत्।
एतद्भुवो भूमेः प्रथममादौ कर्म कार्यम्। तथा च काश्यपः—
दूर्वावीरणसंयुक्ताः सानूपा मृदुमृत्तिकाः।
तत्र वाप्यः शुभा वृक्षाः सुगन्धिफलशाखिनः।। इति ॥२॥
अधुना प्रथमारोप्यान् वृक्षानाह—
अरिष्टाशोकपुन्नागशिरीषाः सप्रियङ्गवः ।
मङ्गल्याः पूर्वमारामे रोपणीया गृहेषु वा ॥३॥
पहले बागीचे या घर के समीप में शुभ करने वाले निम्ब, अशोक, पुन्नाग, शिरीष,
प्रियङ्गु ( ककुनी = कौनी )—इन वृक्षों को लगाना चाहिये ॥३॥
अरिष्टः, अशोकः, पुन्नागः, शिरीषः—एते वृक्षविशेषाः। किम्भूताः? सप्रियङ्गवः
प्रियङ्गुवृक्षेण सहिताः, मङ्गल्याः प्रशस्ताः पूर्वं प्रथममारामे रोपणीयाः। गृहेषु वा पूर्वं
प्रथमं गृहेषु रोपणीयाः। तथा च काश्यपः—
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
वृक्षायुर्वेदाध्यायः १११
अशोकचम्पकारिष्टपुन्नागाश्च प्रियङ्गवः।
शिरीषोदुम्बराः श्रेष्ठाः पारिजातकमेव च।।
एते वृक्षाः शुभा ज्ञेयाः प्रथमं तांश्च रोपयेत्।
देवालये तथोद्याने गृहेषूपवनेषु च।। इति।।३।।
अधुना काण्डरोप्याणां विधानमाह—
पनसाशोककदलीजम्बूलकुचदाडिमाः ।
द्राक्षापालीवताश्चैव बीजपूरातिमुक्तकाः ॥४॥
एते द्रुमाः काण्डरोप्या गोमयेन प्रलेपिताः ।
मूलोच्छेदेऽथवा स्कन्धे रोपणीयाः परं ततः ॥५॥
कटहल, अशोक, केला, जामुन, बडहर, दाडिम, दाख, पालीवत, बिजौरा,
अतिमुक्तक—इन वृक्षों की शाखाओं को लेकर गोबर से लीप कर कटे हुये विजातीय
वृक्ष की मूल या शाखा पर लगाना चाहिये। यही कलम लगाने का प्रकार है।।४-५।।
पनसः। अशोकः। कदली। जम्बूः। लकुचः। दाडिमः। द्राक्षा। मृद्वी। पालीवतश्चोचः।
बीजपूरो मातुलुङ्गः। अतिमुक्तकः—एते पनसादयो द्रुमा वृक्षाः काण्डरोप्याः। काण्डाः
शाखास्तान् गोमयेन प्रलिप्य रोपयेत्। ततोऽनन्तरं परं प्रकृष्टं मूलोच्छेदे अथवा स्कन्धे
रोपणीयाः। अन्यवृक्षस्य मूलोच्छेदं कृत्वा तस्य छिन्नमूलस्योपरि विजातीयो वृक्षो रोपणीयः।
अथवा स्कन्धादर्द्धादन्यवृक्षं छित्त्वा तस्य स्कन्धमुत्कीर्य विजातीयो वृक्षो रोपणीयः। तत्र
मृत्तिकाश्लेषं दापयेदिति। तथा च काश्यपः—
द्राक्षातिमुक्तको जम्बूबीजपूरकदाडिमाः।
कदलीबहुलाशोकाः काण्डरोप्याश्च वापयेत्।।
अन्येऽपि शाखिनो ये च पुष्पिताः फलितास्तथा।
गोमयेन प्रलिप्ताश्च रोपणीया विवृद्धये।। इति।।४-५।।
अथ वृक्षाणां कालनियमार्थमाह—
अजातशाखान् शिशिरे जातशाखान् हिमागमे ।
वर्षागमे च सुस्कन्धान् यथादिक्स्थान् प्ररोपयेत् ॥६॥
अजातशाखा अर्थात् कलमी से भिन्न वृक्षों को शिशिर (माघ-फाल्गुन) में,
कलमी वृक्षों को हेमन्त (मार्गशीर्ष-पौष) में और लम्बी-लम्बी शाखा वाले वृक्षों को
वर्षा (श्रावण-भाद्र) में लगाना चाहिये।।६।।
अजातशाखानजातलताङ्कुरान् वृक्षान् शिशिरे माघे फाल्गुने च रोपयेत्। जातशाखान्
हिमागमे हेमन्ते मार्गशीर्षे पौषे च रोपयेत्। सुस्कन्धान् महाशाखायुक्तान् वर्षागमे प्रावृट्काले
श्रावणे भाद्रपदे च रोपयेत्। केचित् ‘जातशाखान् घनागमे वर्षागर्भे च सुस्कन्धान्’ इति
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
११२ बृहत्संहिता
पठन्ति। घनागमे वर्षाप्रारम्भे। वर्षगर्भे वर्षामध्यभागे इति। तांश्च यथादिक्स्थान् पूर्वमन्यस्थान-
तस्तस्य तरोर्या पूर्वा दिगाशा साऽन्यत्र रोपितस्य पूर्वैव कार्या। एवं सर्वासां दिशामानुलोम्यं
वाच्यम्। तथा च काश्यपः—
अजातशाखा ये वृक्षाः शिशिरे तांश्च रोपयेत्।
जातशाखाश्च हेमन्ते रोपणीया विधानतः।।
सुस्कन्धाः शाखिनो ये तान् प्रावृट्काले तु रोपयेत्।। इति।।६।।
अन्यदप्याह—
घृतोशीरतिलक्षौद्रविडङ्गक्षीरगोमयैः ।
आमूलस्कन्धलिप्तानां संक्रामणविरोपणम् ।।७।।
घृत, खस, तिल, शहद, विडङ्ग ( वायविडङ्ग ), दूध, गोबर—इन सबों को पीसकर
मूल से लेकर अग्रभागपर्यन्त लेप कर वृक्ष को एक स्थान से उठाकर दूसरे स्थान पर
लगाना चाहिये।।७।।
घृतमाज्यम्, उशीरं प्रसिद्धम्, तिलाः, क्षौद्रं माक्षिकम्, विडङ्गः, क्षीरं गोक्षीरम्,
गोमयं गोशकृद्—एतैर्घृतादिभिरामूलस्कन्धलिप्तानां मूलात् प्रभृति शाखान्तं यावद्
लिप्तानां वृक्षाणां संक्रामणविरोपणम्। संक्रामणं देशान्तरनयनम्। अन्यदेशे नीत्वा रोपये-
दित्यर्थः। तथा च—
घृतं क्षीरं तथा क्षौद्रमुशीरतिलगोमयैः।
विडङ्गलेपनं मूलात् संक्रामणविरोपणम्।।
संक्रामे रोपणं शुभमित्यर्थः।।७।।
अथ रोपणविधानमाह—
शुचिर्भूत्वा तरोः पूजां कृत्वा स्नानानुलेपनैः ।
रोपयेद्रोपितश्चैव पत्रैस्तैरेव जायते ॥८॥
पवित्र होकर स्नान, चन्दन आदि से वृक्ष की पूजा करके उसे दूसरे स्थान पर
लगाना चाहिये। इस तरह लगाने से अपने पूर्व पत्रों से युत वृक्ष ही लग जाता है, अर्थात्
सूखता नहीं है।।८।।
शुचिः समाहितो भूत्वा तरोर्वृक्षस्य स्नानानुलेपनैः स्नानेनानुलेपनेन पूजामर्चां कृत्वा
विधाय रोपयेत्। एवमनेन प्रकारेण रोपितश्च तैरेव पत्रैर्यैर्युक्तो रोपितस्तैः सह जायते न
शुष्यति।।८।।
अधुना रोपितानां सेकविधानमाह—
सायं प्रातश्च घर्मर्तौ शीतकाले दिनान्तरे ।
वर्षासु च भुवः शोषे सेक्तव्या रोपिता द्रुमाः ॥९॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
वृक्षायुर्वेदाध्यायः ११३
उपर्युक्त प्रकार से लगाये गये वृक्षों को ग्रीष्म ऋतु में सायं और प्रातः, शीत काल
में एक दिन के अन्तर से एवं वर्षा ऋतु में भूमि के सूखने पर सींचना चाहिये॥९॥
रोपिता द्रुमा वृक्षा घर्मर्तौ ग्रीष्मे सायं प्रातश्च सेक्तव्याः। सायम्पराह्ने प्रातः पूर्वाह्ने।
शीतकाले हेमन्ते शिशिरे च दिनान्तरे च। दिनं दिनमन्तरे मध्ये कृत्वा सेक्तव्याः। वर्षासु
च वर्षासमये। भुवः शोषे यदा यदा भूः शुष्यति, तदा तदा च सेक्तव्याः॥९॥
अथानूपजान् वृक्षानाह—
जम्बूवेतसवानीरकदम्वोदुम्बराजुॅनाः ।
बीजपूरकमृद्वीकालकुचाश्च सदाडिमाः ॥१०॥
वञ्जुलो नक्तमालश्च तिलकः पनस्तथा।
तिमिरोऽम्रातकश्चेति षोडशानूपजाः स्मृताः ॥११॥
जामुन, बेंत, वानीर ( एक प्रकार का बेंत ), कदम्ब, गूलर, अर्जुन, बिजौरा,
दाख, बडहर, दाडिम, वञ्जुल ( तेन्दुआ = तिनिस ), नक्तमाल ( करञ्ज ), तिलक,
कटहल, तिमिर, अम्बाडा—ये सोलह वृक्ष अनूप ( बहुत जल वाले ) देश में पाये जाते
हैं॥१०-११॥
जम्बूः, वेतसः, वानीरः, कदम्बः, उदुम्बरः, अर्जुनः, बीजपूरको मातुलुङ्गः, मृद्वीका
द्राक्षा, लकुचः—एते सदाडिमा दाडिमेन सहिताः। वज्जुलः, नक्तमालश्च, तिलकः,
पनसः। तथा तेनैव प्रकारेण तिमिरः, अम्रातकः। चशब्दः समुच्चये। इत्येवंप्रकाराः षोडश
वृक्षा अनूपजा अनूपे बहूदके जायन्ते॥१०-११॥
अथ वृक्षाणां रोपितानां किं प्रमाणमन्तरं कार्यमित्येतत्प्रतिपादनायाह—
उत्तमं विंशतिर्हस्ता मध्यमं षोडशान्तरम्।
स्थानात् स्थानान्तरं कार्यं वृक्षाणां द्वादशावरम् ॥१२॥
एक वृक्ष से दूसरा वृक्ष बीस हाथ की दूरी पर लगाना उत्तम, सोलह हाथ पर
मध्यम और बारह हाथ पर लगाना अधम होता है॥१२॥
वृक्षाणां स्थानात् स्थानात् प्रदेशात् प्रदेशाद्यदन्तरं विंशतिर्हस्ता वृक्षस्य समन्ततस्तदुत्तमं
प्रमाणम्, यच्चानन्तरं षोडशहस्तान्तरं तन्मध्यमम्, यदनन्तरं द्वादशहस्तान्तरं तदवरं
निकृष्टमित्यर्थः। एतदुक्तं भवति—यत्रैको वृक्षो रोपितस्तस्माद्विंशतिकेऽन्तरे षोडशके वा
अन्यद्रोपणीयमिति। तथा च काश्यपः—
अन्तरं विंशतिर्हस्ता वृक्षाणामुत्तमं स्मृतम्।
मध्यमं षोडश ज्ञेयमधमं द्वादश स्मृतम्॥ इति॥१२॥
किमिति तेषां मध्येऽन्तरं क्रियत इति तदर्थमाह—
अभ्यासजातास्तरवः संस्पृशन्तः परस्परम्।
मिश्रैर्मूलैश्च न फलं सम्यग्यच्छन्ति पीडिताः ॥१३॥
बृ० भ० द्वि०-८
CC-0. JK Sanskrit Academy, Jammpmu. Digitized by S3 Foundation USA
११४ बृहतसंहिता
यदि एक वृक्ष दूसरे वृक्ष के समीप हो, परस्पर स्पर्श करता हो या दोनों की जड़ें
इकट्ठी हों तो वे वृक्ष पीड़ित होते हैं और अच्छी तरह फल नहीं देते।।१३।।
ये तरवो वृक्षा अभ्यासजाताः सन्निकर्षसम्भूताः परस्परमन्योन्यं संस्पृशन्तः, मिश्रैश्च
परस्परं संलग्नैर्मूलैः पीडिता भवन्ति। अतस्ते सम्यक् फलं न यच्छन्ति न ददति।।१३।।
अथ तेषां रोगज्ञानमाह—
शीतवातातपै रोगो जायते पाण्डुपत्रता ।
अवृद्धिश्च प्रवालानां शाखाशोषो रसस्रुतिः ।।१४।।
अधिक शीत, वायु और धूप लगने से वृक्षों को रोग हो जाता है। रोगी वृक्षों के पत्ते
पीले पड़ जाते हैं। उनके अंकुर नहीं बढ़ते, डालियाँ सूख जाती हैं और उनसे रस
टपकने लगता है।।१४।।
शीतेन वातेनातपेन च रोगस्तेषां जायत उत्पद्यते, तथा पाण्डुपत्रता पर्णानां पाण्डुत्वम्,
प्रबालानाम्ङ्कुराणामवृद्धिरसमृद्धिः, शाखानां शोषो नीरसता, रसस्य च स्रुतिः स्राव एतैश्चि-
ह्नैस्तरुः सरोगो ज्ञेयः।।१४।।
अथैतेषां चिकित्सितमाह—
चिकित्सितमथैतेषां शस्त्रेणादौ विशोधनम् ।
विडङ्गघृतपङ्काक्तान् सेचयेत् क्षीरवारिणा ।।१५।।
इन रोगी वृक्षों की चिकित्सा करनी चाहिये। पहले वृक्ष का जो अंग पूर्वोक्त विकार-
युत हो, उसको शस्त्र से काट डालना चाहिये। फिर वायविडङ्ग, घृत और पङ्क ( कीचड़
= कीच ) को मिला कर वृक्षों में लेप करना चाहिये। बाद में दूधमिश्रित जल से उसे
सींचना चाहिये।।१५।।
अथानन्तरमेतेषां वृक्षाणां चिकित्सितं भवति। आदौ प्रथमं शस्त्रेण व्रणादिविशोधनं
कार्यम्। यद्विवर्णं क्लिन्नमवयवं तच्छस्त्रेण निवर्तयेत्। विडङ्गः, घृतमाज्यम्, पङ्कः कर्दमः—
एतैरेकीकृतैः आक्तानत्यन्तं लिप्तान् कुर्यात्। ततः क्षीरवारिणा क्षीरसंयुक्तेन जलेन सेचयेत्।
एवं कृते नीरुजा भवन्ति। तथा च काश्यपः—
शाखाविटपपत्रैश्च छायया विहिताश्च ये।
येऽपि पर्णफलैर्हीना रूक्षाः पत्रैश्च पाण्डुरैः।।
शीतोष्णवर्षवाताद्यैर्मूलैर्व्यामिश्रितैरपि ।
शाखिनां तु भवेद्रोगो द्विपानां लेखनेन च।।
चिकित्सितेषु कर्तव्या ये च भूयः पुनर्नवाः।
शोधयेत् प्रथमं शस्त्रैः प्रलेपं दापयेत् ततः।।
कर्दमेन विडङ्गैश्च घृतमिश्रैश्च लेपयेत्।
क्षीरतोयेन सेकः स्याद् रोहणं सर्वशाखिनाम्।। इति।।१५।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
वृक्षायुर्वेदाध्यायः ११५
अथ फलनाशचिकित्सितमाह—
फलनाशे कुलत्थैश्च माषैर्मुद्गैस्तिलैर्यवैः ।
शृतशीतपयःसेकः फलपुष्पसमृद्धये ॥१६॥
वृक्ष में फल न लगें तो कुलथी, उड़द, मूँग, तिल, जौ—इन सबको दूध में डाल
कर गर्म करने के पश्चात् उस दूध को ठण्ढा करके उससे फल और फूलों की वृद्धि के
लिये वृक्षों को सीचना चाहिये॥१६॥
वृक्षाणां यदा फलनाशो भवति, तदा कुलत्थैर्माषैर्मुद्गैस्तिलैर्यवैः। एतैः सह शृतशीतपयः
शृतं क्वथितं तदेव पश्चाच्छीतं पयः क्षीरं कृत्वा तेन पयसा फलानां पुष्पाणां चातिवृद्धये
सेकः कार्य इति॥१६॥
अथ वृद्ध्यर्थप्रयोगमाह—
अविकाजशकृच्चूर्णस्याढके द्वे तिलाढकम्।
सक्तुप्रस्थो जलद्रोणे गोमांसतुलया सह ॥१७॥
सप्तरात्रोषितैरेतैः सेकः कार्यो वनस्पतेः ।
वल्मीगुल्मलतानां च फलपुष्पाय सर्वदा ॥१८॥
भेड़ और बकरी की मेंगन ( भेड़ारी ) का चूर्ण दो आढक, तिल एक आढक, सत्तू
( सतुआ ) एक प्रस्थ, जल एक द्रोण, गौ का मांस एक तुला—इन सबको मिलाकर
एक पात्र में सात रात तक रखने के पश्चात् फल, फूलों की वृद्धि के लिये उससे वृक्ष,
गुल्म और लताओं को सींचना चाहिये॥१७-१८॥
अविका प्रसिद्धा मेषजातिः, अजश्छागः, अविकाजयोः शकृत् पुरीषः, तच्चूर्णस्य
द्वे आढके। अविकशकृच्चूर्णस्याढकमजशकृच्चूर्णस्याढकम्। आढकश्चतुःषष्टिपलानि,
तिलानामाढकम्, सक्तुप्रस्थः, प्रस्थः षोडशपलानि, जलस्य द्रोणः, द्रोणः पलशतद्वयं षट्-
पञ्चाशदधिकम्। एतत्सर्वं गोमांसतुलया सह। तुला पलशतम्। उक्तं च—
त्रियवं कृष्णलं निन्द्याद् माषः पञ्चकृष्णलः।
ते स्युर्द्वादशलाक्षाख्यं सुवर्णमथ षोडश।।
पञ्चलक्षैश्चतुर्भिस्तु सुवर्णैर्निष्क उच्यते।
चतुष्पलोऽथ कुडवः प्रस्थः स्यात्तच्चतुष्टयम्।।
आढकस्तु चतुष्प्रस्थो द्रोणस्तु चतुराढकः।
मानिका तु चतुर्द्रोणा खारी स्यात्तच्चतुष्टयम्।।
तुला पलशतं ज्ञेयं भारः स्याद्विंशतिस्तुलाः।
शुष्कद्रव्येषु संख्येयं चार्द्रेषु द्विगुणा भवेत्।।
एवं तन्मध्ये गोमांसस्य गोपिशितस्य तुला देया। पलशतमित्यर्थः। एतैः सर्वैरेकीकृतैः
CC-0. JK Sanskrit Academy, Jammpu. Digitized by S3 Foundation USA