सामग्री पर जाएँ
सर्वकोश
बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 2 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished760 पृष्ठ

पृष्ठ 129, कुल 760 में से

संदर्भ में पढ़ें
पृष्ठ 129

दकार्गलाध्यायः १०१
जहाँ पर स्निग्ध, छिद्ररहित पत्तों से युत वृक्ष, गुल्म या लता हो; वहाँ तीन
पुरुषप्रमाण नीचे जल होता है। अथवा स्थलकमल, गोखरू, उशीर ( खस ), कुल—
ये द्रव्यविशेष; गुण्ड्र ( सरकण्डा, शर ), काश, कुशा, नलिका, नल—ये तृणविशेष;
खजूर, जामुन, अर्जुन, बेंत—ये वृक्षविशेष; दूध वाले वृक्ष, गुल्म और लता, छत्री,
हस्तीकर्णी, नागकेशर, कमल, कदम्ब, करञ्ज—ये सभी सिन्दुवार वृक्ष के साथ; बहेड़ा
वृक्षविशेष, मदयन्तिका द्रव्यविशेष—ये सब जहाँ पर अवस्थित हों; वहाँ पर तीन पुरुष-
प्रमाण नीचे जल होता है। साथ ही जहाँ पर एक पर्वत के ऊपर दूसरा पर्वत हो, वहाँ
पर भी तीन पुरुषप्रमाण नीचे जल होता है।।१००-१०२।।
स्निग्धा यत इति। यत इति निपातः सप्तम्यन्ते। यतो यस्यां भूमौ पादपा वृक्षाः,
गुल्मा एकमूलाः शाखासमूहाः, वल्ली व्रततिः, एताः सर्वा यत्र स्निग्धाः सस्नेहाः; तथा
निश्छिद्रपत्राश्च निश्छिद्राणि पत्राणि च यासाम्। ततस्तस्मिन्नेव स्थाने अधः पुरुषत्रये शिरा
अस्ति विद्यते। अथवा पद्मं स्थलपद्मम्, क्षुरो गोक्षुरः, उशीरः, कुलः एते द्रव्यविशेषाः।
सगुण्ड्रा गुण्ड्रसहिताः, गुण्ड्रस्तृणविशेषः, काशाः कुशा नलिका नलो वा एते सर्व एव
तृणविशेषाः।
खर्जूरः, जम्बूः, अर्जुनः, वेतसः—एते सर्वे वृक्षविशेषा यत्र स्युर्भवेयुः। अथवा क्षीरा-
न्विताः सक्षीरा द्रुमा वृक्षाः। गुल्म एकमूलः शाखासमूहः, वल्ल्यो व्रतत्य—एते यत्र
सक्षीराः। छत्रः प्रसिद्धः, इभो हस्तिकर्णः, नागो नागकेसरं यस्मादुत्पद्यते; शतपत्रं पद्मम्,
नीपो वृक्षविशेषः, नक्तमालाः करजाः—एते पूर्वोक्ताः ससिन्दुवाराः सिन्दुवारैर्वृक्षविशेषैः
सहिता यत्र स्युः।
विभीतको वृक्षविशेषः, मदयन्तिका द्रव्यविशेषः—एते यत्र यस्मिन् प्रदेशे भवन्ति,
तत्र अधस्तले पुरुषत्रये अम्भो जलं स्यात्। पर्वतस्योपरि पर्वतोऽन्यस्तत्रापि मूले पुरुष-
त्रये वेति। अथवा पर्वतस्योपर्यन्यो द्वितीयः पर्वतो यत्र स्याद् भवेत् तत्रोपरिष्टस्य मूले
पुरुषत्रये वा अम्भो जलमस्ति विद्यते। तथा च मनुः—
गुल्मपादपवल्ल्यः स्युः पत्रैश्शाखण्डितैर्युताः।
तदधो विद्यते वारि खाते तु पुरुषत्रये।।
पद्मक्षुरोशीरकुला गुण्ड्रा काशः कुशोऽथवा।
नलिकानलखर्जूरजम्बूवेतसकार्जुनाः ।।
यत्र स्युर्द्रुमवल्ल्यश्च क्षीरयुक्ताः फलान्विताः।
छत्रेभनागनीपाश्च शतपत्रविभीतकाः।।
सिन्दुवारा नक्तमालाः सुगन्धा मदयन्तिकाः।
यत्रैते स्युस्तत्र जलं खातेऽम्भः पुरुषत्रये।।
गिरेरुपरि यत्रान्यः पर्वतः स्यात्ततो जलम्।
तस्यैव मूले पुरुषैस्त्रिभिर्वाऽधो विनिर्दिशेत्।। इति।।१००-१०२।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA