सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 2 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished760 पृष्ठ

११६ बृहत्संहिता
सप्तरात्रोषितैः सप्ताहमुषितैः। वनस्पतेर्वृक्षस्य वल्लीनां लतानां च फलानां चातिवृद्ध्यर्थ
सर्वदा सर्वकालं सेकः कार्यः। एतत् प्रमाणमेकस्य वृक्षस्यानेनानुसारेण बहूनां कार्यम्।
तथा च काश्यपः—
अजाविकानां द्वौ प्रस्थौ शकृच्चूर्णं च कारयेत्।
तिलानामाढकं दद्यात् सक्तूनां प्रस्थमेव च।।
गोमांसशतमेकं स्याद् द्वे सार्धे सलिलस्य च।
सप्ताहमुषितैरेतैः सेकं दद्याद् वनस्पतेः।।
स भवेत् फलपुष्पैश्च पत्रैश्चाङ्कुरितैर्वृतः।। इति।। १७-१८।।
अधुना बीजानां वापनविधानमाह—
वासराणि दश दुग्धभावितं बीजमाज्ययुतहस्तयोजितम्।
गोमयेन बहुशो विरूक्षितं क्रौडमार्गपिशितैश्च धूपितम् ॥१९॥
मांससूकरवसासन्वितं रोपितं च परिकर्मितावनौ।
क्षीरसंयुतजलावसेचितं जायते कुसुमयुक्तमेव तत् ॥२०॥
किसी वृक्ष के बीज को घृत लगाये हुये हाथ से चुपड़ कर दूध में डाल दे। इसी
प्रकार लगातार दश दिन तक करता रहे। बाद में उसको गोबर से अनेक बार मल कर
रूखा करके सूकर और हिरण के मांस का धूप देने के बाद मांस और सूकर की चर्बी-
सहित उस बीज को तिल बोकर शुद्ध की हुई भूमि में लगाकर दुग्धमिश्रित जल से सींचे
तो निश्चित ही फूलयुक्त वृक्ष उत्पन्न होता है॥१९-२०॥
यस्य कस्यचिद् वृक्षस्य बीजं दश वासराणि दश दिनानि दुग्धभावितं दुग्धे सिक्तं
कार्यम्। कीदृशम्? आज्ययुतहस्तयोजितम्, आज्ययुतेन घृतेनाभ्यक्तेन हस्तेन करेण
योजितं क्षीरमध्ये क्षिप्तम्। पुनर्गृहीत्वा घृताभ्यक्तेन करेणैकीभूतं पृथक्कार्यम्। एवं प्रत्यहं
कर्म कार्यम्। यावद्दश दिनानि। ततो गोमयेन गोशकृता बहुशो बहून् वारान् विरूक्षितं
मर्दितम्। क्रोडः सूकरः। मृगो हरिणः। क्रोडस्येदं क्रौडम्। मृगस्येदं मार्गम्। क्रौडमार्ग-
पिशितैर्मांसैर्धूपितम्, भाण्डान्तरस्थं धूपयेत्।
ततो मांसेनामिषेण सूकरवसया वराहमज्जया समन्वितं संयुक्तं परिकर्मितायामवनौ
भूमौ रोपितम्। परिकर्मिता तिलवपनेन। ततः क्षीरसंयुतेन जलेनोदकेनावसेचितं सुतृप्तं
तद्बीजम्। एवंकृते कुसुमयुक्तं पुष्पसंयुतमेव जायत उत्पद्यते॥१९-२०॥
अधुना तिन्तिडीविधानमाह—
तिन्तिडीत्यपि करोति वल्लरीं व्रीहिमाषतिलचूर्णसक्तुभिः ।
पूतिमांससहितैश्च सेचिता धूपिता च सततं हरिद्रया ॥२१॥
सड़े हुए मांस से युत धान, उड़द, तिल—इनका चूर्ण और सत्तू—इन सबसे सींच
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

वृक्षायुर्वेदाध्यायः ११७
कर हल्दी का धूप देने से अत्यन्त कठोर इमली का बीज भी शीघ्र ही अंकुरित हो जाता
है।।२१।।
अपिशब्दः सम्भावनायाम्। तिन्तिडीत्यपि वल्लरीं करोति, अभिनवाङ्कुरा सम्पद्यते;
यतः सा अतिकठिना। कैः? व्रीहिमाषतिलचूर्णसक्तुभिः, व्रीहिचूर्णैः, शालिचूर्णैः, माषचूर्णैः,
तिलचूर्णैः, सक्तुभिश्च। कीदृशैः? पूतिमांससहितैः क्लिन्नमांसयुतैः। एतैश्च सेचिता सिक्ता
सततं सर्वकालं हरिद्रया च धूपिता। एतदुक्तं भवति—तिन्तिडीबीजं व्रीहिचूर्णमाषचूर्ण-
तिलचूर्णसक्तुभिरेकीकृतैः पूतिमांससहितैः सिक्तं कृत्वा हरिद्रया धूपयेत्। वल्लरीं करोति।
अपिशब्दादन्यबीजस्य वल्लरीकरणे कः सन्देहः।।२१।।
अधुना कपित्थबीजरोपणमाह—
कपित्थवल्लीकरणाय मूलान्यास्फोटधात्रीधववासिकानाम्।
पलाशिनी वेतससूर्यवल्ली श्यामातिमुक्तैः सहिताष्टमूली ॥२२॥
क्षीरे शृते चाप्यनया सुशीते ताला शतं स्थाप्य कपित्थबीजम्।
दिने दिने शोषितमर्कपादैर्मासं विधिस्त्वेष ततोऽधिरोप्यम् ॥२३॥
हस्तायतं तद्द्विगुणं गभीरं खात्वावटं प्रोक्तजलावपूर्णम्।
शुष्कं प्रदग्धं मधुसर्पिषा तत् प्रलेपयेद् भस्मसमन्वितेन ॥२४॥
चूर्णीकृतैर्माषतिलैर्यवैश्च प्रपूरयेद् मृत्तिकयान्तरस्थैः।
मत्स्यामिषाम्भस्सहितं च हन्याद्यावद् घनत्वं समुपागतं तत् ॥२५॥
उप्तं च बीजं चतुरङ्गुलाधो मत्स्याम्भसा मांसजलैश्च सिक्तम्।
वल्ली भवत्याशु शुभप्रवाला विस्मापनी मण्डपमावृणोति ॥२६॥
कपित्थ ( कैथ ) के बीज की शीघ्र उत्पत्ति के लिये विष्णुक्रान्ता, आँवला, धव,
वसा—इनकी जड़; पत्तों से युत बेंत और सूर्यमुखी तथा निसोत, अतिमुश्कक ( तेन्दुआ =
तिनिस )—इनकी जड़; इन आठ मूलों को दूध में डालकर भरपूर गर्म करे। बाद में
उस दूध को ठण्डा कर उसमें कैथ के बीज को डाल दे। दोनों हाथों से सौ बार ताली
बजाने में जितना समय लगता है, उतनी देर तक उस बीज को दूध में रहने दे। बाद में
उसको दूध से निकाल कर धूप में सुखा ले। इस तरह प्रतिदिन एक मास तक करता रहे
और बाद में उस बीज को बो दे। एक हाथ व्यास वाला वृत्त के आकार का दो हाथ
गहरा एक गड्ढा खोद कर उसको पूर्वकथित रीति से दूधमिश्रित जल से पूर्ण करे। जब
वह सूख जाय तब उसको अग्नि से जला दे। बाद में शहद और घृत से युक्त भस्म से
उस गड्ढे को लीप दे। फिर मृत्तिकायुत उड़द, तिल और जौ के चूर्ण से गड्ढे को भरकर
मछली और मांसयुत जल से उसको ऊपर से तब तक ठोके, जब तक कि वह कठिन
न हो जाय। इसके पश्चात् उस पर चार अंगुल नीचे पूर्व में सिद्ध किया हुआ कैथ का
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

११८ बृहत्संहिता
बीज रोप कर मछली और मांस के जल से सींचे तो शीघ्र ही सुन्दर पत्तों से युत, मण्डप
को ढकने वाली वल्ली उत्पन्न हो जाती है।।२२-२६।।
कपित्थवल्लीकरणायेति। कपित्थबीजस्य वल्लीकरणाय वल्लीजननाय मूलान्ये-
तानि। केषाम्? आस्फोटधात्रीधववासिकानाम्, आस्फोटः सारिवा, धात्री आमलकी, धवो
वृक्षः, वासिका प्रसिद्धा। एषां चतुर्णां चत्वारि च मूलानि, तथा वेतसो वृक्षः। वेतसस्य
वृक्षस्य वल्ली व्रततिः समूला पलाशिनी पर्णयुक्ता। एवमेव सूर्यवल्ली। श्यामा प्रसिद्धा।
केचित् त्रिवृदितीच्छन्ति। अतिमुक्तः स्यन्दनकः। एषां मूलैः सहिता, अष्टमूली भवति,
अष्टानां मूलानां समाहारः अष्टमूली।
क्षीरे शृते चेति। अनया अष्टमूल्या सह क्षीरे शृते क्वथिते ततः सुशीते कृते तन्मध्ये
कपित्थबीजं तालशतं संस्थाप्य। तालो हस्तशब्दः। एतावन्तं कालं संस्थाप्य ततो
गृह्णीयात्। अनन्तरमर्कपादैः सूर्यरश्मिभिः शोषितं कार्यम्। एवं दिने दिने यावन्मासं
त्रिंशद्दिनानि तावदेवं विधिः। ततोऽनन्तरमधिरोप्य रोपणीयम्।
हस्तायतमिति। अवटं गर्तं हस्तायतं हस्तप्रमाणमायतम्। समन्ततः समं वृत्तम्।
तद् द्विगुणं गभीरं हस्तद्वितयं गम्भीरं तथाभूतं खात्वा तच्च प्रोक्तजलावपूर्णम्, प्रोक्तेन
कथितेन जलेन क्षीरोदकेनावपूरितं कृत्वा ततस्तं शोषयेत्। ततः शुष्कमग्निना प्रदहेत्।
शुष्कं प्रदग्धं च मधुसर्पिषा मधुना माक्षिकेन सर्पिषा घृतेन च भस्मसमन्वितेन भस्मना
युक्तेन प्रलेपयेद् लिम्पेत्।
चूर्णीकृतैरिति। ततो माषैस्तिलैर्यवैश्चूर्णीकृतैः सच्चूर्णितैः प्रपूरयेत्; तमवटं मृत्ति-
कया पूरयित्वा ततोऽन्तरस्थैः, अन्तरे मध्ये स्थिता ये तैर्मृत्तिकयान्तरस्थैः। अयमर्थः—
मृदाङ्गुलचतुष्कमात्रं पूरयित्वा ततो माषादिभिः पूरयेत्। पुनरपि तावन्मात्रं मृत्तिकया पूर-
यित्वा पुनरपि माषादिभिः पूरयेत्। ततस्तं मत्स्यामिषाम्भःसहितं च हन्यात्, मत्स्यामिषेण
मत्स्यमांसेन युक्तं यदम्भो जलं तेन सहितं तदवटं हन्यात् पुनः पुनः क्षोदयेत्। यावत्
तदवटं घनत्वं काठिन्यं समुपागतं प्राप्तम्।
उप्तमिति। ततस्तत्र चतुरङ्गुलाधश्चतुर्णामङ्गुलानामधस्तद्वृक्षबीजमुप्तं वापितं मत्स्या-
म्भसा मत्स्ययुक्तेन जलेन मांसयुक्तैर्जलैश्चोदकैः सिक्तं सेचितमाशु क्षिप्रमेव शुभप्रवाला
शोभनपल्लवा वल्ली भवति सम्पद्यते। कीदृशी? विस्मापनी विस्मयजननी। मण्डपमाधारमा-
वृणोति आच्छादयति।।२२-२६।।
अथान्येषां रोपणमाह—
शतशोऽङ्कोलसम्भूतफलकल्केन भावितम्।
एतत्तैलेन वा बीजं श्लेष्मातकफलेन वा।।२७।।
वापितं करकोन्मिश्रमृदि तत्क्षणजन्मकम्।
फलभारान्विता शाखा भवतीति किमद्भुतम्।।२८।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

वृक्षायुर्वेदाध्यायः १११
अङ्कोल वृक्ष के फल के कल्क या तेल से अथवा श्लेष्मातक ( लसोड़े ) के
फल, कल्क या तेल से सौ बार भावना देकर ओलों से भीगी हुई मिट्टी में जिस बीज
को बोया जाता है, वह उसी क्षण उत्पन्न हो जाता है तथा उसकी शाखा फलों के भार से
झुक जाती है। इसमें किसी प्रकार का आश्चर्य नहीं करना चाहिये अर्थात् ऐसा निश्चित ही
होता है।।२७-२८।।
अङ्कोलो वृक्षस्तत्सम्भूतफलकल्केन, एतत्फलस्य यः कल्को द्रव्यभागो विज्जला-
रूपस्तेन यस्य कस्यचिद्वृक्षस्य बीजं शतशः शतवारं भावितं सिक्तम्। एतत्तैलेन वा अङ्कोल-
फलतैलेन वा शतशो भावितम्। तदेव बीजं श्लेष्मातकवृक्षफलेन वा तस्य कल्केन
तैलेन वा शतशो भावितम्।
तच्च वापितं करकोन्मिश्रमृदि, करका अशनिपातस्तेनोन्मिश्रा च या मृत् तस्यां
वापितमुप्तं तद्वीजं तत्क्षणजन्मकं यस्मिन्नेव क्षणे मुहूर्ते उप्तम्, तस्मिन्नेव जायते। शाखा
लता फलभारान्विता फलान्येव भारस्तेनान्विता, आनता वा भवतीति किमद्भुतं किमाश्चर्यम्।
अवश्यमेव तद्भवतीत्यर्थः।।२७-२८।।
अथ श्लेष्मातकरोपणमाह—
श्लेष्मातकस्य बीजानि निष्कुलीकृत्य भावयेत् प्राज्ञः।
अङ्कोलविज्जलाद्भिश्चायायां सप्तकृत्वैवम् ।।२९।।
माहिषगोमयघृष्टान्यस्य करीषे च तानि निक्षिप्य।
करकाजलमृद्योगे न्युप्तान्यह्ना फलकराणि ।।३०।।
बुद्धिमान् मनुष्य को चाहिये कि छिलका उतारे हुए लसोड़े के बीज को अङ्कोलफल
के भीतर के जल से भावना देकर छाया में सुखाता जाय। इस तरह सात बार करने के
पश्चात् उसको भैंस के गोबर से घिस कर भैंस के सूखे गोबर के ढेर पर रख दे।
तत्पश्चात् ओलों से भींगी हुई मिट्टी में उन बीजों को बोने पर एक दिन में ही फलयुत
पौधा लग जाता है।।२९-३०।।
प्राज्ञो मेधावी श्लेष्मातकस्य वृक्षस्य बीजानि निष्कुलीकृत्य कृत्रिमतुषमपास्य ततोऽङ्कोल-
फलानां या विज्जलाः पिच्छिला आपस्ताभिरङ्कोलविज्जलाद्भिश्चायायां भावयेत्। एवमनेन
प्रकारेण सप्तकृत्वः सप्तवारं भावयेत्। अङ्कोलविज्जलाद्भिर्भावयित्वा छायायां शोषयेत्
पुनर्भावयित्वा शोषयेत् सप्तवारं यावत्।
ततस्तानि बीजानि माहिषगोमयेन महिषशकृता घृष्टानि शक्तानि, कृत्वा ततोऽस्य
महिषस्य करीषे गोमयराशौ तानि बीजानि निक्षिप्य संस्थापयेत्, तत्र च तावत् स्थाप्यानि
भाण्डान्तर्गतानि यावत् करकाजलेन युक्ता मृद्भवति करकाजलेनाशनिपातपानीयेन या
युक्ता मृत् तया युक्ते स्थाने न्युप्तानि वापितानि अह्ना दिवसेन फलकराणि भवन्ति। एकेनै-
वाह्ना फलन्तीत्यर्थः।।२९-३०।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

१२० बृहत्संहिता
अथ वृक्षाणां रोपणनक्षत्राण्याह—
ध्रुवमृदुमूलविशाखा गुरुभं श्रवणस्तथाश्विनी हस्तः ।
उक्तानि दिव्यदृग्भिः पादपसंरोपणे भानि ॥३१॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां वृक्षायुर्वेदो
नाम पञ्चपञ्चाशत्तमोऽध्यायः ॥५५॥
तीनों उत्तरा, रोहिणी, मृगशिरा, रेवती, चित्रा, अनुराधा, मूल, विशाखा, पुष्य,
श्रवण, अश्विनी, हस्त—इन नक्षत्रों को दिव्य दृष्टि वाले मुनियों ने वृक्षों का रोपन करने
के लिये उत्तम कहा है॥३१॥
इति 'विमला'हिन्दीटीकायां वृक्षायुर्वेदाध्यायः पञ्चपञ्चाशत्तमः ॥५५॥
त्र्युत्तरा रोहिणी चेति ध्रुवाणि, अनुराधाचित्रामृगशिरोरेवत्यश्चेति मृदूनि, मूलम्, विशाखा,
तिष्यः, श्रवणः, अश्विनी, हस्तः—एतानि नक्षत्राणि पादपानां वृक्षाणां संरोपणे वपनकर्मणि
दिव्यदृग्भिर्दिव्या सूक्ष्मार्थदर्शिनी दृग् येषां ते दिव्यदृशो मुनयो गर्गादयस्तैरुक्तानि कथितानि।
केचिच्छस्तानि प्रशंसितानीति पठन्तीति ॥३१॥
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ वृक्षायुर्वेदो
नाम पञ्चपञ्चाशत्तमोऽध्यायः ॥५५॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

अथ प्रासादलक्षणाध्यायः
अथ प्रासादलक्षणं व्याख्यायते। तत्रादावेव प्रयोजनप्रदर्शनार्थमाह—
कृत्वा प्रभूतं सलिलमारामान् विनिवेश्य च।
देवतायतनं कुर्याद् यशोधर्माभिवृद्धये ॥१॥
बहुत जल वाले जलाशय बनाकर और बागीचा लगाकर यश और धर्म की वृद्धि
के लिये देवता का मन्दिर बनाना चाहिये॥१॥
प्रभूतं पर्याप्तं सलिलं जलं कृत्वा तत्र चारामान् वृक्षवाटिकान् विनिवेश्य वेशयित्वा
यशोधर्माभिवृद्धये यशसः कीर्तेः धर्मस्य चाभिवृद्ध्यर्थं देवतायतनं देवतागृहं कुर्याद् विदध्यात्।
अत्रैव प्रशंसनार्थमाह—
इष्टापूर्तेन लभ्यन्ते ये लोकास्तान् बुभूषता।
देवानामालयः कार्यो द्वयमप्यत्र दृश्यते ॥२॥
इष्ट ( यज्ञ आदि ) करने से, पूर्त ( वापी, कूप, तडाग आदि ) बनाने से जो लोक
मिलते हैं, उन दोनों को चाहने वाले मनुष्य को देवालय का निर्माण कराना चाहिये;
क्योंकि इसमें दोनों लोक दिखाई देते हैं॥२॥
इष्टं यज्ञादिकम्, पूर्तं वापीकूपतडागादिकम्। तथा चोक्तम्—
इष्टं यज्ञेषु यद्दानं ततोऽन्यत् पूर्त्तमिष्यते।
इष्टाभिः पशुबन्धैश्च चातुर्मास्यैर्यजेद् द्विजः।।
अग्निष्टोमादिभिर्यज्ञैर्यो यजेत स इष्टवान्।
वापीकूपतडागादिदेवतायतनानि च।।
अन्नप्रदानमाचार्यैः पूर्त इत्यभिधीयते।
इष्टापूर्तेन ये लोकाः पुण्यस्थानानि लभ्यन्ते प्राप्यन्ते, तान् बुभूषता भवितुमिच्छता
प्राप्तुमिच्छतेत्यर्थः। देवानां सुराणामालयः कार्यः, गृहं देवानां कर्तव्यमित्यर्थः। यतोऽत्र
देवालये द्वयमपि दृश्यते। इष्टापूर्तेषु यत् फलं तदत्र दृश्यते प्राप्यत इत्यर्थः। तथा च
काश्यपः—
इष्टापूर्तादिभिर्यज्ञैर्यावत् कुर्वन्ति मानवाः।
अग्निष्टोमादिपशुभिरिष्टं यज्ञं प्रकीर्तितम्।।
वापीकूपतडागादिदेवतायतनानि च।
स्वर्गस्थितिं सदा कुर्यात्तद्दानं पूर्तसंज्ञितम्।।
देवानामालयः कार्यो द्वयमप्यत्र लभ्यते।। इति।।२।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

.
Wait, let's look at line 22 again very carefully:
"आक्षिप्ता दूरे प्रेरितास्ते कह्लाराः पुष्पविशेषाः सितोत्पलास्तेषामाक्षेप..."
Wait, let's look at the letters:
त े ष ा म ा क ् ष े प
Then:
ा (aa matra on pa? No, pa already has its stem)
Wait, look at the letter:
It has a loop at the bottom, then a vertical bar: that is 'ग'!
Then another vertical bar: that is 'ा'!
Wait, then:
Another letter: with a loop/curve, then a vertical bar: that is 'य'!
Wait, is there an 'ा' on that 'य'?
No, wait! The top bar covers:
त े ष ा म ा क ् ष े प - then the next letters are under the SAME top bar!
WAIT! Look at the top horizontal line (shirorekha):
Does the shirorekha continue after 'प'?
YES!
It continues over:
one letter, two letters, three letters...
Wait! The shirorekha covers:
"...तेषामाक्षेपणाया या वीथी..."?
Wait, where does the word break?
There is NO space between 'प' and the next letters!
Let's trace the shirorekha:
"सितोत्पलास्तेषामाक्षेप..." it continues continuously:
...प - letter1 - letter2

दकार्गल: भूमिगत जल-संधान एवं वृक्षायुर्वेद (अध्याय ५४-५६)

प्रासादलक्षणाध्यायः १२३
स्थित फूले हुये वृक्षरूप कर्णपूर, जल और थल का संयोगरूप श्रोणीमण्डल, पुलिन-
रूप उठे हुये स्तन और हंसरूप हास्य है, ऐसी नीचे को बहने वाली नदियों के समीप
में देवता निवास करते हैं।।६-७।।
यत्र यस्मिन् स्थाने एवंविधा नद्यः सरितस्तत्र नित्यं देवता रमन्ते। कीदृश्यः ? क्रौञ्चाः
पक्षिविशेषास्त एव सशब्दत्वात् काञ्चीकलापो रशनाविस्तारो यासाम्। कलहंसा राजहंसास्तेषां
यः कलो मधुरः स्वरः शब्दः सम्भाषणं यासाम्। तोयं जलं तदेवांशुकमम्बरं यासाम्।
शफर्यः सूक्ष्ममत्स्यास्ता एव कृता मेखला याभिः। मेखला वस्त्रस्योपरि बध्यते। नीवीति
लोकप्रसिद्धा। तथा च—
नीवीराग्रन्थने नार्या जघनस्थस्य वाससः।। इति।
फुल्लतीरेति । यत्र ईदृश्यो निम्नगा नद्यस्तत्र नित्यं देवता रमन्ते। फुल्लाः पुष्पिता-
स्तीरेषु प्रान्तेषु ये द्रुमा वृक्षास्त एवोत्तंसाः कर्णपुष्पाणि मुण्डमाला वा यासाम्। पुलिनेषु
तीरेषु ये अभ्युन्नता उच्चाः प्रदेशास्त एवोरस्या उरसि भवाः स्तना यासाम्। हंसाः पक्षि-
विशेषास्त एव शुक्लत्वाद्वासो वसनं यासाम्। तास्तथाभूताः। तासु देवता रमन्ते।।६-७।।
अन्यत्कीदृशेषु स्थानेषु रमन्त इत्याह—
वनोपान्तनदीशैलनिर्झरोपान्तभूमिषु ।
रमन्ते देवता नित्यं पुरेषूद्यानवत्सु च ॥८॥
वन, नदी, पर्वत और झरनों के समीप में तथा उपवनों से युत नगरों में देवता विहार
करते हैं।।८।।
वनोपान्तेषु वनोपकण्ठेषु। उपान्तशब्दः प्रत्येकमभिसम्बध्यते। नदीषु सरित्सु। शैलेषु
पर्वतेषु। निर्झरोपान्तभूमिषु, निर्झरिण प्रपातपानीयेन ये युक्ता उपान्ता नदीप्रभृतीनां समीपास्तेषु
भूमिषु। नियतं झरन्ति स्त्रवन्तीति निर्झराः। तेषु नित्यं सर्वकालं देवता रमन्ते क्रीडन्ते।
पुरेषु नगरेषु, उद्यानवत्सु येषूद्यानान्युपवनानि विद्यन्ते तेषु नित्यं रमन्त इति। तथा च
काश्यपः—
हरितोज्ज्वलतोयाढ्या वाप्यः पक्षिभिरावृताः।
वनोपवनमालिन्यो नित्यमुत्फुल्लितद्रुमाः।।
हंसकारण्डवाकीर्णाः कोकिलालापनादिताः।
षट्पदागीतमधुरा नृत्यद्भिः शिखिभिर्युताः।।
तत्र देवा रतिं यान्ति सात्रिध्यात्रित्यसंस्थिताः।। इति।।८।।
अधुना प्रतिष्ठाकरणे भूमिगुणानाह—
भूमयो ब्राह्मणादीनां याः प्रोक्ता वास्तुकर्मणि ।
ता एव तेषां शस्यन्ते देवतायतनेष्वपि ॥९॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

१२४ बृहत्संहिता
पहले ब्राह्मण आदि वर्णों को गृह बनाने के लिये जिस प्रकार की भूमि शुभ कही
गई है; देवालय बनाने के लिये भी उन वर्णों के लिये वैसी ही भूमि श्रेष्ठ होती है ॥९॥
ब्राह्मणादीनां ब्राह्मणक्षत्रियवैश्यशूद्राणां या भूमयो वास्तुकर्मणि प्रोक्ताः कथिताः।
तद्यथा—
सितरक्तपीतकृष्णा विप्रादीनां प्रशस्यते भूमिः।
गन्धश्च भवति यस्यां घृतरुधिरान्नाद्यमद्यसमः॥
कुशयुक्ता शरबहुला दूर्वाकाशावृता क्रमेण मही।
अनुवर्णं वृद्धिकरी मधुरकषायाम्लकटुका च॥
इत्यादिना ज्ञेयाः। विप्रादीनां ता एव भूमयो देवताप्रासादेषु शस्यन्ते शोभन्त इति।
अधुना देवतागृहे वास्तुपुरुषलक्षणं द्वारप्रविभागं चाह—
चतुःषष्टिपदं कार्यं देवतायतनं सदा।
द्वारं च मध्यमं तस्मिन् समदिक्स्थं प्रशस्यते ॥१०॥
देवालय में सदा पूर्वोक्त चौंसठ पद का वास्तु बनाना चाहिये तथा मध्यम द्वार सब
दिशाओं में स्थित हो तो श्रेष्ठ होता है ॥१०॥
सदा सर्वकालं देवतायतनं सुरगृहं चतुःषष्टिपदं कार्यम्। 'अष्टाष्टकपदमथवा' इति
पूर्वमेव प्रदर्शितम्। तस्मिन् देवतायतने मध्यमं द्वारं मध्यवर्तिनं समदिक्स्थं समायां दिशि
यथा तिष्ठति, तथा प्रशस्यत इष्यते॥१०॥
अथ प्रासादानां विधानमाह—
यो विस्तारो भवेद् यस्य द्विगुणा तत्समुन्नतिः।
उच्छ्रायाद् यस्तृतीयांशस्तेन तुल्या कटिः स्मृता ॥११॥
विस्तारार्धं भवेद् गर्भो भित्तयोऽन्याः समन्ततः।
गर्भपादेन विस्तीर्णं द्वारं द्विगुणमुच्छ्रितम् ॥१२॥
उच्छ्रायात् पादविस्तीर्णा शाखा तद्वदुदुम्बरः।
विस्तारपादप्रतिमं बाहुल्यं शाखयोः स्मृतम् ॥१३॥
त्रिपञ्चसप्तनवभिः शाखाभिस्तत् प्रशस्यते।
अधः शाखाचतुर्भागे प्रतीहारौ निवेशयेत् ॥१४॥
शेषं मङ्गल्यविहगैः श्रीवृक्षैः स्वस्तिकैर्घटैः।
मिथुनैः पत्रवल्लीभिः प्रमथैश्चोपशोभयेत् ॥१५॥
द्वारमानाष्टभागोना प्रतिमा स्यात् सपिण्डिका।
द्वौ भागौ प्रतिमा तत्र तृतीयांशश्च पिण्डिका ॥१६॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

प्रासादलक्षणाध्यायः १२५
देवालय का जितना विस्तार हो, उससे दूनी ऊँचाई और ऊँचाई की तिहाई कटि
होती है। सीढ़ी के ऊपर जहाँ से देवालय का प्रारम्भ होता है उसको 'कटि' कहते हैं।
विस्तार के आधा गर्भ शेष सब दिशाओं में भीत बनती है। गर्भ के चौथाई के समान द्वार
का विस्तार और द्विगुणित विस्तारतुल्य द्वार की ऊँचाई होती है। द्वार की ऊँचाई तुल्य
शाखा ( चौखट का बाजू ) और उदुम्बर ( चौखट के ऊपर की लकड़ी ) की चौड़ाई
होती है तथा शाखा की चौथाई की चौथाई के तुल्य शाखाओं की मोटाई होती है।
शाखाओं की चौड़ाई के बीच में तीन, पाँच, सात या नव शाखायें होने से द्वार श्रेष्ठ होता
है। दोनों शाखाओं के नीचे की चौथाई में दो प्रतिहार ( नन्दी, दण्ड आदि ) की मूर्ति
खुदवानी चाहिये। शाखाओं के तीन-चौथाई भागों को हंस आदि शुभ पक्षी, बेल, स्वस्तिक
( चिह्नविशेष ), कलश, स्त्री-पुरुष का जोड़ा, पत्ते और लताओं से शोभित करना चाहिये।
द्वार की ऊँचाई में उसका अष्टमांश घटा कर जो शेष बचे, उतनी पिण्डका ( देवतास्थापन
की पीठिका ) को लेकर देवप्रतिमा की ऊँचाई होती है। पीठिकासहित प्रतिमा की
ऊँचाई का तीन भाग करके दो भाग के बराबर ऊँची प्रतिमा और एक भाग के समान
पीठिका बनानी चाहिये। यह प्रमाण समस्त प्रासादों में जानना चाहिये।।११-१६।।
यो विस्तार इति। तस्य देवगृहस्य यो विस्तारो विष्कम्भो भवेत् स्यात् तद्द्विगुणा
विस्ताराद् द्विगुणा समुन्नतिरुच्छ्रायो भवति। यथा मेरुप्रासादस्य द्वात्रिंशद्विस्तारः। विस्ताराद्
द्विगुणा समुन्नतिश्चतुःषष्टिर्हस्ताः। उच्छ्रायाद् यस्तृतीयांशस्तृतीयभागस्तेन च तुल्या तत्समा
देवगृहस्य कटिः स्मृतोक्ता। यथा मेरोश्चतुःषष्टिर्हस्ता उच्छ्रायः। तस्मात् त्रिभाग एकविंशतिर्हस्ता
अष्टावङ्गुलानि। अनेन प्रमाणेन कटिर्भवति। सोपानोपरि यतो देवगृहस्य प्रारम्भः सा कटि-
रुच्यते।
विस्तारार्धमिति। देवगृहस्य यो विस्तार उक्तस्तदर्थं गर्भो भवति। यथा मेरोर्हस्ताद्
द्वात्रिंशद्विस्तारः। तदर्थं षोडश। अनेन प्रमाणेन मेरोगर्भः। अन्याः समन्ततः सर्वासु दिक्षु
विदिक्षु भित्तयो भवन्ति। हस्तमात्रं भ्रमणाय सर्वासु दिक्ष्वनावृतं स्थापयित्वा शेषं हस्तत्रयं
भित्त्यवष्टब्धं कुर्यात्। गर्भस्य यः पादश्चतुर्थांशस्तेन मानेन विस्तीर्णं द्वारं भवति। यथा
मेरोगर्भः षोडशहस्ताः। तस्य चतुर्थागश्चत्वारो हस्ताः। एष द्वारस्य विस्तारः। विस्ताराद्
द्विगुणमुच्छ्रितं कार्यम्। एवमष्टौ हस्ता मेरुद्वारोच्छ्रायः कार्यः।
उच्छ्रायादिति। द्वारस्य य उच्छ्रायस्तस्य यः पादश्चतुर्भागस्तेन मानेन विस्तीर्णा
शाखा द्वारिका कार्या। यथा मेरुद्वारस्योच्छ्रायोऽष्टौ हस्ताः। अस्य चतुर्थागो द्वौ हस्तौ।
एष शाखाया विस्तारः। तद्वदुदुम्बरस्तद्वत् तेनैव प्रकारेणोदुम्बरः कार्यः। शाखयोरुपरि
यत् काष्ठं दीयते यच्चाधः स उदुम्बर इत्युच्यते। तद्वदुदुम्बराविति केचित् पठन्ति। विस्तार-
पादप्रतिममिति। शाखाया यो विस्तारस्तस्य यः पादश्चतुर्भागस्तत्प्रतिमं तत्तुल्यं शाखायो-
र्बाहुल्यं घनत्वं स्मृतमुक्तम्। यथा मेरुद्वारशाखाविस्तारो द्वौ हस्तौ। विस्तारपादो द्वादशाङ्गुलानि।
एतद् घनत्वम्।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

१२६ बृहत्संहिता
त्रिपञ्चसप्तनवभिरिति। तद्द्वारं तिसृभिः पञ्चभिर्नवभिश्च शाखाभिर्द्वारिकाभिः प्रशस्यते
इष्यते। शाखाविस्तारस्तिसृभिर्यदि न पूर्यते, तदा पञ्चभिः पूरणीयः, ताभिरपि न पूर्यते,
तदा नवभिः पूरणीय इति। शाखयोर्योऽधस्तलस्य चतुर्थभागस्तुर्यांशस्तस्मिन् प्रतीहारौ
नन्दिदण्डादिकौ निवेशयेत् कारयेत्।
शेषमिति। शेषं भागत्रयं मङ्गल्यविहगैर्मङ्गल्यवद्भिः पक्षिभिः हंसकारण्डवचक्रवाक-
जीवकप्रभृतिभिः। श्रीवृक्षैः, स्वस्तिकश्चिह्नविशेषैः। स्वस्तिकस्य वास्तुनरस्य सदृशैर्घटैः
कलशैः। मिथुनैर्युग्मैः। पत्रवल्लीभिः पत्रलताभिः। प्रमथैर्गणैश्चोपशोभयेत् शोभामुत्पादयेत्।
द्वारमानाष्टभागोनेति। द्वारस्य यन्मानं प्रमाणमुच्छ्रायस्तस्य योऽष्टभागोऽष्टांशस्तेन
द्वारप्रमा

द्वा-द-शो-प-र्यु-प-रि-गा:
द्वा (1)
द (2)
शो (3)
प (4)
र्यु (5)
प (6)
रि (7)
गा (8)
When typed in Devanagari:
द्वा + द + शो + प + र्यु + प + रि + गा = द्वादशोपर्य्युपरिगा (or द्वादशोपर्युरिगा without double y: द्वादशोपर्युरिगा has no 'प'!).
Wait! If you don't type the 'प', it's द्वादशोपर्युरिगा.
If you type the 'प', it's द्वादशोपर्युरिगा? NO!
Look at the letters:
द्वा (dvā)
द (da)
शो (śo)
प (pa)
र्यु (ryu)
प (pa)
रि (ri)
गा (gā)
Word: द्वादशोपर्युरिगा vs द्वादशोपर्य्युपरिगा:
Notice:
द्वा - द - शो - प - र्यु - प - रि - गा = द्वादशोपर्य्युपरिगा!
Wait, let's write it:
द्वा (dvā) + द (da) + शो (śo) + प (pa) + र्यु (ryu) + प (pa

१२८ बृहत्संहिता
अथ मन्दरकैलासयोर्लक्षणमाह—
त्रिंशद्धस्तायामो दशभौमो मन्दरः शिखरयुक्तः।
कैलासोऽपि शिखरवानष्टाविंशोऽष्टभौमश्च ॥२१॥
‘मन्दर’ नामक प्रासाद छः कोण वाला, तीस हाथ तुल्य विस्तार वाला, दश भूमि
वाला और शिखरों से युक्त होता है। ‘कैलाश’ नामक प्रासाद शिखरों से युक्त, अट्ठाईस
हाथ विस्तार वाला, आठ भूमि वाला और छः कोण वाला होता है॥२१॥
तत्र षडश्रिरित्येतत् सर्वत्रानुवर्तते नन्दनलक्षणं यावत्। मन्दरसंज्ञः प्रासादस्त्रिंशद्धस्ता-
यामस्त्रिंशत् करा विस्तीर्णः। विष्कम्भात् षष्टिर्हस्तास्तस्यौच्च्यम्। षडश्रिश्च। दशभौमो
दशभिर्भूमिकाभिर्युक्तः। शिखरैर्युक्तः। तथा च काश्यपः—
त्रिंशद्धस्तास्तु विस्तीर्णः प्रासादोऽयं द्वितीयकः।
कैलासोऽपीति। अपिशब्दः सम्भावनायाम्। कैलासोऽपि षडश्रिः। शिखरवान्
शिखरैर्युक्तः। अष्टाविंशः, अष्टाविंशतिर्हस्ता विस्तीर्णः। विष्कम्भात् षट्पञ्चाशद्धस्तास्त-
स्यौच्च्यम्। अष्टभौमोऽष्टाभिर्भूमिकाभिर्युक्तः। तथा च काश्यपः—
अष्टभौमश्च कैलासो हस्ताष्टाविंशतिः स्मृतः।
षडश्रिः शिखरोपेतः प्रासादस्तु तृतीयकः॥ इति॥२१॥
अथ विमाननन्दनयोर्लक्षणमाह—
जालगवाक्षकयुक्तो विमानसंज्ञस्त्रिसप्तकायामः।
नन्दन इति षड्भौमो द्वात्रिंशः षोडशाण्डयुतः ॥२२॥
‘विमान’ नामक प्रासाद जालीदार खिड़कियों से युक्त, इक्कीस हाथ विस्तार
वाला, आठ भूमि वाला और छः कोण वाला होता है। ‘नन्दन’ नामक प्रासाद छः कोण
वाला, छः भूमि वाला, बत्तीस हाथ तुल्य विस्तार वाला और सोलह अण्डों ( शिखरों )
से युक्त होता है॥२२॥
विमानच्छन्दसंज्ञः षडश्रिः। जालगवाक्षकयुक्तः, जालकोपलक्षितैर्गवाक्षकैश्च शारिका-
भिर्युक्तः। त्रिसप्तकायामः एकविंशतिर्हस्तो आयामो विस्तीर्णः। विष्कम्भात्, अर्थादेव द्वा-
चत्वारिंशद्धस्तस्तस्यौच्च्यम्। अष्टभूमिकश्च। तथा च काश्यपः—
गवाक्षजालसंयुक्तो विमानश्चैकविंशतिः।
षडश्रिरष्टभौमश्च प्रासादः स्याच्चतुर्थकः॥
नन्दन इति। नन्दनसंज्ञः षडश्रिः। षड्भौमः षड्भिर्भूमिकाभिर्युक्तः। द्वात्रिंशो द्वात्रिंशद्ध-
स्तो विस्तीर्णः। विष्कम्भात् चतुःषष्टिर्हस्तास्तस्यौच्च्यम्। षोडशभिरण्डैर्युक्तः। अण्डः
प्रासादस्योपरि भवति। तथा च काश्यपः—
नन्दनस्तु षडश्रिः स्याद् द्वात्रिंशद्धस्तविस्तृतः।
षड्भौमः षोडशाण्डस्तु प्रासादः पञ्चमो मतः॥ इति॥२२॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

प्रासादलक्षणाध्यायः १२९
अथ समुद्गपद्मयोर्लक्षणमाह—
वृत्तः समुद्गनामा पद्मः पद्माकृतिः शया अष्टौ ।
शृङ्गेणैकेन भवेदेकैव च भूमिका तस्य ॥२३॥
‘समुद्ग’ नामक प्रासाद गोल और ‘पद्म’ नामक प्रासाद कमल की आकृति वाला
होता है तथा दोनों एक शृङ्ग तथा एक ही भूमि वाले होते हैं॥२३॥
समुद्गनामा वृत्त: परिवर्त्तुलः, मुद्रकाकारः । पद्मः पद्माकृतिः कमलाकारः । अष्टभिर्दलैर्युक्तः ।
एतौ द्वावपि प्रासादावष्टौ शयाः अष्टौ हस्ता विस्तीर्णः। विष्कम्भात् षोडशहस्तास्तस्यौच्च्यम्।
शृङ्गेणैकेन भवेत् स्यात्। एकेन शृङ्गेणैकेनाण्डेनोपलक्षितौ द्वावप्येतौ। तस्य च प्रासाद-
द्वयस्यैकैव भूमिका भवति। तथा च काश्यपः—
वर्तुलस्तु समुद्गः स्यात् पद्मः पद्माकृतिस्तथा।
हस्ताष्टकं तु विस्तीर्णो भूमिका शृङ्गभूषिता।। इति।।२३।।
अथ गरुडनन्दिवर्धनयोर्लक्षणमाह—
गरुडाकृतिश्च गरुडो नन्दीति च षट्चतुष्कविस्तीर्णः ।
कार्यस्तु सप्तभौमो विभूषितोऽण्डैस्तु विंशत्या ॥२४॥
‘गरुड़’ नामक प्रासाद गरुड़ की आकृति का होता है। ‘नन्दिवर्धन’ नामक प्रासाद
भी गरुड़ की आकृति का होता है; किन्तु पंख तथा पूँछ से रहित होता है तथा ये दोनों
ही प्रासाद चौबीस हाथ विस्तार वाले, सात भूमि वाले और चौबीस शिखरों से विभूषित
होते हैं॥२४॥
गरुडसंज्ञो गरुडाकृतिर्गरुडाकारः पक्षी पक्षपुच्छयुक्तः। नन्दीति च। चशब्दः समुच्चये।
नन्दिवर्धनसंज्ञश्च गरुडाकार एव, किन्तु पक्षपुच्छरहितः। षट्चतुष्कविस्तीर्णः, गरुडो नन्दि-
वर्धनश्च षट्चतुष्कश्चतुर्विंशतिर्हस्ता विस्तीर्णः। अष्टचत्वारिंशद्धस्तास्तस्यौच्च्यम्। तथा
सप्तभौमः, सप्तभिर्भूमिकाभिर्युक्तः। अण्डानां विंशत्या विभूषितो गरुडो नन्दिवर्धनश्च। तथा
च काश्यपः—
गरुडो गरुडाकारः पक्षपुच्छविभूषितः।
नन्दी तथाकृतिर्ज्ञेयः पक्षादिरहितः पुनः।।
कराणां षट्चतुष्कास्तु विस्तीर्णौ सप्तभूमिकौ।
दशभिर्द्विगुणैरण्डैर्भूषितौ कारयेत्तु तौ।। इति।।२४।।
अथ कुञ्जरगुहराजयोर्लक्षणमाह—
कुञ्जर इति गजपृष्ठः षोडशहस्तः समन्ततो मूलात् ।
गुहराजः षोडशकस्त्रिचन्द्रशाला भवेद् वलभी ॥२५॥
‘कुञ्जर’ प्रासाद हाथी की पीठ के समान आकृति वाला और मूल से चारो तरफ
७ बृ. सं. द्वि. - 9
CC-0. JK Sanskrit Academy, Jammpu. Digitized by S3 Foundation USA

१३० बृहत्संहिता
सोलह हाथ विस्तार वाला होता है। 'गुहराज' प्रासाद गुह की आकृति वाला और सोलह
हाथ विस्तार वाला होता है तथा इन दोनों ही प्रासादों का बलभी तीन चन्द्रशालाओं से
समन्वित होता है॥२५॥
कुञ्जरसंज्ञो गजपृष्ठो हस्तिपृष्ठाकारः। षोडशहस्तः समन्ततो मूलात्, मूलात् षोडश-
हस्तः समन्ततश्चतुर्दिक्कं षोडश हस्ता विष्कम्भः अन्येषां पाठः षोडशहस्तः सुविस्तरो
मूलात्। एवं द्वात्रिंशद्धस्तास्तस्यौच्च्यम्। उत्थितगजाकार एकभूमिकः। गुहराजो गुहाकारः।
षोडशकः षोडश हस्ता विस्तीर्णो द्वात्रिंशद्धस्तास्तस्यौच्च्यम्। एकभूमिकश्च। अनयोर्द्वयोरपि
वलभी कुहरैस्त्रिचन्द्रशाला भवेत् स्यात्। तिसृभिश्चन्द्रशालाभिर्युक्ता इत्यर्थः। तथा च
काश्यपः—
कुञ्जरो गजपृष्ठाभो हस्ताः षोडश विस्तृतः।
गुहराजो गुहाकारो विष्कम्भात् षोडश स्मृतः॥
त्रिचन्द्रशाला वलभी तयोः कार्या सुलक्षणा।
दशमैकादशावेतौ प्रासादौ द्वौ प्रकीर्तितौ॥ इति॥२५॥
अधुना वृषहंसघटानां लक्षणमाह—
वृष एकभूमिशृङ्गो द्वादशहस्तः समन्ततो वृत्तः।
हंसो हंसाकारो घटोऽष्टहस्तः कलशरूपः॥२६॥
'वृष' नामक प्रासाद एक भूमि वाला, एक शृङ्ग वाला, बारह हाथ विस्तार वाला
और चारो तरफ से वृत्ताकार होता है। 'हंस' प्रासाद हंस पक्षी की आकृति वाला, बारह
हाथ विस्तार वाला, एक भूमि और एक शृङ्ग वाला होता है। 'घट' नामक प्रासाद कलश
की आकृति वाला, आठ हाथ विस्तार वाला, एक शृङ्ग और एक भूमि वाला होता
है॥२६॥
वृषसंज्ञ एकभूमिशृङ्गः, एकया भूमिकयैकेन शृङ्गेण शिखरेण युक्तः। द्वादशहस्तो
द्वादश हस्तो विस्तीर्णः। विष्कम्भाच्चतुर्विंशतिर्हस्तास्तस्यौच्च्यम्। समन्ततः सर्वासु
दिक्षु वृत्तः परिवर्तुलः। हंसो हंसाकारो हंससदृशः। चञ्चुपक्षपुच्छयुक्तः। द्वादशहस्तविस्तीर्णः।
चतुर्विंशतिर्हस्तास्तस्यौच्च्यम्। एकभूमिकश्च। घटसंज्ञः कलशरूपः कलशाकारः। अष्टहस्तो
विस्तीर्णः। विष्कम्भात् षोडशहस्तास्तस्यौच्च्यम्। एकभूमिकश्च सर्व एकशृङ्गाः। तथा
च काश्यपः—
वृषो द्वादशहस्तस्तु समवृत्तैकभूमिकः।
शृङ्गेणैकेन संयुक्तः प्रासादः परिकीर्तितः॥
हंसो हंसाकृतिर्ज्ञेयो हस्तो द्वादश विस्तृतः।
एकभूमिकया युक्तः पक्षपुच्छाद्यलंकृतः॥
घटः कलशरूपस्तु विस्तीर्णोऽष्टकरः स्मृतः॥ इति॥२६॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

प्रासादलक्षणाध्यायः १३१
अधुना सर्वतोभद्रस्य लक्षणमाह—
द्वारैर्युतश्चतुर्भिर्बहुशिखरो भवति सर्वतोभद्रः ।
बहुरुचिरचन्द्रशालः षड्विंशः पञ्चभौमश्च ॥२७॥
‘सर्वतोभद्र’ नामक प्रासाद चारो दिशाओं में चार द्वारों से युत, अनेक शिखरों से
शोभित, अनेक संख्यक सुन्दर चन्द्रशालाओं से शोभित, छब्बीस हाथ विस्तार वाला,
चतुष्कोण और पाँच भूमियों से युत होता है ॥२७॥
सर्वतोभद्रसंज्ञः प्रासादश्चतुर्भिर्द्वारैर्युक्तः । चतसृष्वपि दिक्षु तस्मिन् द्वाराणि भवन्तीत्यर्थः ।
बहुशिखरो भवति, बहूनि प्रभूतानि तस्मिन् शिखराणि भवन्ति । बहुरुचिरचन्द्रशालः,
बह्वीभिः प्रभूताभी रुचिराभिः सुशोभनाभिश्चन्द्रशालाभिर्युक्तः । षड्विंशः, षड्विंशतिर्हस्ता
विस्तीर्णः । विष्कम्भाद् द्विगुणेन द्वापञ्चाशद्धस्तास्तस्यौच्च्यम् । पञ्चभौमः पञ्चभिर्भूमिकाभिर्युक्तः ।
चतुरस्रः। तथा च काश्यपः—
शिखरैर्बहुभिर्युक्तश्चतुर्द्वारविभूषितः ।
रुचिरैश्चन्द्रशालैश्च बहुभिः परिवारितः ।।
चतुरस्रः पञ्चभौमः षड्विंशद्धस्तविस्तृतः ।
सर्वतोभद्र इत्युक्तः प्रासादो दशपञ्चमः ।। इति ।।२७।।
अथ सिंहवृत्तचतुष्कोणषोडशाश्र्यष्टाश्रीणां लक्षणमाह—
सिंहः सिंहाक्रान्तो द्वादशकोणोऽष्टहस्तविस्तीर्णः ।
चत्वारोऽञ्जनरूपाः पञ्चाण्डयुतस्तु चतुरस्रः ॥२८॥
‘सिंह’ नामक प्रासाद सिंह की प्रतिमाओं से शोभित, द्वादशास्र और आठ हाथ
विस्तार वाला होता है। शेष चार प्रासाद ( वृत्त, चतुष्कोण, षोडशाश्रि और अष्टाश्रि )
अपने नाम के समान ही आकार वाले और काले होते हैं अर्थात् इनके अन्दर अन्धकार
रहता है ॥२८॥
सिंहः सिंहाक्रान्तः सिंहलङ्कृतः । द्वादशकोणो द्वादशाश्रिः । अष्टहस्तो विस्तीर्णः ।
अन्ये चत्वारः सर्व एव वृत्तचतुष्कोणषोडशाष्टाश्रयः संज्ञासदृशाकृतयः । वृत्तः परिवर्तुलः ।
चतुष्कोणश्चतुरस्रः । षोडशाश्रिः षोडशकोणः । अष्टाश्रिरष्टकोणः । एते अञ्जनरूपा अव्यक्तरूपाः
सान्धकारा इत्यर्थः । बाह्यप्राकाश्यं तेषु न प्रविशत्ययमर्थः । देवप्रासादस्य सन्निकृष्टाश्चतसृ-
ष्वपि दिक्षु भित्तीः कृत्वा प्रासादस्य पश्चिमभागे द्वारं कार्यम् । ताश्च भित्तय ऊर्ध्वभागे तथा
छेदनीया यथा प्रासादोत्पन्ना एव लक्ष्यन्ते, न पृथक्स्थाः । तत्र बहिर्द्वारात् प्रविश्य प्रासादस्य
वामभागेनागत्य पुरतः प्रासादस्य द्वारं कार्यम् । तत्र मणिमयी प्रतिमा तत्कान्त्या यत्र प्राकाश्य-
मुत्पद्यते। एते सर्व एवैकभूमिकाः कार्या एकाण्डाश्च । चतुरस्रः पुनः पञ्चाण्डयुतः कार्यः ।
पञ्चभिरण्डैः संयुक्तः । तथा च काश्यपः—
सिंहः सिंहसमाक्रान्तः कोणैर्द्वादशभिर्युतः ।
विष्कम्भादष्टहस्तः स्यादेका तस्य च भूमिका ।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

१३२ बृहत्संहिता
वृत्तो वृत्ताकृतिः कार्याः संज्ञातुल्यास्तथापरे।
सान्धकारास्तु सर्वे ते भूमिकैकाः समावृताः।।
एकाण्डरूपिता सर्वे पञ्चभिश्चतुरस्रकः।। इति।।२८।।
अथ मयविश्वकर्मणोर्मतेन भूमिकाप्रमाणमाह—
भूमिकाङ्गुलमानेन मयस्याष्टोत्तरं शतम्।
सार्द्धं हस्तत्रयं चैव कथितं विश्वकर्मणा ॥२९॥
एक भूमि का प्रमाण मय के मतानुसार एक सौ आठ अंगुल और विश्वकर्मा के
मतानुसार साढ़े तीन हाथ कहा गया है॥२९॥
मयस्य मतेनाष्टोत्तरशतमङ्गुलानां मानेन भूमिका भवति। तथा च मयः—
प्रासादभूमिकामानं शतमष्टोत्तरं स्मृतम्।
...........................................................अङ्गुलानाम्।। इति।
विश्वकर्मणा सार्ध हस्तत्रयं भूमिकामानं कथितमुक्तम्। चतुरशीत्यङ्गुलानीत्यर्थः। तथा
च विश्वकर्मा—
चतुर्भिरधिकाशीतिरङ्गुलानां तु भूमिका।। इति।।२९।।
अत्रापि परमतेनैकवाक्यतां दर्शयितुमाह—
प्राहुः स्थपतयश्चात्र मतमेकं विपश्चितः।
कपोतपालिसंयुक्ता न्यूना गच्छन्ति तुल्यताम् ॥३०॥
बुद्धिमान् कारीगर मय और विश्वकर्मा—इन दोनों के मतों को एक ही कहते हैं।
उनका कहना है कि विश्वकर्मा ने भूमि का प्रमाण कपोतपालिका को छोड़कर कहा है;
अतः उसमें कपोतपालिका के प्रमाण चौबीस अंगुल जोड़ देने से मय के प्रमाणतुल्य ही
विश्वकर्मा की भी भूमि का प्रमाण हो जाता है॥३०॥
अत्रास्मिन्नर्थे विपश्चितः पण्डिताः स्थपतयो वार्धकिनः प्रतिष्ठातन्त्रज्ञा मयविश्वकर्मणो-
रेकमतं प्राहुरुक्तवन्तः। विश्वकर्मणो मतेन या न्यूनाः प्रमाणहीना भूमयस्ताः कपोतपालिसंयुक्ता
मयमतेन तुल्यतां गच्छन्ति समत्वं यान्ति। कपोतपालिग्रहणेन बहिर्निर्गतानि सिंहमुखानि
काष्ठान्युच्यन्ते। तथा चोक्तम्—
कपोतपालिं ब्रुवते विटङ्कं च बहुश्रुताः।
तथा च तन्त्रान्तरे पठ्यते—
कपोतपालिरहितं मानं चतुरशीतिकम्।
भूमिकानां सह तया शतमष्टोत्तरं स्मृतम्।।
अङ्गुलानामतः साम्यं भूमिकासु प्रकीर्तितम्।
एवं तुल्यता भवतीति॥३०॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

प्रासादलक्षणाध्यायः १३३
अथोपसंहारार्थमाह—
प्रासादलक्षणमिदं कथितं समासाद्
गर्गेण यद्विरचितं तदिहास्ति सर्वम्।
मन्वादिभिर्विरचितानि पृथूनि यानि
तत्संस्पृशन् प्रति मयात्र कृतोऽधिकारः ॥३१॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां प्रासादलक्षणं
नाम षट्पञ्चाशत्तमोऽध्यायः ॥५६॥
मैंने संक्षेप से यह प्रासादों का लक्षण कहा है; किन्तु गर्ग मुनि ने इस प्रकरण में जो
कुछ कहा है, वे सभी विषय इसमें समाहित हैं। साथ ही मनु आदि ( वसिष्ठ, मय और
नग्नजित् ) आचार्यों ने जो विस्तारपूर्वक कहे हैं, उनकी स्मृति के लिये मैंने यह अधिकार
बनाया है॥३१॥
इति 'विमला' हिन्दीटीकायां प्रासादलक्षणाध्यायः षट्पञ्चाशत्तमः ॥५६॥
इदं मया प्रासादलक्षणं समासात् संक्षेपात् कथितमुक्तम्। गर्गेण मुनिना विरचितं
कृतं तत्सर्वं निरवशेषमिहास्मिन्नस्ति विद्यते। यानि च पृथूनि विस्तीर्णानि मन्वादिभिर्मनुवसिष्ठ-
मयनग्नजिद्भिर्विरचितानि कृतानि प्रासादलक्षणानि तानि प्रति मया द्वारमानाष्टभागोनेत्यादि-
लक्षणलक्षितानि संस्पृशन्नत्राधिकारः कृतः। प्रासादलक्षणं कृतमित्यर्थः। अथवा तत्सं-
स्पृशंस्तानि सर्वाणि लक्षणानि प्रतिसंस्पृशन् परामृशन् मयाधिकारः कृत इति॥३१॥
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ प्रासादलक्षणं नाम
षट्पञ्चाशत्तमोऽध्यायः ॥५६॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

अथ वज्रलेपलक्षणाध्यायः
अथ वज्रलेपलक्षणं व्याख्यायते। तत्रादावेव वज्रलेपमाह—
आमं तिन्दुकमामं कपित्थकं पुष्पमपि च शाल्मल्याः ।
बीजानि शल्लकीनां धन्वनवल्को वचा चेति ॥१॥
एतैः सलिलद्रोणः क्वाथयितव्योऽष्टभागशेषश्च ।
अवतार्योऽस्य च कल्को द्रव्यैरेतैः समनुयोज्यः ॥२॥
श्रीवासकरसगुग्गुलुभल्लातककुन्दुरूकसर्जरसैः ।
अतसीबिल्वैश्च युतः कल्कोऽयं वज्रलेपाख्यः ॥३॥
तेन्दू के कच्चे फल, कैथ के कच्चे फल, सेमल के फूल, शल्लकी ( सालई )
वृक्ष के बीज, धन्वन वृक्ष की छाल और वच—इन सबको एक द्रोणतुल्य जल में
मिलाकर काढ़ा बनाते हुये जब अष्टमांश शेष रह जाय तब उसको उतार ले। बाद में
उसमें श्रीवासक ( सरल ) वृक्ष का गोंद, बोल, गूगल, भिलावा, कुन्दरूक ( देवदारु
वृक्ष का गोंद ), सर्ज ( सखुआ ) का गोंद, अलसी, बेल की गिरी—इन सबको पीसकर
मिला देने पर ‘वज्रलेप’ नामक काढा बन जाता है।।१-३।।
तिन्दुकं तिन्दुकफलम्। आममपक्वम्। कपित्थकं कपित्थफलमाममेव। शाल्मल्याः
शाल्मलिवृक्षस्य च पुष्पम्। शल्लकीनां शल्लकीवृक्षाणां बीजानि। धन्वनवल्को धन्वन-
वृक्षस्य वल्कस्त्वक्। वचा च। इत्येवंप्रकारः।
एतैर्द्रव्यैः सह सलिलद्रोणः क्वाथयितव्यः। द्रोणः पलशतद्वयं षट्पञ्चाशदधिकम्।
यावदष्टभागावशेषो भवति द्वात्रिंशत् पलानि अवशिष्यन्त इत्यर्थः। ततोऽष्टभागावशेषोऽव-
तार्योऽवतारणीयो ग्राह्य इत्यर्थः। अस्य चाष्टभागशेषस्यैतद्द्रव्यैर्वक्ष्यमाणैः कल्कश्चूर्णः
समनुयोज्यो विधातव्यः। तच्चूर्णसंयुक्तः कार्य इत्यर्थः।
कैरित्याह—श्रीवासकेति। श्रीवासकः प्रसिद्धो वृक्षनिर्यासः। रसो बोलः। गुग्गुलुः
प्रसिद्धः। भल्लातकः प्रसिद्ध एव। कुन्दुरूको देवदारुवृक्षनिर्यासः। सर्जरसः सर्जरसकवृक्ष-
निर्यासः—एतैः तथा अतसी प्रसिद्धा, बिल्वं श्रीफलम्—एतैश्च युतः समवेतः। अयं कल्को
वज्रलेपाख्यः, वज्रलेपेत्याख्या नाम यस्य।।१-३।।
अथास्य गुणानाह—
प्रासादहर्म्यवलभीलिङ्गप्रतिमासु कुड्यकूपेषु।
सन्तप्तो दातव्यो वर्षसहस्रायुतस्थायी ॥४॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

वज्रलेपलक्षणाध्यायः १३५
गरम किये हुये वज्रलेप को देवप्रासाद, हवेली, वलभी, शिवलिङ्ग, देवप्रतिमा,
भीत और कूप में यदि लगाया जाय तो यह एक करोड़ वर्ष तक नहीं छूटता है।।४।।
प्रासादो देवप्रासादः। हर्म्यम्, वलभी वातायनम्, लिङ्गं शिवलिङ्गम्, प्रतिमार्चा। एतासु
तथा कुड्येषु भित्तिषु। कूपेषूदकोद्वारेषु। सन्तप्तोऽत्युष्णो दातव्यो देयः। वर्षसहस्रायुतस्थायी
भवति, वर्षाणां सहस्रायुतं वर्षकोटिं तिष्ठतीत्यर्थः।।४।।
अथान्यद्वज्रलेपमाह—
लाक्षाकुन्दुरुगुग्गुलुगृहधूमकपित्थबिल्वमध्यानि ।
नागफलनिम्बतिन्दुकमदनफलमधूकमञ्जिष्ठाः ॥५॥
सर्जरसरसामलकानि चेति कल्कः कृतो द्वितीयोऽयम् ।
वज्राख्यः प्रथमगुणैरयमपि तेष्वेव कार्येषु ॥६॥
पूर्व से सिद्ध किये गये क्वाथ में लाख, कुन्दरूक ( देवदारु वृक्ष का गोंद ),
गूगल, घर के धुयें का जाला, कैथ का फल, बेल की गिरी, नागबला का फल, महुये
का फल, मञ्जीठ, राल, बोल, आँवला—इन सबको पीस कर डाले तो प्रथम वज्रलेप के
गुणों से युत पूर्वोक्त कामों के लिये ही एक दूसरा वज्रलेप तैयार हो जाता है।।५-६।।
लाक्षा प्रसिद्धा वृक्षनिर्यासः। कुन्दुरुर्देवदारुवृक्षनिर्यासः। गुग्गुलुः प्रसिद्धः। गृहधूमो-
ऽगारधूमः श्यामेति प्रसिद्धः। कपित्थः कपित्थवृक्षफलम्। बिल्वमध्यम् एतानि, तथा नाग-
फलम्। निम्बः प्रसिद्धः। तिन्दुकं तिन्दुकफलम्। केचिन्नागबलाफलतिन्दुकमदनफलेति
पठन्ति। नागबलाफलं तिन्दुकफलं मदनफलं मधूकफलं मञ्जिष्ठा प्रसिद्धा।
सर्जरसः सर्जवृक्षनिर्यासः, रसो बोलः, आमलकं धात्रीफलम्—एतानि च। इत्येवं प्रकारो
द्वितीयः कल्कः कृतो वज्राख्यो वज्रलेपसंज्ञः। प्रथमगुणैः पूर्वोक्तैर्गुणैरेतैः सलिलद्रोणः
क्वाथयितव्योऽष्टभागशेषश्चेति, तथा सन्तप्तो दातव्य इति। अयमपि वज्रलेपस्तेष्वेव प्रागुक्तेषु
कार्येषु प्रासादादिषु। स च वर्षसहस्रायुतं स्थायी भवति।।५-६।।
अन्यदप्याह—
गोमहिषाजविषाणैः खररोम्णा महिषचर्मगव्यैश्च ।
निम्बकपित्थरसैः सह वज्रतलो नाम कल्कोऽन्यः ॥७॥
पूर्व में सिद्ध किये हुये काढ़े में गौ, भैंस, बकरा—इनका सींग; गदहे का बाल,
भैंस का चमड़ा, गव्य ( गोबर ), नीम का फल, कैथ का फल, बोल—इन सबको पीसकर
मिलाने पर पूर्वकथित गुणों से युत पूर्वोक्त कार्यों के लिये ही तीसरा लेप सिद्ध हो जाता
है, इसका नाम ‘वज्रतल’ कहा गया है।।७।।
गोमहिषौ प्रसिद्धौ, अजश्छागः, एषां सर्वेषां विषाणानि शृङ्गाणि तैः, तथा खररोम्णा
गर्दभरोमभिः। महिषचर्मणा गव्यैश्च निम्बकपित्थरसैः सह निम्बः कपित्थफलम्। रसो बोलः।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA