सामग्री पर जाएँ
सर्वकोश
बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 2 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished760 पृष्ठ

पृष्ठ 127, कुल 760 में से

संदर्भ में पढ़ें
पृष्ठ 127

दकार्गलाध्यायः ९९
अन्यदप्याह—
वल्मीकानां पङ्क्त्यां यद्येकोऽभ्युच्छ्रितः शिरा तदधः।
शुष्यति न रोहते वा सस्यं यस्यां च तत्राम्भः ॥९५॥
जहाँ बहुत वल्मीकों में एक वल्मीक सबसे ऊँचा हो, वहाँ उस ऊँचे वल्मीक के
नीचे चार पुरुषप्रमाण खोदने पर जल मिलता है अथवा जिस खेत में धान्य जम कर
सूख जाय या जमे ही नहीं, वहाँ चार पुरुषप्रमाण नीचे जल कहना चाहिये।।९५।।
वल्मीकानां पंक्त्यां स्थितानां मध्याद् यद्येको वल्मीकोऽभ्युच्छ्रित उच्चतरो भवति,
तदा तदधस्तयोच्छ्रितस्य वल्मीकस्याधस्तले चतुर्भिर्हस्तैः शिरा जलं भवति। यस्यां
भूमौ जातं सस्यं शुष्यति शोषं प्राप्नोति, उप्तं वा न रोहते न जायते, तस्यां भूमौ चतुर्भि-
र्हस्तैरधो जलं भवति। एतज्जाङ्गलानूपयोः। तथा च सारस्वतः—
वल्मीकपक्त्यां यद्येकोऽभ्युच्छ्रितस्तदधो जलम्।
न रोहते शुष्यते वा यत्र सस्यं चतुष्करात्।।
जलं तत्रैव निर्देश्यं भूमौ निःसंशयं तदा।। इति।।९५।।
अन्यदप्याह—
न्यग्रोधपलाशोदुम्बरैः समेतैस्त्रिभिर्जलं तदधः।
वटपिप्पलसमवाये तद्वद्वाच्यं शिरा चोदक् ॥९६॥
जहाँ बड़, पीपल, गूलर—ये तीनों वृक्ष इकट्ठे हों तथा जहाँ बड़, पीपल—ये दोनों
वृक्ष एक साथ अवस्थित हों, वहाँ इन वृक्षों के नीचे तीन हाथ खोदने पर जल और
उत्तर शिरा मिलती है।।९६।।
न्यग्रोधपलाशोदुम्बरैः समेतैस्त्रिभिर्जलं तदधः। वटपलाशोदुम्बरैस्त्रिभिर्वृक्षैः समेतैरेकत्र
संयुक्तैस्तदधस्तेषामेवाधस्त्रिभिर्हस्तैर्जलं भवति, शिरा च तत्रोदगुत्तरा भवति। तथा वटपिप्पल-
समवाये वटपिप्पलयोगे तद्वत् तेनैव प्रकारेणाधो जलं वाच्यम्, त्रिभिः करैः शिरा चोद-
गिति। तथा च सारस्वतः—
पलाशोदुम्बरौ यत्र स्यातां न्यग्रोधसंयुतौ।
वटपिप्पलको वाऽथ समेतौ तदधो जलम्।।
करैस्त्रिभिरुदक् चाम्भः शिरां शुभजलां वदेत्।। इति।।९६।।
अथ कूपलक्षणमाह—
आग्नेये यदि कोणे ग्रामस्य पुरस्य वा भवेत् कूपः।
नित्यं स करोति भयं दाहं च समानुषं प्रायः ॥९७॥
नैर्ऋतकोणे बालक्षयं च वनिताभयं च वायव्ये।
दिक्तत्रयमेतन्त्यक्त्वा शेषासु शुभावहाः कूपाः ॥९८॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA