सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 2 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished760 पृष्ठ

दकार्गलाध्यायः ८७
तृणरहित प्रदेश में कोई एक स्थान तृणयुत दिखाई दे अथवा तृणयुत प्रदेश में कोई
एक स्थान तृणरहित दिखाई दे तो उस स्थान पर साढ़े चार पुरुष नीचे शिरा अथवा धन
होता है।।५२।।
अतृण इति । यस्मिन् स्थाने अतृणे तृणवर्जिते सतृणा तृणसंयुता मही भूर्दृश्यते,
तथा यस्मिन् देशे सतृणे मही तृणवर्जिता भवति, तस्मिन् स्थाने अधःशिरा प्रदिष्टा।
अतो जलं भवतीत्यर्थः। धनं वित्तं वा वक्तव्यम्। तस्मिन् स्थाने सार्धैश्चतुर्भिर्नरैरिति केचिद्-
नुवृत्तिमिच्छन्ति।।५२।।
अन्यदप्याह—
कण्टक्यकण्टकानां व्यत्यासेऽम्भस्त्रिभिः करैः पश्चात् ।
खात्वा पुरुषत्रितयं त्रिभागयुक्तं धनं वा स्यात् ॥५३॥
जहाँ काँटे वाले वृक्षों में एक विना काँटे वाला अथवा विना काँटे वाले वृक्षों में
एक काँटे वाला वृक्ष हो, वहाँ उस वृक्ष से तीन हाथ आगे पश्चिम दिशा में एक तिहाई
युत तीन पुरुष नीचे जल या धन होता है।।५३।।
यत्र कण्टकिवृक्षः खदिरादिकः, अकण्टकानां पलासादीनां मध्ये भवति, व्यत्यासे
वा सकण्टकानां मध्ये अकण्टको भवति, तदा तस्माद्वृक्षात् पश्चात् पश्चिमायां दिशि
त्रिभिः करैस्त्रिभिर्हस्तैः परतः पुरुषत्रितयं त्रिभागयुक्तं खात्वा ततोऽधोऽम्भो जलं भवति,
धनं वित्तं वा स्याद् भवेत्।।५३।।
अन्यदप्याह—
नदति मही गम्भीरं यस्मिंश्चरणाहता जलं तस्मिन् ।
सार्धैस्त्रिभिर्मनुष्यैः कौबेरी तत्र च शिरा स्यात् ॥५४॥
जहाँ पाँव से ताड़न करने पर गम्भीर शब्द हो, वहाँ तीन पुरुष नीचे जल और उत्तर
शिरा होती है।।५४।।
यस्मिन् स्थाने मही भूश्चरणाहता पादताडिता गम्भीरं मधुरं नदति शब्दं करोति,
तस्मिन्नेव स्थाने सार्धैस्त्रिभिर्मनुष्यैः कौबेरी उत्तरा च शिरा तत्र स्याद् भवेत्। जलं तत्र
भविष्यतीत्यर्थः।।५४।।
अन्यदप्याह—
वृक्षस्यैका शाखा यदि विनता भवति पाण्डुरा वा स्यात् ।
विज्ञातव्यं शाखातले जलं त्रिपुरुषं खात्वा ॥५५॥
वृक्ष की एक शाखा नीचे की ओर झुकी हो या पीली पड़ गई हो तो उस शाखा के
नीचे तीन पुरुषसमान खोदने पर जल मिलता है।।५५।।"
यदि वृक्षस्य तरोरेका शाखा विनता नम्रा भवति, पाण्डुरा विवर्णा स्याद् भवेत्,
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

८८ बृहत्संहिता
तत्र च तस्यां शाखायामेव तले अधस्त्रिपुरुषं पुरुषत्रयं खात्वा अधो जलमुदकं विज्ञातव्यं
ज्ञेयमिति।।५५।।
अन्यदप्याह—
फलकुसुमविकारो यस्य तस्य पूर्वे शिरा त्रिभिर्हस्तैः ।
भवति पुरुषैश्चतुर्भिः पाषाणोऽधः क्षितिः पीता ।।५६।।
जिस वृक्ष के फल-पुष्पों में विकार उत्पन्न हो, उस वृक्ष से तीन हाथ पर पूर्व दिशा
में चार पुरुष नीचे शिरा होती है तथा नीचे पत्थर और पीली भूमि मिलती है।।५६।।
यस्य वृक्षस्य फलानां कुसुमानां पुष्पाणां च विकारो विकृतिरन्यसदृशत्वं तस्य
वृक्षस्य पूर्वे पूर्वस्यां दिशि त्रिभिर्हस्तैः परतश्चतुर्भिः पुरुषैरधः शिरा भवति, तथा चाधः
पाषाणोऽश्मा क्षितिर्भूः पीता भवति।।५६।।
अन्यदप्याह—
यदि कण्टकारिका कण्टकैर्विना दृश्यते सितैः कुसुमैः ।
तस्यास्तलेऽम्बु वाच्यं त्रिभिनरैरर्धपुरुषे च ।।५७।।
जहाँ कांटों से रहित और सफेद पुष्पों से युत कटेरी का वृक्ष दिखाई दे, उस वृक्ष
के नीचे साढ़े तीन पुरुष खोदने पर जल निकलता है।।५७।।
यदि कण्टकारिका निदिग्धिका कण्टकैर्विना कण्टकवर्जिता भवति सा च सितैः
श्वेतैः कुसुमैः पुष्पैस्तदा तस्याः कण्टकारिकायास्तले अधस्त्रिभिर्नरैरर्धपुरुषे च सार्धैस्त्रि-
भिर्नरैरम्बु जलं वाच्यं वक्तव्यमिति।।५७।।
अन्यदप्याह—
खर्जूरी द्विशिरस्का यत्र भवेज्जलविवर्जिते देशे ।
तस्याः पश्चिमभागे निर्देश्यं त्रिपुरुषैर्वारि ।।५८।।
जिस जलरहित देश में दो शिर वाले खजूर का पेड़ हो, वहाँ उस वृक्ष से दो हाथ
पश्चिम दिशा में तीन पुरुष नीचे जल कहना चाहिये।।५८।।
यत्र यस्मिन् देशे जलविवर्जिते द्विशिरस्का द्विशीर्षा खर्जूरी भवेत् स्यात्। तस्याः
खर्जूर्याः पश्चिमभागे पश्चिमाया दिशि हस्तद्वयात् परतस्त्रिपुरुषैस्त्रिभिर्नरैः खातैरधो वारि जलं
वक्तव्यम्। तथा च सारस्वतः—
खर्जूरी द्विशिरस्का स्यान्निर्जले चेत् करद्वये।
निर्देश्यं पश्चिमे वारि खात्वाऽधः पुरुषत्रयम्।। इति।।५८।।
अन्यदप्याह—
यदि भवति कर्णिकारः सितकुसुमः स्यात्पलाशवृक्षो वा ।
सव्येन तत्र हस्तद्वयेऽम्बु पुरुषद्वये भवति ।।५९।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

दकार्गलाध्यायः ८९
यदि सफेद पुष्प वाला कर्णिकार ( कठचम्पा ) या ढाक का वृक्ष हो तो उस वृक्ष
से दो हाथ दक्षिण दिशा में दो पुरुष नीचे जल होता है।।५९।।
कर्णिकारः कर्णिकारवृक्षो यदि सितकुसुमः स्यात् श्वेतपुष्पो भवेत्, अथवा पलाशवृक्षः
सितकुसुमः स्यात्, तत्र तस्मिन् स्थाने सव्येन दक्षिणेन कर्णिकारपलाशयोर्हस्तद्वये परतोऽधः
पुरुषद्वये नरयुगले अम्बु जलं भवति।।५९।।
अन्यदप्याह—
यस्यामूष्मा धात्र्यां धूमो वा तत्र वारि नरयुगले ।
निर्देष्टव्या च शिरा महता तोयप्रवाहेण ।।६०।।
जिस स्थान से भाप या धूँआ निकलता हुआ दिखाई दे, वहाँ दो पुरुष नीचे बहुत
जल बहने वाली शिरा कहनी चाहिये।।६०।।
यस्यां धात्र्यां यत्र भूमौ ऊष्मा दृश्यते, धूमो वा यत्र दृश्यते, तत्र तस्यां नरयुगले
पुरुषद्वये, अधो महता तोयप्रवाहेण बहूदकयुक्ता शिरा निर्देष्टव्या वक्तव्या।।६०।।
अन्यदप्याह—
यस्मिन् क्षेत्रोद्देशे जातं सस्यं विनाशमुपयाति ।
स्निग्धमतिपाण्डुरं वा महाशिरा नरयुगे तत्र ।।६१।।
जिस खेत में धान्य उत्पन्न होकर नष्ट हो जाय, बहुत निर्मल धान्य हो या उत्पन्न
होकर पीला पड़ जाय, वहाँ दो पुरुष नीचे बहुत जल बहने वाली शिरा होती है।।६१।।
यस्मिन् यत्र क्षेत्रोद्देशे क्षेत्रस्थाने जातमुत्पन्नं सस्यं विनाशमुपयाति गच्छति। अथवा
तत्रैव क्षेत्राद्देशे स्निग्धं सस्यमतीव भवति। अतिपाण्डुरं वाऽतिपीतवर्णं वा भवति। तत्र
तस्मिन् क्षेत्रे तस्मिन्नेव स्थाने नरयुगे पुरुषद्वये अधो महाशिरा भवति, महाजलं तत्र वहती-
त्यर्थः।।६१।।
एवं जाङ्गलाानूपभूम्योर्जलपरिज्ञानमभिधाय अधुना मरुभूमौ शिराविज्ञानं कथयामीत्याह—
मरुदेशे भवति शिरा यथा तथातः परं प्रवक्ष्यामि ।
ग्रीवा करभाणामिव भूतलसंस्थाः शिरा यान्ति ।।६२।।
अब मरु देश में जिस प्रकार की शिरा होती है, उसको कहते हैं। जैसे—ऊँट की
गर्दन की तरह भूमि में ऊँची-नीची शिरा होती है।।६२।।
जलवर्जितो भूभागो मरुप्रदेशः। मरुदेशे मरुभूमौ यथा येन प्रकारेण शिरा भवति,
तथा तेन प्रकारेण अतोऽस्मात्परं प्रवक्ष्यामि कथयामि। करभाणामुष्ट्राणामिव यथा ग्रीवा
येन प्रकारेण कन्धरा कुटिला, तथा तेनैव प्रकारेण शिरा भूतलसंस्था यान्ति गच्छन्ति,
अतिनिम्ना भवन्तीत्यर्थः।।६२।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

९० बृहत्संहिता
तत्राह—
पूर्वोत्तरेण पीलोर्यदि वल्मीको जलं भवति पश्चात्।
उत्तरगमना च शिरा विज्ञेया पञ्चभिः पुरुषैः ॥६३॥
चिह्नं दर्दुर आदौ मृत् कपिला तत्परं भवेद्धरिता ।
भवति च पुरुषेऽधोऽश्मा तस्य तलेऽम्भो विनिर्दिश्यम् ॥६४॥
यदि पीलु (पिलुआ = 'पीलौ गुडफलः स्रंसी'त्यमरः ) वृक्ष के ईशान कोण में
वल्मीक हो तो उस वृक्ष से साढ़े चार हाथ पश्चिम दिशा में पाँच पुरुष नीचे उत्तर बहने
वाली शिरा होती है। यहाँ खोदने के समय एक पुरुष नीचे मेढ़क, उसके नीचे पीली
तथा हरी मिट्टी, उसके नीचे पत्थर और उसके नीचे जल कहना चाहिये॥६३-६४॥
पूर्वोत्तरेणेति। यदि पीलोः पीलुवृक्षस्य पूर्वोत्तरेणैशान्यां दिशि वल्मीको वल्मीककृतो
मृत्स्तूपो भवति, तदा पीलोरेव वृक्षात् पश्चिमायां दिशि सार्धैश्चतुर्भिर्हस्तैः परतः पञ्चभिः
पुरुषैरधो जलं भवति। तत्र चोत्तरगमना, उत्तरस्यां दिशि या गच्छति, सोत्तरगमना। शिरा
विज्ञेया ज्ञातव्या।
चिह्नमिति। आदौ प्रथमे पुरुषे खाते दर्दुरो मण्डूकश्चिह्नम्, ततो मृत् कपिला,
तत्परं तदनन्तरं हरिता मृत्स्ना भवति। अधः सर्वचिह्नानां तले अश्मा पाषाणो भवति।
तस्याश्मनस्तले अधोऽम्भो जलं विनिर्दिश्यं वक्तव्यम्। तथा च सारस्वतः—
ऐशान्यां पीलुवृक्षस्य वल्मीकश्चेज्जलं वदेत्।
चतुर्भिः सरलैर्हस्तैः पश्चिमे नरपञ्चमे।।
प्रथमे पुरुषे भेकः कपिला हरिता च मृत्।
पाषाणस्य तले सौम्यां शिरां बहुजलां वदेत्।।६३-६४।।
अन्यदप्याह—
पीलोरेव प्राच्यां वल्मीकोऽतोऽर्धपञ्चमैर्हस्तैः ।
दिशि याम्यायां तोयं वक्तव्यं सप्तभिः पुरुषैः ॥६५॥
प्रथमे पुरुषे भुजगः सितासितो हस्तमात्रमूर्त्तिश्च ।
दक्षिणतो वहति शिरा सक्षारं भूरि पानीयम् ॥६६॥
पीलु वृक्ष की पूर्व दिशा में वल्मीक हो तो उस वृक्ष से साढ़े चार हाथ दक्षिण दिशा
में सात पुरुषप्रमाण नीचे जल कहना चाहिये। यहाँ खोदने पर एक पुरुषप्रमाण नीचे एक
हाथ लम्बा चितकबरा सर्प और उसके नीचे बहुत खारा जल बहने वाली दक्षिण शिरा
निकलती है॥६५-६६॥
पीलोरेव पीलुवृक्षस्य प्राच्यां पूर्वस्यां दिशि यदि वल्मीको दृश्यते, ततस्तस्मादेव
पीलुवृक्षाद् याम्यायां दक्षिणस्यां दिशि अर्धपञ्चमैः सार्धचतुर्भिर्हस्तैः परतोऽधः सप्तभिः
पुरुषैस्तोयं जलं वाच्यम्।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

दकार्गलाध्यायः ९१
प्रथम इति । अत्र चिह्नानि—प्रथमे पुरुषे खाते सितासितः श्वेतकृष्णवर्णो हस्तमात्र-
मूर्तिर्हस्तप्रमाणो भुजगः सर्पो दृश्यते। मूर्तिशब्देनाकार उच्यते। दक्षिणतो दक्षिणस्यां दिशि
शिरा भूरि बहु सक्षारं पानीयं जलं वहति ।।६५-६६।।
अन्यदप्याह—
उत्तरतश्च करीरस्याहिगृहं दक्षिणे जलं स्वादु ।
दशभिः पुरुषैर्ज्ञेयं पुरुषे पीतोऽत्र मण्डूकः ॥६७॥
करीर ( करील ) वृक्ष के उत्तर दिशा में वल्मीक हो तो उस वृक्ष से साढ़े चार
हाथ पर दक्षिण दिशा में दस पुरुष नीचे मधुर जल जानना चाहिये। यहाँ पर एक पुरुष
नीचे पीला मेढ़क दिखाई देता है।।६७।।
करीरस्य करीरवृक्षस्य उत्तरत उत्तरस्यां दिशि यद्यहिगृहं वल्मीको दृश्यते, तदा
करीरस्य दक्षिणे दक्षिणस्यां दिशि सार्धैश्चतुर्भिर्हस्तैः परतोऽधो दशभिः पुरुषैरधः स्वादु मृष्टं
जलं ज्ञेयम्। अत्र प्रथमे पुरुषे खाते पीतः पीतवर्णो मण्डूको दृश्यते। तथा च सारस्वतः—
उदक्करीराद्वल्मीको दृश्यते चेज्जलं वदेत् ।
चतुर्भिर्दक्षिणैर्हस्तैः सार्धैर्दशनरादतः ।।
नरे भेकः पीतवर्णो दृश्यते चिह्नमत्र हि।। इति।।६७।।
अन्यदप्याह—
रोहीतकस्य पश्चादहिवासश्चेत्रिभिः करैर्याम्ये ।
द्वादश पुरुषान् खात्वा सक्षारा पश्चिमेन शिरा ॥६८॥
रोहीतक ( लाल करञ्ज ) वृक्ष के पश्चिम में वल्मीक हो तो उस वृक्ष से तीन हाथ
आगे दक्षिण दिशा में बारह पुरुषप्रमाण नीचे खारे जल वाली पश्चिमवाहिनी शिरा निकलती
है।।६८।।
रोहीतकस्य वृक्षस्य पश्चात् पश्चिमायां दिशि यद्यहिवासो वल्मीको दृश्यते, तदा
रोहीतकस्य याम्ये दक्षिणस्यां दिशि त्रिभिः करैस्त्रिभिर्हस्तैः परतो द्वादश पुरुषान् खात्वा
अधस्तले शिरा सक्षारा पश्चिमेन वहति।।६८।।
अन्यदप्याह—
इन्द्रतरोर्वल्मीकः प्राग्दृश्यः पश्चिमे शिरा हस्ते ।
खात्वा चतुर्दश नरान् कपिला गोधा नरे प्रथमे ॥६९॥
यदि अर्जुन वृक्ष के पूर्व में वल्मीक दिखाई दे तो उस वृक्ष से एक हाथ पर पश्चिम
दिशा में चौदह पुरुषप्रमाण नीचे शिरा निकलती है और एक पुरुषप्रमाण नीचे पीला गोह
दिखाई देता है।।६९।।
इन्द्रतरोरिन्द्रवृक्षस्य प्राक् पूर्वस्यां दिशि यदि वल्मीको दृश्यते, तदा तस्येन्द्रतरोः
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

९२ बृहत्संहिता
पश्चिमे पश्चिमायां दिशि हस्ते त्यक्ते चतुर्दश नरान् पुरुषान् खात्वा शिरा अधस्तले वहति।
प्रथमे नरे कपिला कपिलवर्णा गोधा प्राणिविशेषो दृश्यते।।६९।।
अन्यदप्याह—
यदि वा सुवर्णनाम्नस्तरोर्भवेद्वामतो भुजङ्गगृहम्।
हस्तद्वये तु याम्ये पञ्चदशनरावसानेऽम्बु ।।७०।।
क्षारं पयोऽत्र नकुलोऽर्धमानवे ताम्रसन्निभश्चाश्मा।
रक्ता च भवति वसुधा वहति शिरा दक्षिणा तत्र ।।७१।।
धत्तूर वृक्ष के उत्तर वल्मीक हो तो उस वृक्ष से दो हाथ दक्षिण पन्द्रह पुरुष नीचे
जल होता है। इस खात में खारा जल होता है तथा आधा पुरुष नीचे नेवला, ताम्रवर्ण का
पत्थर और लाल रंग की मिट्टी निकलती है। यहाँ दक्षिण शिरा बहती है।।७०-७१।।
यदि वा सुवर्णनाम्न इति। यदि वाऽयं निपातश्चार्थे। यदि च सुवर्णनाम्नस्तरोः
सुवर्णवृक्षस्य वामत उत्तरस्यां दिशि भुजङ्गगृहं वल्मीको दृश्यते, तदा याम्ये दक्षिणस्यां
दिशि हस्तद्वये परतः पञ्चदशनरावसाने पञ्चदशभिः पुरुषैः खातैरधोऽम्बु जलं भवति।
अत्रास्मिन् क्षारं पयो जलम्। अर्धमानवे अर्धपुरुषे खाते नकुलस्ताम्रसन्निभस्ताम्र-
वर्णोऽश्मा पाषाणो भवति, रक्ता च रक्तवर्णा वसुधा भूमिः। तत्र दक्षिणा शिरा वहति।
अन्यदप्याह—
बदरीरोहितवृक्षौ सम्पृक्तौ चेद्विनापि वल्मीकम्।
हस्तत्रयेऽम्बु पश्चात् षोडशभिर्मानवैर्भवति ।।७२।।
सुरसं जलमादौ दक्षिणा शिरा वहति चोत्तरेणान्या।
पिष्टनिभः पाषाणो मृत् श्वेता वृश्चिकोऽर्धनरे ।।७३।।
वल्मीक विना भी बेर एवं लाल करञ्ज—ये दोनों वृक्ष इकट्ठे दिखाई दें तो उन
वृक्षों से तीन हाथ आगे पश्चिम दिशा में सोलह पुरुषप्रमाण नीचे जल होता है। यहाँ पर
मधुर जल होता है। पहले दक्षिण शिरा और बाद में उत्तर शिरा बहती है, आटे के समान
सफेद पत्थर तथा सफेद मिट्टी निकलती है और आधा पुरुषप्रमाण नीचे बिच्छू दिखाई
देता है।।७२-७३।।
बदरीति। बदरीरोहितवृक्षौ सम्पृक्तौ श्लिष्टौ भवतः। विनापि वल्मीकम्, वल्मीकस्तत्र
भवतु वा न, तदा पश्चात् पश्चिमायां दिशि ताभ्यामेव वृक्षाभ्यां वल्मीकस्तत्र भवतु वा
न। तदा पश्चात् पश्चिमायां दिशि ताभ्यामेव वृक्षाभ्यां हस्तत्रयपरतः षोडशभिर्मानवैः
पुरुषैरम्बु जलमधो भवति।
अत्र सुरसं शोभनरसं मृष्टं जलमादौ प्रथमं दक्षिणा शिरा वहति, अन्या द्वितीया
चोत्तरेण। अत्र पिष्टनिभः शालिचूर्णप्रख्यः पाषाणोऽश्मा भवति। मृत् श्वेता शुक्लमृत्तिका।
अर्धनरे चार्धपुरुषे खाते वृश्चिको दृश्यत इति।।७२-७३।।
CC-0. JK Sanskrit Academy, Jammu. Digitized by S3 Foundation USA

दकार्गलाध्यायः ९३
अन्यदप्याह—
सकरीरा चेद्बदरी त्रिभिः करैः पश्चिमेन तत्राम्भः ।
अष्टादशभिः पुरुषैरैशानी बहुजला च शिरा ॥७४॥
करीर वृक्ष के साथ बेर का वृक्ष दिखाई दे तो उन वृक्षों से तीन हाथ आगे पश्चिम
दिशा में अट्ठारह पुरुषप्रमाण नीचे ईशान कोण में बहने वाली और बहुत जल वाली
शिरा होती है।।७४।।
चेच्छब्दो यद्यर्थे। यदि बदरी सकरीरा करीरवृक्षसहिता दृश्यते, तदा तत्र पश्चिमेन
पश्चिमायां दिशि त्रिभिः करैस्त्रिभिर्हस्तैः परतोऽष्टादशभिः पुरुषैः खातैरधोऽम्भः पानीयं
भवति। तत्र चैशानी शिरा बहुजला प्रभूततोया च वहति।।७४।।
अन्यदप्याह—
पीलुसमेता बदरी हस्तत्रयसम्मिते दिशि प्राच्याम् ।
विंशत्या पुरुषाणामशोष्यमम्भोऽत्र सक्षारम् ॥७५॥
यदि पीलु वृक्ष से युत बेर का वृक्ष हो तो उनसे तीन हाथ आगे पूर्व दिशा में बीस
पुरुषप्रमाण नीचे कभी न सूखने वाला खारा जल होता है।।७५।।
यदि पीलुसमेता पीलुवृक्षसहिता बदरी दृश्यते, तदा प्राच्यां पूर्वस्यां दिशि हस्तत्रयसम्मिते
करत्रयपरिच्छिन्ने देशे विंशत्या पुरुषाणामधोऽम्भो जलं भवति, तच्चाशोष्यं प्रभूतम्। सक्षारं
लवणसहितमित्यर्थः।।७५।।
अन्यदप्याह—
ककुभकरीरावेकत्र संयुतौ यत्र ककुभविल्वौ वा ।
हस्तद्वयेऽम्बु पश्चान्नैरैर्भवत् पञ्चविंशत्या ॥७६॥
जिस जगह अर्जुन और करीर या अर्जुन और बेल के वृक्ष का संयोग हो तो उन
वृक्षों से दो हाथ पर पश्चिम दिशा में पच्चीस पुरुषप्रमाण नीचे जल होता है।।७६।।
यत्र यस्मिन् प्रदेशे ककुभकरीरौ वृक्षौ एकत्र एकस्मिन् स्थाने संयुतौ समेतौ दृश्येते,
अथवा यत्र ककुभविल्वावेकत्र संयुतौ, तत्र पश्चात्पश्चिमायां दिशि हस्तद्वये परतः पञ्च-
विंशत्या नरैरम्बु जलं भवति।।७६।।
अन्यदप्याह—
वल्मीकमूर्धनि यदा दूर्वा च कुशाश्च पाण्डुराः सन्ति ।
कूपो मध्ये देयो जलमत्र नरैकविंशत्या ॥७७॥
यदि वल्मीक के ऊपर दूब या सफेद कुशा हो तो वल्मीक के नीचे कूप खोदने से
इक्कीस पुरुषप्रमाण नीचे जल मिलता है।।७७।।
यदा वल्मीकमूर्धनि वल्मीकोपरि दूर्वा शाद्वलं कुशा वा दर्भाश्च पाण्डुराः सन्ति भवन्ति,
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

९४ बृहत्संहिता
तदा वल्मीकमूर्धनि मध्ये कूपो देयः। अत्रास्मिन् स्थाने नरैकविंशत्या एकविंशत्या पुरुषै-
र्जलमुदकं भवति॥७७॥
अन्यदप्याह—
भूमिः कदम्बकयुता वल्मीके यत्र दृश्यते दूर्वा ।
हस्तद्वयेन याम्ये नरैर्जलं पञ्चविंशत्या ॥७८॥
जिस भूमि में कदम्ब और वल्मीक के ऊपर दूब दिखाई दे, वहाँ कदम्ब वृक्ष से
दक्षिण में दो हाथ पर पच्चीस पुरुषप्रमाण नीचे जल होता है॥७८॥
यत्र यस्मिन् स्थाने भूमिः कदम्बकयुता कदम्बवृक्षसंयुक्ता भवति, तदा वल्मीके
वल्मीकवृते मृत्स्तूपे दूर्वा शाद्वलं दृश्यते, तत्र कदम्बाद्याम्ये दक्षिणस्यां दिशि हस्तद्वयेन
परतः पञ्चविंशत्या पुरुषैर्जलमुदकं भवति॥७८॥
अन्यदप्याह—
वल्मीकत्रयमध्ये रोहीतकपादपो यदा भवति ।
नानावृक्षैः सहितस्त्रिभिर्जलं तत्र वक्तव्यम् ॥७९॥
हस्तचतुष्के मध्यात् षोडशभिश्चाङ्गुलैरुदग्वारि ।
चत्वारिंशत् पुरुषान् खात्वाऽश्माऽधः शिरा भवति ॥८०॥
तीन वल्मीक के मध्य में विजातीय तीन तरह के वृक्षों से युत लाल करञ्ज का वृक्ष
हो तो उस लाल करञ्ज के वृक्ष से उत्तर चार हाथ एवं सोलह अङ्गुल पर चालीस
पुरुषप्रमाण नीचे खोदने से पत्थर और उसके नीचे शिरा होती है॥७८-८०॥
वल्मीकत्रयस्य शृङ्गाटकवत् स्थितस्य मध्ये अन्तर्यदा रोहीतकपादपो रोहीतकवृक्षो
भवति, स च त्रिभिर्वृक्षैर्नानाप्रकारैर्विजातीयैः सहितः, तत्र तस्मिन् स्थाने जलमुदकं वक्तव्यम्।
हस्तचतुष्के मध्यादिति । तत्र वल्मीकत्रितये मध्याद्रोहीतकपादपादुदगुत्तरस्यां दिशि
हस्तचतुष्के करचतुष्टये षोडशभिश्चाङ्गुलैः परतश्चत्वारिंशत् पुरुषान् खात्वा अश्मा पाषाणो
दृश्यते। तदधस्तस्य तले शिरा भवति॥७९-८०॥
अन्यदप्याह—
ग्रन्थिप्रचुरा यस्मिन् शमी भवेदुत्तरेण वल्मीकः ।
पश्चात् पञ्चकरान्ते शतार्धसंख्यैनरैः सलिलम् ॥८१॥
जहाँ पर अनेक गाँठों से युत शमी वृक्ष हो और उसके उत्तर वल्मीक हो तो उस
शमी वृक्ष के पश्चिम पाँच हाथ पर पचास पुरुषप्रमाण नीचे जल होता है॥८१॥
यस्मिन् प्रदेशे ग्रन्थिप्रचुरा ग्रन्थिबहुला शमी स्याद् भवेत्। उत्तरेण च वल्मीकस्तत्र
शमीवृक्षस्य पश्चात् पश्चिमायां दिशि पञ्चकरान्ते पञ्चभिर्हस्तैः परतः शतार्धसंख्यैनरैः पुरुषाणां
पञ्चाशतोऽधः सलिलं जलं भवति॥८१॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

दकार्गलाध्यायः ९५
अन्यदप्याह—
एकस्थाः पञ्च यदा वल्मीका मध्यमो भवेच्छ्वेतः ।
तस्मिन् शिरा प्रदिष्टा नरषष्ट्या पञ्चवर्जितया ॥८२॥
एक स्थान पर पाँच वल्मीक हों और उनमें बीच का वल्मीक सफेद हो तो उस
सफेद वल्मीक में खोदने पर पचपन पुरुषप्रमाण नीचे शिरा निकलती है ॥८२॥
यदा पञ्च वल्मीका एकस्था भवन्ति, तदा तेषां पञ्चमो मध्यमः। पञ्चसु मध्ये स्थितः।
स च यदि श्वेतः शुक्लो भवति, तदा तस्मिन्नेव मध्यवल्मीके शिरा प्रदिष्टोक्ता। पञ्च-
वर्जितया नरषष्ट्या पञ्चपञ्चाशता नरैरित्यर्थः ॥८२॥
अन्यदप्याह—
सपलाशा यत्र शमी पश्चिमभागेऽम्बु मानवैः षष्ट्या ।
अर्धनरेऽहिः प्रथमं सवालुका पीतमृत् परतः ॥८३॥
जहाँ पर पलाश ( ढाक ) के वृक्ष से युत शमी वृक्ष हो, वहाँ उन वृक्षों से पश्चिम
में पाँच हाथ पर साठ पुरुषप्रमाण नीचे जल होता है। यहाँ पर आधा पुरुषप्रमाण नीचे
सर्प और उसके नीचे रेत मिली हुई पीली मिट्टी मिलती है॥८३॥
यत्र यस्मिन् प्रदेशे सपलाशा पलाशसहिता शमी भवति, तत्र तस्याः शम्याः पश्चिम-
भागे हस्तपञ्चकात् परतः षष्ट्या मानवैः पुरुषैर्नरषष्ट्याऽधोऽम्बु जलं भवति। प्रथममादावर्धनरे
अर्धपुरुषे खाते अहिः सर्पो भवति, ततः सवालुका वालुकासहिता, पीता पीतवर्णा मृद्
भवति। तथा च सारस्वतः—
शमी पलाशसंयुक्ता यत्र स्यात्तत्र पश्चिमे।
पञ्चहस्ताज्जलं वाच्यं षष्ट्यात्र पुरुषैरधः ॥
अत्रार्धपुरुषे सर्पः पीता मृत् स्यात् सवालुका।
तदधोऽम्भो विनिर्देश्यं दीर्घकालं प्रवाहितम्॥ इति॥८३॥
अन्यदप्याह—
वल्मीकेन परिवृतः श्वेतो रोहीतको भवेद्यस्मिन् ।
पूर्वेण हस्तमात्रे सप्तत्या मानवैरम्बु ॥८४॥
जहाँ वल्मीक से घिरा हुआ सफेद रोहीतक का वृक्ष हो, वहाँ उस वृक्ष से पूर्व
दिशा में एक हाथ पर सत्तर पुरुषप्रमाण नीचे जल होता है॥८४॥
यस्मिन् प्रदेशे श्वेतः शुक्लवर्णो रोहीतको वृक्षो वल्मीकेन परिवृतो भवति, तत्र
रोहीतकात् पूर्वेण पूर्वस्यां दिशि हस्तमात्रादनन्तरं सप्तत्या मानवैरधोऽम्बु जलं भवति॥८४॥
अन्यदप्याह—
श्वेता कण्टकबहुला यत्र शमी दक्षिणेन तत्र पयः।
नरपञ्चकसंयुतया सप्तत्याहिनरार्धे च ॥८५॥
CC-0. JK Sanskrit Academy, Jammnu. Digitized by S3 Foundation USA

९६ बृहत्संहिता
जहाँ सफेद काँटों से युत शमी वृक्ष हो, वहाँ उस वृक्ष से दक्षिण हाथ पर पचहत्तर
पुरुषप्रमाण नीचे जल होता है। यहाँ पर खुदाई करने पर आधा पुरुषप्रमाण नीचे सर्प
निकलता है।।८५।।
यत्र यस्मिन् प्रदेशे श्वेता शुक्लवर्णा कण्टकबहुला प्रभूतकण्टका शमी भवति, तत्र
शम्या दक्षिणेन हस्तमात्रात् परतो नरपञ्चकसंयुतया सप्तत्या पञ्चसप्तत्या पुरुषैरधो जलं
पयो भवति। नरार्धे पुरुषार्धे च खाते अहिः सर्पो भवति। तथा च सारस्वतः—
श्वेतातिकण्टका यत्र शमी स्यात्तत्र दक्षिणे।
हस्तेन पञ्चसप्तत्या नराणां निर्दिशेज्जलम्।।
खातेऽर्धपुरुषे सर्पो दृश्यतेऽञ्जनप्रभः।
सुरसं च जलं ज्ञेयं चिरकालप्रवाहितम्।। इति।।८५।।
अत्रैव विशेषान्तरमाह—
मरुदेशे यच्चिह्नं न जाङ्गले तैर्र्जलं विनिर्देश्यम् ।
जम्बूवेतसपूर्वैर्ये पुरुषास्ते मरौ द्विगुणाः ।।८६।।
जिन चिह्नों से मरुस्थल में जल-ज्ञान कहा गया है, उन चिह्नों से जाङ्गल ( स्वल्प
जल वाले ) देश में जल-ज्ञान नहीं कहना चाहिये। पहले जामुन, बेंत आदि के द्वारा
जल-ज्ञान के समय जो पुरुष-प्रमाण कहा गया है, उसको द्विगुणित करके मरु देश में
ग्रहण करना चाहिये।।८६।।
यच्चिह्नं यल्लक्षणं मरुदेशे कथितं तैश्चिह्नैर्जाङ्गले स्वल्पोदके देशे जलमुदकं न
विनिर्देश्यं न वक्तव्यम्। जम्बूवेतसपूर्वैरिति । यदि 'वेतसोऽम्बुरहिते देशे' तथा 'जम्ब्वाश्चो-
दग्धस्तैः' इत्यादिकैर्जम्बूवेतसपूर्वैलक्षणैर्यै पुरुषाः कथितास्तैरेव चिह्नैर्मरौ मरुभूमौ दृष्टैर्द्विगुणास्त
एव पुरुषा वाच्या इति।।८६।।
अन्यदप्याह—
जम्बूस्त्रिवृता मौर्वी शिशुमारी सारिवा शिवा श्यामा ।
वीरुधयो वाराही ज्योतिष्मती गरुडवेगा च ॥८७॥
सूकरिकमाषपर्णीव्याघ्रपदाश्चेति यद्यहेर्निलये ।
वल्मीकादुत्तरतस्त्रिभिः करैस्त्रिपुरुषे तोयम् ॥८८॥
यदि वल्मीक के ऊपर जामुन, निसोत, मौर्वी, शिशुमारी, सारिवा, शिवा ( शमी ),
• श्यामा, वाराही, ज्योतिष्मती ( मालकाकणी ), गरुडवेगा, सूकरिका, माषपर्णी ( मूड़ ),
व्याघ्रपदा—ये औषधियाँ हों तो वल्मीक से उत्तर की ओर तीन हाथ पर तीन पुरुषप्रमाण
नीचे जल होता है।।८७-८८।।
जम्बूवृक्षविशेषः त्रिवृता, मौर्वी, शिशुमारी, सारिवा, शिवा, श्यामा—एता वीरुधय
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

दकार्गलाध्यायः ९७
ओषधयः, तथा वक्ष्यमाणाश्च वीरुधय एव। कास्ताः? वाराही ज्योतिष्मती गरुडवेगा
च। सूकरिकमाषपर्णीव्याघ्रपदाश्चैता ओषधयो यद्यहेर्निलये सर्पगृहे वल्मीके भवन्ति,
तदा वल्मीकादुत्तरत उत्तरास्यां दिशि त्रिभिः करैस्त्रिभिर्हस्तैः परतः पुरुषत्रये खाते अधस्तोयं
वक्तव्यम्॥८७-८८॥
किं सर्वत्र? नेत्याह—
एतदनूपे वाच्यं जाङ्गलभूमौ तु पञ्चभिः पुरुषैः।
एतैरेव निमित्तैर्मरुदेशे सप्तभिः कथयेत्॥८९॥
पूर्वकथित तीन पुरुषप्रमाण अनूप (जलप्राय) देश के लिये है। स्वल्प जल वाले
देश में इन्हीं पूर्वोक्त लक्षणों से पाँच पुरुषप्रमाण नीचे और मरु देश में सात पुरुषप्रमाण
नीचे जल कहना चाहिये॥८९॥
एतद्यदुक्तं तदनूपे बहूदके वाच्यं वक्तव्यम्। बहूदको देशोऽनूपः। जाङ्गलभूमौ तु
स्वल्पोदके एभिरेव लक्षणैः पञ्चभिः पुरुषैर्वाच्यम्। एतैरेव प्रागुक्तैर्निमित्तैश्चिह्नैर्मरुभूमौ
सप्तभिः पुरुषैः कथयेद् वदेत्॥८९॥
अन्यदप्याह—
एकनिभा यत्र मही तृणतरुवल्मीकगुल्मपरिहीना।
तस्यां यत्र विकारो भवति धरित्र्यां जलं तत्र॥९०॥
जहाँ तृण, वृक्ष, वल्मीक और गुल्मों से रहित एक वर्ण की भूमि हो तथा उस भूमि
में कहीं एक जगह विकार दिखाई दे तो उस विकारयुत भूमि के पाँच पुरुषप्रमाण नीचे
जल कहना चाहिये॥९०॥
यत्र यस्मिन् स्थाने मही भूरेकनिभा एकवर्णा सा च तृणतरुवल्मीकगुल्मपरिहीना,
तृणैः, तरुभिः, वल्मीकैः, गुल्मैरेकमूलैः, शाखासमूहो गुल्मः। एतैः परिहीना वर्जिता।
तस्यां मह्यां यत्र यस्मिन् स्थाने विकारोऽन्यसदृशत्वम्, तत्र तस्मिन् धरित्र्यां भूमौ पञ्चभिः
पुरुषैर्जलं भवति। तथा च सारस्वतः—
एकवर्णा मही यत्र वृक्षगुल्मतृणादिभिः।
वल्मीकैश्चापि रहिता तस्यां तत्र विपर्ययः॥
पञ्चभिः पुरुषैस्तत्र जलं भूमावधः स्थितम्॥ इति॥९०॥
अन्यदप्याह—
यत्र स्निग्धा निम्ना सवालुका सानुनादिनी वा स्यात्।
तत्रार्धपञ्चकैर्वारि मानवैः पञ्चभिर्यदि वा॥९१॥
जहाँ स्निग्ध, नीची, रेतदार और पाँव के रखने से शब्दयुत भूमि हो, वहाँ साढ़े चार
या पाँच पुरुषप्रमाण नीचे जल कहना चाहिये॥९१॥
बृ० भ० द्वि०-७
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

९८ बृहत्संहिता
यत्र यस्मिन् देशे स्निग्धा सस्नेहा मही निम्नाऽनुच्चा सवालुका वालुकासहिता
सानुनादिनी सशब्दा वा भूः स्याद् भवेत्, तत्र तस्मिन् स्थाने अर्धपञ्चकैः सार्धैश्चतुर्भिः
पुरुषैः पञ्चभिर्वा पुरुषैरधो जलं भवति ।। ९१ ।।
अन्यदप्याह—
स्निग्धतरूणां याम्ये नरैश्चतुर्भिर्जलं प्रभूतं च ।
तरुगहनेऽपि हि विकृतो यस्तस्मात् तद्वदेव वदेत् ॥ ९२ ॥
जहाँ स्निग्ध वृक्ष हों, वहाँ उन वृक्षों से चार पुरुषप्रमाण नीचे जल होता है तथा
जहाँ बहुत वृक्षों के मध्य में एक वृक्ष विकारयुत दिखाई दे तो वहाँ उस विकारयुत वृक्ष
से दक्षिण चार पुरुषप्रमाण नीचे जल होता है ।। ९२ ।।
यत्र स्निग्धाः सस्नेहास्तरवो वृक्षा भवन्ति तत्र तेषां स्निग्धतरूणां याम्ये दक्षिणे
चतुर्भिर्नरैः पुरुषैरधः प्रभूतं बहु जलं भवति। तरुगहने वृक्षगहनेऽपि यो वृक्षो बहूनां मध्ये
विकृतः सविकारो दृश्यते पुष्पफलानां स्वरूपान्यत्वं दृश्यते, तस्माद्वृक्षादुदकं तद्वत् तेनैव
प्रकारेण वदेत्। याम्ये नरैश्चतुर्भिरित्यर्थः ।। ९२ ।।
अन्यदप्याह—
नमते यत्र धरित्री सार्धे पुरुषेऽम्बु जाङ्गलानूपे ।
कीटा वा यत्र विनालयेन बहवोऽम्बु तत्रापि ।। ९३ ।।
जिस बहुत जल वाले या स्वल्प जल वाले देश में पाँव रखने से धरती दब जाय
और जहाँ विना रहने के स्थान के बहुत-से कीड़े हों, वहाँ डेढ़ पुरुषप्रमाण नीचे जल
कहना चाहिये ।। ९३ ।।
यत्र यस्मिन् प्रदेशे धरित्री भूः। नमते पादपीडिता सत्यधो याति, जाङ्गलानूपे जाङ्गले
अनूपे वा, तत्र सार्धे पुरुषे अम्बु जलं भवति। कीटा वा कृमयो यत्र यस्मिन् प्रदेशे आलयेन
विना दृश्यन्ते बहवः प्रभूताः, तत्राम्बु जलं भवति। अपिशब्दात् सार्धे पुरुषे ।। ९३ ।।
उष्णा शीता च मही शीतोष्णाम्भस्त्रिभिर्नरैः सार्धैः ।
इन्द्रधनुर्मत्स्यो वा वल्मीको वा चतुर्हस्तात् ॥ ९४ ॥
जहाँ सब जगह गरम और एक जगह ठण्डी या सब जगह ठण्डी और एक जगह
गरम भूमि हो, वहाँ साढ़े तीन पुरुषप्रमाण नीचे जल होता है। जिस स्वल्प जल वाले या
अधिक जल वाले प्रदेश में इन्द्रधनुष, मछली या वल्मीक हो, उस भूमि में चार हाथ
नीचे जल होता है ।। ९४ ।।
यत्र सर्वत्रोष्णा मही भूः। एकस्मिन् देशे शीता भवति, अथवा सर्वत्र शीता एकस्मिन्
देशे उष्णा भवति। तत्र त्रिभिर्नरैः सार्धैरम्भो जलं भवति। इन्द्रधनुस्त्रिदशचापं तच्च सूर्यरश्मि-
सम्बन्धाद्यत्रोत्पद्यते मत्स्यो वा मत्स्यो दारकत्वाद्भवो वल्मीको वा यस्यां भूमौ जाङ्गला-
नूपयोर्दृश्यते, तत्र चतुर्हस्तात् परतोऽधोऽम्भो जलं भवति ।। ९४ ।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

दकार्गलाध्यायः ९९
अन्यदप्याह—
वल्मीकानां पङ्क्त्यां यद्येकोऽभ्युच्छ्रितः शिरा तदधः।
शुष्यति न रोहते वा सस्यं यस्यां च तत्राम्भः ॥९५॥
जहाँ बहुत वल्मीकों में एक वल्मीक सबसे ऊँचा हो, वहाँ उस ऊँचे वल्मीक के
नीचे चार पुरुषप्रमाण खोदने पर जल मिलता है अथवा जिस खेत में धान्य जम कर
सूख जाय या जमे ही नहीं, वहाँ चार पुरुषप्रमाण नीचे जल कहना चाहिये।।९५।।
वल्मीकानां पंक्त्यां स्थितानां मध्याद् यद्येको वल्मीकोऽभ्युच्छ्रित उच्चतरो भवति,
तदा तदधस्तयोच्छ्रितस्य वल्मीकस्याधस्तले चतुर्भिर्हस्तैः शिरा जलं भवति। यस्यां
भूमौ जातं सस्यं शुष्यति शोषं प्राप्नोति, उप्तं वा न रोहते न जायते, तस्यां भूमौ चतुर्भि-
र्हस्तैरधो जलं भवति। एतज्जाङ्गलानूपयोः। तथा च सारस्वतः—
वल्मीकपक्त्यां यद्येकोऽभ्युच्छ्रितस्तदधो जलम्।
न रोहते शुष्यते वा यत्र सस्यं चतुष्करात्।।
जलं तत्रैव निर्देश्यं भूमौ निःसंशयं तदा।। इति।।९५।।
अन्यदप्याह—
न्यग्रोधपलाशोदुम्बरैः समेतैस्त्रिभिर्जलं तदधः।
वटपिप्पलसमवाये तद्वद्वाच्यं शिरा चोदक् ॥९६॥
जहाँ बड़, पीपल, गूलर—ये तीनों वृक्ष इकट्ठे हों तथा जहाँ बड़, पीपल—ये दोनों
वृक्ष एक साथ अवस्थित हों, वहाँ इन वृक्षों के नीचे तीन हाथ खोदने पर जल और
उत्तर शिरा मिलती है।।९६।।
न्यग्रोधपलाशोदुम्बरैः समेतैस्त्रिभिर्जलं तदधः। वटपलाशोदुम्बरैस्त्रिभिर्वृक्षैः समेतैरेकत्र
संयुक्तैस्तदधस्तेषामेवाधस्त्रिभिर्हस्तैर्जलं भवति, शिरा च तत्रोदगुत्तरा भवति। तथा वटपिप्पल-
समवाये वटपिप्पलयोगे तद्वत् तेनैव प्रकारेणाधो जलं वाच्यम्, त्रिभिः करैः शिरा चोद-
गिति। तथा च सारस्वतः—
पलाशोदुम्बरौ यत्र स्यातां न्यग्रोधसंयुतौ।
वटपिप्पलको वाऽथ समेतौ तदधो जलम्।।
करैस्त्रिभिरुदक् चाम्भः शिरां शुभजलां वदेत्।। इति।।९६।।
अथ कूपलक्षणमाह—
आग्नेये यदि कोणे ग्रामस्य पुरस्य वा भवेत् कूपः।
नित्यं स करोति भयं दाहं च समानुषं प्रायः ॥९७॥
नैर्ऋतकोणे बालक्षयं च वनिताभयं च वायव्ये।
दिक्तत्रयमेतन्त्यक्त्वा शेषासु शुभावहाः कूपाः ॥९८॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

१०० बृहत्संहिता
यदि गाँव या नगर के आग्नेय कोण में कूप हो तो उस गाँव या नगर में नित्य अनेक
प्रकार का भय होता है। अधिकतर आग लगती है और मनुष्य भी जल कर मरते हैं।
नैर्ऋत्य कोण में कूप हो तो बालकों का क्षय और वायव्य कोण में हो तो स्त्रियों को भय
होता है। शेष पाँच दिशाओं में कूप का होना शुभ होता है॥९७-९८॥
ग्रामस्य पुरस्य वा यद्याग्नेयकोणे पूर्वदक्षिणस्यां दिशि कूपो भवेत् स्यात्, तदा स
कूपः तस्मिन् ग्रामे पुरे वा नित्यं सर्वकाले भयं करोतीत्यर्थः। प्रायो बाहुल्येन समानुषं
दाहं च करोति। मनुष्यादि दहति अग्निभयं करोतीत्यर्थः।
ग्रामस्य पुरस्य वा नैर्ऋतकोणे दक्षिणपश्चिमायां दिशि कूपो भवति तदा बालानां
शिशूनां क्षयं करोति। वायव्यकोणे पश्चिमोत्तरस्यां दिशि च वनितानां स्त्रीणां भयं करोति।
एतद्यथोक्तं दिक्त्रयं त्यक्त्वा यथान्यासु पञ्चसु पूर्वदक्षिणपश्चिमोत्तरैशानीषु शुभावहाः शुभ-
प्रदाः कूपा इति॥६९-९७॥
एतद्यदुक्तं दकार्गलं तत्सारस्वतं दृष्टेदानीं मानवं वक्ष्यामीत्याह—
सारस्वतेन मुनिना दकार्गलं यत्कृतं तदवलोक्य ।
आर्याभिः कृतमेतद् वृत्तैरपि मानवं वक्ष्ये ॥९९॥
सारस्वत मुनि द्वारा जो उदकार्गल कहे गये हैं, उनको देखकर मैंने आर्या छन्दों के
द्वारा यह उदकार्गल कहा है। अब मनु द्वारा प्रतिपादित उदकार्गल को वृत्तों के द्वारा
कहता हूँ॥९९॥
सारस्वतेन मुनिना कृतं रचितं तदवलोक्य दृष्ट्वा एतदार्याभिः कृतम्, मानवं मनुना
विरचितं दकार्गलमिदानीं वृत्तैर्वक्ष्ये कथयिष्ये॥९९॥
तच्चाह—
स्निग्धा यतः पादपगुल्मवल्ल्यो
निश्छिद्रपत्राश्च ततः शिरास्ति।
पद्माक्षुरोशीरकुलाः सगुण्ड्राः
काशाः कुशा वा नलिका नलो वा ॥१००॥
खर्जूरजम्ब्बर्जुनवेतसाः स्युः
क्षीरान्विता वा द्रुमगुल्मवल्ल्यः।
छत्रेभनागाः शतपत्रनीपाः
स्युर्नक्तमालाश्च ससिन्दुवाराः ॥१०१॥
विभीतको वा मदयन्तिका वा
यत्रास्ति तस्मिन् पुरुषत्रयेऽम्भः।
स्यात् पर्वतस्योपरि पर्वतोऽन्य-
स्तत्रापि मूले पुरुषत्रयेऽम्भः ॥१०२॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

दकार्गलाध्यायः १०१
जहाँ पर स्निग्ध, छिद्ररहित पत्तों से युत वृक्ष, गुल्म या लता हो; वहाँ तीन
पुरुषप्रमाण नीचे जल होता है। अथवा स्थलकमल, गोखरू, उशीर ( खस ), कुल—
ये द्रव्यविशेष; गुण्ड्र ( सरकण्डा, शर ), काश, कुशा, नलिका, नल—ये तृणविशेष;
खजूर, जामुन, अर्जुन, बेंत—ये वृक्षविशेष; दूध वाले वृक्ष, गुल्म और लता, छत्री,
हस्तीकर्णी, नागकेशर, कमल, कदम्ब, करञ्ज—ये सभी सिन्दुवार वृक्ष के साथ; बहेड़ा
वृक्षविशेष, मदयन्तिका द्रव्यविशेष—ये सब जहाँ पर अवस्थित हों; वहाँ पर तीन पुरुष-
प्रमाण नीचे जल होता है। साथ ही जहाँ पर एक पर्वत के ऊपर दूसरा पर्वत हो, वहाँ
पर भी तीन पुरुषप्रमाण नीचे जल होता है।।१००-१०२।।
स्निग्धा यत इति। यत इति निपातः सप्तम्यन्ते। यतो यस्यां भूमौ पादपा वृक्षाः,
गुल्मा एकमूलाः शाखासमूहाः, वल्ली व्रततिः, एताः सर्वा यत्र स्निग्धाः सस्नेहाः; तथा
निश्छिद्रपत्राश्च निश्छिद्राणि पत्राणि च यासाम्। ततस्तस्मिन्नेव स्थाने अधः पुरुषत्रये शिरा
अस्ति विद्यते। अथवा पद्मं स्थलपद्मम्, क्षुरो गोक्षुरः, उशीरः, कुलः एते द्रव्यविशेषाः।
सगुण्ड्रा गुण्ड्रसहिताः, गुण्ड्रस्तृणविशेषः, काशाः कुशा नलिका नलो वा एते सर्व एव
तृणविशेषाः।
खर्जूरः, जम्बूः, अर्जुनः, वेतसः—एते सर्वे वृक्षविशेषा यत्र स्युर्भवेयुः। अथवा क्षीरा-
न्विताः सक्षीरा द्रुमा वृक्षाः। गुल्म एकमूलः शाखासमूहः, वल्ल्यो व्रतत्य—एते यत्र
सक्षीराः। छत्रः प्रसिद्धः, इभो हस्तिकर्णः, नागो नागकेसरं यस्मादुत्पद्यते; शतपत्रं पद्मम्,
नीपो वृक्षविशेषः, नक्तमालाः करजाः—एते पूर्वोक्ताः ससिन्दुवाराः सिन्दुवारैर्वृक्षविशेषैः
सहिता यत्र स्युः।
विभीतको वृक्षविशेषः, मदयन्तिका द्रव्यविशेषः—एते यत्र यस्मिन् प्रदेशे भवन्ति,
तत्र अधस्तले पुरुषत्रये अम्भो जलं स्यात्। पर्वतस्योपरि पर्वतोऽन्यस्तत्रापि मूले पुरुष-
त्रये वेति। अथवा पर्वतस्योपर्यन्यो द्वितीयः पर्वतो यत्र स्याद् भवेत् तत्रोपरिष्टस्य मूले
पुरुषत्रये वा अम्भो जलमस्ति विद्यते। तथा च मनुः—
गुल्मपादपवल्ल्यः स्युः पत्रैश्शाखण्डितैर्युताः।
तदधो विद्यते वारि खाते तु पुरुषत्रये।।
पद्मक्षुरोशीरकुला गुण्ड्रा काशः कुशोऽथवा।
नलिकानलखर्जूरजम्बूवेतसकार्जुनाः ।।
यत्र स्युर्द्रुमवल्ल्यश्च क्षीरयुक्ताः फलान्विताः।
छत्रेभनागनीपाश्च शतपत्रविभीतकाः।।
सिन्दुवारा नक्तमालाः सुगन्धा मदयन्तिकाः।
यत्रैते स्युस्तत्र जलं खातेऽम्भः पुरुषत्रये।।
गिरेरुपरि यत्रान्यः पर्वतः स्यात्ततो जलम्।
तस्यैव मूले पुरुषैस्त्रिभिर्वाऽधो विनिर्दिशेत्।। इति।।१००-१०२।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

१०२ बृहत्संहिता
अन्यदप्याह—
या मौञ्जिकैः काशकुशैश्च युक्ता
नीला च मृद्यत्र सशर्करा च।
तस्यां प्रभूतं सुरसं च तोयं
कृष्णाथवा यत्र च रक्तमृद्वा ॥१०३ ॥
मूञ्ज, काश और कुश से युत भूमि में, पत्थर की कणाओं से मिली हुई नीली मिट्टी
वाली भूमि में और काली या लाल मिट्टी वाली भूमि में प्रचुर मात्रा में तथा मधुर जल
होता है॥१०३॥
या भूर्मौञ्जिकैः काशैः कुशैश्च तृणविशेषैर्युक्ता, यत्र यस्यां भूमौ नीला नीलवर्णा मृत्
सशर्करा सकणिका च भवति, तस्यां भूमौ प्रभूतं बहु सुरसं मृष्टं च तोयं जलं भवति।
यत्र कृष्णा कृष्णवर्णा रक्ता रक्तवर्णा वा मृत् तत्र च प्रभूतं बहु सुरसं तोयं भवेदिति॥१०३॥
अथ भूगुणानाह—
सशर्करा ताम्रमही कषायं क्षारं धरित्री कपिला करोति ।
आपाण्डुरायां लवणं प्रदिष्टं मृष्टं पयो नीलवसुन्धरायाम् ॥१०४॥
पत्थर के कणों से मिली हुई ताम्र वर्ण की भूमि में कसैला, पीली भूमि में खारा,
पाण्डु रङ्ग की भूमि में नमकीन और नीली भूमि में मीठा जल होता है॥१०४॥
या मही भूः सशर्करा सकणिका ताम्रवर्णा च सा कषायं पयः पानीयं करोति। कपिला
कपिलवर्णा च धरित्री भूः क्षारं पयः करोति। आपाण्डुरायां धरित्र्यां लवणं पयः प्रदिष्ट-
मुक्तम्। नीलवसुन्धरायां नीलायां भूमौ मृष्टं पयो भवति॥१०४॥
अन्यदप्याह—
शाकाश्वकर्णार्जुनविल्वसर्जाः श्रीपर्ण्यरिटाधवशिशपाश्च ।
छिद्रैश्च पत्रैर्द्रुमगुल्मवल्ल्यो रूक्षाश्च दूरेऽम्बु निवेदयन्ति ॥१०५॥
जहाँ पर छिद्र वाले पत्तों से युत शाक ( तरकारी = सब्जी ), अश्वकर्ण ( संखुआ ),
अर्जुन, बेल, सर्ज, श्रीपर्णी, अरिष्ट, धव, शीशम—ये वृक्ष हों तथा जहाँ पर छिद्र वाले
रूखे पत्तों से युत वृक्ष, गुल्म, लता हों; वहाँ बहुत दूर पर जल होता है॥१०५॥
शाकः, अश्वकर्णः, अर्जुनः, विल्वः, सर्जः, श्रीपर्णीः, अरिष्टा, धवः, शिंशपः—
एते सर्व एव वृक्षविशेषाः। यत्र छिद्रैः पत्रैः छिद्रसंयुक्तैः पर्णेर्भवन्ति, तथा द्रुमगुल्मवल्ल्यः
छिद्रैश्च पत्रै रूक्षाश्च निःस्नेहाः। दूरे अनिकटे अम्बु जलं निवेदयन्ति। तत्रातिदूरे जलं
भवतीत्यर्थः॥१०५॥
अन्यदप्याह—
सूर्याग्निभस्मोट्रखरानुवर्णा या निर्जला सा वसुधा प्रदिष्टा ।
रक्ताङ्कुराः क्षीरयुताः करीरा रक्ता धरा चेज्जलमश्मनोऽधः ॥१०६॥
CC-0. JK Sanskrit Academy, Jammu. Digitized by S3 Foundation USA

दकार्गलाध्यायः १०३
जहाँ सूर्य, अग्नि, भस्म, ऊँट या गदहे के रंग की या लाल रंग की भूमि में लाल
अंकुर वाला, दूध वाला करीर वृक्ष हो या लाल वर्ण की भूमि हो, वहाँ पत्थर के नीचे
जल होता है।।१०६।।
या वसुधा भूः सूर्यस्यादित्यस्याग्नेर्वह्नेर्भस्मन उष्ट्रस्य करभस्य खरस्य गर्दभस्य एषा-
मनुवर्णा सदृशप्रभा सा निर्जला जलरहिता प्रदिष्टोक्ता। तथा करीरवृक्षा यत्र रक्ताङ्कुरा लोहितै-
रङ्कुरैः संयुक्ताः क्षीरयुताः क्षीरसंयुक्ताः, धरा भूर्यदि च रक्ता लोहितवर्णा भवति, तत्राश्म-
नोऽधः पाषाणस्य तले जलमुदकं भवति।।१०६।।
अन्यदप्याह—
वैदूर्यमुद्गाम्बुदमेचकाभा पाकोन्मुखोदुम्बरसन्निभा वा।
भङ्गाञ्जनाभा कपिलाथवा या ज्ञेया शिला भूरिसमीपतोया ॥१०७॥
वैदूर्य मणि, मूंग या मेघ के समान काला, पकने वाले गूलर के फल के समान,
फोड़ने से अञ्जन के समान काला या पीला पत्थर जहाँ हो, वहाँ पर समीप में ही बहुत
जल होता है।।१०७।।
या शिला वैदूर्यमणेर्मुद्गानामम्बुदस्य मेघस्य मेचकस्य कृष्णवर्णस्य सदृशवर्णा, तथा
या शिला पाकोन्मुखस्य सुपरिपक्वस्योदुम्बरस्य फलस्य सन्निभा सदृशी, या च शिला
भङ्गे स्फोटने अञ्जनाभा अञ्जनसदृशी, अथवा कपिलवर्णा या च शिला, सा भूरिसमीपतोया
भूरि प्रभूतं समीपं निकटं तोयं जलं यस्यां तथाभूता सापि शिला ज्ञेया ज्ञातव्या।।१०७।।
अन्यदप्याह—
पारावतक्षौद्रघृतोपमा या क्षौमस्य वस्त्रस्य च तुल्यवर्णा।
या सोमवल्ल्याश्च समानरूपा साप्याशु तोयं कुरुतेऽक्षयञ्च ॥१०८॥
कबूतर, शहद, घृत या सोमलता के समान रंग वाला पत्थर जहाँ पर हो, वहाँ भी
कभी नहीं नष्ट होने वाला जल शीघ्र निकलता है।।१०८।।
या च शिला पारावतस्य पक्षिणः सदृशी, क्षौद्रं माक्षिकं घृतमाज्यं तदुपमा तत्स-
दृशी, या च सोमवल्ल्याः समानरूपा सदृशवर्णा, सोमयाज्ञिकस्य वल्लीव। सापि शिला
या आशु शीघ्रमेव अक्षयं स्थिरं तोयमुदकं कुरुते।।१०८।।
अन्यदप्याह—
ताम्रैः समेता पृषतैर्विचित्रै-
रापाण्डुभस्मोष्ट्रखरानुरूपा ।
भृङ्गोपमाङ्गुष्ठिकपुष्पिका वा
सूर्याग्निवर्णा च शिला वितोया ॥१०९॥
ताम्र वर्ण के बिन्दुओं से युत, विचित्र बिन्दुओं से युत, पाण्डु वर्ण वाला, भस्म
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

१०४ बृहत्संहिता
ऊँट या गदहे के समान वर्ण वाला, अङ्गुष्ठिका वृक्ष के समान नीला, सूर्य या अग्नि के
समान वर्ण वाला पत्थर जहाँ पर हो, वहाँ पर जल नहीं होता है ।।१०९।।
या च शिला ताम्रैस्ताम्रवर्णैः, पृषतैस्तिलकैः, तथा विचित्रैर्नानावर्णैस्तिलकैः समेता
संयुक्ता, तथा चापाण्डुरा पाण्डुवर्णा। भस्मन उष्ट्रस्य करभस्य खरस्य गर्दभस्य चानुरूपा
तत्सदृशवर्णा। भृङ्गोपमा भ्रमरसदृशवर्णा। अङ्गुष्ठिका विटपविशेषः, तत्पुष्पसदृशी वा।
नीललोहितेत्यर्थः। सूर्यस्यादित्यस्याग्नेश्च सदृशवर्णा या शिला सा वितोया जलरहिता
भवति ।।१०९।।
अन्यदप्याह—
चन्द्रातपस्फटिकमौक्तिकहेमरूपा
याश्चेन्द्रनीलमणिहिङ्गुलकाञ्जनाभाः ।
सूर्योदयांशुहरितालनिभाश्च याः स्यु-
स्ताः शोभना मुनिवचोऽत्र च वृत्तमेतत् ।।११०।।
चन्द्रकिरण, स्फटिक, मोती, सोना, इन्द्रनील मणि, सिंगरफ, अञ्जन, उदयकालिक
सूर्यकिरण और हरिताल के समान रंग वाला पत्थर शुभ होता है। अब यहाँ इसके बाद
ये वक्ष्यमाण वृत्तान्त मुनिकथित हैं।।११०।।
याः शिलाश्चन्द्रातपस्य चन्द्रप्रभायाः स्फटिकस्य स्फटिकमणेः। मौक्तिकस्य च मुक्ता-
हारस्य च वा। हेम्नः सुवर्णस्य च याः समानरूपाः सदृशवर्णाः। याश्च शिला इन्द्रनीलस्य
मणेः। हिङ्गुलकस्य हिङ्गुलकमिति रक्तवर्णमिति यत् प्रसिद्धम्। अञ्जनं कज्जलमतिकृष्णः।
एतेषां सदृशी आभा कान्तिर्यासां तथा। याश्च सूर्योदयांशुनिभाः। सूर्यस्यादित्यस्योदयकाले
यादृशा अंशवो रश्मयो दृश्यन्ते तत्तुल्यवर्णा अतिरोहिता इत्यर्थः। याश्च हरितालनिभाः
स्युर्भवेयुः। ताः सर्वाः शोभनाः। अत्रास्मिन् प्रकरणे एतद्वक्ष्यमाणं वृत्तं मुनिवचः ऋषेर्वाक्य-
मित्यनेनागममनुसृतं भवतीति ।।११०।।
ततश्च मुनिवचनमाह—
एता ह्यभेद्याश्च शिलाः शिवाश्च यक्षैश्च नागैश्च सदाभिजुष्टाः ।
येषां च राष्ट्रेषु भवन्ति राज्ञां तेषामवृष्टिर्न भवेत् कदाचित् ।।१११।।
पूर्वकथित समस्त शुभ शिलायें कल्याण करने वाली होती हैं एवं वे सदा ही यक्षों
और नागों से सेवित रहती हैं। जिनके राज्य में ये शिलायें होती हैं, उनके यहाँ कभी भी
अवृष्टि नहीं होती।।१११।।
एताः शिलाः सर्वा अभेद्या निर्विदार्याः। यतः शिवाः श्रेयस्कर्यः सदा सर्वकालं
यक्षैर्देवयोनिभिर्नागैश्चाभिजुष्टाः सेविता येषां राज्ञां नृपाणां राष्ट्रेषु देशेषु भवन्ति, तेषां कदा-
चिदप्यवृष्टिर्न भवेत्, नित्यमेवेन्द्रस्तेषु वर्षतीत्यर्थः।।१११।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

दकार्गलाध्यायः १०५
अधुना शिलानां विदारणार्थमाह—
भेदं यदा नैति शिला तदानीं पलाशकाष्ठैः सह तिन्दुकानाम् ।
प्रज्वालयित्वानलमग्निवर्णां सुधाम्बुसिक्ता प्रविदारमेति ॥११२॥
यदि कूप आदि खोदने के समय पत्थर निकल जाय और वह आसानी से न फूट
सके तो उसके ऊपर ढाक और तेन्दु की लकड़ी जला कर आग के समान लाल बना
कर उसके ऊपर चूने की कली से मिश्रित जल का छिड़काव करने से वह शिला फूट
जाती है॥११२॥
शिला विदार्यमाणा यदा भेदं नैति न याति तदानीं तस्मिन् काले किं कुर्यात्?
उच्यते—पलाशकाष्ठैः सह तिन्दुकानां वृक्षविशेषाणां काष्ठानि दारूणि प्रज्वालयित्वाऽनल-
मग्निं शिलापृष्ठगतं शिलां हुताशनवर्णामग्निवर्णां कृत्वा सुधाम्बुसिक्ता सुधा क्षीरं तत्सं-
युक्तेनाम्बुना जलेन सिक्ता संसेचिता प्रविदारमेति भेदमेति भेदमायाति।।११२।।
अन्यदप्याह—
तोयं शृतं मोक्षकभस्मना वा यत्सप्तकृत्वः परिषेचनं तत् ।
कार्यं शरक्षारयुतं शिलायाः प्रस्फोटनं वह्निवितापितायाः ॥११३॥
मोक्षक ( काली पाढरि ) वृक्ष की लकड़ी का भस्म मिलाकर जल को गर्म करे
और फिर उसमें शर के वृक्ष का भस्म मिलावे; बाद में अग्नि से तपाई हुई शिला पर
उसे सात बार छिड़कने से शिला फूट जाती है॥११३॥
मोक्षको वृक्षः। यश्च मणीवकमिति प्रसिद्धः। तोयं जलम्। मोक्षकभस्मना यत्तोयं
जलं शृतं क्वथितं तच्छरक्षारयुतं शरभस्मना संयुक्तं कृत्वा तेन वह्निवितापितायाः पूर्वोक्त-
विधानेनाग्निसन्तप्तायाः सप्तकृत्वः सप्तवारं परिषेचनं कार्यं सन्ताप्य ततः परिषेचनं कार्यम्।
ततस्तस्याः प्रस्फोटनं भेदनं भवति।।११३।।
अन्यदपि शिलाभेदनमाह—
तक्रकाञ्जिकसुराः सकुलत्था योजितानि बदराणि च तस्मिन् ।
सप्तरात्रमुषितान्यभितप्तां दारयन्ति हि शिलां परिषेकैः ॥११४॥
छाछ, काँजी, मद्य, कुलथी—इन सबको मिलाकर एक बरतन में सात रात तक
छोड़ दे, बाद में अग्नि से तपाई हुई शिला पर उसे बार-बार छिड़कने से शिला फूट
जाती है॥११४॥
तक्रं मथितं काञ्जिकं सौवीरम्। सुरा प्रसिद्धा। एताः सकुलत्थाः कुलत्थसहिताः।
तस्मिन् बदराणि बदरिफलानि च योजितानि मध्ये प्रक्षिप्तानि। एतानि सर्वाणि सप्तरात्र-
मुषितानि परिषेकैः प्रसेकैरभितप्तामभिसन्तापितां प्राग्विधिना शिलां विदारयन्ति स्फोट-
यन्ति।।११४।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

१०६ बृहत्संहिता
अन्यदप्याह—
नैम्बं पत्रं त्वक्च नालं तिलानां
सापामार्गं तिन्दुकं स्याद् गुडूची।
गोमूत्रेण स्रावितः क्षार एषां
षट्कृत्वोऽस्ततापितो भिद्यतेऽश्मा ॥११५॥
नीम के पत्ते, नीम की छाल, तिलों का नाल, अपामार्ग, तेन्दू का फल, गिलोय—
इन सबों के भस्म को गोमूत्र में मिलाकर उसे तपाई हुई शिला पर छः बार छिड़कने से
शिला फूट जाती है॥११५॥
नैम्बमिति। पत्रं त्वक् च नैम्बमेव। तिलानां नालं यस्मिन्नभ्यन्तरे कोशाकारे तिला
भवन्ति। सापामार्गमपामार्गसहितं तिन्दुकफलं स्याद् भवेत्। गुडूची अमृता। एषामेकीकृतानां
क्षारो भस्म गोमूत्रेण स्रावितः परिस्रावितः। तेनाश्मा पाषाणस्तापितः प्राग्विधिना षट्कृत्वः
षड्‌वारं परिषेचनं कृत्वा भिद्यते॥११५॥
अधुना शस्त्रपानमाह—
आर्कं पयो हुडुविषाणमषीसमेतं
पारावताखुशकृता च युतः प्रलेपः।
टङ्कस्य तैलमथितस्य ततोऽस्य पानं
पश्चाच्छितस्य न शिलासु भवेद्विघातः ॥११६॥
शस्त्र पर पहले तिल का तेल मले, फिर मेष के सींग का भस्म तथा कबूतर और
चूहे की बीट से युत आक के वृक्ष के दूध का लेप करे, फिर उसको आग में तपा कर
पूर्वोक्त पान देवे। ऐसा करने के पश्चात् तेज करके पत्थर पर प्रहार करने से भी उसकी
धार नहीं टूटती है॥ ११६॥
टङ्कं शस्त्रम्। एष श्लोकः खड्गलक्षणे व्याख्यातः॥११६॥
अन्यदप्याह—
क्षारे कदल्या मथितेन युक्ते
दिनोषिते पायितमायसं यत्।
सम्यक् शितं चाश्मनि नैति भङ्गं
न चान्यलोहेष्वपि तस्य कौण्ठ्यम् ॥११७॥
एक अहोरात्र तक तक्र से युत कदली वृक्ष की भस्म में स्थापित लोहे में पूर्वोक्त
पान देकर तीक्ष्ण करके पत्थर पर प्रहार करने से भी उस शस्त्र की धार नहीं टूटती है
तथा अन्य लोहे पर प्रहार करने से भी वह शस्त्र कुण्ठता (अतीक्ष्णता) को नहीं प्राप्त
होता है॥११७॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA