बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 2 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 116, कुल 760 में से
संदर्भ में पढ़ें८८ बृहत्संहिता
तत्र च तस्यां शाखायामेव तले अधस्त्रिपुरुषं पुरुषत्रयं खात्वा अधो जलमुदकं विज्ञातव्यं
ज्ञेयमिति।।५५।।
अन्यदप्याह—
फलकुसुमविकारो यस्य तस्य पूर्वे शिरा त्रिभिर्हस्तैः ।
भवति पुरुषैश्चतुर्भिः पाषाणोऽधः क्षितिः पीता ।।५६।।
जिस वृक्ष के फल-पुष्पों में विकार उत्पन्न हो, उस वृक्ष से तीन हाथ पर पूर्व दिशा
में चार पुरुष नीचे शिरा होती है तथा नीचे पत्थर और पीली भूमि मिलती है।।५६।।
यस्य वृक्षस्य फलानां कुसुमानां पुष्पाणां च विकारो विकृतिरन्यसदृशत्वं तस्य
वृक्षस्य पूर्वे पूर्वस्यां दिशि त्रिभिर्हस्तैः परतश्चतुर्भिः पुरुषैरधः शिरा भवति, तथा चाधः
पाषाणोऽश्मा क्षितिर्भूः पीता भवति।।५६।।
अन्यदप्याह—
यदि कण्टकारिका कण्टकैर्विना दृश्यते सितैः कुसुमैः ।
तस्यास्तलेऽम्बु वाच्यं त्रिभिनरैरर्धपुरुषे च ।।५७।।
जहाँ कांटों से रहित और सफेद पुष्पों से युत कटेरी का वृक्ष दिखाई दे, उस वृक्ष
के नीचे साढ़े तीन पुरुष खोदने पर जल निकलता है।।५७।।
यदि कण्टकारिका निदिग्धिका कण्टकैर्विना कण्टकवर्जिता भवति सा च सितैः
श्वेतैः कुसुमैः पुष्पैस्तदा तस्याः कण्टकारिकायास्तले अधस्त्रिभिर्नरैरर्धपुरुषे च सार्धैस्त्रि-
भिर्नरैरम्बु जलं वाच्यं वक्तव्यमिति।।५७।।
अन्यदप्याह—
खर्जूरी द्विशिरस्का यत्र भवेज्जलविवर्जिते देशे ।
तस्याः पश्चिमभागे निर्देश्यं त्रिपुरुषैर्वारि ।।५८।।
जिस जलरहित देश में दो शिर वाले खजूर का पेड़ हो, वहाँ उस वृक्ष से दो हाथ
पश्चिम दिशा में तीन पुरुष नीचे जल कहना चाहिये।।५८।।
यत्र यस्मिन् देशे जलविवर्जिते द्विशिरस्का द्विशीर्षा खर्जूरी भवेत् स्यात्। तस्याः
खर्जूर्याः पश्चिमभागे पश्चिमाया दिशि हस्तद्वयात् परतस्त्रिपुरुषैस्त्रिभिर्नरैः खातैरधो वारि जलं
वक्तव्यम्। तथा च सारस्वतः—
खर्जूरी द्विशिरस्का स्यान्निर्जले चेत् करद्वये।
निर्देश्यं पश्चिमे वारि खात्वाऽधः पुरुषत्रयम्।। इति।।५८।।
अन्यदप्याह—
यदि भवति कर्णिकारः सितकुसुमः स्यात्पलाशवृक्षो वा ।
सव्येन तत्र हस्तद्वयेऽम्बु पुरुषद्वये भवति ।।५९।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA