बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 2 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
दकार्गलाध्यायः १०७
एषोऽपि खड्गलक्षणे व्याख्यातः।।११७।।
अथ वापीलक्षणमाह—
पाली प्रागपरायताम्बु सुचिरं धत्ते न याम्योत्तरा
कल्लोलैरवदारमेति मरुता सा प्रायशः प्रेरितैः ।
तां चेदिच्छति सारदारुभिरपां सम्पातमावारयेत्
पाषाणादिभिरेव वा प्रतिचयं क्षुण्णं द्विपाश्वादिभिः ।।११८।।
पूर्वापरायत वापी में अधिक समय तक जल ठहरता है। दक्षिणोत्तरायत वापी में
जल नहीं ठहरता है; क्योंकि वायु के तरङ्गों से वह वापी नष्ट हो जाती है। यदि दक्षिणो-
त्तरायत वापी बनाना चाहे तो तरङ्गों से बचाने के लिये उसके किनारों को मजबूत
लकड़ी या पत्थर आदि से चुनवा दे तथा बनाने के समय मिट्टी की हरेक तह को
हाथी-घोड़े आदि को उस पर दौड़ाकर बैठाता जाय, जिससे कि मिट्टी दबकर विशेष
मजबूत हो जाय।।११८।।
पाली वापी प्रागपरायता या पूर्वपश्चिमयोर्दिशोरायता दीर्घा सा सुचिरं बहुकालं अम्बु
जलं धत्ते धारयति। याम्योत्तरा या पाली दक्षिणोत्तरयोर्दिशोरायता सा सुचिरं चिरमम्बु न
धत्ते, यतः सा मरुतो वायुना प्रायशो बाहुल्येन प्रेरितैः कल्लोलैर्जलसंक्षोभैरवदारं विनाशमे-
त्यायाति। तां याम्योत्तरायतां पालीं यदीच्छति कर्ता कर्तुं तदापां सम्पातं सारदारुभिरावारयेत्।
पाल्यां जलेन सह यत्र सम्पर्कस्तत्र भित्तौ सारैर्दृढैर्दारुभिः काष्ठैरावरणं कुर्यात्। पाषाणादिभिरेव
पाषाणैरश्मभिर्वा अपां सम्पातमावारयेत्। आदिग्रहणात् पक्वेष्टकादिभिः स्थूलैः शर्करैश्च।
तत्र च प्रतिचयं चयं चयं प्रति द्विपैर्गजैरश्वैस्तुरगैरादिग्रहणादुष्ट्रमहिषबलीवर्दैः क्षुण्णं मर्दितं
कार्यम्, येन सुदृढं भवति।।११८।।
कीदृशं वाप्यास्तीरं कारयेदित्याह—
ककुभवटाप्रप्लक्षकदम्बैः सनिचुलजम्बूवेतसनीपैः ।
कुरबकतालाशोकमधूकैर्बकुलविमिश्रैश्चावृततीराम् ।।११९।।
निचुल, जामुन, बेंत, नीप ( एक तरह का कदम्ब )—इन वृक्षों के साथ अर्जुन,
बड़, आम, पिलखन, कदम्ब और बकुल के साथ कुरवक, ताड़, अशोक, महुआ,
मौलसिरी—इन वृक्षों को वापी के तट पर लगाना चाहिये।।११९।।
ककुभादयः सर्व एव वृक्षविशेषाः। ककुभः, वटः, आम्रः, प्लक्षः, कदम्बः—
एतैः। किम्भूतैः? सनिचुलजम्बूवेतसनीपैः। निचुलेन, जम्ब्वा, वेतसेन, नीपेन—एभिः
सहितैः संयुक्तैः। तथा कुरबकः, तालः, अशोकः, मधूकः—एतैरपि। किम्भूतैः? बकुल-
विमिश्रैर्बकुलसंयुक्तैः। एतैरावृतो व्याप्तस्तीरस्तटो यस्याः पाल्यास्तां तथाभूतां कारये-
दिति।।११९।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
१०८ बृहत्संहिता
अथ नैर्वाहिकद्वारलक्षणमाह—
द्वारं च नैर्वाहिकमेकदेशे कार्यं शिलासञ्चितवारिमार्गम् ।
कोशस्थितं निर्विवरं कपाटं कृत्वा ततः पांशुभिरावपेत्तम् ॥१२०॥
वापी की एक तरफ जल निकलने के लिये पत्थरों से बन्धवाया हुआ एक मार्ग
बनाना चाहिये। उस मार्ग को छिद्ररहित लकड़ी के तख्ते से ढककर मिट्टी से दृढ़ कर
देना चाहिये।।१२०।।
एकदेशे एकस्मिन् स्थाने जलस्य नैर्वाहिकं द्वारं निर्गमनद्वारं कार्यम्। कीदृशम्?
शिलासञ्चितवारिमार्गम्। शिलाभिः सञ्चितं पाषाणैश्चितं वारिमार्गं यत्र तत् तथाभूतम्।
तच्च कोशस्थितं तले व्यवस्थितम्। तत्र च कपाटं निर्विवरं विवररहितं कृत्वा फलक-
माच्छादनायोपरि दत्वा ततस्तं पांशुभिरावपेत्, मृत्तिकाभिः स्थगयेदित्यर्थः ॥१२०॥
अधुना द्रव्ययोगमाह—
अञ्जनमुस्तोशीरैः सराजकोशातकामलकचूर्णैः ।
कतकफलसमायुक्तैर्यौगः कूपे प्रदातव्यः ॥१२१॥
अञ्जन, मोथा, खस, राजकोशातक, आँवला, कतक का फल—इन सबका चूर्ण
कूप में डालना चाहिये।।१२१।।
अञ्जनं प्रसिद्धो वृक्षविशेषः । सौवीरक इति केचित् । मुस्ता अब्दाः । उशीरं प्रसिद्धम् ।
एतैः किम्भूतैः ? सराजकोशातकामलकचूर्णैः सह राजकोशातकेन अमलscopes? no, अमलकचूर्णेन च।
एतैरपि कतकफलसमायुक्तैः कतकफलेन सहितैः । ईदृशैर्योगो द्रव्यसंयोगः । स च द्रव्य-
समायोगश्चूर्णीकृतः कूपे प्रदातव्यो देयः ॥१२१॥
अस्य गुणानाह—
कलुषं कटुकं लवणं विरसं सलिलं यदि वा शुभगन्धि भवेत् ।
तदनेन भवत्यमलं सुरसं सुसुगन्धि गुणैरपरैश्च युतम् ॥१२२॥
जो जल गन्दला, कड़ुआ, खारा, बेस्वाद या दुर्गन्ध वाला हो, वह इन पूर्वोक्त
औषधियों के डालने पर निर्मल, मधुर, सुन्दर गन्ध वाला और अनेक गुणों से युक्त हो
जाता है।।१२२।।
यत् सलिलं जलं कलुषमनिर्मलम्, कटुकं तिक्तम्, लवणम्, विरसं विगतरसममृष्टम्,
यदि वा अशुभगन्धि दुर्गन्धि भवेत् स्यात्? तत् सलिलमनेनयोगेनामलं निर्मलम्, सुरसं
मृष्टम्, सुसुगन्धि शोभनगन्धि भवति, तथा अपरैश्चान्यैर्गुणैर्युतम्, अकटुकालवणपरिणाम-
करैर्युतं संयुक्तं भवति॥१२२॥
अधुना नक्षत्राण्याह—
हस्तो मघानुराधापुष्यधनिष्ठोत्तराणि रोहिण्यः ।
शतभिषगित्यारम्भे कूपानां शस्यते भगणः ॥१२३॥
CC-0. JK Sanskrit Academy, Jammu. Digitized by S3 Foundation USA
दकार्गलाध्यायः १०९
हस्त, मघा, अनुराधा, पुष्य, धनिष्ठा, तीनों उत्तरा, रोहिणी, शतभिषा—इन नक्षत्रों
में कूप का आरम्भ करना शुभ होता है।।१२३।।
हस्तः, मघा, अनुराधा, पुष्यः, धनिष्ठा, उत्तरास्तिस्र उत्तरफल्गुन्युत्तराषाढोत्तरभद्रपदा
चेति एतानि, तथा रोहिण्यः, शतभिषक्शब्दो व्यवच्छेदाय। अयं भगणे नक्षत्रसमूहः कूपा-
नामारम्भे शस्यते इष्यते।।१२३।।
अधुना प्रतिष्ठाविधानमाह—
कृत्वा वरुणस्य बलिं वटवेतसकीलकं शिरास्थाने ।
कुसुमैर्गन्धैर्धूपैः सम्पूज्य निधापयेत् प्रथमम् ।।१२४।।
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां दकार्गलं
नाम चतुष्पञ्चाशत्तमोऽध्यायः ।।५४।।
वरुण को बलि देकर गन्ध, पुष्प, धूप आदि से बड़ या वेतस की लकड़ी की
कील की पूजन करके पहले शिरास्थान में उसको स्थापित करना चाहिये।।१२४।।
वरुणस्यापाम्पतेर्बलिमुपहारं कृत्वा विधाय वटवेतसकीलकं वटकीलकं वेतसकीलकं
च कुसुमैः पुष्पैर्गन्धैर्गन्धद्रव्यैर्धूपैर्गुग्गुलप्रभृतिभिः सम्पूज्याभ्यर्च्य प्रथममादौ शिरास्थाने
शिराप्रदेशे विनिधापयेद् निखनेत् स्थिरं स्थापयेदिति ।।१२४।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ दकार्गलं
नाम चतुष्पञ्चाशत्तमोऽध्यायः ।।५४।।
( मेघोद्भवं प्रथममेव मया प्रदिष्टं
ज्येष्ठामतीत्य बलदेवमतादि दृष्ट्वा ।
भौमं दकार्गलमिदं कथितं द्वितीयं
सम्यग्वराहमिहिरेण मुनिप्रसादात् ।।
ज्येष्ठ की पूर्णिमा के बाद में जिस प्रकार जल का ज्ञान होता है, उसको मैंने पहले
ही कह दिया है। यहाँ बलदेव आदि आचार्यों का मत देखकर मुनियों की कृपा से मैंने
जलज्ञान के लिये यह दूसरा 'दकार्गल' नामक अध्याय कहा है।)
इति 'विमला' हिन्दीटीकायां दकार्गलाध्यायश्चतुष्पञ्चाशत्तमः ।।५४।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
अथ वृक्षायुर्वेदाध्यायः
अथ वृक्षायुर्वेदाध्यायो व्याख्यायते। तत्रादावेव प्रयोजनप्रदर्शनार्थमाह—
प्रान्तच्छायाविनिर्मुक्ता न मनोज्ञा जलाशयाः ।
यस्मादतो जलप्रान्तेष्वारामान् विनिवेशयेत् ॥१॥
वापी, कूप, तालाब आदि जलाशयों के प्रान्त छायारहित हों तो सुन्दर नहीं होता;
अतः जलाशयों के किनारे पर बागीचा लगाना चाहिये ॥१॥
यस्माज्जलाशया उदकाधारा वापीकूपतडागाः, प्रान्तच्छायाविनिर्मुक्ताः पर्यन्तच्छायावि-
रहिता मनोज्ञाश्चित्ताह्लादका न भवन्ति। अतस्तस्माज्जलप्रान्तेषूदकपर्येन्तेष्वारामान् विशेषेण
विनिवेशयेत् कारयेत्। आरमन्तेऽस्मिन्नित्यारामो वृक्षवाटिकेत्यर्थः ॥१॥
अथ तत्र भूर्लक्षणमाह—
मृद्वी भूः सर्ववृक्षाणां हिता तस्यां तिलान् वपेत् ।
पुष्पितांस्तांश्च मृद्नीयात् कर्मैतत् प्रथमं भुवः ॥२॥
सभी वृक्षों के लिये कोमल भूमि अच्छी होती है। जिस भूमि में बागीचा लगाना
हो, उसमें पहले तिल बोना चाहिये और जब वे तिल फूल जायें तब उनको उसी भूमि
में मर्दन कर देना चाहिये। यह भूमि का प्रथम कर्म है॥२॥
सर्ववृक्षाणां मृद्वी मधुरा कोमला भूः अवनिः हिता हितवहा शोभनेत्यर्थः। तस्यां
भूमौ प्रथमं तिलान् वपेद् उप्यात्। तांस्तिलान् पुष्पितान् सञ्जातकुसुमान् मृद्नीयादुपमर्दयेत्।
एतद्भुवो भूमेः प्रथममादौ कर्म कार्यम्। तथा च काश्यपः—
दूर्वावीरणसंयुक्ताः सानूपा मृदुमृत्तिकाः।
तत्र वाप्यः शुभा वृक्षाः सुगन्धिफलशाखिनः।। इति ॥२॥
अधुना प्रथमारोप्यान् वृक्षानाह—
अरिष्टाशोकपुन्नागशिरीषाः सप्रियङ्गवः ।
मङ्गल्याः पूर्वमारामे रोपणीया गृहेषु वा ॥३॥
पहले बागीचे या घर के समीप में शुभ करने वाले निम्ब, अशोक, पुन्नाग, शिरीष,
प्रियङ्गु ( ककुनी = कौनी )—इन वृक्षों को लगाना चाहिये ॥३॥
अरिष्टः, अशोकः, पुन्नागः, शिरीषः—एते वृक्षविशेषाः। किम्भूताः? सप्रियङ्गवः
प्रियङ्गुवृक्षेण सहिताः, मङ्गल्याः प्रशस्ताः पूर्वं प्रथममारामे रोपणीयाः। गृहेषु वा पूर्वं
प्रथमं गृहेषु रोपणीयाः। तथा च काश्यपः—
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
वृक्षायुर्वेदाध्यायः १११
अशोकचम्पकारिष्टपुन्नागाश्च प्रियङ्गवः।
शिरीषोदुम्बराः श्रेष्ठाः पारिजातकमेव च।।
एते वृक्षाः शुभा ज्ञेयाः प्रथमं तांश्च रोपयेत्।
देवालये तथोद्याने गृहेषूपवनेषु च।। इति।।३।।
अधुना काण्डरोप्याणां विधानमाह—
पनसाशोककदलीजम्बूलकुचदाडिमाः ।
द्राक्षापालीवताश्चैव बीजपूरातिमुक्तकाः ॥४॥
एते द्रुमाः काण्डरोप्या गोमयेन प्रलेपिताः ।
मूलोच्छेदेऽथवा स्कन्धे रोपणीयाः परं ततः ॥५॥
कटहल, अशोक, केला, जामुन, बडहर, दाडिम, दाख, पालीवत, बिजौरा,
अतिमुक्तक—इन वृक्षों की शाखाओं को लेकर गोबर से लीप कर कटे हुये विजातीय
वृक्ष की मूल या शाखा पर लगाना चाहिये। यही कलम लगाने का प्रकार है।।४-५।।
पनसः। अशोकः। कदली। जम्बूः। लकुचः। दाडिमः। द्राक्षा। मृद्वी। पालीवतश्चोचः।
बीजपूरो मातुलुङ्गः। अतिमुक्तकः—एते पनसादयो द्रुमा वृक्षाः काण्डरोप्याः। काण्डाः
शाखास्तान् गोमयेन प्रलिप्य रोपयेत्। ततोऽनन्तरं परं प्रकृष्टं मूलोच्छेदे अथवा स्कन्धे
रोपणीयाः। अन्यवृक्षस्य मूलोच्छेदं कृत्वा तस्य छिन्नमूलस्योपरि विजातीयो वृक्षो रोपणीयः।
अथवा स्कन्धादर्द्धादन्यवृक्षं छित्त्वा तस्य स्कन्धमुत्कीर्य विजातीयो वृक्षो रोपणीयः। तत्र
मृत्तिकाश्लेषं दापयेदिति। तथा च काश्यपः—
द्राक्षातिमुक्तको जम्बूबीजपूरकदाडिमाः।
कदलीबहुलाशोकाः काण्डरोप्याश्च वापयेत्।।
अन्येऽपि शाखिनो ये च पुष्पिताः फलितास्तथा।
गोमयेन प्रलिप्ताश्च रोपणीया विवृद्धये।। इति।।४-५।।
अथ वृक्षाणां कालनियमार्थमाह—
अजातशाखान् शिशिरे जातशाखान् हिमागमे ।
वर्षागमे च सुस्कन्धान् यथादिक्स्थान् प्ररोपयेत् ॥६॥
अजातशाखा अर्थात् कलमी से भिन्न वृक्षों को शिशिर (माघ-फाल्गुन) में,
कलमी वृक्षों को हेमन्त (मार्गशीर्ष-पौष) में और लम्बी-लम्बी शाखा वाले वृक्षों को
वर्षा (श्रावण-भाद्र) में लगाना चाहिये।।६।।
अजातशाखानजातलताङ्कुरान् वृक्षान् शिशिरे माघे फाल्गुने च रोपयेत्। जातशाखान्
हिमागमे हेमन्ते मार्गशीर्षे पौषे च रोपयेत्। सुस्कन्धान् महाशाखायुक्तान् वर्षागमे प्रावृट्काले
श्रावणे भाद्रपदे च रोपयेत्। केचित् ‘जातशाखान् घनागमे वर्षागर्भे च सुस्कन्धान्’ इति
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
११२ बृहत्संहिता
पठन्ति। घनागमे वर्षाप्रारम्भे। वर्षगर्भे वर्षामध्यभागे इति। तांश्च यथादिक्स्थान् पूर्वमन्यस्थान-
तस्तस्य तरोर्या पूर्वा दिगाशा साऽन्यत्र रोपितस्य पूर्वैव कार्या। एवं सर्वासां दिशामानुलोम्यं
वाच्यम्। तथा च काश्यपः—
अजातशाखा ये वृक्षाः शिशिरे तांश्च रोपयेत्।
जातशाखाश्च हेमन्ते रोपणीया विधानतः।।
सुस्कन्धाः शाखिनो ये तान् प्रावृट्काले तु रोपयेत्।। इति।।६।।
अन्यदप्याह—
घृतोशीरतिलक्षौद्रविडङ्गक्षीरगोमयैः ।
आमूलस्कन्धलिप्तानां संक्रामणविरोपणम् ।।७।।
घृत, खस, तिल, शहद, विडङ्ग ( वायविडङ्ग ), दूध, गोबर—इन सबों को पीसकर
मूल से लेकर अग्रभागपर्यन्त लेप कर वृक्ष को एक स्थान से उठाकर दूसरे स्थान पर
लगाना चाहिये।।७।।
घृतमाज्यम्, उशीरं प्रसिद्धम्, तिलाः, क्षौद्रं माक्षिकम्, विडङ्गः, क्षीरं गोक्षीरम्,
गोमयं गोशकृद्—एतैर्घृतादिभिरामूलस्कन्धलिप्तानां मूलात् प्रभृति शाखान्तं यावद्
लिप्तानां वृक्षाणां संक्रामणविरोपणम्। संक्रामणं देशान्तरनयनम्। अन्यदेशे नीत्वा रोपये-
दित्यर्थः। तथा च—
घृतं क्षीरं तथा क्षौद्रमुशीरतिलगोमयैः।
विडङ्गलेपनं मूलात् संक्रामणविरोपणम्।।
संक्रामे रोपणं शुभमित्यर्थः।।७।।
अथ रोपणविधानमाह—
शुचिर्भूत्वा तरोः पूजां कृत्वा स्नानानुलेपनैः ।
रोपयेद्रोपितश्चैव पत्रैस्तैरेव जायते ॥८॥
पवित्र होकर स्नान, चन्दन आदि से वृक्ष की पूजा करके उसे दूसरे स्थान पर
लगाना चाहिये। इस तरह लगाने से अपने पूर्व पत्रों से युत वृक्ष ही लग जाता है, अर्थात्
सूखता नहीं है।।८।।
शुचिः समाहितो भूत्वा तरोर्वृक्षस्य स्नानानुलेपनैः स्नानेनानुलेपनेन पूजामर्चां कृत्वा
विधाय रोपयेत्। एवमनेन प्रकारेण रोपितश्च तैरेव पत्रैर्यैर्युक्तो रोपितस्तैः सह जायते न
शुष्यति।।८।।
अधुना रोपितानां सेकविधानमाह—
सायं प्रातश्च घर्मर्तौ शीतकाले दिनान्तरे ।
वर्षासु च भुवः शोषे सेक्तव्या रोपिता द्रुमाः ॥९॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
वृक्षायुर्वेदाध्यायः ११३
उपर्युक्त प्रकार से लगाये गये वृक्षों को ग्रीष्म ऋतु में सायं और प्रातः, शीत काल
में एक दिन के अन्तर से एवं वर्षा ऋतु में भूमि के सूखने पर सींचना चाहिये॥९॥
रोपिता द्रुमा वृक्षा घर्मर्तौ ग्रीष्मे सायं प्रातश्च सेक्तव्याः। सायम्पराह्ने प्रातः पूर्वाह्ने।
शीतकाले हेमन्ते शिशिरे च दिनान्तरे च। दिनं दिनमन्तरे मध्ये कृत्वा सेक्तव्याः। वर्षासु
च वर्षासमये। भुवः शोषे यदा यदा भूः शुष्यति, तदा तदा च सेक्तव्याः॥९॥
अथानूपजान् वृक्षानाह—
जम्बूवेतसवानीरकदम्वोदुम्बराजुॅनाः ।
बीजपूरकमृद्वीकालकुचाश्च सदाडिमाः ॥१०॥
वञ्जुलो नक्तमालश्च तिलकः पनस्तथा।
तिमिरोऽम्रातकश्चेति षोडशानूपजाः स्मृताः ॥११॥
जामुन, बेंत, वानीर ( एक प्रकार का बेंत ), कदम्ब, गूलर, अर्जुन, बिजौरा,
दाख, बडहर, दाडिम, वञ्जुल ( तेन्दुआ = तिनिस ), नक्तमाल ( करञ्ज ), तिलक,
कटहल, तिमिर, अम्बाडा—ये सोलह वृक्ष अनूप ( बहुत जल वाले ) देश में पाये जाते
हैं॥१०-११॥
जम्बूः, वेतसः, वानीरः, कदम्बः, उदुम्बरः, अर्जुनः, बीजपूरको मातुलुङ्गः, मृद्वीका
द्राक्षा, लकुचः—एते सदाडिमा दाडिमेन सहिताः। वज्जुलः, नक्तमालश्च, तिलकः,
पनसः। तथा तेनैव प्रकारेण तिमिरः, अम्रातकः। चशब्दः समुच्चये। इत्येवंप्रकाराः षोडश
वृक्षा अनूपजा अनूपे बहूदके जायन्ते॥१०-११॥
अथ वृक्षाणां रोपितानां किं प्रमाणमन्तरं कार्यमित्येतत्प्रतिपादनायाह—
उत्तमं विंशतिर्हस्ता मध्यमं षोडशान्तरम्।
स्थानात् स्थानान्तरं कार्यं वृक्षाणां द्वादशावरम् ॥१२॥
एक वृक्ष से दूसरा वृक्ष बीस हाथ की दूरी पर लगाना उत्तम, सोलह हाथ पर
मध्यम और बारह हाथ पर लगाना अधम होता है॥१२॥
वृक्षाणां स्थानात् स्थानात् प्रदेशात् प्रदेशाद्यदन्तरं विंशतिर्हस्ता वृक्षस्य समन्ततस्तदुत्तमं
प्रमाणम्, यच्चानन्तरं षोडशहस्तान्तरं तन्मध्यमम्, यदनन्तरं द्वादशहस्तान्तरं तदवरं
निकृष्टमित्यर्थः। एतदुक्तं भवति—यत्रैको वृक्षो रोपितस्तस्माद्विंशतिकेऽन्तरे षोडशके वा
अन्यद्रोपणीयमिति। तथा च काश्यपः—
अन्तरं विंशतिर्हस्ता वृक्षाणामुत्तमं स्मृतम्।
मध्यमं षोडश ज्ञेयमधमं द्वादश स्मृतम्॥ इति॥१२॥
किमिति तेषां मध्येऽन्तरं क्रियत इति तदर्थमाह—
अभ्यासजातास्तरवः संस्पृशन्तः परस्परम्।
मिश्रैर्मूलैश्च न फलं सम्यग्यच्छन्ति पीडिताः ॥१३॥
बृ० भ० द्वि०-८
CC-0. JK Sanskrit Academy, Jammpmu. Digitized by S3 Foundation USA
११४ बृहतसंहिता
यदि एक वृक्ष दूसरे वृक्ष के समीप हो, परस्पर स्पर्श करता हो या दोनों की जड़ें
इकट्ठी हों तो वे वृक्ष पीड़ित होते हैं और अच्छी तरह फल नहीं देते।।१३।।
ये तरवो वृक्षा अभ्यासजाताः सन्निकर्षसम्भूताः परस्परमन्योन्यं संस्पृशन्तः, मिश्रैश्च
परस्परं संलग्नैर्मूलैः पीडिता भवन्ति। अतस्ते सम्यक् फलं न यच्छन्ति न ददति।।१३।।
अथ तेषां रोगज्ञानमाह—
शीतवातातपै रोगो जायते पाण्डुपत्रता ।
अवृद्धिश्च प्रवालानां शाखाशोषो रसस्रुतिः ।।१४।।
अधिक शीत, वायु और धूप लगने से वृक्षों को रोग हो जाता है। रोगी वृक्षों के पत्ते
पीले पड़ जाते हैं। उनके अंकुर नहीं बढ़ते, डालियाँ सूख जाती हैं और उनसे रस
टपकने लगता है।।१४।।
शीतेन वातेनातपेन च रोगस्तेषां जायत उत्पद्यते, तथा पाण्डुपत्रता पर्णानां पाण्डुत्वम्,
प्रबालानाम्ङ्कुराणामवृद्धिरसमृद्धिः, शाखानां शोषो नीरसता, रसस्य च स्रुतिः स्राव एतैश्चि-
ह्नैस्तरुः सरोगो ज्ञेयः।।१४।।
अथैतेषां चिकित्सितमाह—
चिकित्सितमथैतेषां शस्त्रेणादौ विशोधनम् ।
विडङ्गघृतपङ्काक्तान् सेचयेत् क्षीरवारिणा ।।१५।।
इन रोगी वृक्षों की चिकित्सा करनी चाहिये। पहले वृक्ष का जो अंग पूर्वोक्त विकार-
युत हो, उसको शस्त्र से काट डालना चाहिये। फिर वायविडङ्ग, घृत और पङ्क ( कीचड़
= कीच ) को मिला कर वृक्षों में लेप करना चाहिये। बाद में दूधमिश्रित जल से उसे
सींचना चाहिये।।१५।।
अथानन्तरमेतेषां वृक्षाणां चिकित्सितं भवति। आदौ प्रथमं शस्त्रेण व्रणादिविशोधनं
कार्यम्। यद्विवर्णं क्लिन्नमवयवं तच्छस्त्रेण निवर्तयेत्। विडङ्गः, घृतमाज्यम्, पङ्कः कर्दमः—
एतैरेकीकृतैः आक्तानत्यन्तं लिप्तान् कुर्यात्। ततः क्षीरवारिणा क्षीरसंयुक्तेन जलेन सेचयेत्।
एवं कृते नीरुजा भवन्ति। तथा च काश्यपः—
शाखाविटपपत्रैश्च छायया विहिताश्च ये।
येऽपि पर्णफलैर्हीना रूक्षाः पत्रैश्च पाण्डुरैः।।
शीतोष्णवर्षवाताद्यैर्मूलैर्व्यामिश्रितैरपि ।
शाखिनां तु भवेद्रोगो द्विपानां लेखनेन च।।
चिकित्सितेषु कर्तव्या ये च भूयः पुनर्नवाः।
शोधयेत् प्रथमं शस्त्रैः प्रलेपं दापयेत् ततः।।
कर्दमेन विडङ्गैश्च घृतमिश्रैश्च लेपयेत्।
क्षीरतोयेन सेकः स्याद् रोहणं सर्वशाखिनाम्।। इति।।१५।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
वृक्षायुर्वेदाध्यायः ११५
अथ फलनाशचिकित्सितमाह—
फलनाशे कुलत्थैश्च माषैर्मुद्गैस्तिलैर्यवैः ।
शृतशीतपयःसेकः फलपुष्पसमृद्धये ॥१६॥
वृक्ष में फल न लगें तो कुलथी, उड़द, मूँग, तिल, जौ—इन सबको दूध में डाल
कर गर्म करने के पश्चात् उस दूध को ठण्ढा करके उससे फल और फूलों की वृद्धि के
लिये वृक्षों को सीचना चाहिये॥१६॥
वृक्षाणां यदा फलनाशो भवति, तदा कुलत्थैर्माषैर्मुद्गैस्तिलैर्यवैः। एतैः सह शृतशीतपयः
शृतं क्वथितं तदेव पश्चाच्छीतं पयः क्षीरं कृत्वा तेन पयसा फलानां पुष्पाणां चातिवृद्धये
सेकः कार्य इति॥१६॥
अथ वृद्ध्यर्थप्रयोगमाह—
अविकाजशकृच्चूर्णस्याढके द्वे तिलाढकम्।
सक्तुप्रस्थो जलद्रोणे गोमांसतुलया सह ॥१७॥
सप्तरात्रोषितैरेतैः सेकः कार्यो वनस्पतेः ।
वल्मीगुल्मलतानां च फलपुष्पाय सर्वदा ॥१८॥
भेड़ और बकरी की मेंगन ( भेड़ारी ) का चूर्ण दो आढक, तिल एक आढक, सत्तू
( सतुआ ) एक प्रस्थ, जल एक द्रोण, गौ का मांस एक तुला—इन सबको मिलाकर
एक पात्र में सात रात तक रखने के पश्चात् फल, फूलों की वृद्धि के लिये उससे वृक्ष,
गुल्म और लताओं को सींचना चाहिये॥१७-१८॥
अविका प्रसिद्धा मेषजातिः, अजश्छागः, अविकाजयोः शकृत् पुरीषः, तच्चूर्णस्य
द्वे आढके। अविकशकृच्चूर्णस्याढकमजशकृच्चूर्णस्याढकम्। आढकश्चतुःषष्टिपलानि,
तिलानामाढकम्, सक्तुप्रस्थः, प्रस्थः षोडशपलानि, जलस्य द्रोणः, द्रोणः पलशतद्वयं षट्-
पञ्चाशदधिकम्। एतत्सर्वं गोमांसतुलया सह। तुला पलशतम्। उक्तं च—
त्रियवं कृष्णलं निन्द्याद् माषः पञ्चकृष्णलः।
ते स्युर्द्वादशलाक्षाख्यं सुवर्णमथ षोडश।।
पञ्चलक्षैश्चतुर्भिस्तु सुवर्णैर्निष्क उच्यते।
चतुष्पलोऽथ कुडवः प्रस्थः स्यात्तच्चतुष्टयम्।।
आढकस्तु चतुष्प्रस्थो द्रोणस्तु चतुराढकः।
मानिका तु चतुर्द्रोणा खारी स्यात्तच्चतुष्टयम्।।
तुला पलशतं ज्ञेयं भारः स्याद्विंशतिस्तुलाः।
शुष्कद्रव्येषु संख्येयं चार्द्रेषु द्विगुणा भवेत्।।
एवं तन्मध्ये गोमांसस्य गोपिशितस्य तुला देया। पलशतमित्यर्थः। एतैः सर्वैरेकीकृतैः
CC-0. JK Sanskrit Academy, Jammpu. Digitized by S3 Foundation USA
११६ बृहत्संहिता
सप्तरात्रोषितैः सप्ताहमुषितैः। वनस्पतेर्वृक्षस्य वल्लीनां लतानां च फलानां चातिवृद्ध्यर्थ
सर्वदा सर्वकालं सेकः कार्यः। एतत् प्रमाणमेकस्य वृक्षस्यानेनानुसारेण बहूनां कार्यम्।
तथा च काश्यपः—
अजाविकानां द्वौ प्रस्थौ शकृच्चूर्णं च कारयेत्।
तिलानामाढकं दद्यात् सक्तूनां प्रस्थमेव च।।
गोमांसशतमेकं स्याद् द्वे सार्धे सलिलस्य च।
सप्ताहमुषितैरेतैः सेकं दद्याद् वनस्पतेः।।
स भवेत् फलपुष्पैश्च पत्रैश्चाङ्कुरितैर्वृतः।। इति।। १७-१८।।
अधुना बीजानां वापनविधानमाह—
वासराणि दश दुग्धभावितं बीजमाज्ययुतहस्तयोजितम्।
गोमयेन बहुशो विरूक्षितं क्रौडमार्गपिशितैश्च धूपितम् ॥१९॥
मांससूकरवसासन्वितं रोपितं च परिकर्मितावनौ।
क्षीरसंयुतजलावसेचितं जायते कुसुमयुक्तमेव तत् ॥२०॥
किसी वृक्ष के बीज को घृत लगाये हुये हाथ से चुपड़ कर दूध में डाल दे। इसी
प्रकार लगातार दश दिन तक करता रहे। बाद में उसको गोबर से अनेक बार मल कर
रूखा करके सूकर और हिरण के मांस का धूप देने के बाद मांस और सूकर की चर्बी-
सहित उस बीज को तिल बोकर शुद्ध की हुई भूमि में लगाकर दुग्धमिश्रित जल से सींचे
तो निश्चित ही फूलयुक्त वृक्ष उत्पन्न होता है॥१९-२०॥
यस्य कस्यचिद् वृक्षस्य बीजं दश वासराणि दश दिनानि दुग्धभावितं दुग्धे सिक्तं
कार्यम्। कीदृशम्? आज्ययुतहस्तयोजितम्, आज्ययुतेन घृतेनाभ्यक्तेन हस्तेन करेण
योजितं क्षीरमध्ये क्षिप्तम्। पुनर्गृहीत्वा घृताभ्यक्तेन करेणैकीभूतं पृथक्कार्यम्। एवं प्रत्यहं
कर्म कार्यम्। यावद्दश दिनानि। ततो गोमयेन गोशकृता बहुशो बहून् वारान् विरूक्षितं
मर्दितम्। क्रोडः सूकरः। मृगो हरिणः। क्रोडस्येदं क्रौडम्। मृगस्येदं मार्गम्। क्रौडमार्ग-
पिशितैर्मांसैर्धूपितम्, भाण्डान्तरस्थं धूपयेत्।
ततो मांसेनामिषेण सूकरवसया वराहमज्जया समन्वितं संयुक्तं परिकर्मितायामवनौ
भूमौ रोपितम्। परिकर्मिता तिलवपनेन। ततः क्षीरसंयुतेन जलेनोदकेनावसेचितं सुतृप्तं
तद्बीजम्। एवंकृते कुसुमयुक्तं पुष्पसंयुतमेव जायत उत्पद्यते॥१९-२०॥
अधुना तिन्तिडीविधानमाह—
तिन्तिडीत्यपि करोति वल्लरीं व्रीहिमाषतिलचूर्णसक्तुभिः ।
पूतिमांससहितैश्च सेचिता धूपिता च सततं हरिद्रया ॥२१॥
सड़े हुए मांस से युत धान, उड़द, तिल—इनका चूर्ण और सत्तू—इन सबसे सींच
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
वृक्षायुर्वेदाध्यायः ११७
कर हल्दी का धूप देने से अत्यन्त कठोर इमली का बीज भी शीघ्र ही अंकुरित हो जाता
है।।२१।।
अपिशब्दः सम्भावनायाम्। तिन्तिडीत्यपि वल्लरीं करोति, अभिनवाङ्कुरा सम्पद्यते;
यतः सा अतिकठिना। कैः? व्रीहिमाषतिलचूर्णसक्तुभिः, व्रीहिचूर्णैः, शालिचूर्णैः, माषचूर्णैः,
तिलचूर्णैः, सक्तुभिश्च। कीदृशैः? पूतिमांससहितैः क्लिन्नमांसयुतैः। एतैश्च सेचिता सिक्ता
सततं सर्वकालं हरिद्रया च धूपिता। एतदुक्तं भवति—तिन्तिडीबीजं व्रीहिचूर्णमाषचूर्ण-
तिलचूर्णसक्तुभिरेकीकृतैः पूतिमांससहितैः सिक्तं कृत्वा हरिद्रया धूपयेत्। वल्लरीं करोति।
अपिशब्दादन्यबीजस्य वल्लरीकरणे कः सन्देहः।।२१।।
अधुना कपित्थबीजरोपणमाह—
कपित्थवल्लीकरणाय मूलान्यास्फोटधात्रीधववासिकानाम्।
पलाशिनी वेतससूर्यवल्ली श्यामातिमुक्तैः सहिताष्टमूली ॥२२॥
क्षीरे शृते चाप्यनया सुशीते ताला शतं स्थाप्य कपित्थबीजम्।
दिने दिने शोषितमर्कपादैर्मासं विधिस्त्वेष ततोऽधिरोप्यम् ॥२३॥
हस्तायतं तद्द्विगुणं गभीरं खात्वावटं प्रोक्तजलावपूर्णम्।
शुष्कं प्रदग्धं मधुसर्पिषा तत् प्रलेपयेद् भस्मसमन्वितेन ॥२४॥
चूर्णीकृतैर्माषतिलैर्यवैश्च प्रपूरयेद् मृत्तिकयान्तरस्थैः।
मत्स्यामिषाम्भस्सहितं च हन्याद्यावद् घनत्वं समुपागतं तत् ॥२५॥
उप्तं च बीजं चतुरङ्गुलाधो मत्स्याम्भसा मांसजलैश्च सिक्तम्।
वल्ली भवत्याशु शुभप्रवाला विस्मापनी मण्डपमावृणोति ॥२६॥
कपित्थ ( कैथ ) के बीज की शीघ्र उत्पत्ति के लिये विष्णुक्रान्ता, आँवला, धव,
वसा—इनकी जड़; पत्तों से युत बेंत और सूर्यमुखी तथा निसोत, अतिमुश्कक ( तेन्दुआ =
तिनिस )—इनकी जड़; इन आठ मूलों को दूध में डालकर भरपूर गर्म करे। बाद में
उस दूध को ठण्डा कर उसमें कैथ के बीज को डाल दे। दोनों हाथों से सौ बार ताली
बजाने में जितना समय लगता है, उतनी देर तक उस बीज को दूध में रहने दे। बाद में
उसको दूध से निकाल कर धूप में सुखा ले। इस तरह प्रतिदिन एक मास तक करता रहे
और बाद में उस बीज को बो दे। एक हाथ व्यास वाला वृत्त के आकार का दो हाथ
गहरा एक गड्ढा खोद कर उसको पूर्वकथित रीति से दूधमिश्रित जल से पूर्ण करे। जब
वह सूख जाय तब उसको अग्नि से जला दे। बाद में शहद और घृत से युक्त भस्म से
उस गड्ढे को लीप दे। फिर मृत्तिकायुत उड़द, तिल और जौ के चूर्ण से गड्ढे को भरकर
मछली और मांसयुत जल से उसको ऊपर से तब तक ठोके, जब तक कि वह कठिन
न हो जाय। इसके पश्चात् उस पर चार अंगुल नीचे पूर्व में सिद्ध किया हुआ कैथ का
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
११८ बृहत्संहिता
बीज रोप कर मछली और मांस के जल से सींचे तो शीघ्र ही सुन्दर पत्तों से युत, मण्डप
को ढकने वाली वल्ली उत्पन्न हो जाती है।।२२-२६।।
कपित्थवल्लीकरणायेति। कपित्थबीजस्य वल्लीकरणाय वल्लीजननाय मूलान्ये-
तानि। केषाम्? आस्फोटधात्रीधववासिकानाम्, आस्फोटः सारिवा, धात्री आमलकी, धवो
वृक्षः, वासिका प्रसिद्धा। एषां चतुर्णां चत्वारि च मूलानि, तथा वेतसो वृक्षः। वेतसस्य
वृक्षस्य वल्ली व्रततिः समूला पलाशिनी पर्णयुक्ता। एवमेव सूर्यवल्ली। श्यामा प्रसिद्धा।
केचित् त्रिवृदितीच्छन्ति। अतिमुक्तः स्यन्दनकः। एषां मूलैः सहिता, अष्टमूली भवति,
अष्टानां मूलानां समाहारः अष्टमूली।
क्षीरे शृते चेति। अनया अष्टमूल्या सह क्षीरे शृते क्वथिते ततः सुशीते कृते तन्मध्ये
कपित्थबीजं तालशतं संस्थाप्य। तालो हस्तशब्दः। एतावन्तं कालं संस्थाप्य ततो
गृह्णीयात्। अनन्तरमर्कपादैः सूर्यरश्मिभिः शोषितं कार्यम्। एवं दिने दिने यावन्मासं
त्रिंशद्दिनानि तावदेवं विधिः। ततोऽनन्तरमधिरोप्य रोपणीयम्।
हस्तायतमिति। अवटं गर्तं हस्तायतं हस्तप्रमाणमायतम्। समन्ततः समं वृत्तम्।
तद् द्विगुणं गभीरं हस्तद्वितयं गम्भीरं तथाभूतं खात्वा तच्च प्रोक्तजलावपूर्णम्, प्रोक्तेन
कथितेन जलेन क्षीरोदकेनावपूरितं कृत्वा ततस्तं शोषयेत्। ततः शुष्कमग्निना प्रदहेत्।
शुष्कं प्रदग्धं च मधुसर्पिषा मधुना माक्षिकेन सर्पिषा घृतेन च भस्मसमन्वितेन भस्मना
युक्तेन प्रलेपयेद् लिम्पेत्।
चूर्णीकृतैरिति। ततो माषैस्तिलैर्यवैश्चूर्णीकृतैः सच्चूर्णितैः प्रपूरयेत्; तमवटं मृत्ति-
कया पूरयित्वा ततोऽन्तरस्थैः, अन्तरे मध्ये स्थिता ये तैर्मृत्तिकयान्तरस्थैः। अयमर्थः—
मृदाङ्गुलचतुष्कमात्रं पूरयित्वा ततो माषादिभिः पूरयेत्। पुनरपि तावन्मात्रं मृत्तिकया पूर-
यित्वा पुनरपि माषादिभिः पूरयेत्। ततस्तं मत्स्यामिषाम्भःसहितं च हन्यात्, मत्स्यामिषेण
मत्स्यमांसेन युक्तं यदम्भो जलं तेन सहितं तदवटं हन्यात् पुनः पुनः क्षोदयेत्। यावत्
तदवटं घनत्वं काठिन्यं समुपागतं प्राप्तम्।
उप्तमिति। ततस्तत्र चतुरङ्गुलाधश्चतुर्णामङ्गुलानामधस्तद्वृक्षबीजमुप्तं वापितं मत्स्या-
म्भसा मत्स्ययुक्तेन जलेन मांसयुक्तैर्जलैश्चोदकैः सिक्तं सेचितमाशु क्षिप्रमेव शुभप्रवाला
शोभनपल्लवा वल्ली भवति सम्पद्यते। कीदृशी? विस्मापनी विस्मयजननी। मण्डपमाधारमा-
वृणोति आच्छादयति।।२२-२६।।
अथान्येषां रोपणमाह—
शतशोऽङ्कोलसम्भूतफलकल्केन भावितम्।
एतत्तैलेन वा बीजं श्लेष्मातकफलेन वा।।२७।।
वापितं करकोन्मिश्रमृदि तत्क्षणजन्मकम्।
फलभारान्विता शाखा भवतीति किमद्भुतम्।।२८।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
वृक्षायुर्वेदाध्यायः १११
अङ्कोल वृक्ष के फल के कल्क या तेल से अथवा श्लेष्मातक ( लसोड़े ) के
फल, कल्क या तेल से सौ बार भावना देकर ओलों से भीगी हुई मिट्टी में जिस बीज
को बोया जाता है, वह उसी क्षण उत्पन्न हो जाता है तथा उसकी शाखा फलों के भार से
झुक जाती है। इसमें किसी प्रकार का आश्चर्य नहीं करना चाहिये अर्थात् ऐसा निश्चित ही
होता है।।२७-२८।।
अङ्कोलो वृक्षस्तत्सम्भूतफलकल्केन, एतत्फलस्य यः कल्को द्रव्यभागो विज्जला-
रूपस्तेन यस्य कस्यचिद्वृक्षस्य बीजं शतशः शतवारं भावितं सिक्तम्। एतत्तैलेन वा अङ्कोल-
फलतैलेन वा शतशो भावितम्। तदेव बीजं श्लेष्मातकवृक्षफलेन वा तस्य कल्केन
तैलेन वा शतशो भावितम्।
तच्च वापितं करकोन्मिश्रमृदि, करका अशनिपातस्तेनोन्मिश्रा च या मृत् तस्यां
वापितमुप्तं तद्वीजं तत्क्षणजन्मकं यस्मिन्नेव क्षणे मुहूर्ते उप्तम्, तस्मिन्नेव जायते। शाखा
लता फलभारान्विता फलान्येव भारस्तेनान्विता, आनता वा भवतीति किमद्भुतं किमाश्चर्यम्।
अवश्यमेव तद्भवतीत्यर्थः।।२७-२८।।
अथ श्लेष्मातकरोपणमाह—
श्लेष्मातकस्य बीजानि निष्कुलीकृत्य भावयेत् प्राज्ञः।
अङ्कोलविज्जलाद्भिश्चायायां सप्तकृत्वैवम् ।।२९।।
माहिषगोमयघृष्टान्यस्य करीषे च तानि निक्षिप्य।
करकाजलमृद्योगे न्युप्तान्यह्ना फलकराणि ।।३०।।
बुद्धिमान् मनुष्य को चाहिये कि छिलका उतारे हुए लसोड़े के बीज को अङ्कोलफल
के भीतर के जल से भावना देकर छाया में सुखाता जाय। इस तरह सात बार करने के
पश्चात् उसको भैंस के गोबर से घिस कर भैंस के सूखे गोबर के ढेर पर रख दे।
तत्पश्चात् ओलों से भींगी हुई मिट्टी में उन बीजों को बोने पर एक दिन में ही फलयुत
पौधा लग जाता है।।२९-३०।।
प्राज्ञो मेधावी श्लेष्मातकस्य वृक्षस्य बीजानि निष्कुलीकृत्य कृत्रिमतुषमपास्य ततोऽङ्कोल-
फलानां या विज्जलाः पिच्छिला आपस्ताभिरङ्कोलविज्जलाद्भिश्चायायां भावयेत्। एवमनेन
प्रकारेण सप्तकृत्वः सप्तवारं भावयेत्। अङ्कोलविज्जलाद्भिर्भावयित्वा छायायां शोषयेत्
पुनर्भावयित्वा शोषयेत् सप्तवारं यावत्।
ततस्तानि बीजानि माहिषगोमयेन महिषशकृता घृष्टानि शक्तानि, कृत्वा ततोऽस्य
महिषस्य करीषे गोमयराशौ तानि बीजानि निक्षिप्य संस्थापयेत्, तत्र च तावत् स्थाप्यानि
भाण्डान्तर्गतानि यावत् करकाजलेन युक्ता मृद्भवति करकाजलेनाशनिपातपानीयेन या
युक्ता मृत् तया युक्ते स्थाने न्युप्तानि वापितानि अह्ना दिवसेन फलकराणि भवन्ति। एकेनै-
वाह्ना फलन्तीत्यर्थः।।२९-३०।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
१२० बृहत्संहिता
अथ वृक्षाणां रोपणनक्षत्राण्याह—
ध्रुवमृदुमूलविशाखा गुरुभं श्रवणस्तथाश्विनी हस्तः ।
उक्तानि दिव्यदृग्भिः पादपसंरोपणे भानि ॥३१॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां वृक्षायुर्वेदो
नाम पञ्चपञ्चाशत्तमोऽध्यायः ॥५५॥
तीनों उत्तरा, रोहिणी, मृगशिरा, रेवती, चित्रा, अनुराधा, मूल, विशाखा, पुष्य,
श्रवण, अश्विनी, हस्त—इन नक्षत्रों को दिव्य दृष्टि वाले मुनियों ने वृक्षों का रोपन करने
के लिये उत्तम कहा है॥३१॥
इति 'विमला'हिन्दीटीकायां वृक्षायुर्वेदाध्यायः पञ्चपञ्चाशत्तमः ॥५५॥
त्र्युत्तरा रोहिणी चेति ध्रुवाणि, अनुराधाचित्रामृगशिरोरेवत्यश्चेति मृदूनि, मूलम्, विशाखा,
तिष्यः, श्रवणः, अश्विनी, हस्तः—एतानि नक्षत्राणि पादपानां वृक्षाणां संरोपणे वपनकर्मणि
दिव्यदृग्भिर्दिव्या सूक्ष्मार्थदर्शिनी दृग् येषां ते दिव्यदृशो मुनयो गर्गादयस्तैरुक्तानि कथितानि।
केचिच्छस्तानि प्रशंसितानीति पठन्तीति ॥३१॥
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ वृक्षायुर्वेदो
नाम पञ्चपञ्चाशत्तमोऽध्यायः ॥५५॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
अथ प्रासादलक्षणाध्यायः
अथ प्रासादलक्षणं व्याख्यायते। तत्रादावेव प्रयोजनप्रदर्शनार्थमाह—
कृत्वा प्रभूतं सलिलमारामान् विनिवेश्य च।
देवतायतनं कुर्याद् यशोधर्माभिवृद्धये ॥१॥
बहुत जल वाले जलाशय बनाकर और बागीचा लगाकर यश और धर्म की वृद्धि
के लिये देवता का मन्दिर बनाना चाहिये॥१॥
प्रभूतं पर्याप्तं सलिलं जलं कृत्वा तत्र चारामान् वृक्षवाटिकान् विनिवेश्य वेशयित्वा
यशोधर्माभिवृद्धये यशसः कीर्तेः धर्मस्य चाभिवृद्ध्यर्थं देवतायतनं देवतागृहं कुर्याद् विदध्यात्।
अत्रैव प्रशंसनार्थमाह—
इष्टापूर्तेन लभ्यन्ते ये लोकास्तान् बुभूषता।
देवानामालयः कार्यो द्वयमप्यत्र दृश्यते ॥२॥
इष्ट ( यज्ञ आदि ) करने से, पूर्त ( वापी, कूप, तडाग आदि ) बनाने से जो लोक
मिलते हैं, उन दोनों को चाहने वाले मनुष्य को देवालय का निर्माण कराना चाहिये;
क्योंकि इसमें दोनों लोक दिखाई देते हैं॥२॥
इष्टं यज्ञादिकम्, पूर्तं वापीकूपतडागादिकम्। तथा चोक्तम्—
इष्टं यज्ञेषु यद्दानं ततोऽन्यत् पूर्त्तमिष्यते।
इष्टाभिः पशुबन्धैश्च चातुर्मास्यैर्यजेद् द्विजः।।
अग्निष्टोमादिभिर्यज्ञैर्यो यजेत स इष्टवान्।
वापीकूपतडागादिदेवतायतनानि च।।
अन्नप्रदानमाचार्यैः पूर्त इत्यभिधीयते।
इष्टापूर्तेन ये लोकाः पुण्यस्थानानि लभ्यन्ते प्राप्यन्ते, तान् बुभूषता भवितुमिच्छता
प्राप्तुमिच्छतेत्यर्थः। देवानां सुराणामालयः कार्यः, गृहं देवानां कर्तव्यमित्यर्थः। यतोऽत्र
देवालये द्वयमपि दृश्यते। इष्टापूर्तेषु यत् फलं तदत्र दृश्यते प्राप्यत इत्यर्थः। तथा च
काश्यपः—
इष्टापूर्तादिभिर्यज्ञैर्यावत् कुर्वन्ति मानवाः।
अग्निष्टोमादिपशुभिरिष्टं यज्ञं प्रकीर्तितम्।।
वापीकूपतडागादिदेवतायतनानि च।
स्वर्गस्थितिं सदा कुर्यात्तद्दानं पूर्तसंज्ञितम्।।
देवानामालयः कार्यो द्वयमप्यत्र लभ्यते।। इति।।२।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
.
Wait, let's look at line 22 again very carefully:
"आक्षिप्ता दूरे प्रेरितास्ते कह्लाराः पुष्पविशेषाः सितोत्पलास्तेषामाक्षेप..."
Wait, let's look at the letters:
त े ष ा म ा क ् ष े प
Then:
ा (aa matra on pa? No, pa already has its stem)
Wait, look at the letter:
It has a loop at the bottom, then a vertical bar: that is 'ग'!
Then another vertical bar: that is 'ा'!
Wait, then:
Another letter: with a loop/curve, then a vertical bar: that is 'य'!
Wait, is there an 'ा' on that 'य'?
No, wait! The top bar covers:
त े ष ा म ा क ् ष े प - then the next letters are under the SAME top bar!
WAIT! Look at the top horizontal line (shirorekha):
Does the shirorekha continue after 'प'?
YES!
It continues over:
one letter, two letters, three letters...
Wait! The shirorekha covers:
"...तेषामाक्षेपणाया या वीथी..."?
Wait, where does the word break?
There is NO space between 'प' and the next letters!
Let's trace the shirorekha:
"सितोत्पलास्तेषामाक्षेप..." it continues continuously:
...प - letter1 - letter2
दकार्गल: भूमिगत जल-संधान एवं वृक्षायुर्वेद (अध्याय ५४-५६)
प्रासादलक्षणाध्यायः १२३
स्थित फूले हुये वृक्षरूप कर्णपूर, जल और थल का संयोगरूप श्रोणीमण्डल, पुलिन-
रूप उठे हुये स्तन और हंसरूप हास्य है, ऐसी नीचे को बहने वाली नदियों के समीप
में देवता निवास करते हैं।।६-७।।
यत्र यस्मिन् स्थाने एवंविधा नद्यः सरितस्तत्र नित्यं देवता रमन्ते। कीदृश्यः ? क्रौञ्चाः
पक्षिविशेषास्त एव सशब्दत्वात् काञ्चीकलापो रशनाविस्तारो यासाम्। कलहंसा राजहंसास्तेषां
यः कलो मधुरः स्वरः शब्दः सम्भाषणं यासाम्। तोयं जलं तदेवांशुकमम्बरं यासाम्।
शफर्यः सूक्ष्ममत्स्यास्ता एव कृता मेखला याभिः। मेखला वस्त्रस्योपरि बध्यते। नीवीति
लोकप्रसिद्धा। तथा च—
नीवीराग्रन्थने नार्या जघनस्थस्य वाससः।। इति।
फुल्लतीरेति । यत्र ईदृश्यो निम्नगा नद्यस्तत्र नित्यं देवता रमन्ते। फुल्लाः पुष्पिता-
स्तीरेषु प्रान्तेषु ये द्रुमा वृक्षास्त एवोत्तंसाः कर्णपुष्पाणि मुण्डमाला वा यासाम्। पुलिनेषु
तीरेषु ये अभ्युन्नता उच्चाः प्रदेशास्त एवोरस्या उरसि भवाः स्तना यासाम्। हंसाः पक्षि-
विशेषास्त एव शुक्लत्वाद्वासो वसनं यासाम्। तास्तथाभूताः। तासु देवता रमन्ते।।६-७।।
अन्यत्कीदृशेषु स्थानेषु रमन्त इत्याह—
वनोपान्तनदीशैलनिर्झरोपान्तभूमिषु ।
रमन्ते देवता नित्यं पुरेषूद्यानवत्सु च ॥८॥
वन, नदी, पर्वत और झरनों के समीप में तथा उपवनों से युत नगरों में देवता विहार
करते हैं।।८।।
वनोपान्तेषु वनोपकण्ठेषु। उपान्तशब्दः प्रत्येकमभिसम्बध्यते। नदीषु सरित्सु। शैलेषु
पर्वतेषु। निर्झरोपान्तभूमिषु, निर्झरिण प्रपातपानीयेन ये युक्ता उपान्ता नदीप्रभृतीनां समीपास्तेषु
भूमिषु। नियतं झरन्ति स्त्रवन्तीति निर्झराः। तेषु नित्यं सर्वकालं देवता रमन्ते क्रीडन्ते।
पुरेषु नगरेषु, उद्यानवत्सु येषूद्यानान्युपवनानि विद्यन्ते तेषु नित्यं रमन्त इति। तथा च
काश्यपः—
हरितोज्ज्वलतोयाढ्या वाप्यः पक्षिभिरावृताः।
वनोपवनमालिन्यो नित्यमुत्फुल्लितद्रुमाः।।
हंसकारण्डवाकीर्णाः कोकिलालापनादिताः।
षट्पदागीतमधुरा नृत्यद्भिः शिखिभिर्युताः।।
तत्र देवा रतिं यान्ति सात्रिध्यात्रित्यसंस्थिताः।। इति।।८।।
अधुना प्रतिष्ठाकरणे भूमिगुणानाह—
भूमयो ब्राह्मणादीनां याः प्रोक्ता वास्तुकर्मणि ।
ता एव तेषां शस्यन्ते देवतायतनेष्वपि ॥९॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
१२४ बृहत्संहिता
पहले ब्राह्मण आदि वर्णों को गृह बनाने के लिये जिस प्रकार की भूमि शुभ कही
गई है; देवालय बनाने के लिये भी उन वर्णों के लिये वैसी ही भूमि श्रेष्ठ होती है ॥९॥
ब्राह्मणादीनां ब्राह्मणक्षत्रियवैश्यशूद्राणां या भूमयो वास्तुकर्मणि प्रोक्ताः कथिताः।
तद्यथा—
सितरक्तपीतकृष्णा विप्रादीनां प्रशस्यते भूमिः।
गन्धश्च भवति यस्यां घृतरुधिरान्नाद्यमद्यसमः॥
कुशयुक्ता शरबहुला दूर्वाकाशावृता क्रमेण मही।
अनुवर्णं वृद्धिकरी मधुरकषायाम्लकटुका च॥
इत्यादिना ज्ञेयाः। विप्रादीनां ता एव भूमयो देवताप्रासादेषु शस्यन्ते शोभन्त इति।
अधुना देवतागृहे वास्तुपुरुषलक्षणं द्वारप्रविभागं चाह—
चतुःषष्टिपदं कार्यं देवतायतनं सदा।
द्वारं च मध्यमं तस्मिन् समदिक्स्थं प्रशस्यते ॥१०॥
देवालय में सदा पूर्वोक्त चौंसठ पद का वास्तु बनाना चाहिये तथा मध्यम द्वार सब
दिशाओं में स्थित हो तो श्रेष्ठ होता है ॥१०॥
सदा सर्वकालं देवतायतनं सुरगृहं चतुःषष्टिपदं कार्यम्। 'अष्टाष्टकपदमथवा' इति
पूर्वमेव प्रदर्शितम्। तस्मिन् देवतायतने मध्यमं द्वारं मध्यवर्तिनं समदिक्स्थं समायां दिशि
यथा तिष्ठति, तथा प्रशस्यत इष्यते॥१०॥
अथ प्रासादानां विधानमाह—
यो विस्तारो भवेद् यस्य द्विगुणा तत्समुन्नतिः।
उच्छ्रायाद् यस्तृतीयांशस्तेन तुल्या कटिः स्मृता ॥११॥
विस्तारार्धं भवेद् गर्भो भित्तयोऽन्याः समन्ततः।
गर्भपादेन विस्तीर्णं द्वारं द्विगुणमुच्छ्रितम् ॥१२॥
उच्छ्रायात् पादविस्तीर्णा शाखा तद्वदुदुम्बरः।
विस्तारपादप्रतिमं बाहुल्यं शाखयोः स्मृतम् ॥१३॥
त्रिपञ्चसप्तनवभिः शाखाभिस्तत् प्रशस्यते।
अधः शाखाचतुर्भागे प्रतीहारौ निवेशयेत् ॥१४॥
शेषं मङ्गल्यविहगैः श्रीवृक्षैः स्वस्तिकैर्घटैः।
मिथुनैः पत्रवल्लीभिः प्रमथैश्चोपशोभयेत् ॥१५॥
द्वारमानाष्टभागोना प्रतिमा स्यात् सपिण्डिका।
द्वौ भागौ प्रतिमा तत्र तृतीयांशश्च पिण्डिका ॥१६॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
प्रासादलक्षणाध्यायः १२५
देवालय का जितना विस्तार हो, उससे दूनी ऊँचाई और ऊँचाई की तिहाई कटि
होती है। सीढ़ी के ऊपर जहाँ से देवालय का प्रारम्भ होता है उसको 'कटि' कहते हैं।
विस्तार के आधा गर्भ शेष सब दिशाओं में भीत बनती है। गर्भ के चौथाई के समान द्वार
का विस्तार और द्विगुणित विस्तारतुल्य द्वार की ऊँचाई होती है। द्वार की ऊँचाई तुल्य
शाखा ( चौखट का बाजू ) और उदुम्बर ( चौखट के ऊपर की लकड़ी ) की चौड़ाई
होती है तथा शाखा की चौथाई की चौथाई के तुल्य शाखाओं की मोटाई होती है।
शाखाओं की चौड़ाई के बीच में तीन, पाँच, सात या नव शाखायें होने से द्वार श्रेष्ठ होता
है। दोनों शाखाओं के नीचे की चौथाई में दो प्रतिहार ( नन्दी, दण्ड आदि ) की मूर्ति
खुदवानी चाहिये। शाखाओं के तीन-चौथाई भागों को हंस आदि शुभ पक्षी, बेल, स्वस्तिक
( चिह्नविशेष ), कलश, स्त्री-पुरुष का जोड़ा, पत्ते और लताओं से शोभित करना चाहिये।
द्वार की ऊँचाई में उसका अष्टमांश घटा कर जो शेष बचे, उतनी पिण्डका ( देवतास्थापन
की पीठिका ) को लेकर देवप्रतिमा की ऊँचाई होती है। पीठिकासहित प्रतिमा की
ऊँचाई का तीन भाग करके दो भाग के बराबर ऊँची प्रतिमा और एक भाग के समान
पीठिका बनानी चाहिये। यह प्रमाण समस्त प्रासादों में जानना चाहिये।।११-१६।।
यो विस्तार इति। तस्य देवगृहस्य यो विस्तारो विष्कम्भो भवेत् स्यात् तद्द्विगुणा
विस्ताराद् द्विगुणा समुन्नतिरुच्छ्रायो भवति। यथा मेरुप्रासादस्य द्वात्रिंशद्विस्तारः। विस्ताराद्
द्विगुणा समुन्नतिश्चतुःषष्टिर्हस्ताः। उच्छ्रायाद् यस्तृतीयांशस्तृतीयभागस्तेन च तुल्या तत्समा
देवगृहस्य कटिः स्मृतोक्ता। यथा मेरोश्चतुःषष्टिर्हस्ता उच्छ्रायः। तस्मात् त्रिभाग एकविंशतिर्हस्ता
अष्टावङ्गुलानि। अनेन प्रमाणेन कटिर्भवति। सोपानोपरि यतो देवगृहस्य प्रारम्भः सा कटि-
रुच्यते।
विस्तारार्धमिति। देवगृहस्य यो विस्तार उक्तस्तदर्थं गर्भो भवति। यथा मेरोर्हस्ताद्
द्वात्रिंशद्विस्तारः। तदर्थं षोडश। अनेन प्रमाणेन मेरोगर्भः। अन्याः समन्ततः सर्वासु दिक्षु
विदिक्षु भित्तयो भवन्ति। हस्तमात्रं भ्रमणाय सर्वासु दिक्ष्वनावृतं स्थापयित्वा शेषं हस्तत्रयं
भित्त्यवष्टब्धं कुर्यात्। गर्भस्य यः पादश्चतुर्थांशस्तेन मानेन विस्तीर्णं द्वारं भवति। यथा
मेरोगर्भः षोडशहस्ताः। तस्य चतुर्थागश्चत्वारो हस्ताः। एष द्वारस्य विस्तारः। विस्ताराद्
द्विगुणमुच्छ्रितं कार्यम्। एवमष्टौ हस्ता मेरुद्वारोच्छ्रायः कार्यः।
उच्छ्रायादिति। द्वारस्य य उच्छ्रायस्तस्य यः पादश्चतुर्भागस्तेन मानेन विस्तीर्णा
शाखा द्वारिका कार्या। यथा मेरुद्वारस्योच्छ्रायोऽष्टौ हस्ताः। अस्य चतुर्थागो द्वौ हस्तौ।
एष शाखाया विस्तारः। तद्वदुदुम्बरस्तद्वत् तेनैव प्रकारेणोदुम्बरः कार्यः। शाखयोरुपरि
यत् काष्ठं दीयते यच्चाधः स उदुम्बर इत्युच्यते। तद्वदुदुम्बराविति केचित् पठन्ति। विस्तार-
पादप्रतिममिति। शाखाया यो विस्तारस्तस्य यः पादश्चतुर्भागस्तत्प्रतिमं तत्तुल्यं शाखायो-
र्बाहुल्यं घनत्वं स्मृतमुक्तम्। यथा मेरुद्वारशाखाविस्तारो द्वौ हस्तौ। विस्तारपादो द्वादशाङ्गुलानि।
एतद् घनत्वम्।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
१२६ बृहत्संहिता
त्रिपञ्चसप्तनवभिरिति। तद्द्वारं तिसृभिः पञ्चभिर्नवभिश्च शाखाभिर्द्वारिकाभिः प्रशस्यते
इष्यते। शाखाविस्तारस्तिसृभिर्यदि न पूर्यते, तदा पञ्चभिः पूरणीयः, ताभिरपि न पूर्यते,
तदा नवभिः पूरणीय इति। शाखयोर्योऽधस्तलस्य चतुर्थभागस्तुर्यांशस्तस्मिन् प्रतीहारौ
नन्दिदण्डादिकौ निवेशयेत् कारयेत्।
शेषमिति। शेषं भागत्रयं मङ्गल्यविहगैर्मङ्गल्यवद्भिः पक्षिभिः हंसकारण्डवचक्रवाक-
जीवकप्रभृतिभिः। श्रीवृक्षैः, स्वस्तिकश्चिह्नविशेषैः। स्वस्तिकस्य वास्तुनरस्य सदृशैर्घटैः
कलशैः। मिथुनैर्युग्मैः। पत्रवल्लीभिः पत्रलताभिः। प्रमथैर्गणैश्चोपशोभयेत् शोभामुत्पादयेत्।
द्वारमानाष्टभागोनेति। द्वारस्य यन्मानं प्रमाणमुच्छ्रायस्तस्य योऽष्टभागोऽष्टांशस्तेन
द्वारप्रमा