सामग्री पर जाएँ
सर्वकोश
बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 2 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished760 पृष्ठ

पृष्ठ 122, कुल 760 में से

संदर्भ में पढ़ें
पृष्ठ 122

९४ बृहत्संहिता
तदा वल्मीकमूर्धनि मध्ये कूपो देयः। अत्रास्मिन् स्थाने नरैकविंशत्या एकविंशत्या पुरुषै-
र्जलमुदकं भवति॥७७॥
अन्यदप्याह—
भूमिः कदम्बकयुता वल्मीके यत्र दृश्यते दूर्वा ।
हस्तद्वयेन याम्ये नरैर्जलं पञ्चविंशत्या ॥७८॥
जिस भूमि में कदम्ब और वल्मीक के ऊपर दूब दिखाई दे, वहाँ कदम्ब वृक्ष से
दक्षिण में दो हाथ पर पच्चीस पुरुषप्रमाण नीचे जल होता है॥७८॥
यत्र यस्मिन् स्थाने भूमिः कदम्बकयुता कदम्बवृक्षसंयुक्ता भवति, तदा वल्मीके
वल्मीकवृते मृत्स्तूपे दूर्वा शाद्वलं दृश्यते, तत्र कदम्बाद्याम्ये दक्षिणस्यां दिशि हस्तद्वयेन
परतः पञ्चविंशत्या पुरुषैर्जलमुदकं भवति॥७८॥
अन्यदप्याह—
वल्मीकत्रयमध्ये रोहीतकपादपो यदा भवति ।
नानावृक्षैः सहितस्त्रिभिर्जलं तत्र वक्तव्यम् ॥७९॥
हस्तचतुष्के मध्यात् षोडशभिश्चाङ्गुलैरुदग्वारि ।
चत्वारिंशत् पुरुषान् खात्वाऽश्माऽधः शिरा भवति ॥८०॥
तीन वल्मीक के मध्य में विजातीय तीन तरह के वृक्षों से युत लाल करञ्ज का वृक्ष
हो तो उस लाल करञ्ज के वृक्ष से उत्तर चार हाथ एवं सोलह अङ्गुल पर चालीस
पुरुषप्रमाण नीचे खोदने से पत्थर और उसके नीचे शिरा होती है॥७८-८०॥
वल्मीकत्रयस्य शृङ्गाटकवत् स्थितस्य मध्ये अन्तर्यदा रोहीतकपादपो रोहीतकवृक्षो
भवति, स च त्रिभिर्वृक्षैर्नानाप्रकारैर्विजातीयैः सहितः, तत्र तस्मिन् स्थाने जलमुदकं वक्तव्यम्।
हस्तचतुष्के मध्यादिति । तत्र वल्मीकत्रितये मध्याद्रोहीतकपादपादुदगुत्तरस्यां दिशि
हस्तचतुष्के करचतुष्टये षोडशभिश्चाङ्गुलैः परतश्चत्वारिंशत् पुरुषान् खात्वा अश्मा पाषाणो
दृश्यते। तदधस्तस्य तले शिरा भवति॥७९-८०॥
अन्यदप्याह—
ग्रन्थिप्रचुरा यस्मिन् शमी भवेदुत्तरेण वल्मीकः ।
पश्चात् पञ्चकरान्ते शतार्धसंख्यैनरैः सलिलम् ॥८१॥
जहाँ पर अनेक गाँठों से युत शमी वृक्ष हो और उसके उत्तर वल्मीक हो तो उस
शमी वृक्ष के पश्चिम पाँच हाथ पर पचास पुरुषप्रमाण नीचे जल होता है॥८१॥
यस्मिन् प्रदेशे ग्रन्थिप्रचुरा ग्रन्थिबहुला शमी स्याद् भवेत्। उत्तरेण च वल्मीकस्तत्र
शमीवृक्षस्य पश्चात् पश्चिमायां दिशि पञ्चकरान्ते पञ्चभिर्हस्तैः परतः शतार्धसंख्यैनरैः पुरुषाणां
पञ्चाशतोऽधः सलिलं जलं भवति॥८१॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA