बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 2 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 118, कुल 760 में से
संदर्भ में पढ़ें९० बृहत्संहिता
तत्राह—
पूर्वोत्तरेण पीलोर्यदि वल्मीको जलं भवति पश्चात्।
उत्तरगमना च शिरा विज्ञेया पञ्चभिः पुरुषैः ॥६३॥
चिह्नं दर्दुर आदौ मृत् कपिला तत्परं भवेद्धरिता ।
भवति च पुरुषेऽधोऽश्मा तस्य तलेऽम्भो विनिर्दिश्यम् ॥६४॥
यदि पीलु (पिलुआ = 'पीलौ गुडफलः स्रंसी'त्यमरः ) वृक्ष के ईशान कोण में
वल्मीक हो तो उस वृक्ष से साढ़े चार हाथ पश्चिम दिशा में पाँच पुरुष नीचे उत्तर बहने
वाली शिरा होती है। यहाँ खोदने के समय एक पुरुष नीचे मेढ़क, उसके नीचे पीली
तथा हरी मिट्टी, उसके नीचे पत्थर और उसके नीचे जल कहना चाहिये॥६३-६४॥
पूर्वोत्तरेणेति। यदि पीलोः पीलुवृक्षस्य पूर्वोत्तरेणैशान्यां दिशि वल्मीको वल्मीककृतो
मृत्स्तूपो भवति, तदा पीलोरेव वृक्षात् पश्चिमायां दिशि सार्धैश्चतुर्भिर्हस्तैः परतः पञ्चभिः
पुरुषैरधो जलं भवति। तत्र चोत्तरगमना, उत्तरस्यां दिशि या गच्छति, सोत्तरगमना। शिरा
विज्ञेया ज्ञातव्या।
चिह्नमिति। आदौ प्रथमे पुरुषे खाते दर्दुरो मण्डूकश्चिह्नम्, ततो मृत् कपिला,
तत्परं तदनन्तरं हरिता मृत्स्ना भवति। अधः सर्वचिह्नानां तले अश्मा पाषाणो भवति।
तस्याश्मनस्तले अधोऽम्भो जलं विनिर्दिश्यं वक्तव्यम्। तथा च सारस्वतः—
ऐशान्यां पीलुवृक्षस्य वल्मीकश्चेज्जलं वदेत्।
चतुर्भिः सरलैर्हस्तैः पश्चिमे नरपञ्चमे।।
प्रथमे पुरुषे भेकः कपिला हरिता च मृत्।
पाषाणस्य तले सौम्यां शिरां बहुजलां वदेत्।।६३-६४।।
अन्यदप्याह—
पीलोरेव प्राच्यां वल्मीकोऽतोऽर्धपञ्चमैर्हस्तैः ।
दिशि याम्यायां तोयं वक्तव्यं सप्तभिः पुरुषैः ॥६५॥
प्रथमे पुरुषे भुजगः सितासितो हस्तमात्रमूर्त्तिश्च ।
दक्षिणतो वहति शिरा सक्षारं भूरि पानीयम् ॥६६॥
पीलु वृक्ष की पूर्व दिशा में वल्मीक हो तो उस वृक्ष से साढ़े चार हाथ दक्षिण दिशा
में सात पुरुषप्रमाण नीचे जल कहना चाहिये। यहाँ खोदने पर एक पुरुषप्रमाण नीचे एक
हाथ लम्बा चितकबरा सर्प और उसके नीचे बहुत खारा जल बहने वाली दक्षिण शिरा
निकलती है॥६५-६६॥
पीलोरेव पीलुवृक्षस्य प्राच्यां पूर्वस्यां दिशि यदि वल्मीको दृश्यते, ततस्तस्मादेव
पीलुवृक्षाद् याम्यायां दक्षिणस्यां दिशि अर्धपञ्चमैः सार्धचतुर्भिर्हस्तैः परतोऽधः सप्तभिः
पुरुषैस्तोयं जलं वाच्यम्।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA