सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

Ashvavaidyaka of Jayadatta Suri with Commentary

जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा

DevanagariHindipublished522 पृष्ठ

२२० अश्ववैद्यके [३४ अध्यायः ।
पिप्पलीचूर्णसंयुक्तं सर्पिषा सह साधयेत् ।
तं१ लेहं दापयेद्वाहे पिण्डं वा भोजयेत्ततः२ ॥ २२ ॥
फलचूर्णञ्च३ काश्मर्य्या एवं दद्याद्विचक्षणः ।
लोध्रचन्दनयष्ट्याह्वपद्मकैर्घृतयोजितैः ।
धूपो नासाग्रतः४ कार्य्यः शास्त्रदृष्टेन कर्मणा ॥ २३ ॥
श्लेष्मकासचिकित्सा ।
चित्रकं त्रिफलाचूर्णं मुस्तकं कटुकत्रयम् ।
मधुना दापयेल्लेहं श्लेष्मकासार्द्दिते हये ॥ २४ ॥
पञ्चतिक्तसुसंसिद्धं तिक्तमुद्गञ्च भोजयेत् ।
मधुना तिलतैलेन युक्तांस्त्रिकटुकेन च ॥ २५ ॥
गवां मूत्रेण सुस्विन्नास्तिलतैलेन मर्द्दिताः ।
व्योषचूर्णसमायुक्ताः कुलत्था भोजने हिताः५ ॥ २६ ॥
२५ । निम्बामृतवृषपटोलनिदिग्धिकानां पलं तिक्तमुद्गस्य च
प्रस्थद्वयं ४ जलाढके पक्त्वा मधुकुड़वेन तैलकुड़वद्वयेन त्रिकटुकचूर्ण-
पलेन च एकत्र भोजयेत् । एषा मात्रा उत्तमे ज्ञेया ।
२३ । एवं कुलत्थभोजनेऽपि मात्रां जानीयात् । अत्र ग-पुस्तके
द्वितीयान्तः पाठो दृश्यते ।
२४ । दन्तीमुखादीनां कर्षत्रयं घृतस्य च कर्षौ धूपे ग्राह्यः ।
१ । तल्लेहं । खः । ४ । नासागतः । गः ।
२ । भिषक् । खः । ५ । कुर्य्याद्वै भोजयेद्धितान् । गः ।
३ । फलस्य चूर्णं काश्मर्य्याः । गः ।

३५ अध्यायः ।] हिक्काश्वासविवरणम् । २३१
दन्तीमूलं हरिद्राच हिङ्गुं च¹ बृहतीफलम् ।
एतैस्तु धूपयेत्कासे नासिकायां कफात्मके ॥ २७ ॥
क्षतजे क्षयकासे च पित्तकासो२दितां क्रियाम् ।
कुर्य्यान्मतिमतां श्रेष्ठो वाजिनां हितकाम्यया ॥ २८ ॥
इति श्रीमहासामन्तजयदत्तकृतेऽश्वशास्त्रे कासरो-
गचिकित्सिते चतुस्त्रिंशोऽध्यायः ।
अथ पञ्चत्रिंशोऽध्यायः ।
हिक्काश्वासनिदानलक्षणम् ।
मुखेन नासया चैव यः श्लेष्माणं विमुञ्चति ।
वातिकं शिशिरे काले तस्य श्वासं विनिर्दिशेत् ॥ १ ॥
शरन्निदाघयोश्चैव श्वासः पित्तेन जायते ।
तृष्णादाहपरीतस्य स्विन्नगात्रस्य वाजिनः ॥ २ ॥
मुखेन नासया चैव कफो यस्य प्रवर्त्तते ।
प्रावृट्काले वसन्ते वा³ श्वासस्तस्य कफात्मकः ॥ ३ ॥
दृष्ट्वा लक्षणसांकर्य्यमादिशेत् सन्निपातजम्⁴ ।
द्वन्द्वजञ्च⁵ तथा द्वाभ्यां दोषाभ्यां जनितं⁶ बुधः७ ॥ ४ ॥
१ । हिङ्गुञ्च । खः । ६ । जनितो बुधैः । गः ।
२ । कृत्वा चैवोदितां क्रियाम् । गः । ७ । बुधः । खः ।
३ । वापि । खः ।
४ । सान्निपातिकम् । खः ।
५ । द्वन्द्वजश्च । गः ।

२३२ अङ्गवैद्यके [१५ अध्यायः ।
श्वासचिकित्सा ।
पञ्चमूलकषायेण कृत्वा मांसरसं भिषक् ।
वातश्वासे प्रदातव्यं शाल्यन्नेन च भोजनम् ॥ ५ ॥
निस्तुषा जलकुम्भस्थाः खादने विहिता यवाः ।
पित्तश्वासार्द्दिते बाह्ये¹ पानलेपौ च शीतलौ ॥ ६ ॥
इक्ष्वाः शरस्य² काशस्य नलवेतसयोस्तथा ।
मूलक्वाथः प्रदातव्यः पाने क्षौद्रसितान्वितः³ ॥ ७ ॥
वस्तिश्चैव⁴ जलक्षीरैः पित्तश्वासे प्रकीर्त्तितः ।
मुहुर्मुहुश्च पङ्केन⁵ प्रलेपश्च हितस्तथा ॥ ८ ॥
रास्ना⁶गोक्षीरपानञ्च शर्करामधुमूर्च्छितम् ।
पञ्चतिक्तेन⁷ सिद्धस्य अक्षपानञ्च सर्पिषा ॥ ६ ॥
५ । वातकासे पञ्चमूलकषायसाधितं मांसरसं शाल्यन्नेन सह
भोजनं देयम् । पञ्चमूलस्य पलं मांसस्य च प्रस्थः १८० पलमिते
वारिणि पाच्यः । तण्डुलस्यार्द्धाढकः ।
६ । अत्र यवस्य प्रस्थद्वयं वारिपर्युषितं देयम् ।
८ । अत्र क्षीरजलयोः आढको ग्राह्यः ।
९ । रास्नायाः पलं । गोक्षीरस्य प्रस्थः । शर्करामधुनोः प्रत्येकं
कुड़वः । अक्षपानं कर्षपरिमितपानम् ।
१ । देयौ च । गः । ५ । कंथेन । गः ।
२ । तृणाङ्कुजस्य । खः । ६ । शस्तम् । खः ।
३ । क्षौद्रसमन्वितः । गः । ७ । पञ्चतिक्तकसमुद्धस्य । गः ।
४ । वस्तितुल्यमथाक्षीरं । गः ।

३५ अध्यायः ।] हिक्काश्वासविधानम् । २३३
उशीरं पद्मकं मूर्ध्वा काश्मर्य्याश्च फलं सितम् ।
शीतेन वारिणा दद्यात् पानं क्षौद्रेण योजितम् ॥ १० ॥
पक्षानाड़ीं मयूरस्य जंघां वा चर्म वा भिषक् ।
दग्ध्वा लेहं प्रकुर्वीत घृतेन मधुना सह ॥ ११ ॥
मयूरनाड़ीकल्केन शलाकां शल्लकस्य च ।
दद्यादस्थीनि वा प्राज्ञः पित्तश्वासोपशान्तये ॥ १२ ॥
वार्त्ताकयूषः पानाय तिक्ततैलेन योजितः ।
श्वासे कफात्मके देयस्तिक्तमुद्गांश्च¹ भोजयेत् ॥ १३ ॥
द्वन्द्वजे द्विविधो देयः सङ्कीर्णः सान्निपातिके ।
श्वासोक्ता याः क्रियाः सर्वा लेहपानादिपूर्व्विकाः ।
प्रयोक्तव्यास्तु हिक्कायां वाजिनां हितमिच्छता ॥ १४ ॥
इति श्रीमहासामन्तजयदत्तकृतेऽश्वशास्त्रे हिक्काश्वासे
पञ्चविंशोऽध्यायः ।
१० । सितं रक्तचन्दनम् ।
११ । पक्षादीनामन्यतमं भस्मीकृत्य घृतमधुभ्यां लेहयेत् ।
१२ । शल्लकस्य शलाका (शजाहुर कांटा) ॥
१३ । वार्त्ताकस्य पलं । जलस्याढ़कः । तैलस्य प्रस्थार्द्धम् । द्वन्द्वज
इत्यादिपाठो ग-पुस्तके नास्ति ।
१ । तिक्तमुद्गैश्च भोजनम्। खः ।
30

।', actually just 'व्रणनिदानलक्षणानि ।').

Let's review the verse text carefully:
Line 6:
आगन्तुकं दोषजञ्च व्रणं विविधमुच्यते ।
Wait, could it be "द्विविधमुच्यते"?
Let's look at the first letter of that word:
It's 'वि' or 'द्वि'?
Compare with 'वि' in 'विविध': both letters look identical! 'वि' and 'वि': "विविधमुच्यते"।
Wait, let's keep it as printed: "विविधमुच्यते" (or "द्विविधमुच्यते" if it's द्वि? No, look at 'द्वि' in L8 'विद्याद्विचक्षणः' - 'द्वि' has the 'द' with loop under. In L6, it is clearly 'वि' with just the loop of 'व' and 'ि'-matra. It is printed as "विविधमुच्यते").

Line 7:
लक्षणञ्च चिकित्साञ्च तस्य वक्ष्यामि शाश्वतः ॥ १ ॥

Line 8:
दोषजं शोथपाकोत्थं व्रणं विद्याद्विचक्षणः१ ।

Line 9:
शस्त्रघातादिजञ्चैव२ ज्ञेयमागन्तुकं तथा ॥ २ ॥

Line 10:
चिरपाकं३ चिरस्पर्शं ज्ञे

१६ अध्यायः । ] व्रणरोगविवरणम् । २३५
दुष्टं संशोधयेत्प्राज्ञः शुद्धञ्चापि प्ररोहयेत् ।
आनुपूर्व्या यथायोगं व्रणं शास्त्रविशारदः ॥ ६ ॥
उत्सन्नञ्चैव दुर्गन्धि स्फुटितं पिड़कान्वितम् ।
अशुद्धं निर्द्दिशेद्वैद्यो व्रणं शुद्धं विपर्य्यये¹ ॥ ७ ॥
व्रणचिकित्सा ।
दन्तीमूलं हरिद्रे द्वे चिचकं विश्वभेषजम् ।
रसोन्नं सैन्धवञ्चापि तक्रकाञ्जिकयोजितम्² ॥ ८ ॥
दुष्टव्रणानां³ सर्व्वेषां शोधनाय प्रकीर्त्तितम् ।
तिलशक्तुकपिण्डञ्च⁴ दधियुक्तञ्च सैन्धवम् ॥ ९ ॥
निम्बपत्रयुतं पिण्डं तिलकल्कस्य बुद्धिमान् ।
मधुसैन्धवसंयुक्तं दद्याद्व्रणविशुद्धये ॥ १० ॥
मधुसैन्धवहीनोऽयं पिण्डो निम्बतिलोद्भवः ।
प्रवरो रोपणीयानां व्रणे शुद्धिसमन्विते

२१६ अश्ववैद्यके [३६ अध्यायः ।
दाड़िमामलकागस्तिकपित्थानां विचक्षणः ।
त्वक्चूर्णं दापयेत् शुद्धे व्रणे चोत्तानके भिषक् ॥ १२ ॥
व्रणे रूढे प्रदातव्यं रोमसंजननं परम् ।
चूर्णं मुनिमुखोद्गीर्णं वक्ष्यमाणमिदं ततः ॥ १३ ॥
खुरचर्मास्थिबालञ्च दन्तशृङ्गनखं तथा ।
गवादीनां यथालाभं कटाहं कच्छपस्य च ॥ १४ ॥
गृहीत्वा कारयेद्भस्म अन्तर्धूमं विचक्षणः ।
तद्दद्याद्घृततैलाभ्यां रोम्णां संजननं परम्¹ ॥ १५ ॥
अश्वमारकदल्यर्कस्नुहीहाटकचिञ्चकैः ।
पचेत्तैलं समह्लातं नाड़ीव्रणहरं परम् ॥ १६ ॥
आगारधूमं संपिष्य गोमूत्रेण विचक्षणः ।
नाड़ीं प्रपूरयेद्युक्त्या तदुपद्रवशान्तये ॥ १७ ॥
१२ । अगस्तिर्वकवृक्षः । उत्तानके अगम्भीरे ।
१४—१५ । गवादीनां पशूनां खुरचर्मादिकं यथालाभं अन्तर्धूमे
भस्मीकृत्य घृततैलाभ्यां मर्दयित्वा प्रयोज्यम्। अस्य श्लोकस्य तृतीय-
चतुर्थपादौ ग-पुस्तके न स्तः।
१६ । नाड़ीव्रणचिकित्सामाह । अश्वेति । अश्वमारः करवीरः ।
हाटकं धुस्तूरः ।
१७ । आगारधूमं (झुल) । तदुपद्रवशान्तये नाड़ीव्रणशान्तये ।
१ । रोमपोषणमुत्तमम् । गः ।

३६ अध्यायः ।] व्रणरोगविवरणम् । २३७
नाडीव्रणे यदा शुद्धिं भेषजेन¹ न गच्छति ।
तदा वह्निः प्रदातव्यस्तथाच पित्तजे व्रणे ॥ १८ ॥
सरक्ते² तत्क्षणोद्भूते व्रणे आगन्तुके भिषक् ।
मूलकादिभिरम्लस्थैः कुर्य्यात् स्वेदं विचक्षणः ॥ १९ ॥
ततो मधुककल्कन्तु दद्यात्³ क्षौद्रघृतान्वितम् ।
बध्नीयाद्वस्त्रपट्टेन मुहुः सिञ्चेच्च सर्पिषा ॥ २० ॥
पञ्चवल्कलकल्केन सघृतेन प्रलेपयेत् ।
शुष्कग्रासं⁴ भिषग्दत्वा पाने⁵ स्तोकं जलं तथा ॥ २१ ॥
पूयभावे⁶ गते तस्मिन् पूर्व्वोक्ताः शोधनादिकाः⁷ ।
दोषजोक्ताः क्रियाः सर्व्वाः⁸ कर्त्तव्याः सावसानिकाः
॥ २२ ॥
१९ । मूलकादिभिरम्लस्थैरिति अम्लसंयुक्तैरित्यर्थः ।
२१ । अस्य उत्तरार्द्धं गपुस्तके नास्ति ।
१ । भेषजेनैव गच्छति । गः ।
२ । सरक्तलक्षणोद्भूते । खः ।
३ । दत्वा । खः ।
४ । शुष्कघासं । गः ।
५ । स्तोकं पानेन बुद्धिमान् । गः ।
६ । पयाभावे । गः ।
७ । शोधनक्रियाः । गः ।
८ । सर्व्वाश्चैव प्रवर्त्तव्या वैद्येनच वसादिकाः । गः ।

२३८ अश्ववैद्यके [३७ अध्यायः ।
अवगाढं चिरोद्भूतं मांसमज्जास्थिसंस्थिरम्¹ ।
कृच्छ्रसाध्यमसाध्यं वा व्रणं विद्यात् समाहितः²॥ २३ ॥
इति श्रीमहासामन्तजयदत्तकृतेऽश्वशास्त्रे व्रणरोगे
षट्त्रिंशोऽध्यायः ।
———
अथ सप्तत्रिंशोऽध्यायः ।
৹܀৹
वातादिसिंघानकलक्षणानि ।
वातिके पैत्तिके चैव श्लैष्मिके सान्निपातिके ।
सिंघानके प्रवक्ष्यामि लक्षणं भेषजं तथा ॥ १ ॥
तनुस्रावं सफेनञ्च वातिकं तत् प्रकीर्त्तितम् ।
रक्तपीतासितैः³ स्रावैर्विद्यात् पित्तसमुद्भवम् ॥ २ ॥
घनेन दधिवर्णेन कफजञ्चैव निर्द्दिशेत् ।
नानावर्णेन जानीयादसाध्यं सान्निपातिकम् ॥ ३ ॥
तच्चिकित्सा ।
शिरसः स्वेदनं कुर्य्याद् वातिके श्लैष्मिके तथा ।
प्रियङ्गुचन्दनाशीरैः शिरोलेपस्तु पित्तजे ॥ ४ ॥


२३ । अवगाढं न सम्यगुत्थितं । चिरोद्भूतं चिरजातम् ।
—————————
१ । समस्नायुं स्थिरत्वचम् । गः । ३ । रक्तपित्तासितैः । गः ।
२ । विद्वान् समादिशेत् । गः ।

३० अध्यायः ।] सिङ्घानकविवरणम् । २६६
सिंघानकेषु सर्वेषु शङ्खयोस्तालुके तथा ।
शिरावेधं प्रशंसन्ति मुनयः शास्त्रकोविदाः ॥ ५ ॥
गोमूत्रेण च संपिष्य बृहतीगौरसर्षपान् ।
तिक्तवार्त्ताकबीजानि¹ तैलेनालोड्य दापयेत् ॥ ६ ॥
नस्यं सिंघानके प्राज्ञो वातिके श्लैष्मिके तथा ।
घासार्थं² विहिता दूर्व्वा पाने चाल्पजलं तथा ॥ ७ ॥
नाड़िकाग्रे व्योषचूर्णं दद्यात्³ नासापुटान्तरे ।
पश्चिमे नाड़िकाच्छिद्रे मुखवातं प्रपूरयेत्⁴ ॥ ८ ॥
एष प्रधमनो नाम विधिः श्लेष्मापकर्षणः ।
सिंघानके प्रयोक्तव्यं⁵ शिरसश्च विरेचनम् ॥ ६ ॥
व्योषचूर्णं⁶ विधानेन अन्यैर्वा कटुचूर्णकैः ।
दापयेत् श्लेष्मशमनं⁷ नस्यं तैलञ्च साधितम् ॥ १० ॥
८ । नाड़िकाग्रैः नेत्राग्रभागैः ।
१ । तिक्तवार्त्ताकबीजञ्च । खः ।
२ । घासेतु विहिता दूर्व्वा । खः ।
३ । दत्वा । खः ।
४ । प्रदापयेत् । खः ।
५ । प्रकर्त्तव्यं शिरसाम् । गः ।
६ । विषचूर्णं विधानेन अन्यान् कटुकचूर्णकान् । गः ।
७ । श्लेष्मनाशाय । खः ।

२४० अश्ववैद्यके [३७ अध्यायः ।
पुनर्नवा विड़ङ्गञ्च सरलं देवदारु च ।
रजनी चैव वाराही वलामूलं तथैव च ॥ ११ ॥
एतानि समभागानि कल्कं कृत्वा विचक्षणः ।
पञ्चमूलकषायेण पाचयेत्तैलमुत्तमम् ॥ १२ ॥
तेन नस्यं प्रदातव्यं वातश्लेष्मसमुद्भवम्¹ ।
सिंघानके तुरङ्गाणां कटुचूर्णावचूर्णितम् ॥ १३ ॥
पैत्तिकदन्दजसिङ्घानकचिकित्सा ।
मञ्जिष्ठा मधुकं लोध्रं पिप्पली रजनीद्वयम् ।
नस्यं क्षीरेण दातव्यं पित्तसिंघानकापहम् ॥ १४ ॥
लोध्रं² प्रपौण्डरीकञ्च मधुकञ्चोत्पलन्तथा ।
कल्कं कृत्वा पचेत्तैलं पयसा वारिणा सह ॥ १५ ॥
पित्तसिङ्घानकार्त्तस्य तैलेनानेन बुद्धिमान् ।
नस्यं दद्याद् यथायोगं तेन सम्पद्यते सुखम् ॥ १६ ॥
दत्तनस्यं ततो वाहं बद्धा जङ्घाद्वयेऽग्रिमे ।
पृष्ठे च³ ताड़यित्वा तु भ्रामयेत् प्रोथयेत्ततः⁴ ॥ १७ ॥
११ । वाराही वाराहीकन्दः ।
१५ । अत्र वारिपयसी स्नेहचतुर्गुणे देये ।
१ । तिक्तमुद्देच्च भोजनम् । गः । ३ । पृष्ठतः । खः ।
२ । लोध्रकं पौण्डरीकञ्च । गः । ४ । भ्रामयेच्च विचक्षणः । खः ।

३७ अध्यायः ।] सिंघानरोगविवरणम् । २४१
एवं श्लेष्मा विनिर्याति तस्य नासान्तरोद्भवः ।
प्रतिप्रभातं¹ कुर्व्वीत क्रियामेतां समाहितः ॥ १८ ॥
तारयेद्वा जलं निम्नं² प्रूथयेद्वा विचक्षणः³ ।
नासाछिद्रे विनिःक्षिप्य सूक्ष्मैलां⁴ चूर्णितां मनाक् ॥१९॥
गुडूच्यास्त्रिफलायाश्च निम्बवासकयोस्तथा ।
क्वाथे मुद्गान् समुत्खिद्य सुखोष्णान् स्थापयेत्ततः ॥२०॥
पञ्चमूलकषायेण रसैर्मांसस्य साधितैः ।
मर्हयित्वा ततस्तैलं दत्वा मधु च भोजयेत् ॥ २१ ॥
श्लेष्मजे वातजे चैव कटुचूर्णं प्रदापयेत् ।
तिक्तमुद्गा घृताभ्यक्ताः पित्तसिङ्घानके हिताः ॥ २२ ॥
न दद्यात् पित्तजे तैलं केवलं विहितं घृतम् ।
दन्दजे च भिषग्विद्वान् कुर्य्यात्साधारणीं क्रियाम्५ ॥ २३॥
[

[ २४२ ]
अथाष्टत्रिंशोऽध्यायः ।
घृणिरोगचिकित्सा ।
नासिकाभ्यन्तरे यस्य पिड़कानां समुद्भवः ।
व्रणं वा यदि वा शोथः तस्य विद्याद् घृणीरुजम् ॥ १ ॥
प्रोथजां वेधयेत्तस्य शिरां शोथे विचक्षणः ।
अथवा शोणितं दुष्टं कर्षयेच्च जलौकसा ॥ २ ॥
धरण्यां पातयित्वा तु दृढं बद्धा तुरङ्गमम् ।
नासापुटं ततः शस्त्रैः पाटयित्वा विचक्षणः ॥ ३ ॥
उत्कृत्य पिड़काग्रन्थिं दहेल्लोहशलाकया ।
उत्थिते तु¹ ततो वाहे घृताभ्यङ्गः प्रशस्यते ॥ ४ ॥
शीतेनाश्च्योतयेद्वैद्यः पञ्चवल्कलवारिणा ।
मुहुर्मुहुर्ब्रणं प्राज्ञो घृतयुक्तेन वाजिनः ॥ ५ ॥
१ । घृणिर्नाम नासिकाभ्यन्तरस्थरोगविशेषः ।
२ । जलौका । (जोंक्) । अथ वेत्यादि सार्द्धश्लोको ग-पुस्तके
नास्ति ।
४ । घृताभ्यङ्गो घृतमर्द्दनम् ।
५ । आश्च्योतयेत् आसेचयेत् ।
१ । उद्धृते च । ख ।

३८ अध्यायः।] घ्राणिरोगविवरणम्। २४१
गुग्गुलुं पाययेत्तञ्च त्रिफलाक्वाथयोजितम्।
दूर्व्वाञ्च यवसं दद्यात्तत्तशीतं जलं तथा ॥ ६ ॥
निम्बपत्रं जलोत्स्विन्नं भोजये१न्मधुसर्पिषा ।
अन्यैर्वा तिक्तकैः सिद्धान्२ मुद्गान् हरितपीतकान् ॥७॥
लोहितं चन्दनं लोध्रं मधुकं हरितालकम् ।
कालेयं लवणं३ लाक्षामजाक्षीरेण साधयेत् ॥ ८ ॥
कल्केनानेन सिद्धञ्च तिलतैलेन मिश्रितम्४ ।
नस्यार्थञ्च शृतं तैलं घ्राणिरोगेषु चोत्तमम् ॥ ९ ॥
नावनं५ शृतमश्वानां नासाव्रणविशोधनम् ॥ १० ॥
इति श्रीमहासामन्तजयदत्तकृतेऽश्वशास्त्रे घ्राणिरो-
गचिकित्सिते अष्टत्रिंशोऽध्यायः ।
६ । त्रिफलाक्वाथस्य प्रस्थः गुग्गुलोश्च कर्षद्वयम् । शीतलवारिणः
षष्टिपलानि ।
७ । निम्बपत्राणां पलं जलाढके पक्त्वा पादशेषं कृत्वा देयम् ।
८ । कालेयं कृष्णागुरु ।
१० । नावनं नस्यम् ।
१ । भोजनं । गः ।
२ । सार्द्धं मुद्गान् साधिकान्वितान् । खः ।
३ । सारिवा । खः ।
४ । तिलतैलेर्जलेनतु । खः ।
५ । नावनीकृतम् । खः ।

[ २४४ ]
अथैकोनचत्वारिंशोऽध्यायः ।
पादरोगसंख्या ।
अत ऊर्द्ध्वं प्रवक्ष्यामि पादरोगविनिश्चयम् ।
लक्षणञ्च चिकित्साञ्च यथाशास्त्रानुसारतः ॥ १ ॥
मण्डूकतापः^१ पांशुखुरस्तथा चैव पुनःखुरः ।
आस्रावी चूर्णिकोऽध्यस्थि ऊर्मिकश्चक्रवालिकः^२ ॥ २ ॥
उलूक^३पादसंस्थानं तदा पादविरालिका^४ ।
आमण्डकोपजंघौ^५ च दर्भकश्च^६ प्रप्रोटकः ॥ ३ ॥
कदम्बको घृष्टतलस्तथा भिन्नखुरोऽपरः ।
मृदुमांसखुरौ द्वौ तु पिच्छपादसकेशिनौ^७ ॥ ४ ॥
एते पादगता रोगास्तुरङ्गानां प्रकीर्त्तिताः ।
एषां चिकित्सां वक्ष्यामि शालिहोत्रादिसम्मताम् ॥ ५ ॥
१—५ । मण्डूकतापादिकदम्बकपदान्ता विंशतिविधाः पाद-
रोगाः । एषां लक्षणचिकित्सितानि क्रमेणोच्यन्ते । अध्यस्थीति
अस्थ्यधिकृत्येत्यर्थः । उलूकपादसंस्थानं तदेत्यत्र उलूकपादः संस्थाणु
स्तथेति पाठो भवितुं युक्तः । आमण्डकोपजंघावित्यत्र आमण्डक
उपजंघाविति एवं पाठो भवितुं युक्तः।
१ । मण्डूकता पांशुखुरः । खः । ४ । पदाविराड़िका । गः ।
२ । चक्रवाकिकः । खः । ५ । आमर्दकोपजंघा च । खः ।
३ । उदकः पाकसंस्थानम् । खः । ६ । गर्दभश्च । गः ।
७ । पिच्छपादस्तथैव च । खः ।

३६ अध्यायः ।] पादरोगविवरणम् । २४५
एषां लक्षणानि ।
मण्डकतापे मण्डूक्यां व्रणेनाश्वस्य जायते ।
अभिघातसमुत्थेन दुष्टकर्दमकेन च ॥ ६ ॥
पांशुभिः शर्कराभिश्च पूर्य्यते यस्य कोटरम् ।
तन्ने तस्य विजानीयाद्रोगं पांशुखुरं भिषक् ॥ ७ ॥
घृष्टं भूमौ तलं यस्य ताम्रीभवति वाजिनः ।
तस्य घृष्टतलो नाम पादरोगः प्रकीर्त्तितः ॥ ८ ॥
आस्राविणं विजानीयात् क्लेदस्रवतलं हयम् ।
सूक्ष्मचूर्णतलञ्चैव चूर्णकीलः प्रकीर्त्तितः ॥ ९ ॥
केशाकाराणि मांसानि यस्य स्युस्तलजानि च ।
मांसकेशीति तं विद्यात्तलं वाह्यस्य बुद्धिमान् ॥ १० ॥
मण्डूक्या विवरं यस्य दर्भमुञ्जकरं¹ भवेत् ।
तस्य दर्भक इत्युक्तो व्याधिः कष्टचिकित्सितः ॥ ११ ॥
६। मण्डूके वाजिखुरतलस्थप्रदेशे अभिघातजो दुष्टकर्दमजो वा
यो व्रणस्तेन यत्तपो ज्वाला स मण्डूकतापः ।
७। यस्याश्वस्य तले कोटरं पादतलस्थकोटरमित्यर्थः । शर्कराभि
र्वालुकाभिः । पांशुखुरादिमांसकेश्यन्ताः पादतलस्था रोगा ज्ञेयाः ।
९ । क्लेदस्रवतलं पूयादिस्राविपादतलमित्यर्थः । अयमपि पाद-
तलस्थो रोगः ।
११ । दर्भमुञ्जनिभमिति मुञ्जसदृशं दर्भसदृशञ्च ।
१ । मुञ्जदर्भनिभं । खः ।

२४६ अश्ववैद्यके [३६ अध्यायः ।
पार्ष्णिजाः१ पिडिका यस्य दृश्यन्ते तीव्रवेदनाः ।
तस्य विद्याद्भिषग्व्याधिं घोरं पादविरालिकम् ॥ १२ ॥
प्रसरन्ति२ खुरा यस्य अथवा पादुकोपमाः३ ।
पुनःखुरीति तं विद्यादश्वं विह्वलगामिनम्४ ॥ १३ ॥
ऊर्मिकश्चोर्मिसंस्थानैर्वलिभिः खुरसम्भवैः ।
विन्द्या५द्भिन्नखुरं चैव यस्यान्यो जायते खुरः ॥ १४ ॥
बहुमांसखुरश्चैव ज्ञेयो मांसखुरो हयः ।
मृदुखुरश्च विख्यातो मृदुर्यस्य खुरो भवेत् ॥ १५ ॥
क्लिद्यन्ते६ वलयो यस्य खुरसन्धिसमुद्भवाः ।
अक्लिन्ना वाथ सरुजस्तं विद्याच्चक्रवालिकम् ॥ १६ ॥
कूर्चंमावृत्य७ यः शोथो जङ्घायामुपजायते ।
उलूकपादो विज्ञेयो८ न च शक्यश्चिकित्सितुम् ॥ १७ ॥
१२ । पार्ष्णिजा इत्यत्र पार्ष्णिः (गोरारि) ।
१३ । एते पुनः-खुरादिचक्रवालिकान्ता रोगाः खुरसम्भवा
ज्ञेयाः ।
१४ । ऊर्मिसंस्थानैर्वलिभिस्तरङ्गसदृशैर्भङ्गिभिरित्यर्थः ।
१७ । कूर्चं किणानन्तरवर्त्तिप्रदेशम् ।
१ । पार्ष्णिका । गः । ५ । विद्यात् । गः ।
२ । प्रस्रवन्ति । गः । ६ । स्विद्यन्ति । खः ।
३ । अत्यर्थं पादुकोपमाः । गः । ७ । आश्रित्य । खः ।
४ । विकलगामिनम् । गः । ८ । विख्यातः । खः ।

३६ अध्यायः ।] पादरोगविवरणम् । २४७
रोमान्तः श्रूयते यस्य समन्तान्नैव पच्यते ।
क्लेदश्च पिच्छिलो यस्य¹ पिच्छपादीति तं विदुः ॥ १८ ॥
प्रावृट्काले व्रणं यस्य जङ्घायामुपजायते ।
स्थाणुरोगः स विज्ञेयो² दुष्टशोणितसम्भवः ॥ १९ ॥
ऊर्द्धभागे च कूर्च्चस्य मृद्वी या³ गुटिका भवेत् ।
श्रामण्डकाभिधो नाम्ना⁴ जङ्घापार्श्वसमुद्भवः ॥ २० ॥
प्रपोटकं विजानीयाद् ग्रन्थिभिः कूर्च्चसम्भवैः ।
श्रामलक्यस्थिसङ्काशैः ग्रन्थिभिश्चातिकण्टकैः ॥ २१ ॥
कदम्बफलमाचस्तु मण्डूकीमध्यसंस्थितः ।
मांसाङ्कुरः कदम्बाख्यः श्लेष्मशोणितसम्भवः ॥ २२ ॥
अथ चिकित्सा ।
सर्व्वेषां पादरोगाणां शिरावेधः प्रशस्यते ।
तलजायाश्च रोमान्त्याः कूर्च्चजायास्तथैव च ॥ २३ ॥

१८ । शूयते स्फीतो भवति ।
२० । गुटिका ग्रन्थिः । (गुलि) । आमण्डक आमर्द्दकश्च इत्यु-
भय एव पाठस्तुल्यः ।
२३ । पादरोगेषु तलजादिशिरावेधः कर्त्तव्य इत्यर्थः ।

१ । योऽति । गः । ३ । मृद्वीका । गः ।
२ । विख्यातः । खः । ४ । आमर्द्दकाभिधानः सः । खः ।

२४८ अश्ववैद्यके [३६ अध्यायः।
अभिघातात् खुरतले व्रणं यस्योपजायते।
दुष्टकर्मसङ्गाद्वा तस्य कुर्यात् प्रतिक्रियाम्॥ २४॥
कृच्छादनकपाचेण¹ मण्डूकां² तस्य शोधयेत्।
अतितीक्ष्णेन शस्त्रेण क्लिन्नमांसञ्च कर्त्तयेत्³॥ २५॥
तलजाञ्च⁴ शिरां विद्धा रोमान्ताञ्च विचक्षणः।
मोचयेच्छोणितं दुष्टं कषायैश्चोपनाहयेत्॥ २६॥
गुग्गुलुं पाययेदश्वं त्रिफलाक्वाथयोजितम्⁵।
एवं यदि न सिध्येत तदा वह्निं प्रदापयेत्॥ २७॥
दग्ध्वा तमेव पानाय गुग्गुलूं पाययेद्भिषक्।
सप्ताहं षोडशाहं वा द्वादशाहमथापिवा॥ २८॥
खादनं नैव⁶ दातव्यं दूर्व्वा च यवसे हिता।
शृतशीतञ्च पानाय उदकं तस्य कीर्त्तितम्॥ २९॥
२४। मण्डूकतापादिचिकित्सामाह अभिघातेत्यादिभिः।
२५। कृच्छादनकपाचेणेति पाठः पुस्तकद्वये साधुर्न लभ्यते।
परन्तु कृच्छादुत्पलपत्रेणेति पाठोऽत्रानुमीयते।
२६। अत्र केचिद्बहुवचनं पठन्ति।
२७। अयं श्लोकः ग-पुस्तके नास्ति।
१। कूर्च्छादनकवक्त्रेण। खः। २। मण्डूकां। खः।
३। सङ्कीर्णन्तु दृढं बुधः। गः।
४। तलजं शोणितं दुष्टं कषायैश्चापि वाहयेत्। गः।
५। गुग्गुलुं पाययेद्वैद्यः शास्त्रोक्त्या ज्ञाननिश्चयात्। गः।
६। चैव। गः।

१६ अध्यायः।] पादरोगविवरणम्। २४६
तत्र रोगेषु सर्व्वेषु अयमेव क्रियाक्रमः।
कर्त्तव्यः सर्व्वदा वैद्यैः शास्त्रमार्गानुसारिभिः ॥ ३० ॥
छिन्द्याद्व्रणं ग्रन्थिपुरं रोमान्तादिव्यवस्थितम्।
प्रयच्छेद्विशुद्धन्तु औषधैर्वा विदारयेत् ॥ ३१ ॥
स्नुह्यर्ककरवीराणां चिञ्चकस्य तथैव च।
मूलान्युद्धृत्य सर्व्वेषां गवां मूत्रेण पेषयेत् ॥ ३२ ॥
एतेन लेपयेदुष्णं व्रणं वाहस्य बुद्धिमान्।
परिशुद्धन्तु विज्ञाय रोपणेयैरुपक्रमेत् ॥ ३३ ॥
दन्तीचिञ्चकमूलन्तु स्नुह्यर्कपयसा सह।
भल्लातकास्थिकाशीषं लेपच्छिद्योच्छलिलामपि ॥ ३४ ॥
एवं यदि सुखी न स्यादग्निकर्म्म ततःपरम्।
दग्ध्वा तं पूर्व्ववद्दाहं गुग्गुलं पाययेद्भिषक् ॥ ३५ ॥
त्रिफलाक्वाथयुक्तस्तु सर्व्वेषां पादरोगिणाम्।
३०। तत्रेति खुरतले।
३३। रोपणेयैः रोपणाय हितैरौषधैरिति शेषः।
३४। रोपणौषधान्याह। दन्तीत्यादि। अर्कः (आकन्द)।
भल्लातकास्थि (भेलारमुटि)। स्नुही (सिजु)। काशीषं (हिराकस)।
अयं पाठो ग-पुस्तके नास्ति। अस्य चतुर्थपादो न लगति।
३५। अग्निकर्म्म चतुर्दशाध्यायोक्तमित्यर्थः।
32