सामग्री पर जाएँ
सर्वकोश
अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

Ashvavaidyaka of Jayadatta Suri with Commentary

जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा

DevanagariHindipublished522 पृष्ठ

पृष्ठ 260, कुल 522 में से

संदर्भ में पढ़ें
पृष्ठ 260

२३८ अश्ववैद्यके [३७ अध्यायः ।
अवगाढं चिरोद्भूतं मांसमज्जास्थिसंस्थिरम्¹ ।
कृच्छ्रसाध्यमसाध्यं वा व्रणं विद्यात् समाहितः²॥ २३ ॥
इति श्रीमहासामन्तजयदत्तकृतेऽश्वशास्त्रे व्रणरोगे
षट्त्रिंशोऽध्यायः ।
———
अथ सप्तत्रिंशोऽध्यायः ।
৹܀৹
वातादिसिंघानकलक्षणानि ।
वातिके पैत्तिके चैव श्लैष्मिके सान्निपातिके ।
सिंघानके प्रवक्ष्यामि लक्षणं भेषजं तथा ॥ १ ॥
तनुस्रावं सफेनञ्च वातिकं तत् प्रकीर्त्तितम् ।
रक्तपीतासितैः³ स्रावैर्विद्यात् पित्तसमुद्भवम् ॥ २ ॥
घनेन दधिवर्णेन कफजञ्चैव निर्द्दिशेत् ।
नानावर्णेन जानीयादसाध्यं सान्निपातिकम् ॥ ३ ॥
तच्चिकित्सा ।
शिरसः स्वेदनं कुर्य्याद् वातिके श्लैष्मिके तथा ।
प्रियङ्गुचन्दनाशीरैः शिरोलेपस्तु पित्तजे ॥ ४ ॥


२३ । अवगाढं न सम्यगुत्थितं । चिरोद्भूतं चिरजातम् ।
—————————
१ । समस्नायुं स्थिरत्वचम् । गः । ३ । रक्तपित्तासितैः । गः ।
२ । विद्वान् समादिशेत् । गः ।