सामग्री पर जाएँ
सर्वकोश
अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

Ashvavaidyaka of Jayadatta Suri with Commentary

जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा

DevanagariHindipublished522 पृष्ठ

पृष्ठ 268, कुल 522 में से

संदर्भ में पढ़ें
पृष्ठ 268

२४६ अश्ववैद्यके [३६ अध्यायः ।
पार्ष्णिजाः१ पिडिका यस्य दृश्यन्ते तीव्रवेदनाः ।
तस्य विद्याद्भिषग्व्याधिं घोरं पादविरालिकम् ॥ १२ ॥
प्रसरन्ति२ खुरा यस्य अथवा पादुकोपमाः३ ।
पुनःखुरीति तं विद्यादश्वं विह्वलगामिनम्४ ॥ १३ ॥
ऊर्मिकश्चोर्मिसंस्थानैर्वलिभिः खुरसम्भवैः ।
विन्द्या५द्भिन्नखुरं चैव यस्यान्यो जायते खुरः ॥ १४ ॥
बहुमांसखुरश्चैव ज्ञेयो मांसखुरो हयः ।
मृदुखुरश्च विख्यातो मृदुर्यस्य खुरो भवेत् ॥ १५ ॥
क्लिद्यन्ते६ वलयो यस्य खुरसन्धिसमुद्भवाः ।
अक्लिन्ना वाथ सरुजस्तं विद्याच्चक्रवालिकम् ॥ १६ ॥
कूर्चंमावृत्य७ यः शोथो जङ्घायामुपजायते ।
उलूकपादो विज्ञेयो८ न च शक्यश्चिकित्सितुम् ॥ १७ ॥
१२ । पार्ष्णिजा इत्यत्र पार्ष्णिः (गोरारि) ।
१३ । एते पुनः-खुरादिचक्रवालिकान्ता रोगाः खुरसम्भवा
ज्ञेयाः ।
१४ । ऊर्मिसंस्थानैर्वलिभिस्तरङ्गसदृशैर्भङ्गिभिरित्यर्थः ।
१७ । कूर्चं किणानन्तरवर्त्तिप्रदेशम् ।
१ । पार्ष्णिका । गः । ५ । विद्यात् । गः ।
२ । प्रस्रवन्ति । गः । ६ । स्विद्यन्ति । खः ।
३ । अत्यर्थं पादुकोपमाः । गः । ७ । आश्रित्य । खः ।
४ । विकलगामिनम् । गः । ८ । विख्यातः । खः ।