सामग्री पर जाएँ
सर्वकोश
अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

Ashvavaidyaka of Jayadatta Suri with Commentary

जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा

DevanagariHindipublished522 पृष्ठ

पृष्ठ 253, कुल 522 में से

संदर्भ में पढ़ें
पृष्ठ 253

३५ अध्यायः ।] हिक्काश्वासविवरणम् । २३१
दन्तीमूलं हरिद्राच हिङ्गुं च¹ बृहतीफलम् ।
एतैस्तु धूपयेत्कासे नासिकायां कफात्मके ॥ २७ ॥
क्षतजे क्षयकासे च पित्तकासो२दितां क्रियाम् ।
कुर्य्यान्मतिमतां श्रेष्ठो वाजिनां हितकाम्यया ॥ २८ ॥
इति श्रीमहासामन्तजयदत्तकृतेऽश्वशास्त्रे कासरो-
गचिकित्सिते चतुस्त्रिंशोऽध्यायः ।
अथ पञ्चत्रिंशोऽध्यायः ।
हिक्काश्वासनिदानलक्षणम् ।
मुखेन नासया चैव यः श्लेष्माणं विमुञ्चति ।
वातिकं शिशिरे काले तस्य श्वासं विनिर्दिशेत् ॥ १ ॥
शरन्निदाघयोश्चैव श्वासः पित्तेन जायते ।
तृष्णादाहपरीतस्य स्विन्नगात्रस्य वाजिनः ॥ २ ॥
मुखेन नासया चैव कफो यस्य प्रवर्त्तते ।
प्रावृट्काले वसन्ते वा³ श्वासस्तस्य कफात्मकः ॥ ३ ॥
दृष्ट्वा लक्षणसांकर्य्यमादिशेत् सन्निपातजम्⁴ ।
द्वन्द्वजञ्च⁵ तथा द्वाभ्यां दोषाभ्यां जनितं⁶ बुधः७ ॥ ४ ॥
१ । हिङ्गुञ्च । खः । ६ । जनितो बुधैः । गः ।
२ । कृत्वा चैवोदितां क्रियाम् । गः । ७ । बुधः । खः ।
३ । वापि । खः ।
४ । सान्निपातिकम् । खः ।
५ । द्वन्द्वजश्च । गः ।