अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)
Ashvavaidyaka of Jayadatta Suri with Commentary
जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा
पृष्ठ 252, कुल 522 में से
संदर्भ में पढ़ें२२० अश्ववैद्यके [३४ अध्यायः ।
पिप्पलीचूर्णसंयुक्तं सर्पिषा सह साधयेत् ।
तं१ लेहं दापयेद्वाहे पिण्डं वा भोजयेत्ततः२ ॥ २२ ॥
फलचूर्णञ्च३ काश्मर्य्या एवं दद्याद्विचक्षणः ।
लोध्रचन्दनयष्ट्याह्वपद्मकैर्घृतयोजितैः ।
धूपो नासाग्रतः४ कार्य्यः शास्त्रदृष्टेन कर्मणा ॥ २३ ॥
श्लेष्मकासचिकित्सा ।
चित्रकं त्रिफलाचूर्णं मुस्तकं कटुकत्रयम् ।
मधुना दापयेल्लेहं श्लेष्मकासार्द्दिते हये ॥ २४ ॥
पञ्चतिक्तसुसंसिद्धं तिक्तमुद्गञ्च भोजयेत् ।
मधुना तिलतैलेन युक्तांस्त्रिकटुकेन च ॥ २५ ॥
गवां मूत्रेण सुस्विन्नास्तिलतैलेन मर्द्दिताः ।
व्योषचूर्णसमायुक्ताः कुलत्था भोजने हिताः५ ॥ २६ ॥
२५ । निम्बामृतवृषपटोलनिदिग्धिकानां पलं तिक्तमुद्गस्य च
प्रस्थद्वयं ४ जलाढके पक्त्वा मधुकुड़वेन तैलकुड़वद्वयेन त्रिकटुकचूर्ण-
पलेन च एकत्र भोजयेत् । एषा मात्रा उत्तमे ज्ञेया ।
२३ । एवं कुलत्थभोजनेऽपि मात्रां जानीयात् । अत्र ग-पुस्तके
द्वितीयान्तः पाठो दृश्यते ।
२४ । दन्तीमुखादीनां कर्षत्रयं घृतस्य च कर्षौ धूपे ग्राह्यः ।
१ । तल्लेहं । खः । ४ । नासागतः । गः ।
२ । भिषक् । खः । ५ । कुर्य्याद्वै भोजयेद्धितान् । गः ।
३ । फलस्य चूर्णं काश्मर्य्याः । गः ।