सामग्री पर जाएँ
सर्वकोश
अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

Ashvavaidyaka of Jayadatta Suri with Commentary

जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा

DevanagariHindipublished522 पृष्ठ

पृष्ठ 254, कुल 522 में से

संदर्भ में पढ़ें
पृष्ठ 254

२३२ अङ्गवैद्यके [१५ अध्यायः ।
श्वासचिकित्सा ।
पञ्चमूलकषायेण कृत्वा मांसरसं भिषक् ।
वातश्वासे प्रदातव्यं शाल्यन्नेन च भोजनम् ॥ ५ ॥
निस्तुषा जलकुम्भस्थाः खादने विहिता यवाः ।
पित्तश्वासार्द्दिते बाह्ये¹ पानलेपौ च शीतलौ ॥ ६ ॥
इक्ष्वाः शरस्य² काशस्य नलवेतसयोस्तथा ।
मूलक्वाथः प्रदातव्यः पाने क्षौद्रसितान्वितः³ ॥ ७ ॥
वस्तिश्चैव⁴ जलक्षीरैः पित्तश्वासे प्रकीर्त्तितः ।
मुहुर्मुहुश्च पङ्केन⁵ प्रलेपश्च हितस्तथा ॥ ८ ॥
रास्ना⁶गोक्षीरपानञ्च शर्करामधुमूर्च्छितम् ।
पञ्चतिक्तेन⁷ सिद्धस्य अक्षपानञ्च सर्पिषा ॥ ६ ॥
५ । वातकासे पञ्चमूलकषायसाधितं मांसरसं शाल्यन्नेन सह
भोजनं देयम् । पञ्चमूलस्य पलं मांसस्य च प्रस्थः १८० पलमिते
वारिणि पाच्यः । तण्डुलस्यार्द्धाढकः ।
६ । अत्र यवस्य प्रस्थद्वयं वारिपर्युषितं देयम् ।
८ । अत्र क्षीरजलयोः आढको ग्राह्यः ।
९ । रास्नायाः पलं । गोक्षीरस्य प्रस्थः । शर्करामधुनोः प्रत्येकं
कुड़वः । अक्षपानं कर्षपरिमितपानम् ।
१ । देयौ च । गः । ५ । कंथेन । गः ।
२ । तृणाङ्कुजस्य । खः । ६ । शस्तम् । खः ।
३ । क्षौद्रसमन्वितः । गः । ७ । पञ्चतिक्तकसमुद्धस्य । गः ।
४ । वस्तितुल्यमथाक्षीरं । गः ।