अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)
Ashvavaidyaka of Jayadatta Suri with Commentary
जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा
पृष्ठ 270, कुल 522 में से
संदर्भ में पढ़ें२४८ अश्ववैद्यके [३६ अध्यायः।
अभिघातात् खुरतले व्रणं यस्योपजायते।
दुष्टकर्मसङ्गाद्वा तस्य कुर्यात् प्रतिक्रियाम्॥ २४॥
कृच्छादनकपाचेण¹ मण्डूकां² तस्य शोधयेत्।
अतितीक्ष्णेन शस्त्रेण क्लिन्नमांसञ्च कर्त्तयेत्³॥ २५॥
तलजाञ्च⁴ शिरां विद्धा रोमान्ताञ्च विचक्षणः।
मोचयेच्छोणितं दुष्टं कषायैश्चोपनाहयेत्॥ २६॥
गुग्गुलुं पाययेदश्वं त्रिफलाक्वाथयोजितम्⁵।
एवं यदि न सिध्येत तदा वह्निं प्रदापयेत्॥ २७॥
दग्ध्वा तमेव पानाय गुग्गुलूं पाययेद्भिषक्।
सप्ताहं षोडशाहं वा द्वादशाहमथापिवा॥ २८॥
खादनं नैव⁶ दातव्यं दूर्व्वा च यवसे हिता।
शृतशीतञ्च पानाय उदकं तस्य कीर्त्तितम्॥ २९॥
२४। मण्डूकतापादिचिकित्सामाह अभिघातेत्यादिभिः।
२५। कृच्छादनकपाचेणेति पाठः पुस्तकद्वये साधुर्न लभ्यते।
परन्तु कृच्छादुत्पलपत्रेणेति पाठोऽत्रानुमीयते।
२६। अत्र केचिद्बहुवचनं पठन्ति।
२७। अयं श्लोकः ग-पुस्तके नास्ति।
१। कूर्च्छादनकवक्त्रेण। खः। २। मण्डूकां। खः।
३। सङ्कीर्णन्तु दृढं बुधः। गः।
४। तलजं शोणितं दुष्टं कषायैश्चापि वाहयेत्। गः।
५। गुग्गुलुं पाययेद्वैद्यः शास्त्रोक्त्या ज्ञाननिश्चयात्। गः।
६। चैव। गः।