सामग्री पर जाएँ
सर्वकोश
अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

Ashvavaidyaka of Jayadatta Suri with Commentary

जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा

DevanagariHindipublished522 पृष्ठ

पृष्ठ 255, कुल 522 में से

संदर्भ में पढ़ें
पृष्ठ 255

३५ अध्यायः ।] हिक्काश्वासविधानम् । २३३
उशीरं पद्मकं मूर्ध्वा काश्मर्य्याश्च फलं सितम् ।
शीतेन वारिणा दद्यात् पानं क्षौद्रेण योजितम् ॥ १० ॥
पक्षानाड़ीं मयूरस्य जंघां वा चर्म वा भिषक् ।
दग्ध्वा लेहं प्रकुर्वीत घृतेन मधुना सह ॥ ११ ॥
मयूरनाड़ीकल्केन शलाकां शल्लकस्य च ।
दद्यादस्थीनि वा प्राज्ञः पित्तश्वासोपशान्तये ॥ १२ ॥
वार्त्ताकयूषः पानाय तिक्ततैलेन योजितः ।
श्वासे कफात्मके देयस्तिक्तमुद्गांश्च¹ भोजयेत् ॥ १३ ॥
द्वन्द्वजे द्विविधो देयः सङ्कीर्णः सान्निपातिके ।
श्वासोक्ता याः क्रियाः सर्वा लेहपानादिपूर्व्विकाः ।
प्रयोक्तव्यास्तु हिक्कायां वाजिनां हितमिच्छता ॥ १४ ॥
इति श्रीमहासामन्तजयदत्तकृतेऽश्वशास्त्रे हिक्काश्वासे
पञ्चविंशोऽध्यायः ।
१० । सितं रक्तचन्दनम् ।
११ । पक्षादीनामन्यतमं भस्मीकृत्य घृतमधुभ्यां लेहयेत् ।
१२ । शल्लकस्य शलाका (शजाहुर कांटा) ॥
१३ । वार्त्ताकस्य पलं । जलस्याढ़कः । तैलस्य प्रस्थार्द्धम् । द्वन्द्वज
इत्यादिपाठो ग-पुस्तके नास्ति ।
१ । तिक्तमुद्गैश्च भोजनम्। खः ।
30