सामग्री पर जाएँ
सर्वकोश
अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

Ashvavaidyaka of Jayadatta Suri with Commentary

जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा

DevanagariHindipublished522 पृष्ठ

पृष्ठ 263, कुल 522 में से

संदर्भ में पढ़ें
पृष्ठ 263

३७ अध्यायः ।] सिंघानरोगविवरणम् । २४१
एवं श्लेष्मा विनिर्याति तस्य नासान्तरोद्भवः ।
प्रतिप्रभातं¹ कुर्व्वीत क्रियामेतां समाहितः ॥ १८ ॥
तारयेद्वा जलं निम्नं² प्रूथयेद्वा विचक्षणः³ ।
नासाछिद्रे विनिःक्षिप्य सूक्ष्मैलां⁴ चूर्णितां मनाक् ॥१९॥
गुडूच्यास्त्रिफलायाश्च निम्बवासकयोस्तथा ।
क्वाथे मुद्गान् समुत्खिद्य सुखोष्णान् स्थापयेत्ततः ॥२०॥
पञ्चमूलकषायेण रसैर्मांसस्य साधितैः ।
मर्हयित्वा ततस्तैलं दत्वा मधु च भोजयेत् ॥ २१ ॥
श्लेष्मजे वातजे चैव कटुचूर्णं प्रदापयेत् ।
तिक्तमुद्गा घृताभ्यक्ताः पित्तसिङ्घानके हिताः ॥ २२ ॥
न दद्यात् पित्तजे तैलं केवलं विहितं घृतम् ।
दन्दजे च भिषग्विद्वान् कुर्य्यात्साधारणीं क्रियाम्५ ॥ २३॥
[