अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)
Ashvavaidyaka of Jayadatta Suri with Commentary
जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा
१७२ अश्ववैद्यके [१८ अध्यायः।
अश्वपानाच्च१ दातव्यमर्द्धं स्नेहस्य पण्डितैः।
प्रभाते वा विकाले वा पिण्डं दद्याद्भिषक् तथा ॥ ४ ॥
एकेनाह्ना न दातव्यं प्रस्थादूर्द्धं घृतं बुधैः।
आढकादपरो नैव प्रयोगस्तस्य शस्यते ॥ ५ ॥
त्रिरात्रं पञ्चरात्रं वा सप्तरात्रमथापि वा।
दशाहं द्वादशाहं वा दद्यात् स्नेहं निरन्तरम् ॥ ६ ॥
क्षुधिते यवसं दूर्व्वां तस्मै दद्याद्विचक्षणः।
सुखोष्णं सलिलञ्चैव प्रशस्तं परिकीर्त्तितम् ॥ ७ ॥
स्निग्धता सर्व्वगात्राणां वर्चः स्निग्धमसंहतम्।
सम्यक्स्निग्धस्य वाहस्य उत्साहश्चैव जायते ॥ ८ ॥
अरुचिर्दीनता चैव पादानां श्वयथुस्तथा।
अतिभिन्नपुरीषञ्च अतिस्निग्धस्य लक्षणम् ॥ ६ ॥
अस्निग्धस्य२ भवेद्वर्चो रूक्षवर्त्तितमेव३ च।
तस्मै वातो भिषक् प्राज्ञः पुनः स्नेहं प्रदापयेत् ॥ १० ॥
सम्यक्स्निग्धं प्रशंसन्ति मुनयः शास्त्रकोविदाः।
अतिस्निग्धश्च रूक्षश्च द्वावेतौ निन्दितौ स्मृतौ ॥ ११ ॥
४। अश्वपानाच्चेत्यत्र अश्वपानायेति पाठः साधीयान् ।
५। यस्मिन्दिने घृतप्रस्थो दीयते तस्मिन्दिने द्रव्यान्तराणा
माढकादूर्द्धं न देयमित्यर्थः॥
१। अश्छमानाच्च । गः। ३। बद्धचर्चितम्। गः॥
२। अतिस्निग्धं। खः॥
१६ अध्यायः ।] स्नेहविवरणम् । १०३
अतिस्निग्धस्य वाहस्य कुर्य्याच्चैव विचक्षणः ।
भोजनैः प्रतिपानैश्च वक्ष्यमाणैरनन्तरम् ॥ १२ ॥
सुरालवणसंयुक्तं प्रातर्दद्याद्विचक्षणः ।
यवागूभोजनञ्चैव विकाले तक्रसंयुतम्¹ ॥ १३ ॥
मुद्गाश्च भोजने देयास्तक्रेणाम्लेन मर्द्दिताः ।
एतत्त्र्यहं प्रकर्त्तव्यं पञ्चाहं वा भिषग्वरैः ॥ १४ ॥
एवं विरूक्षितानान्तु शुष्कघासैकवर्त्तिनाम् ।
कायाग्नेर्जायते वृद्धिः स्वल्पाम्भश्चापि वाजिनाम् ॥ १५ ॥
तैलं क्षारेण संयुक्तं प्रावृट्काले प्रदापयेत् ।
क्षीरयुक्तं शरत्काले हेमन्ते सुरया युतम् ॥ १६ ॥
शिशिरे लवणैर्युक्तं वसन्ते त्रिफलान्वितम् ।
वारिणा द्विगुणेनैव ग्रीष्मकाले² प्रशस्यते ॥ १७ ॥
अपक्वं नैव दातव्यं पाने स्वस्थेषु वाजिषु ।
समीक्ष्य दोषं पक्वञ्च तैलं दद्याद्विचक्षणः ॥ १८ ॥
आमं दत्तं गुदे तैलमभिष्यन्दाय जायते ।
तस्माद्दद्याद्विशेषेण स्नेहं³ वस्तौ विपाचितम् ॥ १९ ॥
१६ तैलं पलाष्टकम् । क्षारस्य च षट्तोलकं मात्रा ॥
१७ । लवणस्य पलं । त्रिफलायाश्च मिलितं पलं ॥
१ । तक्रसंस्कृताम् । खः ॥ ३ । स्नेहवस्तिविपश्चितः । गः ॥
२ । ग्रीष्मेचापि । गः ॥
१७४ अश्ववैद्यके [२० अध्यायः ।
मन्दकोष्ठानले वाहे स्थूले चातिकृशे तथा ।
स्नेहपानं न दातव्यं व्यायामेन च योजिते ॥ २०॥
इति श्रीमहासामन्तजयदत्तकृतेऽश्वशास्त्रे स्नेहप्रयोगे
एकोनविंशोऽध्यायः ॥ १९ ॥
अथ विंशोऽध्यायः ।
तैलविधानः।
मधुकादितैलम् ।
मधुकोशीरयष्ट्याह्वरक्तचन्दनपद्मकैः ।
श्रीपुष्पधातकीलोध्रमञ्जिष्ठाचन्दनैः समैः ॥ १ ॥
कल्कीकृतं पचेत्तैलं गोक्षीरेण समन्वितम् ।
पित्तदोषविनाशाय मधुकाद्यभिधानकम् ॥ २ ॥
चित्रत्सपिः ।
सर्पिस्तैलं वसां चैव एकीकृत्य विचक्षणः ।
१। मधुकं (मौल) । उशीरं (गन्धवेणा) । यष्ट्याह्वं (यष्टिमधु) ।
पद्मकं (पद्मकाठ) । श्रीपुष्पं (लवङ्ग) । धातकी (धाइफुल) । अत्र
चन्दनं श्वेतचन्दनं । तैलस्य प्रस्थः । मधुकादीनां मिलित्वा कुड़वः ।
दुग्धं च तैलसमं देयम् ॥
३—४ । सर्पिस्तैलवसानां मिलित्वा प्रस्थः । दशमूलस्य कल्कः
२० अध्यायः।] तैलविधानम् । १७५
दशमूलकषायेण तत्कल्कैः पाचयेद्भिषक् ॥ ३ ॥
मृदग्निना वृहताख्यं नस्यपानादिकामिकम्।
वातव्याधिविनाशाय कीर्त्तितं यत्तपोधनैः ॥ ४ ॥
प्रसारणीतैलम् ।
शतं शतं पलानान्तु प्रसारण्याश्वगन्धयोः।
दशमूलशतञ्चैव काथयित्वा विचक्षणः ॥ ५ ॥
माषपर्ण्यः पलं वापि मुङ्गपर्ण्याः पलं तथा।
सैन्धवस्य पले द्वेतु¹ चित्रकस्य तथैव च ॥ ६ ॥
पिप्पलीनां तथा मूलं प्रसारण्याश्च बुद्धिमान्।
यवक्षारञ्च गृह्णीयाद् बुधो द्विपलिकं तथा ॥ ७ ॥
पलैकं² चाष्टवर्गन्तु कल्कार्थे संप्रयोजयेत्।
पूर्व्वोक्तेन कषायेण दधिक्षीरतुषोदकैः॥ ८॥
कुड़वमितः। दशमूलस्य काथ्यस्य मिलितं शरावद्वयं । काथार्थं
वारि (३२ शराव) पादावशिष्टं कर्त्तव्यम्। अथ कल्केन सहैकत्र
पाचवित्वा स्नेहपाकविधानेन साध्यम् ॥
५-८ । तिलतैलं शरावचतुष्टयं (४ से) । काथद्रव्यं—प्रसारण्या-
दीनां त्रयाणां प्रत्येकं पलशतं । अथ काथार्थं वारि प्रत्येकं ४०० पलं ।
पादावशिष्टं कृत्वा तेन काथेन पृथक् पृथक् पाच्यं । तथा दध्ना दधि-
मस्तुना, क्षीरेण, तुषोदकेन च प्रत्येकं तैलसमानेन माषपर्ण्यादीनां
१ । दञ्जदेतु । खः ॥ २ । पलिकं । खः ॥
१७६ अश्ववैद्यके [२० अध्यायः।
पचेत् प्रसारणीतैलं भिषग्विद्वान् समाहितः।
वातरोगेषु१ सर्व्वेषु हितं भेषजमुत्तमम्॥ ९॥
दशमूलस्य कल्केन तत्कषायाम्बुकाञ्जिकैः।
लवणैः संयुतं तैलं पचेद्वातविनाशनम्॥ १०॥
तुल्याभ्यां घृततैलाभ्यां विहृतोक्तैश्च भेषजैः।
मिश्रकं साधयेत्तैलं वसातैलेषु२ मध्यमम्॥ ११॥
अपक्कं यमकं३ प्रोक्तं घृतं तैलसमीरितम्।
पाने वस्तौ तथाभ्यङ्गे वातरोगेषु शस्यते॥ १२॥
इति श्रीमहासामन्तजयदत्तकृतेऽश्वशास्त्रे तैलवि-
धाने विंशोऽध्यायः॥२०॥
कुट्टितेन कल्केन च सह तैलं साधयेत्। पाकप्रणाली-आदौ तैलं मूर्च्छ-
यित्वा प्रसारण्यादीनां प्रत्येकं काथेन सह कल्कं भोजयेत्। ततः क्षीरा-
दीनि भोजयित्वा पाकशेषं कुर्य्यात्। क्षीरे दिरात्रं सरसे त्रिरात्रं तक्रा-
रण्णालादिषु पञ्चरात्रमिति नियमात् क्षीरं भोजयित्वा द्विरात्रं दधि-
मस्त्वारनालञ्च भोजयित्वा पञ्च पञ्च वासरान् संस्थापयेत्। अष्टवर्ग इति
जीवकर्षभककाकोलीक्षीरकाकोलीमेदमहामेदद्विऋद्धिकानि अष्टौष-
धान। तदुक्तं, — “जीवकर्षभकौ मेदे काकोल्याद्वृद्धिवृद्धिके। अष्ट-
वर्गोऽष्टभिर्द्रव्यैः कथितश्चरकादिभिः”—इति परिभाषा॥
१। रोगेषु चैव सर्व्वेषु। गः॥ ३। मध्यम्। गः॥
२। सिद्धं तैलेन मध्यमम्। गः॥
[ १७७ ]
अथैकविंशोऽध्यायः ।
घृतविधानः ।
पञ्चतिक्तघृतम् ।
वासानिम्बकरञ्जानां सप्तपर्णीपटोलयोः ।
साधयेत् क्वाथकल्काभ्यां पञ्चतिक्तघृतं बुधः ॥ १ ॥
करञ्जाद्यं घृतम् ।
करञ्जोशीरमधुकैः श्यामाचन्दनपद्मकैः ।
त्रायमाणा शटी मूर्वी पटोलातिविषैः समैः ॥ २ ॥
एतैः सर्व्वैस्तथा सार्द्धं त्रिचतुःपञ्चसम्मितैः ।
कल्कीकृतैः पचेत् सर्पिस्त्रिफलाया रसेन तु ॥ ३ ॥
पित्तदोषापहं हृद्यं बलतेजोविवर्द्धनम् ।
करञ्जाद्यमभिधानन्तु जीवनं वृंहणं भिषक्१ ॥४॥
१ । कल्कार्थं वासादीनां प्रत्येकं पलं, क्वाथार्थं च प्रत्येकमष्ट-
पलम् । वारिः ३२ शरावाः । स्नेहस्य च प्रस्थः ॥
२-४ । घृतस्य प्रस्थः। क्वाथार्थं त्रिफलायाः शरावचतुष्टयं, वारि च
(३२ श) । पादावशेषेण क्वाथेन सह करञ्जादीनां मिलित्वा पलच-
तुष्टयं कल्कीकृत्य घृतं पाच्यम्॥ त्रायमाणा वलालता। अतिविषं
(आतरुच्) । नकुलोऽप्यत्र सप्तविंशतिकं घृतमाह, - “शिलाजतुविशाला
१। जीवयेत्तु हयं भिषक् । गः ॥
23
१७८ अश्ववैद्यके [२१ अध्यायः ।
द्वितीयं पञ्चतिक्तं घृतम् ।
पटोलं वासकं निम्बं गुडूची कण्टकारिका ।
एषां दशपलान् भागान् जलद्रोणे विपाचयेत् ॥ ५ ॥
त्रिफलायाः पलान्यष्ट तत्रैव¹ दापयेद्भिषक् ।
चतुर्भागावशेषन्तु कषायमवतारयेत् ॥ ६ ॥
घृतप्रस्थं प्रदातव्यं चूर्णस्य पलद्वयम् ।
कासे श्वासे च हिक्कायां गलगण्डार्दितेषु च ॥ ७॥
ये चान्ये कफजाः केचित् रोगा वातप्रकोपजाः ।
पैत्तिका द्वन्द्वजाश्चापि तथा वै सन्निपातजाः ॥ ८ ॥
एतानपि निहन्त्याशु पञ्चतिक्तमिदं घृतम् ॥
इति श्रीमहासामन्तजयदत्तकृतेऽश्वशास्त्रे घृतवि-
धाने एकविंशोऽध्यायः ॥
च पद्माख्यं नागकेशरम् । लाक्षाच द्राकमूलञ्च निम्बद्वयसमन्वितम् ॥
घृतं समांशकं देयं सप्तविंशतिकं विदुः"-इति ॥
१ । क्षुण्णं तत्रैव दापयेत् । गः ॥
[ १७५ ]
अथ द्वाविंशोऽध्यायः ।
श्रान्तोपचारः ।
श्रमो भवति रोगाय वाहनानामतिवाहनात् ।
श्वासिनः श्लथदेहाश्च दीनास्तेन भवन्ति वै१ ॥ १ ॥
श्रान्तस्य मदिरान्दत्वा१ गड़युक्तां विजानता ।
पश्चाद्घासः प्रदातव्यो जलपानं भवेत्ततः ॥ २ ॥
गोमयं लवणं मूत्रं कथितं मृत्समन्वितम् ।
सर्व्वाङ्गलेपनं प्रोक्तं मुनिभिः श्रमशान्तये ॥ ३ ॥
मर्दयेत् सर्व्वगात्राणि गोमयेनाथवा पुनः ।
क्षीरोदकेन वस्तिञ्च दद्यात् सेकञ्च मूर्द्धनि ॥ ४ ॥
सर्व्वकायिकमभ्यङ्गं सर्पिषा चैव कारयेत् ।
श्वोभूतजलकुम्भस्थान् संस्कृतान् दापयेद् यवान् ॥ ५ ॥
३ । मूत्रं गोमूत्रम् । श्रमशान्तये पिण्डमाह नकुलः, - “मद्यं
मरिचसंमिश्रं लशुनं नागकेशरम् । द्विगुणं मेषमांसञ्च पिण्डो दत्तो
जयेच्छ्रमम्” - इति ॥
५ । श्वोभूतजलकुम्भस्थानिति पूर्व्वदिने वारिपर्य्युषितानित्यर्थः ॥
१ । खस्यदेहाश्च दीना अश्वा भवन्ति ते । खः ॥
२ । मदिरा देया गुड़युक्ता । गः ॥
१८० अश्ववैद्यके [२३ अध्यायः ।
एता एव क्रिया वैद्यः पञ्चरात्रं प्रयोजयेत् ।
मांसानां रसकैर्युक्तं यवान्नं भोजयेद्भिषक्¹ ॥ ६ ॥
प्रथमे दिवसे दद्यात् कम्पनाय च वाजिने ।
मांसानां रसकं पाने मारुतोद्भवशान्तये ॥ ७॥
इति श्रीमहासामन्तजयदत्तकृतेऽश्वशास्त्रे श्रान्तोप-
चारे द्वाविंशोऽध्यायः ।
अथ त्रयोविंशोऽध्यायः ।
स्वस्थारिष्टः।
अथातः संप्रवक्ष्यामि स्वस्थारिष्टस्य लक्षणम् ।
शालिहोत्रादिभिः पूर्व्वमृषिभिः कीर्त्तितं यथा ॥ १॥
दुर्मना हीनवर्णश्च दत्तं नैव² च खादति ।
विना रोगमकस्माद्यो गतायुः स प्रकीर्त्तितः ॥ २ ॥
६ । मांसानामित्यादि मांससयुक्तं यवान्नं यथोक्तपरिमाणं
दापयेदित्यर्थः ॥
१ । स्वस्थारिष्टमिति । स्वस्थस्य सुखदेहस्य अरिष्टं मृत्यु-
लक्षणम् ।
२ । एवं नकुल आह,—“यस्याविकारिणोऽश्वस्य शरीरं परि-
हीयते । विमना ध्यानमौलस्त्वचिरात् स विनश्यति” ॥ इति ।
१ । ततः । खः । २ । दत्तं चैव न खादति । खः ।
र्यस्य जायते ।
Wait, "श्वयथुर्यस्य":
श्व, य, थु, र्य, स्य -> श्वयथुर्यस्य. Correct.
यस्य रोमाणि' स्निग्धानि तैलाक्ता इव केशराः ॥ ४ ॥
- "यस्य"
- "रोमाणि'"
- "स्निग्धानि"
- "तैलाक्ता"
- "इव"
- "केशराः"
- "॥ ४ ॥"
असाध्य' इति जानीयात् सप्ताहं तस्य जीवितम् ।
- "असाध्य'"
- "इति"
- "जानीयात्"
- "सप्ताहं"
- "तस्य"
- "जीवितम्"
- "।"
मेढ्र' निष्क्राम्य यो वाजी शार्दूलवन्निषीदति ॥ ५ ॥
- "मेढ्र'" or "मेढ्रं'"? It looks like "मेढ्र'": wait, is there an anusvāra? There's a stroke above/to the right:
मेढ्र'.
Wait, let's look atमेढ्र': is there a dot? It looks likeमेढ्र'with a tick mark, or maybeमेढ्रं'. In Sanskrit it's accusativeमेढ्रं निष्क्राम्य. Let's look closely: there is a bindu below the tick?
१८९ अश्ववैद्यके [२३ अध्यायः।
नासामेढ्राक्षिपायुभ्योऽकस्माद् यस्य च शोणितम् ।
सपित्तं जायते यस्य श्वासार्तोऽप्यतिमूत्रवान् ॥ ८ ॥
शूनोदरगुदमेढ्रो यश्चैते विगतायुषः ।
पूतिगन्धं भवेद्यस्य दुर्गन्धं मूत्रविट् तथा ॥ ६ ॥
दृष्ट आकम्पते¹ यश्च ग्रासमुज्झिरते यदि ।
मक्षिकै²र्भक्षितः पश्चात् निमिषे यस्य लोचने ॥ १० ॥
न शृणोति च कर्णाभ्यां स्पष्टं दृष्टं न बुध्यते ।
न चालयति लाङ्गूलं स्तब्धकर्णश्च जायते ॥ ११ ॥
श्रवणे पाण्डुरा रक्ता शिरा यस्य च वेधिता ।
मस्तके तालुके कण्ठे हृदि मुष्के च जायते ॥ १२ ॥
श्वयथुः कठिनाऽत्यर्थं रक्तहोनाश्च वाजिनः ।
६ । दर्शनेन्द्रियारिष्टमाह नकुलः, - “दृश्यते चाक्षिणी यस्य
पटलाभ इवाश्रिते । विमुक्तबन्धने चैव विच्छिन्ने च समन्ततः॥
अप्रसन्ने च विवृते सोऽपि शीघ्रं विनश्यति । कुञ्चितं यस्य दृष्टं तु
प्रस्तब्ध इव लक्ष्यते ॥ पुण्डरीकग्रहे वापि विवृत्ते यस्य लोचने ।
तिमिरे तु प्रदृश्येते सोऽपि शीघ्रं विनश्यति” इति ॥
११ । श्रवणेन्द्रियारिष्टे नकुलः,- “कर्णौ यस्य प्रदृश्येते स्तब्धा-
विव समुच्छ्रितौ । श्रवणे पाण्डुरा रक्ता शिरा यस्य स वेधिता ॥
विनश्यति हयः क्षिप्रमेतैर्लिङ्गैर्न संशयः” इति ।
१ । दृष्टोवा कम्पते । गः ।
२ । माक्षिकै वेष्टिते यच्चानिमेषस्य लोचने । खः ।
२३ अध्यायः ।] अश्वारिष्टविवरणम् । १८३
मुखेन स्रवते लाला प्रस्वेदो यस्य लेपवत् ॥ १३ ॥
तालुकं स्फोटकाकीर्णं नेत्रे कान्तिविवर्जिते ।
स्नाने पाने विरक्तश्च निद्राहीनोऽवघूर्णते¹ ॥ १४ ॥
यस्यैकैकं भवेच्चिह्नं मासान्तं तस्य जीवितम् ।
रोगीभूतस्य वाहस्य क्रियया वर्जितस्य च ॥ १५ ॥
यस्यैकैकं भवेच्चिह्नं पञ्चाहाभ्यन्तरे मृतिः² ।
जिह्वाग्रे³ पिड़का यस्य दृश्यते⁴ च तथाधरे ॥ १६ ॥
मूत्रं करोति रक्ताख्यं सप्तमासान् स जीवति ।
यस्य श्वासो भवेदुष्णः शरीरं पुलकाङ्कितम् ॥ १७ ॥
जिह्वा हिमसमाकारा स्वल्पायुः⁵ परिकीर्त्तितः ।
रक्तमश्रु च नेत्रान्ते पाण्डुरे च गतायुषः ॥ १८ ॥
खिन्ने मांसान्विते नेत्रे रक्ताभे रक्तवाजिनः⁶ ।
कृष्णपीतविचित्रैश्च सप्तमे स्वल्पजीविनः ॥ १९ ॥
१६ । रसनेन्द्रियारिष्टमाह नकुलः,—“जिह्वा च कठिना स्तब्धा
सोऽपि शीघ्रं विनश्यति” ।
१८–२१ । वेधशमनपिण्डमाह, शिंशपेत्यादि ॥ शिंशपा
(शिशु) । सारनिर्यासः शालनिर्यासः (धुना) । अष्टवर्गमिति । का-
१ । विना निद्रांच घूर्म्मति । खः । ४ । श्वेते चैव । खः ।
२ । म्रियेत् । गः । ५ । गतायुः सम्प्रकीर्त्तितः । गः ।
३ । ग्रीवाग्रे । खः । ६ । खिन्नमांसनिभे नेत्रे रक्तपीते च
वाजिनः । खः । विन्दुभिः कृष्णपीतैश्च व्याप्ते वा स्वल्पजीविनः ॥
१८४ अश्ववैद्यके [२३ अध्यायः ।
नेत्रैश्चैव विवर्णैश्च¹ सप्तरात्रन्तु जीवति ।
रक्तवर्णं भवेदेकं द्वितीयं नीलवर्णकम् ॥ २० ॥
पुटान्ते लोचने² यस्य मासायुः स प्रकीर्त्तितः ।
स्यातां नीले हि नेत्रान्ते लेखे द्विमासजीविनः ॥ २१ ॥
नीलपीते च नेत्रान्ते स्यातां त्रिमासजीविनः ।
चतुर्मासायुषो लेखा³ नेत्रान्ते बहुवर्णकाः ॥ २२ ॥
षण्मासजीविनोऽश्वस्य नेत्रान्ते बहुविन्दवः ।
सप्तमासायुषो नीले नेत्रे स्यातां हि वाजिनः ॥ २३ ॥
दशमासायुषोऽश्वस्य नेत्रयोर्वर्णव्यत्ययः⁴ ।
नासानिकटनेत्रान्ते प्रसार्याश्वस्य लक्षयेत्⁵ ॥ २४ ॥
दृष्टी रूक्षा सिता वातात् पित्तात् पीतारुणप्रभा ।
कफात् श्वेता जलार्द्रा च पीताभा च⁶ ज्वरागमे ॥ २५ ॥
इति श्रीमहासामन्तजयदत्तकृतेऽश्वशास्त्रे स्वस्था-
रिष्टे त्रयोविंशोऽध्यायः ।
कोली क्षीरकाकोली जीवकर्षभकौ मेदामहामेदौ ऋद्धिवृद्धिश्च ।
द्वौ क्षारौ साचिक्षारयवक्षारौ । कटुका (कट्की) । उग्रा वचा, लवणं
सैन्धवं । गजपिप्पली प्रसिद्धा । त्रिकटु शुण्ठीपिप्पलीमरिचानि ।
त्रिजातं सुस्तचिचकविडङ्गानि । एतेषां चूर्णानि समभागानि पल-
मितानि पिष्ठार्थं ग्राह्याणि ।
१ । नेत्रै विविधवर्णैश्च । गः । ४ । यस्य नेत्रान्ते व्यक्तवर्णकः । गः ।
२ । लोचनं । खः । ५ । लक्ष्यते । खः ।
३ । चतुर्मासायुषोऽश्वस्य । गः । ६ । पीताल्पत्वं ज्वरांगमे । गः ।
[ १९५ ]
अथ चतुर्विंशोऽध्यायः।
वेधारिष्टः।
अकस्माद् यदि वाहानामेकरूपा भवेद्रुजा।
म्रियते च यदा क्षिप्रमुपसर्गं तदादिशेत् ॥ १ ॥
निदानञ्चैव चिह्नञ्च वक्ष्ये तस्य यथाक्रमम्।
शरत्काले शुचौ वापि ऋतुसन्धौ च१ जायते ॥ २ ॥
कदाचित् कस्मिन्देशे सविषो वहति मारुतः।
तस्मादपि च वाहानामङ्गेभ्यस्तु२ प्रजायते ॥ ३ ॥
निदानलक्षणम्।
निदानेभ्यः समासेन वक्ष्यामस्तानि सांप्रतम् ।
शरत्काले तथा ग्रीष्मे वाहानां रवितापतः३ ॥ ४ ॥
उपसर्गश्च वेधाख्यो जायते नात्र संशयः ।
शालाभावे च वाहानां प्रावृषि जायते मलात् ॥ ५ ॥
मशदंशकदोषाच्च चिन्तादेरुपयोगतः ।
उपसर्गस्तु वेधाख्यो जायतेऽश्वस्य दारुणः ॥ ६ ॥
उपसर्गे समुत्पन्ने एतद्भवति लक्षणम् ।
अधोमुखाश्च दीनाश्च सज्वराः श्वासकासिनः ॥ ७ ॥
१। ऋतुसन्ध्यावसानके । गः। २। मनोभ्यस्तु ।
३। प्रतिपागतः । गः ।
24
१८६ अश्ववैद्यके [२४ अध्यायः।
स्तब्धाङ्गा विकृताः क्षामाः पीड़ार्त्ताश्चासमूचिणः ।
आमाहृतपुरीषाश्च¹ तथा शुष्कपुरीषिणः ॥८॥
अतिसारं सरक्तञ्च कदाचित् कुरुते² हयः।
शूनाः पश्चिमपादाश्च शूनाश्च वृषणोदराः ॥६॥
सतिग्ममनसो जातु दुर्मनांसो भवन्ति च ।
धृतिं नैवाधिगच्छन्ति स्थाने वा शयनेऽपि वा ॥१०॥
भोजनं यवसं तोयं नैवाश्नन्ति च खादनम् ।
कीर्य्यन्ते मक्षिकाभिश्च साश्रुनेत्रा भवन्ति च ॥११॥
मन्दाग्नयश्च जायन्ते बलतेजोविवर्जिताः ।
न सहन्त्यातपं सौरं हयाश्छायानिषेविणः ॥१२॥
चन्द्रे प्रकाशमाने तु हयान् मुक्तातु⁴ रक्षयेत् ।
आतपाशङ्कया छायां सवेधो याति निश्चयम् ॥१३॥
वेधारिष्टचिकित्सा ।
एतानि लक्षणान्येव सवेधानां भवन्ति वै ।
उपसर्गे तु सञ्जाते शक्तिकर्म्माणि कारयेत् ॥१४॥
नीराजनविधानन्तु कर्त्तव्यं पूर्व्वनोदितम् ।
अश्वरक्षाविधानाय⁵ ऋचा साम्ना च पाठकः ॥१५॥
जुहुयाज्ज्वलनं विप्रस्तुरङ्गानां हितेच्छया ।
१ । अपाहृतपुरीषाः । गः ॥ ३ । मेघते । खः ॥
२ । कुर्व्वते हयाः । खः ॥ ४ । युक्ता निरीक्षयेत् । गः ॥
५ । अश्वरक्षाविधानन्तु नीराजामाद्यपाठकः । गः ॥
२४ अध्यायः ।] वेधारिष्टविवरणम् । १८७
अथर्व्वविहितां शान्तिं गान्धर्वीं १ वा प्रयोजयेत् ।
नदीपारञ्च नीत्वाश्वान् स्थापयेच्च पृथक् पृथक् ।
कदाचिद् दैवयोगेन शान्तिकर्म्म-फलेन वा ॥१७॥
प्रशमं यान्ति वाहानां उपसर्गाः सुदारुणाः ।
तैलपानं तथाभ्यङ्गं घृतपानं तथैव च ॥१८॥
सप्ताहाच्चाहरेद्यस्तु स जीवेन्नात्र संशयः ।
शिंशपासानिर्य्यासमष्टवर्गांस्तथैव च ॥ १९ ॥
द्वौ क्षारौ कटुका चोग्रा लवणं गजपिप्पली ।
त्रिकटु त्रिफला चैव त्रिजातं हिङ्गुरेव च ॥ २० ॥
एतानि समभागानि पिष्ट्वा पिण्डं प्रदापयेत् ।
दीप्ते तस्य कायाग्निर्वेधश्चैवापशाम्यति ॥ २१ ॥
उत्क्षिप्तवंक्षणः स्तब्धश्वासमन्दाग्निरश्रुवान् ।
दुर्गन्धो मक्षिकाक्रान्तो ध्यायी चाश्वो' न जीवति॥२२॥
जीवेत् पक्षन्तु तुरगो वली मासञ्च जीवति ।
जीवेत् संवत्सरं वापि न तु रोगात् प्रमुच्यते ॥ २३ ॥
प्रावृषः पूर्व्वकाले तु सद्यो दद्याद्विचक्षणः ।
नोचेज्ज्वरातुरा ह्यश्वः कार्त्तिके मासि जायते ॥ २४ ॥
इति श्रीमहासामन्तजयदत्तकृतेऽश्वशास्त्रे वेधारिष्टे
चतुर्विंशोऽध्यायः ॥ २४ ॥
१ । धार्थ्यवासः । खः ॥
with two slanting strokes above: 'ज्यैष्ठशुक्लद्वितीयायां'!
Line 11:
चिकित्सा ।
Line 12:
तेषाञ्च प्रतिघाताय कुर्य्याद्विद्वान् प्रतिक्रियाम् ।
Line 13:
महानिम्बपलाशानां बीजैः सक्तुभिश्चतुर्भिः ॥ ४ ॥
Line 14: (divider line)
———
Line 15:
१ । निरुपचारत उपचाराभावात् ।
Line 16:
३ । कीटकाण्डाः कीटगुच्छाः तदाश्रय इत्यर्थः ।
Line 17:
४ । महानिम्बादीनां चूर्णं मिश्रितं पलपरिमितं घृतेन पिण्डं
Line 18:
दद्यात् ॥
Line 19: (divider line)
———
Line 20:
१ । वेधकीटः । खः । २ । पिठरे । गः ।
Wait, let's verify each line very carefully!
Line 1:
"अथ पञ्चविंशोऽध्यायः ।"
Yes, 'अथ पञ्चविंशोऽध्यायः ।'
Line 2:
२६ अध्यायः।] मृगरोगविवरणम्। १८९
तस्मिन्नेव दिने पिण्डं दद्याद्बुद्धिमतां वरः ।
अनुपानं तदा दद्याद् द्रवं रोहिणिकोद्भवम् ॥ ५ ॥
एवं कीटा न जायन्ते हयानामुदरे ध्रुवम् ॥ ६ ॥
इति श्रीमहासामन्तजयदत्तकृतेऽश्वशास्त्रे कीटा-
रिष्टे पञ्चविंशोऽध्यायः ॥ २५ ॥
अथ षड्विंशोऽध्यायः।
───────
मृगरोगः ।
नासासन्धान¹संयुक्ता जायन्ते भूर्युपद्रवाः ।
नित्यं घासाभिलाषी च हीयते बलमांसयोः ॥ १ ॥
मृगरोगः स विख्यातो व्याधिः कष्टचिकित्सितः ।
षण्मासाभ्यन्तरे वाथ परलोकं² प्रयाति च ॥ २ ॥
────────────────────────────────────────────
५ । रोहिणिकोद्भवमिति कटुरोहिणीसम्भूतम् । कटुक्याः पा-
दोनं पलं जलाढ़के पक्त्वा पादावशिष्टं देयम् ॥
────────────────────────────────────────────
१ । सिंघाण । गः ।
२ । वत्सराभ्यन्तरेऽपि वा । गः ।
१६० अश्ववैद्यके [२६ अध्यायः ।
बहुदुःखो' भवेदश्वो मृगरोगप्रपीडितः ।
यावदुच्छसते जन्तुस्तावत् कुर्यात् प्रतिक्रियाम् ॥ ३ ॥
चिकित्सा ।
कदाचिद्दैवयोगेन विनष्टश्चापि जीवति ।
पञ्चमूलस्य निःक्वाथे२ जाङ्गलैः साधितो रसः ॥ ४ ॥
रसः पाने प्रदातव्यः शालिभक्तञ्च भोजनम् ।
कदाचिद्दैवयोगेन भर्तुः पुण्यफलेन वा ॥
प्रशमं याति वाहानां मृगरोगः सुदारुणः ॥ ५ ॥
इति श्रीमहासामन्तजयदत्तकृतेऽश्वशास्त्रे मृगरोगे
षड्विंशोऽध्यायः ॥ २६ ॥
―――――
४ । पञ्चमूलस्य पलं । जलस्याढकः पादावशिष्टः । शालिभक्तञ्च
यथोक्तमात्रं देयम् ॥
―――――
१ । परलोकं प्रयात्यश्वः । गः ।
२ । पञ्चमूलञ्च निःक्वाथ्य । गः ।
[ १६९ ]
अथ सप्तविंशोऽध्यायः ।
————
वातादिकोपः ।
प्रकोपनिदानलक्षणे ।
तिक्तरूक्षकषायाणां द्रव्याणामुपयोगतः ।
निराहाराच्च¹ श्रमाद्धारात् प्रकोपो मातरिश्वनः ॥ १ ॥
सन्तापाच्च श्रमाच्चापि कट्वम्ललवणाशनात् ।
प्रकोपं याति पित्ताख्यो दोषो देहव्यवस्थितः ॥ २ ॥
गुरुभिर्मधुरैः स्निग्धैरभिष्यन्दकरै रसैः ।
सेवितैः श्लेष्मणां वृद्धर्भवेच्चापि श्रमं विना ॥ ३ ॥
प्रावृट्काले विकाले च हेमन्ते च विशेषतः ।
वायोर्वृद्धिः समुद्दिष्टा जीर्णे चैवाशने तथा ॥ ४ ॥
शरत्काले निदाघे च जीर्य्यमाणे च भक्षिते² ।
मध्याह्ने चार्द्धरात्रे च पित्तोद्रेकं समादिशेत् ॥ ५ ॥
१ । वातप्रकोपप्रशमनयोगमाह नकुलः,—“तमालं पुष्करं लोध्र-
मपामार्गं सतिन्दुकम् । पयसा पिण्डमेतद्धि वातकोपः प्रशाम्यति”—
इति ।
३ । अभिष्यन्दकरैरिति आस्रावजनकैः श्लेष्मवर्द्धकैरित्यर्थः ।
५ । भक्षिते भुक्तद्रव्ये ।
१ । निरन्तरयासात् । गः । २ । भक्षते पक्तिमेव च । गः ।