अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)
Ashvavaidyaka of Jayadatta Suri with Commentary
जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा
पृष्ठ 198, कुल 522 में से
संदर्भ में पढ़ें१८० अश्ववैद्यके [२३ अध्यायः ।
एता एव क्रिया वैद्यः पञ्चरात्रं प्रयोजयेत् ।
मांसानां रसकैर्युक्तं यवान्नं भोजयेद्भिषक्¹ ॥ ६ ॥
प्रथमे दिवसे दद्यात् कम्पनाय च वाजिने ।
मांसानां रसकं पाने मारुतोद्भवशान्तये ॥ ७॥
इति श्रीमहासामन्तजयदत्तकृतेऽश्वशास्त्रे श्रान्तोप-
चारे द्वाविंशोऽध्यायः ।
अथ त्रयोविंशोऽध्यायः ।
स्वस्थारिष्टः।
अथातः संप्रवक्ष्यामि स्वस्थारिष्टस्य लक्षणम् ।
शालिहोत्रादिभिः पूर्व्वमृषिभिः कीर्त्तितं यथा ॥ १॥
दुर्मना हीनवर्णश्च दत्तं नैव² च खादति ।
विना रोगमकस्माद्यो गतायुः स प्रकीर्त्तितः ॥ २ ॥
६ । मांसानामित्यादि मांससयुक्तं यवान्नं यथोक्तपरिमाणं
दापयेदित्यर्थः ॥
१ । स्वस्थारिष्टमिति । स्वस्थस्य सुखदेहस्य अरिष्टं मृत्यु-
लक्षणम् ।
२ । एवं नकुल आह,—“यस्याविकारिणोऽश्वस्य शरीरं परि-
हीयते । विमना ध्यानमौलस्त्वचिरात् स विनश्यति” ॥ इति ।
१ । ततः । खः । २ । दत्तं चैव न खादति । खः ।