सामग्री पर जाएँ
सर्वकोश
अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

Ashvavaidyaka of Jayadatta Suri with Commentary

जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा

DevanagariHindipublished522 पृष्ठ

पृष्ठ 191, कुल 522 में से

संदर्भ में पढ़ें
पृष्ठ 191

१६ अध्यायः ।] स्नेहविवरणम् । १०३
अतिस्निग्धस्य वाहस्य कुर्य्याच्चैव विचक्षणः ।
भोजनैः प्रतिपानैश्च वक्ष्यमाणैरनन्तरम् ॥ १२ ॥
सुरालवणसंयुक्तं प्रातर्दद्याद्विचक्षणः ।
यवागूभोजनञ्चैव विकाले तक्रसंयुतम्¹ ॥ १३ ॥
मुद्गाश्च भोजने देयास्तक्रेणाम्लेन मर्द्दिताः ।
एतत्त्र्यहं प्रकर्त्तव्यं पञ्चाहं वा भिषग्वरैः ॥ १४ ॥
एवं विरूक्षितानान्तु शुष्कघासैकवर्त्तिनाम् ।
कायाग्नेर्जायते वृद्धिः स्वल्पाम्भश्चापि वाजिनाम् ॥ १५ ॥
तैलं क्षारेण संयुक्तं प्रावृट्काले प्रदापयेत् ।
क्षीरयुक्तं शरत्काले हेमन्ते सुरया युतम् ॥ १६ ॥
शिशिरे लवणैर्युक्तं वसन्ते त्रिफलान्वितम् ।
वारिणा द्विगुणेनैव ग्रीष्मकाले² प्रशस्यते ॥ १७ ॥
अपक्वं नैव दातव्यं पाने स्वस्थेषु वाजिषु ।
समीक्ष्य दोषं पक्वञ्च तैलं दद्याद्विचक्षणः ॥ १८ ॥
आमं दत्तं गुदे तैलमभिष्यन्दाय जायते ।
तस्माद्दद्याद्विशेषेण स्नेहं³ वस्तौ विपाचितम् ॥ १९ ॥

१६ तैलं पलाष्टकम् । क्षारस्य च षट्तोलकं मात्रा ॥
१७ । लवणस्य पलं । त्रिफलायाश्च मिलितं पलं ॥

१ । तक्रसंस्कृताम् । खः ॥ ३ । स्नेहवस्तिविपश्चितः । गः ॥
२ । ग्रीष्मेचापि । गः ॥