अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)
Ashvavaidyaka of Jayadatta Suri with Commentary
जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा
पृष्ठ 194, कुल 522 में से
संदर्भ में पढ़ें१७६ अश्ववैद्यके [२० अध्यायः।
पचेत् प्रसारणीतैलं भिषग्विद्वान् समाहितः।
वातरोगेषु१ सर्व्वेषु हितं भेषजमुत्तमम्॥ ९॥
दशमूलस्य कल्केन तत्कषायाम्बुकाञ्जिकैः।
लवणैः संयुतं तैलं पचेद्वातविनाशनम्॥ १०॥
तुल्याभ्यां घृततैलाभ्यां विहृतोक्तैश्च भेषजैः।
मिश्रकं साधयेत्तैलं वसातैलेषु२ मध्यमम्॥ ११॥
अपक्कं यमकं३ प्रोक्तं घृतं तैलसमीरितम्।
पाने वस्तौ तथाभ्यङ्गे वातरोगेषु शस्यते॥ १२॥
इति श्रीमहासामन्तजयदत्तकृतेऽश्वशास्त्रे तैलवि-
धाने विंशोऽध्यायः॥२०॥
कुट्टितेन कल्केन च सह तैलं साधयेत्। पाकप्रणाली-आदौ तैलं मूर्च्छ-
यित्वा प्रसारण्यादीनां प्रत्येकं काथेन सह कल्कं भोजयेत्। ततः क्षीरा-
दीनि भोजयित्वा पाकशेषं कुर्य्यात्। क्षीरे दिरात्रं सरसे त्रिरात्रं तक्रा-
रण्णालादिषु पञ्चरात्रमिति नियमात् क्षीरं भोजयित्वा द्विरात्रं दधि-
मस्त्वारनालञ्च भोजयित्वा पञ्च पञ्च वासरान् संस्थापयेत्। अष्टवर्ग इति
जीवकर्षभककाकोलीक्षीरकाकोलीमेदमहामेदद्विऋद्धिकानि अष्टौष-
धान। तदुक्तं, — “जीवकर्षभकौ मेदे काकोल्याद्वृद्धिवृद्धिके। अष्ट-
वर्गोऽष्टभिर्द्रव्यैः कथितश्चरकादिभिः”—इति परिभाषा॥
१। रोगेषु चैव सर्व्वेषु। गः॥ ३। मध्यम्। गः॥
२। सिद्धं तैलेन मध्यमम्। गः॥