सामग्री पर जाएँ
सर्वकोश
अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

Ashvavaidyaka of Jayadatta Suri with Commentary

जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा

DevanagariHindipublished522 पृष्ठ

पृष्ठ 197, कुल 522 में से

संदर्भ में पढ़ें
पृष्ठ 197

[ १७५ ]
अथ द्वाविंशोऽध्यायः ।
श्रान्तोपचारः ।
श्रमो भवति रोगाय वाहनानामतिवाहनात् ।
श्वासिनः श्लथदेहाश्च दीनास्तेन भवन्ति वै१ ॥ १ ॥
श्रान्तस्य मदिरान्दत्वा१ गड़युक्तां विजानता ।
पश्चाद्घासः प्रदातव्यो जलपानं भवेत्ततः ॥ २ ॥
गोमयं लवणं मूत्रं कथितं मृत्समन्वितम् ।
सर्व्वाङ्गलेपनं प्रोक्तं मुनिभिः श्रमशान्तये ॥ ३ ॥
मर्दयेत् सर्व्वगात्राणि गोमयेनाथवा पुनः ।
क्षीरोदकेन वस्तिञ्च दद्यात् सेकञ्च मूर्द्धनि ॥ ४ ॥
सर्व्वकायिकमभ्यङ्गं सर्पिषा चैव कारयेत् ।
श्वोभूतजलकुम्भस्थान् संस्कृतान् दापयेद् यवान् ॥ ५ ॥
३ । मूत्रं गोमूत्रम् । श्रमशान्तये पिण्डमाह नकुलः, - “मद्यं
मरिचसंमिश्रं लशुनं नागकेशरम् । द्विगुणं मेषमांसञ्च पिण्डो दत्तो
जयेच्छ्रमम्” - इति ॥
५ । श्वोभूतजलकुम्भस्थानिति पूर्व्वदिने वारिपर्य्युषितानित्यर्थः ॥
१ । खस्यदेहाश्च दीना अश्वा भवन्ति ते । खः ॥
२ । मदिरा देया गुड़युक्ता । गः ॥