सामग्री पर जाएँ
सर्वकोश
अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

Ashvavaidyaka of Jayadatta Suri with Commentary

जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा

DevanagariHindipublished522 पृष्ठ

पृष्ठ 201, कुल 522 में से

संदर्भ में पढ़ें
पृष्ठ 201

२३ अध्यायः ।] अश्वारिष्टविवरणम् । १८३
मुखेन स्रवते लाला प्रस्वेदो यस्य लेपवत् ॥ १३ ॥
तालुकं स्फोटकाकीर्णं नेत्रे कान्तिविवर्जिते ।
स्नाने पाने विरक्तश्च निद्राहीनोऽवघूर्णते¹ ॥ १४ ॥
यस्यैकैकं भवेच्चिह्नं मासान्तं तस्य जीवितम् ।
रोगीभूतस्य वाहस्य क्रियया वर्जितस्य च ॥ १५ ॥
यस्यैकैकं भवेच्चिह्नं पञ्चाहाभ्यन्तरे मृतिः² ।
जिह्वाग्रे³ पिड़का यस्य दृश्यते⁴ च तथाधरे ॥ १६ ॥
मूत्रं करोति रक्ताख्यं सप्तमासान् स जीवति ।
यस्य श्वासो भवेदुष्णः शरीरं पुलकाङ्कितम् ॥ १७ ॥
जिह्वा हिमसमाकारा स्वल्पायुः⁵ परिकीर्त्तितः ।
रक्तमश्रु च नेत्रान्ते पाण्डुरे च गतायुषः ॥ १८ ॥
खिन्ने मांसान्विते नेत्रे रक्ताभे रक्तवाजिनः⁶ ।
कृष्णपीतविचित्रैश्च सप्तमे स्वल्पजीविनः ॥ १९ ॥
१६ । रसनेन्द्रियारिष्टमाह नकुलः,—“जिह्वा च कठिना स्तब्धा
सोऽपि शीघ्रं विनश्यति” ।
१८–२१ । वेधशमनपिण्डमाह, शिंशपेत्यादि ॥ शिंशपा
(शिशु) । सारनिर्यासः शालनिर्यासः (धुना) । अष्टवर्गमिति । का-
१ । विना निद्रांच घूर्म्मति । खः । ४ । श्वेते चैव । खः ।
२ । म्रियेत् । गः । ५ । गतायुः सम्प्रकीर्त्तितः । गः ।
३ । ग्रीवाग्रे । खः । ६ । खिन्नमांसनिभे नेत्रे रक्तपीते च
वाजिनः । खः । विन्दुभिः कृष्णपीतैश्च व्याप्ते वा स्वल्पजीविनः ॥