सामग्री पर जाएँ
सर्वकोश
अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

Ashvavaidyaka of Jayadatta Suri with Commentary

जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा

DevanagariHindipublished522 पृष्ठ

पृष्ठ 202, कुल 522 में से

संदर्भ में पढ़ें
पृष्ठ 202

१८४ अश्ववैद्यके [२३ अध्यायः ।
नेत्रैश्चैव विवर्णैश्च¹ सप्तरात्रन्तु जीवति ।
रक्तवर्णं भवेदेकं द्वितीयं नीलवर्णकम् ॥ २० ॥
पुटान्ते लोचने² यस्य मासायुः स प्रकीर्त्तितः ।
स्यातां नीले हि नेत्रान्ते लेखे द्विमासजीविनः ॥ २१ ॥
नीलपीते च नेत्रान्ते स्यातां त्रिमासजीविनः ।
चतुर्मासायुषो लेखा³ नेत्रान्ते बहुवर्णकाः ॥ २२ ॥
षण्मासजीविनोऽश्वस्य नेत्रान्ते बहुविन्दवः ।
सप्तमासायुषो नीले नेत्रे स्यातां हि वाजिनः ॥ २३ ॥
दशमासायुषोऽश्वस्य नेत्रयोर्वर्णव्यत्ययः⁴ ।
नासानिकटनेत्रान्ते प्रसार्याश्वस्य लक्षयेत्⁵ ॥ २४ ॥
दृष्टी रूक्षा सिता वातात् पित्तात् पीतारुणप्रभा ।
कफात् श्वेता जलार्द्रा च पीताभा च⁶ ज्वरागमे ॥ २५ ॥
इति श्रीमहासामन्तजयदत्तकृतेऽश्वशास्त्रे स्वस्था-
रिष्टे त्रयोविंशोऽध्यायः ।
कोली क्षीरकाकोली जीवकर्षभकौ मेदामहामेदौ ऋद्धिवृद्धिश्च ।
द्वौ क्षारौ साचिक्षारयवक्षारौ । कटुका (कट्की) । उग्रा वचा, लवणं
सैन्धवं । गजपिप्पली प्रसिद्धा । त्रिकटु शुण्ठीपिप्पलीमरिचानि ।
त्रिजातं सुस्तचिचकविडङ्गानि । एतेषां चूर्णानि समभागानि पल-
मितानि पिष्ठार्थं ग्राह्याणि ।
१ । नेत्रै विविधवर्णैश्च । गः । ४ । यस्य नेत्रान्ते व्यक्तवर्णकः । गः ।
२ । लोचनं । खः । ५ । लक्ष्यते । खः ।
३ । चतुर्मासायुषोऽश्वस्य । गः । ६ । पीताल्पत्वं ज्वरांगमे । गः ।