अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)
Ashvavaidyaka of Jayadatta Suri with Commentary
जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा
पृष्ठ 190, कुल 522 में से
संदर्भ में पढ़ें१७२ अश्ववैद्यके [१८ अध्यायः।
अश्वपानाच्च१ दातव्यमर्द्धं स्नेहस्य पण्डितैः।
प्रभाते वा विकाले वा पिण्डं दद्याद्भिषक् तथा ॥ ४ ॥
एकेनाह्ना न दातव्यं प्रस्थादूर्द्धं घृतं बुधैः।
आढकादपरो नैव प्रयोगस्तस्य शस्यते ॥ ५ ॥
त्रिरात्रं पञ्चरात्रं वा सप्तरात्रमथापि वा।
दशाहं द्वादशाहं वा दद्यात् स्नेहं निरन्तरम् ॥ ६ ॥
क्षुधिते यवसं दूर्व्वां तस्मै दद्याद्विचक्षणः।
सुखोष्णं सलिलञ्चैव प्रशस्तं परिकीर्त्तितम् ॥ ७ ॥
स्निग्धता सर्व्वगात्राणां वर्चः स्निग्धमसंहतम्।
सम्यक्स्निग्धस्य वाहस्य उत्साहश्चैव जायते ॥ ८ ॥
अरुचिर्दीनता चैव पादानां श्वयथुस्तथा।
अतिभिन्नपुरीषञ्च अतिस्निग्धस्य लक्षणम् ॥ ६ ॥
अस्निग्धस्य२ भवेद्वर्चो रूक्षवर्त्तितमेव३ च।
तस्मै वातो भिषक् प्राज्ञः पुनः स्नेहं प्रदापयेत् ॥ १० ॥
सम्यक्स्निग्धं प्रशंसन्ति मुनयः शास्त्रकोविदाः।
अतिस्निग्धश्च रूक्षश्च द्वावेतौ निन्दितौ स्मृतौ ॥ ११ ॥
४। अश्वपानाच्चेत्यत्र अश्वपानायेति पाठः साधीयान् ।
५। यस्मिन्दिने घृतप्रस्थो दीयते तस्मिन्दिने द्रव्यान्तराणा
माढकादूर्द्धं न देयमित्यर्थः॥
१। अश्छमानाच्च । गः। ३। बद्धचर्चितम्। गः॥
२। अतिस्निग्धं। खः॥