सामग्री पर जाएँ
सर्वकोश
अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

Ashvavaidyaka of Jayadatta Suri with Commentary

जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा

DevanagariHindipublished522 पृष्ठ

पृष्ठ 192, कुल 522 में से

संदर्भ में पढ़ें
पृष्ठ 192

१७४ अश्ववैद्यके [२० अध्यायः ।
मन्दकोष्ठानले वाहे स्थूले चातिकृशे तथा ।
स्नेहपानं न दातव्यं व्यायामेन च योजिते ॥ २०॥
इति श्रीमहासामन्तजयदत्तकृतेऽश्वशास्त्रे स्नेहप्रयोगे
एकोनविंशोऽध्यायः ॥ १९ ॥
अथ विंशोऽध्यायः ।
तैलविधानः।
मधुकादितैलम् ।
मधुकोशीरयष्ट्याह्वरक्तचन्दनपद्मकैः ।
श्रीपुष्पधातकीलोध्रमञ्जिष्ठाचन्दनैः समैः ॥ १ ॥
कल्कीकृतं पचेत्तैलं गोक्षीरेण समन्वितम् ।
पित्तदोषविनाशाय मधुकाद्यभिधानकम् ॥ २ ॥
चित्रत्सपिः ।
सर्पिस्तैलं वसां चैव एकीकृत्य विचक्षणः ।
१। मधुकं (मौल) । उशीरं (गन्धवेणा) । यष्ट्याह्वं (यष्टिमधु) ।
पद्मकं (पद्मकाठ) । श्रीपुष्पं (लवङ्ग) । धातकी (धाइफुल) । अत्र
चन्दनं श्वेतचन्दनं । तैलस्य प्रस्थः । मधुकादीनां मिलित्वा कुड़वः ।
दुग्धं च तैलसमं देयम् ॥
३—४ । सर्पिस्तैलवसानां मिलित्वा प्रस्थः । दशमूलस्य कल्कः