सामग्री पर जाएँ
सर्वकोश
अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

Ashvavaidyaka of Jayadatta Suri with Commentary

जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा

DevanagariHindipublished522 पृष्ठ

पृष्ठ 193, कुल 522 में से

संदर्भ में पढ़ें
पृष्ठ 193

२० अध्यायः।] तैलविधानम् । १७५
दशमूलकषायेण तत्कल्कैः पाचयेद्भिषक् ॥ ३ ॥
मृदग्निना वृहताख्यं नस्यपानादिकामिकम्।
वातव्याधिविनाशाय कीर्त्तितं यत्तपोधनैः ॥ ४ ॥
प्रसारणीतैलम् ।
शतं शतं पलानान्तु प्रसारण्याश्वगन्धयोः।
दशमूलशतञ्चैव काथयित्वा विचक्षणः ॥ ५ ॥
माषपर्ण्यः पलं वापि मुङ्गपर्ण्याः पलं तथा।
सैन्धवस्य पले द्वेतु¹ चित्रकस्य तथैव च ॥ ६ ॥
पिप्पलीनां तथा मूलं प्रसारण्याश्च बुद्धिमान्।
यवक्षारञ्च गृह्णीयाद् बुधो द्विपलिकं तथा ॥ ७ ॥
पलैकं² चाष्टवर्गन्तु कल्कार्थे संप्रयोजयेत्।
पूर्व्वोक्तेन कषायेण दधिक्षीरतुषोदकैः॥ ८॥
कुड़वमितः। दशमूलस्य काथ्यस्य मिलितं शरावद्वयं । काथार्थं
वारि (३२ शराव) पादावशिष्टं कर्त्तव्यम्। अथ कल्केन सहैकत्र
पाचवित्वा स्नेहपाकविधानेन साध्यम् ॥
५-८ । तिलतैलं शरावचतुष्टयं (४ से) । काथद्रव्यं—प्रसारण्या-
दीनां त्रयाणां प्रत्येकं पलशतं । अथ काथार्थं वारि प्रत्येकं ४०० पलं ।
पादावशिष्टं कृत्वा तेन काथेन पृथक् पृथक् पाच्यं । तथा दध्ना दधि-
मस्तुना, क्षीरेण, तुषोदकेन च प्रत्येकं तैलसमानेन माषपर्ण्यादीनां
१ । दञ्जदेतु । खः ॥ २ । पलिकं । खः ॥