अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)
Ashvavaidyaka of Jayadatta Suri with Commentary
जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा
पृष्ठ 207, कुल 522 में से
संदर्भ में पढ़ें२६ अध्यायः।] मृगरोगविवरणम्। १८९
तस्मिन्नेव दिने पिण्डं दद्याद्बुद्धिमतां वरः ।
अनुपानं तदा दद्याद् द्रवं रोहिणिकोद्भवम् ॥ ५ ॥
एवं कीटा न जायन्ते हयानामुदरे ध्रुवम् ॥ ६ ॥
इति श्रीमहासामन्तजयदत्तकृतेऽश्वशास्त्रे कीटा-
रिष्टे पञ्चविंशोऽध्यायः ॥ २५ ॥
अथ षड्विंशोऽध्यायः।
───────
मृगरोगः ।
नासासन्धान¹संयुक्ता जायन्ते भूर्युपद्रवाः ।
नित्यं घासाभिलाषी च हीयते बलमांसयोः ॥ १ ॥
मृगरोगः स विख्यातो व्याधिः कष्टचिकित्सितः ।
षण्मासाभ्यन्तरे वाथ परलोकं² प्रयाति च ॥ २ ॥
────────────────────────────────────────────
५ । रोहिणिकोद्भवमिति कटुरोहिणीसम्भूतम् । कटुक्याः पा-
दोनं पलं जलाढ़के पक्त्वा पादावशिष्टं देयम् ॥
────────────────────────────────────────────
१ । सिंघाण । गः ।
२ । वत्सराभ्यन्तरेऽपि वा । गः ।