अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)
Ashvavaidyaka of Jayadatta Suri with Commentary
जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा
१० अध्यायः ।] किशोरोपाचरविवरणम् । १०१
शरीरेन्द्रियधात्वग्नि¹दोषाः प्रकृतयस्तथा ॥ २१ ॥
वत्सानाञ्च तुरङ्गाणां तुल्यरूपा भवन्ति ते ।
तान्येव व्याधिरूपाणि तदेव तु चिकित्सितम् ॥ २२ ॥
सएव वातस्तत्पित्तं स श्लेष्मा तद्धि शोणितम् ।
विशेषः केवलस्तत्र मात्राया परिकीर्त्तितः ॥ २३ ॥
इति श्रीमहासामन्तजयदत्तकृतेऽश्वशास्त्रे सूतिको-
पचारे दशमोऽध्यायः ।
१ । शरीरेन्द्रियजास्त्वग्निदोषाः । खः ।
[ १०४ ]
अथैकादशोऽध्यायः ।
❧
द्रव्यमात्राज्ञानः ।
प्रधानमध्यहीनानां देशकालवलं प्रति ।
वाजिनामुपयोगाय द्रव्यमात्रा विधीयते ॥ १ ॥
पक्वगुञ्जाफलैर्माषो अष्टभिः परिकीर्त्तितः ।
माषैः षोड़शभिः कर्षस्तैश्चतुर्भिः पलं भवेत् ॥ २ ॥
चतुःपलैः स्यात् कुड़वः प्रस्थः षोड़शभिः पलैः ।
चतुःषष्ट्या पलैरेक¹ आढकः परिकीर्त्तितः ॥ ३ ॥
शतद्वयं पलानान्तु² षट्पञ्चाशत्तथैव च ।
द्रोणस्य कीर्त्तिता संख्या प्रमाणज्ञानकोविदैः ॥ ४ ॥
१ । द्रव्यमात्रेति मात्राशब्देन सम्यग्योगो वक्तव्यः ।
२ । एष मानविधिः केवलं वाजिचिकित्सिताय, चरकादिमान-
विलक्षणएव । चरकादिमानविधिस्तु एवं प्रदर्शितश्चक्रपाणिना, —
“द्वात्रिंशन्माषकैर्माषश्चरकस्य तु तैः पलम् । अष्टचत्वारिंशता स्यात्
सुश्रुतस्य तु माषकः ॥ द्वादशभिर्धान्यमाषैश्चतुःषष्ट्या तु तैः पलम् ।
एतच्च तुलितं पञ्चरक्तिमाषात्मकं पलम् ॥ चरकार्द्धपलोन्मानं चरके
द्व्यरक्तिकैः । माषैः पलं चतुःषष्ट्या यद्भवेत्तत् तथेरितम् ॥ तस्मात्
पलं चतुःषष्ट्या माषकैर्द्व्यरक्तिकैः । चरकानुमतं वैद्यैः चिकित्सासूप-
युज्यते” इति । माषो अष्टभिरित्यत्र लुप्तोऽकारः साधुः ॥
१ । एव । गः । २ । च । खः ।
११ अध्यायः ।] द्रव्यमात्राविवरणम् । १०५
शुष्कद्रव्यस्य या मात्रा सा¹ द्रवे द्विगुणा भवेत् ।
मूलादीनामशुष्काणां द्रव्यतुल्यो विधिः स्मृतः ॥ ५ ॥
एकस्मिन्नेव दातव्यं दिने वाहस्य निस्तुषैः ।
अविनष्टैर्यवैः पूर्णमाढकानां चतुष्टयम् ॥ ६ ॥
उत्तमाधमहीनानां पादहीनन्तु दापयेत् ।
पादो न आढको देयः सुसिद्धे भोजने तथा ॥ ७ ॥
शालेश्च तण्डुलानां तु अर्द्धञ्चैव प्रदापयेत् ।
५ । मूलादीनामित्यादिपदेन गुडूचीकुटजवाशाकुष्माण्डशता-
वर्यादीनां ग्रहणम् । एषामाद्रीणामपि सर्वकार्येषु द्विगुणं न ग्राह्यम् ।
उक्तञ्च शार्ङ्गधरे,–"नवान्येवहि योज्यानि द्रव्याण्यखिलकर्मसु ।
विना विड़ङ्गकृष्णाभ्यां गुड़धान्याज्यमाचिकैः ॥ गुडूची कुटजो वाशा
कुष्माण्डञ्च शतावरी । अश्वगन्धा सहचरी शतपुष्पा प्रसारणी ॥ प्रयो-
क्तव्या सदैवार्द्रा द्विगुणं नैव कारयेत्"—इति । विड़ङ्गादीनि नवानि
न प्रशस्तानीति ज्ञेयम् । "शुष्कद्रव्ये तु या मात्रा चार्द्रस्य द्विगुणा हि
सा। शुष्कस्य गुरुतीक्ष्णत्वात् तस्मादर्द्धं प्रकीर्त्तितम्"—इति परिभाषा ॥
६ । एकस्मिन्दिने यवाढ़कचतुष्टयस्य दाने अग्निपुराणम्,–"नि-
स्तुषाणां प्रदातव्या यवानां चतुराढ़की"—इति ।
७ । उत्तमे पूर्णा मात्रा मध्यमाधमयोरुत्तरोत्तरं पादहीना
कर्त्तव्या ।
८ । सार्द्धहीनन्तदिति पाठो युक्तः ।
१ । सार्द्रस्य द्विगुणा मता । खः ।
14
१०६ अश्ववैद्यके [११ अध्यायः ।
कनीयसोऽर्द्धहीनञ्चेदिति मानं शरीरिणाम् ॥ ८ ।
चणकाश्चैव माषाश्च ये चान्ये ब्रीहयस्तथा ।
यवार्द्धेन प्रयोक्तव्या देशसात्म्येन खादने ॥ ९ ॥
मुद्गप्रस्थास्त्रयो योज्या¹ वाजिनां मुद्गभोजने ।
त्रयश्च स्नेहकुड़वा एकश्च लवणस्य तु ॥ १० ॥
तत्प्रमाणेन तैलेन लवणेन तथैव च ।
माषा मुद्गसमा देया भोजनाय च वाजिनाम् ॥ ११ ॥
सर्पिषश्चापि पानार्थं² प्रस्थं दद्याद्विचक्षणः ।
मधुनः कुड़वं चापि फाणितस्य तथैव च ॥ १२ ॥
शर्कराञ्चैव खण्डञ्च तथा मत्स्यण्डिकामपि ।
फाणितस्य प्रमाणेन दापयेन्मतिमान् भिषक् ॥ १३ ॥
८-११ । वाजिनां भोजनार्थे यवादीनामेवं मात्रा ;-एकदिने यव-
स्याढकचतुष्टयं । चणकमाषव्रीह्यादीनां आढकद्वयं मात्रा। मुद्गस्य च
प्रस्थत्रयं । यवस्य भोजने स्नेहव्यवस्था सर्वत्रैव स्नेहस्य कुडुवत्रयं लव-
णस्य च कुड़वो देयः । “चणकव्रीहिमौद्गानि कलायं वापि दापयेत् ।
अहोरात्रेण चार्द्धस्य यवसस्य तुला दश ॥ अष्टौ शुष्कस्य दातव्याश्चत-
स्त्रोऽथ बुधस्य वा”—इति अग्निपुराणम् । एवं माषभोजनेऽपि माषस्य
३ प्रस्थाः । तैलस्य ३ कुड़वाः । लवणस्य च कुड़वः ॥
१२। फाणितं (फेणी) इति प्रसिद्धम् ।
१ मुद्गप्रस्थो नियोज्यो हि । गः । २। सर्पिषश्चापि पानेऽर्द्धप्रस्थं । गः ।
११ अध्यायः ।] द्रव्यमात्राविवरणम् । १०७
अर्द्धप्रस्थन्तु तैलस्य पलान्यष्टौ गुड़स्य च ।
प्रतिपाने¹ सुरायाश्च प्रस्थमेकं प्रदापयेत् ॥ १४ ॥
चूर्णं च लवणं पिण्डीं पलैकाञ्चैव² बुद्धिमान् ।
चतुःपलं घृताद्दद्यात्स्नेहे पाने च भोजने³ ॥ १५ ॥
पलानि दश कल्कस्य निरूहे संप्रदापयेत् ।
आढ़कञ्च कषायस्य दद्याद्बुद्धिमतां वरः ॥ १६ ॥
तावत्प्रमाणं क्षीरञ्च क्षीरवस्तौ प्रकीर्त्तितम् ।
स्नेहप्रस्थः प्रदातव्यो निरूहे चैव वाजिनाम्⁴ ॥ १७ ॥
अभ्यङ्गं कारयेत्तावत् यावदिन्दोश्च्युति⁵ र्भवेत् ।
कषायप्रतिपानार्थे⁶ द्वौ प्रस्थौ परिकीर्त्तितौ ॥ १८ ॥
प्रतिपानात्पलं⁷ यूषं द्विगुणञ्चैव दापयेत् ।
अर्द्धाढ़कञ्च दातव्यो रसश्चैष्ठो⁸र्विचक्षणैः ॥ १९ ॥
१४-१५। प्रतिपाने सुराया इति पानं प्रति सुराया एकः
प्रस्थो देयः ।
१८ । कषायपानं प्रति द्वौ प्रस्थौ स्नेहादीनां मात्रा ।
१८ । प्रतिपानार्थे यत्र यूषव्यवस्था वर्त्तते, तत्र यूषो द्वि-
गुणो ग्राह्यः ।
१ । प्रतिमाने । गः । ५ । श्रुतिः । खः !
२ । चैव पिण्डिकाञ्चैव । खः । ६ । कषायप्रतिपानार्थे । गः ।
३ । घृतं दद्यात्स्नेहयेत्पानभोजने । गः । ७ । प्रतिमानात् । गः ।
४ । वाजिनम् । खः । ८ । रसस्य । खः ।
१०८ अश्ववैद्यके [११ अध्यायः ।
पेयार्थे तण्डुलप्रस्थो१ यवागूर्द्विगुणेन तु ।
भोजितस्यानुपानाय सुराप्रस्थः प्रकीर्त्तितः ॥ २० ॥
दापयेत्तण्डुलप्रस्थं तण्डुलोदककर्म्मणि ।
यवागूमण्डकल्केन दद्याद्वै तण्डुलोदकम् ॥ २१ ॥
द्वौ प्रस्थौ शक्तुकानान्तु शक्तुपाने प्रदापयेत् ।
गुडस्य च पलान्यष्टौ आढ़कञ्चैव२ वारिणः ॥ २२ ॥
२० । यत्र यत्र पेया व्यवस्था तत्र तत्र तण्डुलस्य प्रस्थो ग्राह्यः ।
पेया मण्डः । तथा यत्र यत्र यवागूव्यवस्था तत्र तत्र तण्डुलप्रस्थद्वयं
ग्राह्यम् ॥ तथा पाकार्थं जलं पेयायां चतुर्द्दशगुणं दत्वा अर्द्धशृतं
कर्त्तव्यम् । एवं यवाग्वां पाकार्थं जलं तण्डुलापेक्षया षड्गुणं देय-
मिति । पेयादिलक्षणमाह चक्रपाणिः,—“सिक्थैकरहितोमण्डः पेया
सिक्थसमन्विता । यवागूर्व्वहुसिक्था स्याद्विलेपी विरलद्रवा” इति ।
एषां पाकेऽपि वारिव्यवस्थामाह स एव । “अन्नं पञ्चगुणे साध्यं विले-
पीतु चतुर्गुणे । मण्डश्चतुर्द्दशगुणे यवागूः षड्गुणेऽम्भसि” इति ॥
२१ । तण्डुलोदककर्मणि तण्डुलप्रस्थं गृहीत्वा कुट्टयित्वा च
तत्पञ्चगुणे वारिणि प्रक्षिप्य मर्द्दयित्वा गालयितव्यम् ।
२२ । प्रस्थमात्रे शक्तुनि जलाढ़कमात्रा ।
१ । तण्डुलः प्रस्थः । गः । ३ । इक्षोरसं समं । खः ।
२ । तण्डुलं प्रस्थं । गः ।
११ अध्यायः ।] द्रव्यमात्राविवरणम् । १०६
इक्षोरससमं १ देयं पानार्थे च गुड़ोदकम् ।
प्रतिपाने २ पलं देयं द्रव्याणां सुरया सह ॥ २३ ॥
स्नेहस्य कुड़वश्चैव नस्यार्थे परिकीर्त्तितः ।
भेदनीये च तीक्ष्णे ३ च पादोनं संप्रदापयेत् ॥ २४ ॥
कर्णयोः पूरणे स्नेहो भवेन्नावनसंमितः ।
शिरोविरेके दातव्यमर्द्धन्तु कुड़वस्य वै ॥ २५ ॥
औषधस्य पलं देयं हिङ्गोरेकश्च माषकः ।
नस्यप्रदाने चाश्वस्य ४ कर्षमेकं प्रदापयेत् ॥ २६ ॥
धूपे चूर्ण ५ त्रयः कर्षा घृतकर्षश्च सौरभः ।
अनिर्दिष्टकषायस्तु पादशेषः प्रकीर्त्तितः ॥ २७ ॥
निर्विशेषप्रमाणानां द्रव्याणां पलमादिशेत् ।
रुधिरस्याढ़को देयः पानार्थे यच युज्यते ॥ २८ ॥
२३ । इक्षोरससममिति अर्द्धाढ़कं गुड़ोदकं देयम् । तथा प्रति-
पाने सुराप्रस्थेन सह द्रव्यपलं देयम् ।
२४ । पादोनमिति कुड़वांशविहीनं भेदनीयादि द्रव्यं देयम् ।
२५ । नावनसंमित इति नस्यविहितस्नेहकुड़व एव देयः ।
२८ । यत्र यत्र द्रव्याणां परिमाणं न निर्दिष्टं तत्र तत्र द्रव्य-
पलं ग्राह्यम् ।
१ । सप्त । गः । ४ । देयस्य । गः ।
२ । प्रतिमाने । खः । ५ । धूपे चूर्णै । खः ।
३ । भेदने दापयेत्तीक्ष्णे पादोनं । खः ।
११० अश्ववैद्यके [११ अध्यायः।
विंशतिस्त्रिगुणाश्चैव वारिमानं प्रकीर्त्तितः ।
अनुपानं तथाशीतिशतं जाङ्गलचारिणाम् ॥ २९ ॥
मांसानां दापयेत्¹ सम्यक् पलसङ्ख्यामिमां बुधः ।
रसके भोजने देयं² वाजिनां हितकाम्यया ॥ ३० ॥
शिशुमारोद्रकुम्भीरगोधामण्डूककर्कटाः ।
शङ्खकच्छपशुक्त्याद्याः कीर्त्तिता जलजन्तवः³ ॥ ३१ ॥
गवयो गण्डको हस्ती शूकरो महिषो रुरुः ।
आनूपाः कथिता ह्येते ये चान्येऽनूपवासिनः ॥ ३२ ॥
कृष्णसारशशद्वीपिक्छागसिंहतरक्षवः ।
शम्बरैणकनोलाण्डवृषभोष्राष्ट्राविकैड़काः ॥ ३३ ॥
३१ । शिशुमारादयो जलजन्तवः । तेषु शिशुमारः शिशुङ्गः
(शुशोक) इति प्रसिद्धः। उद्रो जलविडालः (उदिड़ाल्) इति प्रसिद्धः ।
मांसमष्टधोक्तं वैद्यकेषु मृगविष्किरप्रतुदविलेशयप्रसह्महामृगजखच-
रमत्स्यभेदेन । इति ।
३२ । एतेऽनूपवासिनो महामृगमध्ये धृताः । गवयः सास्नाक-
कुदरहितो गोसदृशः । गण्डकः खर्गी । महिषोऽश्मशत्रुः । रुरुर्लोहि-
तवर्णः ।
३३ । कृष्णसारः (कालसार) । शशः शशकः । एष विलेशयः ।
दीपी चित्रकव्याघ्रः । तरक्षुः मृगादनः । शम्बरः विकटबङ्ग-
१ । कारयेत् । खः । ३ । जलसम्भवाः । गः ।
२ । चैव । खः ।
Digitized by Google
११ अध्यायः।] द्रव्यमात्राविवरणम् । १९९
जाङ्गलाः पशवः प्रोक्ता ये चान्ये स्थलवासिनः¹।
शश्रोऽतिलघुरेतेषां गुरुश्चैवाविकस्तथा² ॥ ३४ ॥
जम्बूवेतसहिन्तालकदलीनलवेणुभिः ।
युक्तो बहुजलो³ निम्नो देशोऽनूप उदाहृतः ॥ ३५ ॥
कशेरुकशमीपीलु⁴करीरद्रुमशङ्करैः⁵।
खदिरैश्चापि संयुक्तस्तथा च वकुलैर्युतः ॥ ३६ ॥
जलहीनस्थलीप्रायो देशो जाङ्गल उच्यते ।
साधारणा द्विरूपस्था⁶स्तज्जाः साधारणा मृगाः ॥ ३७ ॥
तेषां मांसप्रयोगेतु मात्रा साधारणा स्मृता ।
पशवः पक्षिणश्चापि ज्ञेया देशसमाः सदा ॥ ३८ ॥
वारिजा गुरवः स्निग्धा वातघ्नाः श्लेष्मशुक्ललाः ।
आनूपा वारिजैस्तुल्या किञ्चिच लघवः स्मृताः ॥ ३९ ॥
त्रिदोषशमना वल्या जाङ्गला मृगपक्षिणः⁷।
अनभिष्यन्दिनो हृद्याः कायाग्नेश्चापि रोधिनः ॥ ४० ॥
त्रिषाणो मृगः । एणकः कृष्णवर्णमृगः । नीलाण्डो ऋष्यः । आविकः
कम्बलकः । एडको मेषो वनच्छगलो वा ।
१ । स्थलचारिणः । गः । ५ । सागरैः । खः ।
२ । गुर्वीचैवाविका स्मृता । खः । ६ । द्विरूपञ्च । खः ।
३ । यदिजले । गः । ७ । मृगद्विपक्षिणः । गः ।
४ । पीलू । गः ।
११२ अश्ववैद्यके [११ अध्यायः।
साधारणाः समुद्भूता ज्ञेयाः साधारणाः सदा ।
रसवीर्यविपाकाश्च¹ तेषां साधारणा मताः ॥ ४१ ॥
कल्काच्चतुर्गुणः स्नेहः स्नेहात् काथश्चतुर्गुणः ।
स्नेहपाके विधिश्चायं समानः परिकीर्त्तितः ॥ ४२ ॥
स्नेहकल्को यदाङ्गुल्या वर्त्तितो वर्त्तिवद्भवोत् ।
वह्नौ क्षिप्ते च नोशब्दस्तदा सिद्धिं विनिर्दिशेत् ॥ ४३ ॥
व्रणे नस्ये तथा वस्तौ मृदुपाकः प्रकीर्त्तितः ।
अभ्यङ्गे मध्यपाकस्तु पाने किञ्चिद्दरो भवेत् ॥ ४४ ॥
मध्यमोत्तमहीनानामेवमेव विचक्षणः ।
वयोऽनुरूपद्रव्याणि² दापयेच्च शरीरतः ॥ ४५ ॥
वर्षजाते³ भवेत्पादो द्वौ पादौ च द्विहायने ।
त्रयस्त्रिहायने देयाः पूर्णं दद्यात्ततः परम् ॥ ४६ ॥
कृशे चाल्पप्रमाणेन दद्यान्मात्रां कनीयसीम् ।
महाकाये तथास्थूले प्रयोज्या मध्यमोत्तमाः ॥ ४७ ॥
४२ । तैलपाकविधाने द्रव्यमानमाह कल्कादित्यादि ।
४३ । पाकसिद्धिलक्षणमाह । स्नेहेति ।
१ । विपाकेषु । खः । ३ । द्वौ चैव । गः ।
२ । अधातुरूपद्रव्याणां । गः ।
१२ अध्यायः ।] सादिकार्य्यविवरणम् । ११५
क्वाथपानप्रक्षेपेषु¹ वाह्ये चापि तपोधानैः ।
अनिर्द्दिष्टे जलं प्रोक्तं लवणञ्चैव सैन्धवम् ॥ ४७ ॥
इति श्रीमहासामन्तजयदत्तकृतेऽश्वशास्त्रे द्रव्यमात्रा-
ज्ञाने एकादशोऽध्यायः ॥
अथ द्वादशोऽध्यायः ॥
निघण्टुः ।
निघण्टुं संप्रवक्ष्यामि पूर्व्वशास्त्रानुसारतः ।
द्रव्याणामवबोधस्तु येन सम्यक् प्रजायते ॥ १ ॥
वत्सादनी छिन्नरुहा गुडूची तन्त्रिकामृता ।
दृषो वासाटरूषश्च वासकः परिकीर्त्तितः ॥ २ ॥
४७ । अनुक्ते द्रवकार्य्ये तु सर्व्वत्र सलिलं मतमिति चक्रपाणिः ।
लवणञ्चैवेति स्थाने लवणे चैवेति पाठो युक्तः ॥
१ । निघण्टुर्नामसङ्ग्रहे इति हेमचन्द्रः । द्रव्याणामिति अस्मिन्
शास्त्रे प्रयुक्तानां गुडूच्यादिचातुर्जातान्तानामौषधीनाम् ॥
२ । वत्सादनीपञ्चकं (गुलञ्च) । मधुपर्णी कुण्डली चक्रलक्षणापि
एतत्पर्य्यायः । वृषादिचतुष्कं (वाकस्) । वासायां सिंहास्यः वाजि-
दन्तश्च ॥
१ । क्वाथे पाने प्रलेपेऽङ्गे । खः ।
15
' (म) has no u, looks like भद्रमस्तं.
Line 18:
द्राचायणी - yes, 'द्रा' + 'चा' + 'य' + 'णी'.
Line 19:
स्थापनी - yes.
Everything looks solid and accurate to the source image.११८ अश्ववैद्यके [१२ अध्यायः।
कुरुविन्दं घनं मुस्तं मेघाख्यं नागकेशरम् ।
उदीच्यो जलनामा१ च वहिरिष्टश्च वालकः ॥ ३ ॥
उरुवूको व्याघ्रदलस्तथा गन्धर्व्वहस्तकः ।
एरण्डः कीर्त्तिता वैद्यै र्वातारिश्च विशेषतः ॥ ४ ॥
ब्रह्मदण्डी च भार्गी च तथा च द्विजयष्टिका ।
मकूलोदुम्बरदला२ दन्ती प्रोक्ता निकुम्भिका ॥ ५ ॥
एकाष्ठीला स्मृता पाठा अम्बष्ठा च प्रकीर्त्तिता ।
उषणा चविका चव्या ; अजमोदा च दीप्पकः ॥ ६ ॥
३ । कुरुविन्दपञ्चकं (मुता) । एषु कुरुविन्दं कुरुविल्लं वा नागरमु-
स्तायां वर्त्तते ।
१२ अध्यायः ।] द्रव्यविवरणम् । ११५
जिङ्गी च विकसा वापि मञ्जिष्ठा परिकीर्त्तिता ।
अनन्ता सारिवा गोपी सृका देवीलता लघुः ॥ ७ ॥
मृद्दीका गोस्तनी द्राक्षा कच्छुरा^१ च शठी स्मृता ।
श्रीवेष्टकं^२ दधिकं स्यात्सुरभी शल्लकी सुधा ॥ ८ ॥
कच्छुरा ताम्रपुष्पी च नादेयी भूमिजम्बुका ।
अश्वत्थः पिप्पलो बोधिर्न्यग्रोधो बहुपादटः ॥ ९ ॥
उदुम्बरस्तु यज्ञाङ्गो गर्दभाण्डः^३ कपीतनः ।
पाषाणभेदी विख्यातः शिलाभेदोऽश्मभेदकः ॥ १० ॥
७। जिङ्गीत्रिकं (मञ्जिष्ठा)। मञ्जिष्ठायां समङ्गा कालमेशी
मण्डूकपर्णी भण्डीरः योजनवल्ली योजनपर्णी च। अनन्ताषट्कं
(श्यामालता)। श्यामलतायां उत्पलशारिवा च ॥
८। मृद्दीकात्रिकं (द्राक्षा)। कच्छुरादिकं (शठी)। श्रीवेष्टकपञ्चकं
(शल्लकी)। द्राक्षायां स्वादी मधुरसेति च ॥
९। कच्छुराचतुष्कं (नाराङ्गा)। अश्वत्थत्रिकं (अश्वत्थ)। न्यग्रोध-
त्रिकं (वट)। अश्वत्थे चलदलः कुञ्जराशनोऽपि। वटे व्यामस्र, नागरङ्गे
ऐरावतोऽपि ॥
१०। पाषाणादित्रिकं (पातरकुचा)। उदुम्बरद्विकं (यज्ञडुम्बुर)।
गर्दभाण्डद्विकं (पाकुड़)। उडुम्बरे जन्तुफलः हेमदुग्धश्चापि। गर्द्द-
भाण्डः प्लवः, प्ल क्ष कन्दारालः सुपार्श्वकश्च । अयञ्च पत्रकाण्डफला-
दिभिरश्वत्थाकारः ॥
१। कच्छुरावापि। गः। ३। गर्द्दभाङ्गः। खः।
२। श्लैवेष्टकं । खः ।
११६ अश्ववैद्यके [१९ अध्यायः।
वृक्षादनी च वन्दाकी¹ सुरसा तुलसी स्मृता ।
राक्षसी चैव चण्डाच चोरपुष्प्याभिधीयते² ॥ ११ ॥
अगुरुर्लोहसंज्ञस्तु राजार्हश्चापि³ कीर्त्तितः ।
यवानिकातु भूतीका, खदिरं दन्तधावनम् ॥ १२ ॥
नलदा⁴ चैव मांसीतु हेमाख्यं⁵ नागकेशरम् ।
गोधावती च सुवहा, गुन्द्रस्तेजनकः शरः⁶ ॥ १३ ॥
चूडाला चक्रला चैव उच्चटा परिकीर्त्तिता ।
बीजं कुटजवृक्षस्य कीर्त्तितं मुनिभिः पुरा ॥ १४ ॥
११। वृक्षादनीदिकं (परगाछा) । सुरसादिकं (तुलसी) । राक्ष-
सीदिकं (चोरकाँचकी) । वृक्षादन्यां वन्दा वृक्षरुहा जीवन्तिकापि च ।
चोरपुष्प्यायां शंखिनी केशिन्यपि च ॥
१२। अगुरुदिकं (अगुरु)। अगुरौ वंशिकः जोङ्गकस्यापि । खदिरे
गायत्री बालतनयश्चापि ॥
१३ । नलदादिकं (जटामांसी) जटामांस्यां तपस्विनी, जटिला
लोमशा मिषिः किरातिनी चेति । हेमदिकं (नागेश्वर) दिपाङ्गः
सर्पाङ्गश्चाम्पेयश्च नागकेशरपर्यायः । गोधावतीदिका (गोयालिया
लता) । गुन्द्रस्त्रिकः (शर) ॥
१४। चूडालादिका (ओकड़ा) । इन्द्रयवे भद्रयवमपि ॥
१ । गन्धाकी । खः । ४ । जलदा । गः ।
२ । तथा । गः । ५ । मेदाख्यं । गः ।
३ । योड्डरला प्रकीर्त्तितः । खः । ६ । शारः । गः ।
१२ अध्यायः ।] द्रव्यविवरणम् । ११७
कलिङ्गन्द्रयवाह्वन्तु वसुको वसुहट्टकः१।
त्रुटिर्वयस्था सूक्ष्मैला स्थूलैला तालकाफलम्२ ॥ १५ ॥
अक्षीवश्चाक्षकश्चैव अजकः३ परिकीर्त्तितः ।
युग्मपत्रः कोविदारः कुरवः५ कोकिलाक्षकः ॥ १६ ॥
शिग्रुः शोभाञ्जनः प्रोक्त४स्तत्फलं मरिचं सितम् ।
अतिपत्रा महापत्रा सूक्ष्मपत्रा वला स्मृता ॥ १७ ॥
समङ्गा वाधपुष्पीच वातला६ वाथ कादली ।
महाद्रुमश्च वज्रीच सुहाचैव७ स्नुहो स्मृता ॥ १८ ॥
१५। कलिङ्गदिकं (इन्द्रयव) । वसुकदिकं (वकफुल) । त्रुटि-
त्रिकं (छोटएलाच) । स्थूलदिकं (बड़एलाच) । सूक्ष्मैलायां चिपुटा
कोरङ्गी उपकुञ्चिकापि । स्थूलैलायां पृथ्वौका, चन्द्रवाला निष्कुटिः
तथा बहुलापि ॥
१६। अक्षीवत्रिकं (रुद्राक्ष) । युग्मपत्रदिकं (रक्तकाञ्चन) । कुरव-
दिकं (झांटी) । कोविदारे चमरिकः कुद्दालश्चापि ।
१७। शिग्रुदिकं (साजने) । शिग्रौ तीक्ष्णगन्धा क्षीरमोचकापि ।
शिग्रुफलं श्वेतमरिचमुच्यते । अतिपत्रचतुष्कं (वेलेड़ा) ।
१८। समङ्गाचतुष्कं (समङ्गा) । सुधां सीहुण्डी वज्रद्रुः गुड़।
समस्तदुग्धा च ॥
१ । वसुहट्टकः । गः । ५ । जरकः । खः ।
२ । तालकाफलकं तथा । खः । ६ । वाधाला वाष्पकादमी । खः
३ । कज्जुकः । ७ । खुह्वः । गः ।
४ । त्रुटिः । गः ।
११८ अश्ववैद्यके [१२ अध्यायः ।
अर्कस्य रविनामानि विज्ञेयानि विचक्षणैः ।
धत्तूरः काञ्चनः प्रोक्तस्तथा चोन्मत्तकः स्मृतः१ ॥ १९ ॥
करवीरोऽश्वमारश्च चित्रको वह्निसंज्ञकः२ ।
कोषातकी महाजाली देवदाली च कीर्त्तिता ॥ २० ॥
धामार्गवश्च विख्यातो घोषा३ चेतिच सूरिभिः ।
आरग्वधः कृतमालो४ व्याधिघ्नश्चतुरङ्गुलः ॥ २१ ॥
मार्जनस्तिल्वकश्चैव सावरो लोध्र उच्यते ।
नक्तमालः करञ्जश्च चिरविल्वः प्रकीर्त्तितः ॥ २२ ॥
१९ । अर्कपर्याये वसुकः आस्फोटः गणरूपः विकीरणः मन्दारः
अर्कपर्णश्च । धत्तूरचिकं (धुतुरा) । धुस्तूरपर्याये कितवो धूर्त्तश्च ॥
२० । करवीरदिकं (करवी) । करवीरपर्याये प्रतिहासः शतप्रासः
चण्डातरु । चित्रकदिकं (चिते) । कोषातकीचिकं (श्वेतघोषा) ।
महाजाली पीतघोषा ॥
२१ । धामार्गवः पीतघोषा ॥
२२ । मार्जनचतुष्कः (लोध्रकाष्ठ) । मार्जनतिल्वको रक्तलोध्रो ।
एतत्पर्य्यायस्तिरीटस्तिन्दुजश्च । सावरः पाटियारोध्रः । महारोध्रः शाव-
रश्च तत्पर्य्यायः । सम्पाको राजवृक्षश्च । लोध्रपर्याये गालवश्च । नक्त-
मालेत्यादिचिकः करञ्जवर्गः ॥
१ । खसः । खः । ३ । विख्यातः । गः ।
२ । योधगः । खः । ४ । मार्जारः । खः ।
१२ अध्यायः ।] द्रव्यविवरणम् । ११६
पूतीकरञ्जः पूतीकः प्रकीर्य्यः कलिमारकः ।
कपित्थस्तु दधित्थः स्यान्मालूरो विल्व उच्यते ॥ २३ ॥
झाटलो मुष्ककः प्रोक्तस्तथा वै घण्टकः स्मृतः ।
वृक्षको वत्सकश्चैव कुटजो गिरिमल्लिका ॥ २४ ॥
बीजको बीजपूरश्च¹ मातुलुङ्गश्च पूरकः ।
कदली कीर्त्तिता रम्भा हरिद्रा राचिनामिका ॥ २५ ॥
द्रवन्ती चैव चिचा च तथा मूषकपर्णिका² ।
सर्व्वानुभूतिः सरला वृहता कालमेषिका ॥ २६ ॥
२३ । पूतीकरञ्जाद्विकं (नाटाकरञ्ज) । पूतीका कलिमाख्य-
स्यास्य पर्यायः । कपित्थद्विकं (कयेत्) । कपित्थस्य पर्यायो ग्राही
मन्मथः दधिफलः पुष्पफलः दन्तशठश्च । मालूरद्विकं (वेल्) ॥
२४ । झाटलाद्विचिकः घण्टापारुलिपर्यायः । घण्टको नागव-
लायाञ्चापि वर्त्तते । अस्य पर्यायो मोचश्च । अयं वृक्षकादिचतुष्कः
कुटजपर्यायः ॥
२५ । बीजकचतुष्को जम्बीरपर्यायः (टावालेवु) । फलपूरो
रुचकस्यास्य पर्यायः । वारणबुसा मोचा, अंशुमत्फला काष्ठीला
चेत्यपि कदलीपर्यायः ॥ पाटलोऽपि पाठः ।
२६ । द्रवन्तीचिका (उन्दुरकाणीपाना) । उपचिच्चा न्यग्रोधी
शङ्करी वृषा प्रत्यक्श्रेणी सुतश्रेणी रण्डा च एतत्पर्यायः । उप-
१ । बीजजम्बुश्च । गः ।
२ । मूषिका मूषपर्णिका । खः ॥
१२० अश्ववैद्यके [१२ अध्यायः ।
मसूरविदला वापि चित्रोक्ता चिकणटका ।
यष्टिका चिद्दला रूपं क्लीतकं मधुयष्टिका ॥ २७ ॥
यष्ट्याह्वं¹ मधुकञ्चैव कीर्त्तितं शास्त्रशालिभिः ।
हैमवत्युग्रगन्धा च षड्ग्रन्था च वचा स्मृता ॥ २८ ॥
शकुलादन्यरिष्टा च कटुका कटुरोहिणी ।
फलिनी च प्रियङ्गुः स्यात् द्विषक्सेना च कीर्त्तिता ॥२६॥
यवासो धन्वयासश्च दुस्पर्शा च दुरालभा ।
श्वेतभाण्डा च खुरिका शारदी गिरिकर्णिका ॥ ३० ॥
चित्रा दन्तीवाचिकाऽपि । सर्व्वात्नुभूत्यादिस्त्रिवृत्पर्य्यायः । (श्वेत-
तेउड़ी) । अस्याः पर्य्यायः त्रिपुटा विषण्डी रोचनी चेति । काल-
मेषिका कृष्णमूलात्रिवृत् । अस्याः पर्य्यायः श्यामा पालिन्दी
सुषेणिका काला अर्द्धचन्द्रा चेति ।
२७-२८ । यष्टिकाष्टकं (यष्टिमधु) ॥
२८ । हैमवत्यादिचतुष्को वचापर्यायः। (वच) । हैमवती शुक्ला
वचा । गोलोमी शतपर्व्विका चेत्यपि वचापर्यायः ॥
२९ । शकुलादन्यादिः कटुकीपर्य्यायः । शकुलादनी कटुकी ।
मत्स्यपित्ता चक्राङ्गी कृष्णकटुकीपर्य्यायः। कटुः कटम्भरा अशोक-
रोहिणी च कटुकीपर्य्यायः । फलिनीत्रयं (प्रियङ्गु) । महिला लता
गोवन्दनी गुन्द्रा फली गन्धफली कारम्भा प्रियकश्च प्रियङ्गुपर्य्यायः ॥
३० । यवासादिचतुष्को दुरालभापर्य्यायः। यासः कुनाशः
१ । यष्ट्याह्वं मधुरं । गः ।
१२ अध्यायः ।] द्रव्यविवरणम् । १२१
अपराजिता समुद्दिष्टा वेणुवंशश्च कीर्त्तितः ।
शंखिणी तिक्तला प्रोक्ता, सप्तला चर्मकारिका ॥ ३१ ॥
ऋषभः स्यादृषभको जीवकः कूर्चशीर्षकः ।
शीतपाकोच१ काकोली माषपर्णी महासहा ॥ ३२ ॥
मुद्गपर्णी क्षुद्रसहा, पयस्यादित्यपुष्पिका ।
क्षीरिका राजरक्षश्च२ तथा वै पार्थिवादिनी ॥ ३३ ॥
रोदनी कच्छुरा अनन्ता समुद्रान्ताचेत्यपि तत्पर्यायः । श्वेतभण्डा-
दिपञ्चकं (श्वेतापराजिता)। आस्फोता विष्णुक्रान्तापि तत्पर्यायः ॥
३१ । शंखिणी तिक्तला चोरपुष्पी । सप्तला चर्मकशाच नवमा-
लिकायां (चामरकषा) । एतत्पर्यायः, विमला सातला भूरिफेना
चेत्यपि ज्ञेयः ॥
३२ । ऋषभः स्वनामख्यातः । शृङ्गो वृषभो वृषश्च एतत्प-
र्यायः। जीवकः स्वनामख्यातः। एतत्पर्यायश्च मधुरकः शृङ्गो ह्रस्वाङ्गश्च ।
माषपर्णी (माषाणी) । एतत्पर्यायः—हयपुच्छी काम्बोजी चेति ॥
३३ । मुद्गपर्णी मुगानीति प्रसिद्धा । काकमुद्गा सहा चेत्यपि
एतत्पर्यायः। पयस्या पञ्चका । पयस्यादित्यपुष्पिका चेति लोहितार्के-
ऽपि वर्त्तते । (लालआकन्द) ।
१ । शीतापादी च । गः ।
२ । राजक्षवकः । ख० ।
16
१२२ अश्ववैद्यके [१२ अध्यायः ।
शालपर्ण्यंशुमती स्यात्तथा चापि स्थिरा ध्रुवा ।
पृश्निपर्णी पृथक्पर्णी कलशी धावनी गुहा ॥ ३४ ॥
वार्त्ताकी बृहती सिंही भाण्टाकी दुष्प्रधर्षणी ।
निदिग्धिका स्पृशा¹ व्याघ्री क्षुद्रिका कण्टकारिका ॥ ३५ ॥
राटं पिण्डीतकं गोलं श्वसनं मदनं फलम् ।
लामज्जको मृणालश्च सेव्यञ्चोशीर उच्यते ॥ ३६ ॥
पलङ्कषा च चिचांशुर्गुग्गुलुः कौशिकः पुरः ।
श्योणाको दीर्घवृन्तश्च कट्वङ्गश्चैव टुण्टुकः ॥ ३७ ॥
काकोदुम्बरिका फल्गुर्मलपूर्जघनेफला ।
हरिवालं सुगन्धञ्च ऐलेयं चैलवालुकम् ॥ ३८ ॥
३४ । शालपर्णी चतुष्का (शालपाणि) । विदारीगन्धापि शाल-
पर्णी वर्त्तते । पृश्निपर्णी पञ्चका (चाकुले) ॥
३५ । वार्त्ताकी पञ्चका (बृहती) । निदिग्धिकादिपञ्चकः कण्ट-
कारीपर्यायः ॥
३६ । राटादिर्मदनपर्यायः । मरुवकः करहाटः शल्यश्च मदन-
पर्यायः । लामज्जकसप्तकः (गन्धवेणा) । अभयं नलदं जलामोदं
लघुलयं अवदाहं इष्टकापथञ्चापि तत्पर्यायः ।
३७ । पलङ्कषा पञ्चका (गुग्गुल) । श्योणाकश्चतुष्कः (शोणा) ॥
३८ । काकोदुम्बरिका चतुष्का (फेगुड़ा) इति पार्व्वतीयभाषा ।
हरिवालादिरेलवालुकपर्य्यायः ॥
१ । दृष्टो । गः ।