अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)
Ashvavaidyaka of Jayadatta Suri with Commentary
जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा
पृष्ठ 125, कुल 522 में से
संदर्भ में पढ़ें११ अध्यायः ।] द्रव्यमात्राविवरणम् । १०७
अर्द्धप्रस्थन्तु तैलस्य पलान्यष्टौ गुड़स्य च ।
प्रतिपाने¹ सुरायाश्च प्रस्थमेकं प्रदापयेत् ॥ १४ ॥
चूर्णं च लवणं पिण्डीं पलैकाञ्चैव² बुद्धिमान् ।
चतुःपलं घृताद्दद्यात्स्नेहे पाने च भोजने³ ॥ १५ ॥
पलानि दश कल्कस्य निरूहे संप्रदापयेत् ।
आढ़कञ्च कषायस्य दद्याद्बुद्धिमतां वरः ॥ १६ ॥
तावत्प्रमाणं क्षीरञ्च क्षीरवस्तौ प्रकीर्त्तितम् ।
स्नेहप्रस्थः प्रदातव्यो निरूहे चैव वाजिनाम्⁴ ॥ १७ ॥
अभ्यङ्गं कारयेत्तावत् यावदिन्दोश्च्युति⁵ र्भवेत् ।
कषायप्रतिपानार्थे⁶ द्वौ प्रस्थौ परिकीर्त्तितौ ॥ १८ ॥
प्रतिपानात्पलं⁷ यूषं द्विगुणञ्चैव दापयेत् ।
अर्द्धाढ़कञ्च दातव्यो रसश्चैष्ठो⁸र्विचक्षणैः ॥ १९ ॥
१४-१५। प्रतिपाने सुराया इति पानं प्रति सुराया एकः
प्रस्थो देयः ।
१८ । कषायपानं प्रति द्वौ प्रस्थौ स्नेहादीनां मात्रा ।
१८ । प्रतिपानार्थे यत्र यूषव्यवस्था वर्त्तते, तत्र यूषो द्वि-
गुणो ग्राह्यः ।
१ । प्रतिमाने । गः । ५ । श्रुतिः । खः !
२ । चैव पिण्डिकाञ्चैव । खः । ६ । कषायप्रतिपानार्थे । गः ।
३ । घृतं दद्यात्स्नेहयेत्पानभोजने । गः । ७ । प्रतिमानात् । गः ।
४ । वाजिनम् । खः । ८ । रसस्य । खः ।