अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)
Ashvavaidyaka of Jayadatta Suri with Commentary
जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा
पृष्ठ 133, कुल 522 में से
संदर्भ में पढ़ें१२ अध्यायः ।] द्रव्यविवरणम् । ११५
जिङ्गी च विकसा वापि मञ्जिष्ठा परिकीर्त्तिता ।
अनन्ता सारिवा गोपी सृका देवीलता लघुः ॥ ७ ॥
मृद्दीका गोस्तनी द्राक्षा कच्छुरा^१ च शठी स्मृता ।
श्रीवेष्टकं^२ दधिकं स्यात्सुरभी शल्लकी सुधा ॥ ८ ॥
कच्छुरा ताम्रपुष्पी च नादेयी भूमिजम्बुका ।
अश्वत्थः पिप्पलो बोधिर्न्यग्रोधो बहुपादटः ॥ ९ ॥
उदुम्बरस्तु यज्ञाङ्गो गर्दभाण्डः^३ कपीतनः ।
पाषाणभेदी विख्यातः शिलाभेदोऽश्मभेदकः ॥ १० ॥
७। जिङ्गीत्रिकं (मञ्जिष्ठा)। मञ्जिष्ठायां समङ्गा कालमेशी
मण्डूकपर्णी भण्डीरः योजनवल्ली योजनपर्णी च। अनन्ताषट्कं
(श्यामालता)। श्यामलतायां उत्पलशारिवा च ॥
८। मृद्दीकात्रिकं (द्राक्षा)। कच्छुरादिकं (शठी)। श्रीवेष्टकपञ्चकं
(शल्लकी)। द्राक्षायां स्वादी मधुरसेति च ॥
९। कच्छुराचतुष्कं (नाराङ्गा)। अश्वत्थत्रिकं (अश्वत्थ)। न्यग्रोध-
त्रिकं (वट)। अश्वत्थे चलदलः कुञ्जराशनोऽपि। वटे व्यामस्र, नागरङ्गे
ऐरावतोऽपि ॥
१०। पाषाणादित्रिकं (पातरकुचा)। उदुम्बरद्विकं (यज्ञडुम्बुर)।
गर्दभाण्डद्विकं (पाकुड़)। उडुम्बरे जन्तुफलः हेमदुग्धश्चापि। गर्द्द-
भाण्डः प्लवः, प्ल क्ष कन्दारालः सुपार्श्वकश्च । अयञ्च पत्रकाण्डफला-
दिभिरश्वत्थाकारः ॥
१। कच्छुरावापि। गः। ३। गर्द्दभाङ्गः। खः।
२। श्लैवेष्टकं । खः ।