सामग्री पर जाएँ
सर्वकोश
अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

Ashvavaidyaka of Jayadatta Suri with Commentary

जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा

DevanagariHindipublished522 पृष्ठ

पृष्ठ 124, कुल 522 में से

संदर्भ में पढ़ें
पृष्ठ 124

१०६ अश्ववैद्यके [११ अध्यायः ।
कनीयसोऽर्द्धहीनञ्चेदिति मानं शरीरिणाम् ॥ ८ ।
चणकाश्चैव माषाश्च ये चान्ये ब्रीहयस्तथा ।
यवार्द्धेन प्रयोक्तव्या देशसात्म्येन खादने ॥ ९ ॥
मुद्गप्रस्थास्त्रयो योज्या¹ वाजिनां मुद्गभोजने ।
त्रयश्च स्नेहकुड़वा एकश्च लवणस्य तु ॥ १० ॥
तत्प्रमाणेन तैलेन लवणेन तथैव च ।
माषा मुद्गसमा देया भोजनाय च वाजिनाम् ॥ ११ ॥
सर्पिषश्चापि पानार्थं² प्रस्थं दद्याद्विचक्षणः ।
मधुनः कुड़वं चापि फाणितस्य तथैव च ॥ १२ ॥
शर्कराञ्चैव खण्डञ्च तथा मत्स्यण्डिकामपि ।
फाणितस्य प्रमाणेन दापयेन्मतिमान् भिषक् ॥ १३ ॥
८-११ । वाजिनां भोजनार्थे यवादीनामेवं मात्रा ;-एकदिने यव-
स्याढकचतुष्टयं । चणकमाषव्रीह्यादीनां आढकद्वयं मात्रा। मुद्गस्य च
प्रस्थत्रयं । यवस्य भोजने स्नेहव्यवस्था सर्वत्रैव स्नेहस्य कुडुवत्रयं लव-
णस्य च कुड़वो देयः । “चणकव्रीहिमौद्गानि कलायं वापि दापयेत् ।
अहोरात्रेण चार्द्धस्य यवसस्य तुला दश ॥ अष्टौ शुष्कस्य दातव्याश्चत-
स्त्रोऽथ बुधस्य वा”—इति अग्निपुराणम् । एवं माषभोजनेऽपि माषस्य
३ प्रस्थाः । तैलस्य ३ कुड़वाः । लवणस्य च कुड़वः ॥
१२। फाणितं (फेणी) इति प्रसिद्धम् ।
१ मुद्गप्रस्थो नियोज्यो हि । गः । २। सर्पिषश्चापि पानेऽर्द्धप्रस्थं । गः ।