सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

निर्देशः ] पञ्चमं कोशस्थानम् ८३६
नह्यन्यत् पर्यवस्थानमेवञ्जातीयकमस्ति यत्रैतदुभयं स्याद्—एकान्ताकुशलत्वं
स्वतन्त्रत्वं चेति ।
यस्याष्टौ पर्यवस्थानानि तस्यैवं स्यात् । यस्य पुनर्द्दश तस्य
क्रोधम्रक्षावप्युभयप्रकारौ । तस्मान्न भवत्ययं परिहार इत्यपरे ॥ ४२ ॥
पुनरन्यत्र भगवता संयोजनमुक्तम्—
पञ्चधाऽवरभागीयम्,
तद्यथा सत्कायदृष्टिः, शीलव्रतपरामर्शः, विचिकित्सा, कामच्छन्दः, व्यापाद
मात्सर्यम् उक्तम् । न ह्यन्यत् पर्यवस्थानमेवञ्जातीयकमिति । अनाह्रीक्यान-
पत्रप्यमप्येकान्तकुशलम्, न तु स्वतन्त्रम्; रागादिक्लेशसम्प्रयोगात् । कौकृ-
त्यमपि स्वतन्त्रम् ; अविद्यामात्रसम्प्रयोगात् । न त्वेकान्तकुशलम्, तदधिकुशल-
मपि । स्त्यानौद्धत्यमिद्धान्यपि अस्वतन्त्राणि, रागादिसम्प्रयोगात् । न त्वेकान्त-
कुशलानि । कुशलाऽव्याकृतान्यपि हि तानि भवन्ति । यत्रैतदुभयमिति । यत्रै-
कान्ताकुशलत्वं च स्वातन्त्र्यं चेति एतदुभयं स्यात् । तदेवजातीयकमन्यत्
प्रत्यवस्थानं नास्तीत्यभिसम्बन्धः ।
यस्य पुनर्द्दशेति । यस्य वैभाषिकस्य दश पर्यवस्थानानि, तस्य क्रोधम्रक्षावपि
उभयप्रकाराविति । एकान्तकुशलौ स्वतन्त्रौ चेति । तस्मान्न भवत्ययं परिहार
इति । कस्तर्हि परिहारस्तस्येति ? अत्राचार्यसङ्घभद्र आह—अभीक्ष्णसमुदा-
चारित्वाद् ईर्ष्यामात्सर्ययोः पृथक्संयोजनमिति । अत एव च षट्त्रिंशत्संयो-
जनस्वेऽपि कामधातुपपन्नानामीर्ष्या-मात्सर्य-संयोजनाः कुशला देवमनुष्या
इत्युक्तम् । आधिक्येन हि सुगतावेतत् क्लेशद्वयं बन्धनमिति ।
अथवा—
अल्पेशाख्याल्पभोगकारणत्वात् सर्वसूचनात् ।
द्विपक्षसंक्लेशत्वाच्च मात्सर्यैष्ये पृथक् कृते ॥
यदयं सुगतावप्युपपन्नः प्रगाढं परिभवमुद्वहति, तन्नेर्ष्यामात्सयें कारणम् ।
तथा हि—
“अल्पेशाख्योऽल्पभोगश्च बन्धनावप्युभयान्मतः” इति । द्विविधाश्चोप-
क्लेशाः सन्तापसहगताः । ते आभ्यां सर्वे सूचिता भवन्ति । गृहिपक्षश्चाभ्यां
भोगाधिष्ठानाभ्यामतीव क्लिश्यते । प्रव्रजितपक्षोऽपि धर्माधिष्ठानाभ्याम् ।
देवासुरपक्षौ वा भिन्नोदरहेतोरन्यत्यं क्लिश्यतः । अत एवोक्तं भगवता—

Here is the line-by-line transcription of the Sanskrit text from the image:

४० भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ अनुशय-
इति । कस्मादेतान्यवरभागीयान्युच्यन्ते ? अवरभागहितत्वात् । अवरो हि भागः
कामधातुः, एतानि च तस्यानुगुणानि । यस्मात्—
द्वाभ्यां कामानतिक्रमः ।
त्रिभिस्तु पुनरावृत्तिः,
कामच्छन्दव्यापादाभ्यां कामधातुं नातिक्रामति । सत्कायदृष्ट्यादिभिरति-
क्रान्तोऽपि पुनरावर्त्यते; दौवारिकानुचरसाधर्म्यात् । त्रिभिः सत्त्वावरतां नाति-
क्रामति पृथग्जनत्वम्, द्वाभ्यां धात्ववरतां कामधातुम् । तस्माद्' एव तान्यवर-
भागीयानीत्यपरे ।
यदा स्रोतआपन्नस्य पर्यादाय त्रिसंयोजनप्रहाणात् षट्क्लेशाः प्रहीणाः,
किमर्थं तिस्रो दृष्टोरपहाय त्रयमेवाह—सत्कायदृष्टिं शीलव्रतपरामर्शं विचिकित्सां
च ? सर्वमेतद्वक्तव्यं स्यात्, किन्तूक्तम्—
"ईर्ष्या-मात्सर्यसंयोजनाः कौशिका देवमनुष्याः" इति । तस्माद् दशभ्यः
पर्यवस्थानेभ्य एतदेव संयोजनमिति ॥ ४२ ॥
अवरो हि भागः कामधातुरिति । त्रैधातुकसमुदयापेक्षस्य कामधातुरवरो
विहीनो धातुः, एकान्तसमाहितत्वात् । अकुशलधर्मापायगतिदुःखदौर्मनस्य-
सद्भावात् । घनक्लेशत्वाच्च ।
"द्वाभ्यां कामानतिक्रमः" इति । तदप्रहाणे कामधात्वनतिक्रमात् । दौवा-
रिकानुचरसाधर्म्यादिति । दौवारिकसधर्माणौ² कामच्छन्दव्यापादौ । तौ हि
कामधातुबन्धनागारान् निष्क्रमणं न दत्ततः, दौवारिकवत् । अनुचरसधर्माणः
सत्कायदृष्ट्यादयः । १ यथा हि दौवारिकप्रमादे बन्धनागारात् पुरुषो निष्क्रान्तो-
ऽपि दौवारिकानुचरैर्निवर्त्यते । तथेहापि अमीभिरिति । त्रिभिः । सत्त्वावरता-
मिति । पृथग्जनत्वलक्षणं सत्त्वावरतां सत्कायदृष्टि-शीलव्रतपरामर्शविचिकित्सा-
संयोजनैर्नातिक्रामति । द्वाभ्याम् कामच्छन्दव्यापादाभ्याम् । धात्ववरताम्
कामधातुस्वभावां नातिक्रामति नातिवर्तते । आर्येभ्यो ह्यवराः पृथग्जनाः, धातुषु
च कामधातुरवरः । तस्मादेव तान्यवरभागीयानि । अपरे योगाचाराः ।
पर्यादाय त्रिसंयोजनप्रहाणादिति । निरवशेषतः सत्कायदृष्टि-शीलव्रतपरा-
मर्श-विचिकित्सासंयोजनप्रहाणादित्यर्थः । षट् क्लेशाः प्रहीणा इति । पञ्च दृष्टयो
विचिकित्सा च । न तु रागादय उक्ताः, सावशेषत्वात् । तिस्रो दृष्टोरपहायेति ।
१. अत-का०। २. ०सधर्मणौ-जा० ।

निर्देशः ] पञ्चमं कोशस्थानम् ८४१
मुखमूलग्रहात् त्रयम् ॥ ४३ ॥
त्रिप्रकाराः किल क्लेशाः—एकप्रकारा द्विपकाराश्चतुष्प्रकाराश्च । तेषामेभि-
स्त्रिभिर्मुखं गृहीतमिति ।
अपि चान्तग्राहदृष्टिः सत्कायदृष्टिप्रवर्तिता, दृष्टिपरमर्शः शीलव्रतपरामर्श-
प्रवर्तितः, मिथ्यादृष्टिर्विचिकित्सा प्रवर्तिता । अतो१ मूलं गृहीतमिति ॥ ४३ ॥
अपरे पुनराहुः—
अन्तग्राह-मिथ्यादृष्टि-दृष्टिपरमर्शदृष्टीः । त्रयमेवाहेति । सत्कायदृष्टि-शीलव्रत-
परामर्श-विचिकित्सात्रयमेवाह । क आह ? भगवान् । तथा हि सूत्रे पठ्यते—
"कियता भदन्त स्रोतापन्नो भवति ? यतश्च महानामन् आर्यश्रावकः 'इदं
दुःखमार्यसत्यम्' इति यथाभूतं प्रजानाति, 'अयं दुःखसमुदयः...’, 'अयं दुःख-
निरोधः...’ , 'इयं दुखनिरोधगामिनी प्रतिपदा आर्यसत्यम्' इति यथाभूत प्रजा-
नाति; त्रीणि चास्य संयोजनानि प्रहीणानि भवन्ति, प्रज्ञातानि, तद्यथा—
सत्कायदृष्टिः, शीलव्रतपरामर्शः, विचिकित्सा च । स एषां त्रयाणां संयोजनानां
प्रहाणात् स्रोतापन्नो भवति अविनिपातधर्मा सम्बोधिपरायणः सप्तकृद्भवपरमः
सप्तकृत्वो देवांश्च मनुष्यांश्च संसृत्य संधाव्य दुःखस्यान्तं करिष्यति”
( ) इति ।
सर्वमेतद् वक्तव्यं स्यात् । भवेदित्यर्थः । त्रिःप्रकाराः किल क्लेशा इति ।
दर्शनहेया इहाधिकृताः । एकप्रकाराः सत्कायान्तग्राहदृष्टयः, दुःखदर्शनमात्र-
प्रहेयत्वात् । द्विपकाराः शीलव्रतपरामर्शाः । चतुष्प्रकाराः विचिकित्सा-मिथ्यादृष्टि-
दृष्टि-परामर्शाः । तत्र सत्कायदृष्टिर्मुखमेकप्रकाराणाम् । अतः सत्कायदृष्टि-
ग्रहणात् अन्तग्राहदृष्टिरपि गृहीता भवति । विचिकित्सा मुखं चतुःप्रकाराणाम् ।
अतस्तद्ग्रहणात् मिथ्या-दृष्टि-परामर्शाणां ग्रहणं भवति । शीलव्रतपरामर्शस्तु
साक्षादेव गृहीतः । ये तु रागादयो दर्शनहेयाः, तेऽपि तदालम्बनत्वाद् गृहीता
एवेति शक्यते वक्तुमिति । अन्तग्राहदृष्टिः सत्कायदृष्टिप्रवर्तितेति । आत्मनः
शाश्वतोच्छेदानुग्रहणात् । दृष्टिपरमर्शः शीलव्रतपरामर्शप्रवर्तित इति । येन
शुद्धिं प्रत्येति, तस्याग्रतो ग्रहणात् । मिथ्यादृष्टिर्विचिकित्साप्रवर्तितेति । संशयि-
तस्य मिथ्याश्रवणचिन्तनान्मिथ्यानिश्श्चयोत्पत्तेः । अतो मूलग्रहणात् मूलसम्भूत-
ग्रहणसिद्धिरित्यन्तग्राहदृष्ट्यादयोऽप्युक्तरूपा वेदितव्याः ॥ ४३ ॥
अपरे पुनराहुरिति । अयमेवाचार्यः ।
१. का० पुस्तके नास्ति ।

८४२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ अनुशय-
अगन्तुकामता मार्गविभ्रमो मार्गसंशयः ।
इत्यन्तराया मोक्षस्य गमनेऽतस्त्रिदेशना ॥ ४४ ॥
त्रयोऽन्तराया देशान्तरगमने भवन्ति—अगन्तुकामता, मार्गविभ्रमोऽन्य-
मार्गसंश्रयणात्, मार्गसंशयश्च । एवं मोक्षगमनेऽप्येत एव त्रयोऽन्तरायाः । तत्र
सत्कार्यदृष्ट्या मोक्षादुत्त्रासमापन्नस्यागन्तुकामता भवति । शीलव्रतपरामर्शेनान्य-
मार्गसंश्रयणान्मोक्षविभ्रमः । विचिकित्सया मार्गसंशयः । एषां मोक्षगमनान्तरायाणां
प्रहाणं द्योतयन् भगवान् क्लेशत्रयस्यैव प्रहाणं देशितवान् ॥ ४४ ॥
यथा भगवता पञ्चविधमवरभागीयं संयोजनमुक्तम् । एवं पुनः—
पञ्चधैवोर्ध्वभागीयम्,
कथम् ? इत्याह—
द्वौ रागौ रूप्यरूपिजौ ।
तौ
औद्धत्यमानमोहाश्च,
इत्येतानि पञ्चोर्ध्वभागीयानि संयोजनानि । तद्यथा—रूपरागः, आरूप्य-
रागः, औद्धत्यम्, मानः, अविद्या च। एषामप्रहाणेनोर्ध्वधात्वनतिक्रमात् ।
समाप्तः संयोजनप्रसङ्गः ॥
बन्धनानि कतमानि ? त्रीणि बन्धनानि । रागो बन्धनं सर्वः, द्वेषो
बन्धनं सर्वः, मोहो बन्धनं सर्वः ।
कस्मादेतदेव त्रयं बन्धनमुक्तं भगवता ?
विद्दशाद् बन्धनत्रयम् ॥ ४५ ॥
मार्गविभ्रमः कथम् ? इत्याह—अन्यमार्गसंश्रयणादिति ॥ ४४ ॥
अवरभागीयसंयोजनवचनादन्यभागीयमप्यस्तीत्यर्थादुक्तं भवति । अतः
इदमुच्यते—पञ्चधैवोर्ध्वभागीयमिति । संयोजनप्रसङ्गः ।
“संयोजनादिभेदेन पुनस्ते पञ्चधोदिताः” (अभि० को० ५.४०) इत्यनेन
सम्भेदेन संयोजननिर्देशानन्तरं बन्धननिर्देशावसरोऽपरपर्यायः । रागो बन्धनं
सर्वमिति । सर्व इति प्रकारतो धातुत्तश्च । सर्वद्वेषः । किं सर्वः ? प्रकारत एव ।

निर्देशः ] पञ्चमं कोशस्थानम् ८४३
त्रिवेदनावशात् त्रीणि बन्धनानि । सुखायां हि वेदनायां रागोऽनुशेते
आलम्बनसम्प्रयोगाभ्याम् । दुःखायां द्वेषः । अदुःखासुखायां मोहो न तथा
रागद्वेषौ । स्वसान्तानिकालम्बनतो वा नियमः ॥ ४५ ॥
अनुशया पूर्वमेवोक्ताः ॥
उपक्लेशाः वक्तव्याः । तत्र ये यावत् क्लेशा उपक्लेशा अपि ते; चित्तो-
पक्लेशात् ।
येऽप्यन्ये चेतसाः क्लिष्टाः संस्कारस्कन्धसंज्ञिताः ।
क्लेशेभ्यस्तेऽप्युपक्लेशास्ते तु न क्लेशसंज्ञिताः ॥ ४६ ॥
येऽप्यन्ये क्लेशेभ्यः क्लिष्टा धर्माः संस्कारस्कन्धसंगृहीताश्चैतसिकास्त
मोहः सर्वः । प्रकारतो धातुतश्च । आलम्बन-सम्प्रयोगाभ्यामिति । स्व-परसान्तानि-
क्यां सुखायां वेदनायां यथायोगं रागोऽनुशेते । दुःखायां वेदनायां द्वेषः,
आलम्बनसम्प्रयोगाभ्यामित्येव । अदुःखासुखायां मोहः, ताभ्यामित्येव ।
ननु च रागद्वेषावप्यदुःखासुखायां यथायोगं तथैवानुशयाते, कस्मान्मोह
इत्येवोच्यते ? इत्याह - न तथा रागद्वेषाविति । रागद्वेषावप्यनुशयाते, न तु तथा
यथा मोहः । मोहो हि अपटुत्वादपटुत्वाच्चादुःखासुखायां वेदनायामनुकूलत्वात्
सुतरामनुशेत इति स्वसान्तानिकालम्बनतो वा नियम इति । स्वसान्तानिक-
सुखाद्यनुभूतिसामर्थ्यात् तथा नियमः । स्वसन्तानवेदनायां हि सुखायां रागः,
दुःखायां द्वेषः, अदुःखासुखायां मोहः सम्प्रयोगत इति ।
अपरे तु व्याचक्षते - न तथा रागद्वेषाविति । सुखायां यथा रागोऽनुशेते,
न तथा द्वेषः । किं पुनः सुखायामपि द्वेषोऽनुशेते ? अनुशेते शत्रुसुखे
आलम्बनतः । यथा च दुःखायां द्वेषोऽनुशेते, न तथा रागः । किं पुनः दुःखाया-
मपि रागोऽनुशेते ? अनुशेते शत्रुदुःखे आलम्बनतः ।
स्वसान्तानिकालम्बनतो वा नियम इति । अथवा - स्वसान्तानिके सुखे
आलम्बनतः सम्प्रयोगतो वा रागोऽनुशेते, न परसान्तानिके शत्रुसुखे । एवं
दुःखे स्वसान्तानिके द्वेषोऽनुशेते आलम्बनतः सम्प्रयोगतो वा, न पारसान्ता-
निके शत्रुदुःखे - इत्येवं स्वसान्तानिकालम्बनतो नियमः । सुखायां वेदनायां
रागोऽनुशेते, आलम्बनसम्प्रयोगाभ्याम्, दुःखायां द्वेष इति ॥ ४५ ॥
चित्तोपक्लेशादिति । चित्तक्लिष्टकरणात् । येऽप्यन्ये चेतसा इति । क्लेशे-
भ्योऽन्य इत्यर्थः । त उपक्लेशा एवेति । क्लेशसमीपरूपाः । क्लेशो वा समीप-
वर्त्येषामिति । क्लेशप्रवृत्त्यनुवृत्तेरपरिपूर्णक्लेशलक्षणत्वाच्चोपक्लेशः । उप-

`८४४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ अनुशय-
उपक्लेशा एव¹। ते पुनर्ये क्षुद्रकवस्तुके पठिताः । इह तु पर्यवस्थानक्लेशमल-
संगृहीतानेव निर्देक्ष्यामः ॥ ४६ ॥
कानि पुनः पर्यवस्थानानि ? इत्याह—क्लेशा अपि हि पर्यवस्थानम् ; काम-
रागपर्यवस्थानप्रत्ययदुःखमिति सूत्रे वचनात् । प्रकरणशास्त्रे तु—
आह्रीक्यमनपत्रप्येर्ष्यामात्सर्यमुद्धवः ।
कौकृत्यं स्त्यानमिद्धं च पर्यवस्थानमष्टधा ॥ ४७ ॥
वैभाषिकन्यायेन पुनर्दश पर्यवस्थानानि—एतानि चाष्टौ,
क्रोधम्रक्षौ च,
तत्राह्रीक्यानपत्राप्ये व्याख्याते । परसम्पत्तौ चेतसो व्यारोष ईर्ष्या । धर्मा-
मिषकौशलप्रदानविरोधी चित्ताग्रहो मात्सर्यम् । औद्धत्यं चेतसोऽव्युपशमः ।
कौकृत्यं स्त्यानं च व्याख्याते । कायसन्धारणसमर्थश्चित्ताभिसंक्षेपो मिद्धम् । तत्तु

निर्देशः ] पञ्चमं कोशस्थानम् ८४५
एषां च दशानां पर्यवस्थानां
रागोत्था आह्रीक्यौद्धत्यमत्सराः ।
एते त्रय उपक्लेशा रागनिःष्यन्दाः ।
म्रक्षे विवादः,
तृष्णानिःष्यन्द इत्येके । अविद्यानिःष्यन्द इत्यपरे । उभयोरित्यन्ये ।
यथाक्रमं ज्ञाताज्ञातानामिति ।
अविद्यातः स्त्यानमिद्धमनपत्रपाः ॥ ४८ ॥
एते त्रयोऽविद्यानिःष्यन्दाः ॥ ४८ ॥
कौकृत्यं विचिकित्साजं¹ क्रोधेर्षे प्रतिघान्वये ।
प्रतिघसमुत्थे इति । एते च दश क्लेशानिःष्यन्दा उपक्लेशाः ।
अन्ये च षट्क्लेशमलाः
तद्यथा--
माया शाठ्यं मदस्तथा ॥ ४९ ॥
प्रदाश उपनाहश्च विहिंसा चेति,
तत्र परवञ्चना माया । चित्तकौटिल्यं शाठ्यम्, येन यथाभूतं नाविष्करोति
विक्षिप्त्यपरिस्फुटं वा प्रतिपद्यते । मदः पूर्वोक्तः । सावद्यवस्तुदृढग्राहिता प्रदाशः,
वस्थानम् । कौकृत्यं चेति । यत् क्लिष्टं मिद्धम्, तत् पर्यवस्थानम् । यत्तु कुशल-
मव्याकृतं वा, न तत् पर्यवस्थानम् । त्रिविधं हि मिद्धमिष्यते, कौकृत्यं च । यत्
क्लिष्टं तत् पर्यवस्थानम्, न कुशलम् । कुशलाकुशलं हि तदिष्यते । व्यापाद-
विहिंसावर्जितः सत्त्वाऽसत्त्वयोराघातः क्रोधः । सत्त्वविषये आघातविशेषो
व्यापादः । 'अमी भवन्तः सत्त्वाः हन्यन्तां वा, बध्यन्तां वा, शीर्यन्तां वा,
अनयेन व्यसनेन आपद्यन्ताम्' इत्याकारप्रवृत्तो व्यापादः । सत्त्वाकर्षण-
सन्त्रासन-तर्जनादिकर्मप्रवृत्ता विहिंसा । ताभ्यामन्यः सत्त्वाऽसत्त्वयोराघातः क्रोधः ।
तद्यथा--शिक्षाकामस्य भिक्षोश्चित्तप्रकोपः, कण्टकादिषु च प्रकोप इति ।
यथाक्रमं ज्ञाताज्ञातानामिति । राजादिभिर्ज्ञातानां म्रक्षवतां पुद्गलानां
म्रक्षस्तृष्णानिष्यन्दः 'मा मे लाभसत्कारो न भविष्यति' इति । अज्ञातानाम-
१. विचिकित्सतः--का० ।

येन न्यायसंज्ञप्तिं न गृह्णाति । आघातवस्तुबहुलीकार उपनाहः । विहेठनं
विहिंसा, येन प्रहारपारुष्यादिभिः परान् विहेठयते ।
एषां पुनः षण्णां क्लेशमलानां
रागजौ ।
मायामदौ प्रतिघजे उपनाहविहिंसने ॥ ५० ॥
दृष्टपामर्शात् प्रदाशस्तु शाठ्यं दृष्टिसमुत्थितम् ।
"किं कुटिलम् ? पापिका दृष्टिः" इति गाथावचनाद् युज्यते । शाठ्यं
दृष्टिनिःष्यन्दः ॥ ४९-५० ॥
क एषां किमहातव्यः ? यानि तावत् दश पर्यवस्थानान्युक्तानि,
तत्राहीक्यानपत्राप्स्यत्यानमिद्धोद्धवा द्विधा ॥ ५१ ॥
एते पञ्च धर्मा द्विविधा दर्शन-भावनाप्रहातव्या; उभयप्रकारक्लेशसंप्रयोगात् ।
यश्च यद्दर्शनहेयसंप्रयुक्तः स तद्दर्शनप्रहातव्यः ॥ ५१ ॥
तदन्ये भावनाहेयाः,
तेभ्योऽन्ये पर्यवस्थानसंगृहीता उपक्लेशा भावनाहेया एव । ईर्ष्यामात्सर्य-
विद्यानिष्यन्दः कर्मस्वकतामश्रद्दधानस्तदवद्यं प्रच्छादयति । न परस्यान्तिके
विशुद्धयर्थं देशयतीति एवमुभयनिष्यन्दो म्रक्ष इत्येके ।
कथमनपत्राप्यमविद्यानिष्यन्दः ? यस्मात् 'अवद्ये भयदर्शित्वमत्रपा'
(अभि० को० २.३३) इति । यत् क्लिष्टं तदेव पर्यवस्थानाधिकारात् ॥ ४८ ॥
"क्लेशमलाः" इति । यथा शरीरान्मला जायन्ते, एवमिमे मायादयो मला
इव क्लेशेभ्य उत्पद्यन्ते । क्षिपति प्रेरयति । मदः पूर्वोक्तः । "मदः स्वधर्मे रक्तस्य
पर्यादानं तु चेतसः" (अभि० को० २.३४) इति ॥ ४६-५० ॥
यश्च यद्दर्शनहेयसम्प्रयुक्त इति । यस्य सत्यस्य दर्शनम् = यद्दर्शनम्,
यद्दर्शनेन हेयः = यद्दर्शनहेयः, तेन सम्प्रयुक्तः = यद्दर्शनहेयसम्प्रयुक्तः । स
तद्दर्शनहेयः । स तस्य दर्शनस्य दर्शनेन हेयः । कः ? आहीक्यादिः । तदन्ये
भावनाहेया एव ॥ ५१ ॥
तेभ्योऽन्य इति । आहीक्यादिभ्योऽन्ये ईर्ष्यादयो भावनाहेया एव । न
दर्शनहेयाः ।

निर्देशः ] पञ्चमं कोशस्थानम् ८४७
कौकृत्यक्रोधम्रक्षाः स्वतन्त्राश्च । स्वतन्त्राश्चैते पञ्चोपक्लेशाः, अधिमात्रसम्प्रयोगि-
त्वात् । यथैते ईर्ष्यादयः पञ्चोपक्लेशा भावनाहेयाः,
स्वतन्त्राश्च तथा मलाः ।
षट्क्लेशमलास्तथैव । एते पुनर्यथोक्ता उपक्लेशाः
कामेऽशुभाः,
कामधातावकुशलाः । तत्रापि
त्रयो द्विधा,
स्त्यानौद्धत्यमिद्धानि अकुशलाव्याकृतानि ।
परेणाव्याकृतास्ततः ॥ ५२ ॥
कामधातोरूर्ध्वमव्याकृताः उपक्लेशा यथासम्भवम् ॥ ५२ ॥
कति पुनरेषां कुतस्त्या वेदितव्याः ?
माया शाठ्यं च कामाद्यध्यानयोः,
एतौ द्वौ कामधातौ प्रथमे च ध्याने । कथं ब्रह्मलोके माया ?
ब्रह्मवचनात् ।
स हि तत्र महाब्रह्मा वितथात्मसन्दर्शनतया आयुष्मन्तमश्वजितं वञ्च-
यितुं प्रवृत्तः । उक्तमपि शाठ्यं प्रसङ्गेनागतं१ पुनरेवोक्तम् ।
स्वतन्त्राश्चैते । न रागादिपरतन्त्रा इत्यर्थः ।
स्त्यानौद्धत्यमिद्धान्यकुशलाव्याकृतानीति । पर्यवस्थानाधिकारात् मिद्धं कुशल-
मपीति नोच्यते ।
“परेणाव्याकृतास्ततः” इति । यथासम्भवमिति । कामधातोः परेण यावन्तः
सम्भवन्ति, ते पुनर्मायाशाठ्यादयः ॥ ५२ ॥
वितथात्मसन्दर्शनतयेति । वितथस्यात्मनः सन्दर्शनतया महाब्रह्मा आयुष्मन्त-
मश्वजितं वञ्चयितुं प्रवृत्तः 'कुत्रेमानि ब्रह्मन् ! महाभूतानि अपरिशेषं
निरुध्यन्ते” इति पृष्टोऽप्रजानन् क्षेपमकार्षीत्—“अहमस्मि ब्रह्मा महाब्रह्मा
ईश्वरः कर्ता निर्माता स्रष्टा सृजः पितृभूतो भावानाम्' इति मायया वञ्चयितु-
मारब्धः । अथ स महाब्रह्मा आयुष्मन्तमश्वजितं करे गृहीत्वा एकान्तेऽस्थात् ।
१. प्रसङ्गागतं—का० ।

७४८ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ अनुशय-
स्त्यानौद्धत्यमदा धातुत्रये,
एते त्रयस्त्रैघातुकाः ।
अन्ये कामधातुजाः ॥ ५३ ॥
षोडशभ्यः पञ्चापनीयान्य एकादशोपक्लेशाः कामावचरा एव ॥ ५३ ॥
उक्ताः क्लेशा उपक्लेशाश्च ॥
अथैषामनुशयानां कति मनोभूमिकाः ? कति षड्‌विज्ञानकायिकाः ? संक्षेपतः
समानमिद्धा दृग्धेया मनोविज्ञानभूमिकाः ।
दर्शनप्रहातव्याः सर्वे मनोभूमिकाः सह मानसिद्धाभ्यां भावनाहेयाभ्यामपि ।
ते हि सकले मनोभूमिके ।
उपक्लेशाः स्वतन्त्राश्च,
ये च केचिदुपक्लेशाः स्वतन्त्रास्ते भावनाहेया अपि सन्तो मनोभूमिका
एव द्रष्टव्याः ।
षड्‌विज्ञानाश्रयाः परे ॥ ५४ ॥
अन्ये क्लेशोपक्लेशाः षड्‌विज्ञानभूमिकाः वेदितव्याः । के पुनरन्ये ?
भावनाप्रहातव्या रागप्रतिघाविद्या उपक्लेशाश्च तत्सम्प्रयुक्ताः, आहीक्यानपत्रप्य-
स्त्यानौद्धत्यानि, ये च क्लेशमहाभूमिकेषूक्ताः ॥ ५४ ॥
यानीमानि सुखादीनि पञ्चेन्द्रियाणि, एषां कतमेनेन्द्रियेण कतमः क्लेश
उपक्लेशो वा सम्प्रयुक्तः ?
सुखाभ्यां सम्प्रयुक्तो हि रागः,
एकान्ते स्थितश्चेदमुक्तवान्— 'विद्यमाने तथागते मां प्रष्टव्यं मन्यसे'— इतीदमस्य
शाठ्यं दृश्यते । स्वपरिषल्लज्जया ह्यात्मीयाज्ञानतां निगूहमानः स तथा कृतवा-
निति । उक्तमपि शाठ्यमिति । तथा हि— “कौकृत्यमिद्धाकुशलान्याद्ये ध्याने न
सन्त्यतः” (अभि० को० २.३१) इति । अत्रोक्तमपि प्रसङ्गेनेति । “परेणाव्या-
कृतांस्त्वतः” ६ति प्रसङ्गेनेति । पञ्चापनीयेति । माया-शाठ्य-स्त्यानौद्धत्य-
मदान् ॥ ५३ ॥
ते हि सकले मनोभूमिके इति । मानमिद्धे ।
“उपक्लेशाः स्वतन्त्राश्च” इति । ईर्ष्यामात्सर्यादयः । ये च क्लेशमहाभूमि-

निर्देशः ] पञ्चमं कोशस्थानम् ८४९
सुखसौमनस्याभ्यां रागः सम्प्रयुक्तः ।
द्वेषो विपर्ययात् ।
दुःखाभ्यामित्यर्थः । दुःखेन दौर्मनस्येन च । हर्षदैन्याकारवर्तित्वात् षड्-
विज्ञानभूमिकत्वाच्च रागद्वेषयोः ।
मोहः सर्वैः
अविद्यायाः सर्वक्लेशसम्प्रयोगित्वात् पञ्चभिरपीन्द्रियैः सम्प्रयोगः ।
असद्दृष्टिर्मनोदुःखसुखेन तु ॥ ५५ ॥
मनोदुःखं दौर्मनस्यम्, मनःसुखं सौमनस्यं च । ताभ्यां मिथ्यादृष्टिः
सम्प्रयुक्ता पुण्यकर्मणां पापकर्मणां च यथाक्रमम् ॥ ५५ ॥
दौर्मनस्येन काङ्क्षा,
संशयितो हि निश्चयेनार्थी दुर्मनायते ।
अन्ये सौमनस्येन,
अन्येऽनुशयाः सौमनस्येनैव संप्रयुक्ताः । के पुनरन्ये ? चतस्रो दृष्टयः,
मानश्च । हर्षाकारवर्तित्वात् ।
किंप्रतिसंयुक्ता इमेऽनुशया निर्दिष्टाः ? आह—
कामजाः ।
एवं प्रतिनियतं सम्प्रयोगमुक्त्वा सामान्येनाह—
सर्वेऽप्युपेक्षया,
क्लेषूक्ता इत्याश्रद्ध्य-कौशीद्य-प्रमादा एव, नान्ये, स्त्यानौद्धत्ययोरिहैव पूर्वे
गृहीतत्वात् । मोहस्य क्लेशग्रहणेन ग्रहणात् ॥ ५४ ॥
“सुखाभ्याम” इति । सुखवेदनास्वभावाभ्यामिन्द्रियाभ्यामित्यर्थः। हर्षदैन्या-
कारवर्तित्वादिति । हर्षाकारवर्ती रागः दैन्याकारवर्ती द्वेष इति यथासङ्ख्येन ।
षड्विज्ञानभूमिकत्वाच्चेति । पञ्चविज्ञानभूमिकत्वाद् रागः सुखेन्द्रियेण । मनो-
विज्ञानभूमिकत्वात्तु रागः सौमनस्येन्द्रियेण, द्वेषश्च दौर्मनस्येन्द्रियेण सम्प्रयुक्तः ।
पुण्यकर्मणां पापकर्मणां च यथाक्रममिति । पुण्यकर्मणां मिथ्यादृष्टिर्दौर्मनस्येन
सम्प्रयुक्ता, पुण्यक्रियाया नैरर्थक्यदर्शनात् । पापकर्मणां मिथ्यादृष्टिः सोमनस्येन
सम्प्रयुक्ता, स्वकृतपापवैफल्यदर्शनात् ।
चतस्रो दृष्टय इति । सत्कार्यदृष्टिः, अन्तग्राहदृष्टिः, दृष्टिपरामर्शः,

८५० भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ अनुशय-
सर्वेऽप्येते ऽनुशया उपेक्षेन्द्रियेण सम्प्रयुक्ताः । प्रवाहच्छेदकाले किल
क्लेशानामवश्यमुपेक्षा संतिष्ठते ।
अधोभूमिकाः कथम् ? इत्याह—
स्वैः स्वैर्यथाभूम्यूर्ध्वभूमिकाः ॥ ५६ ॥
स्वैः स्वैरिन्द्रियैरूर्ध्वभूमिका अनुशयाः सम्प्रयुज्यन्ते । यस्यां भूमौ
यावन्तीन्द्रियाणि, तत्रापि चातुर्विज्ञानकायिकाश्चातुर्विज्ञानकायिकैः, मनोभूमिका
मनोभूमिकैरेव यथासंभवम् ॥ ५६ ॥
उक्तः क्लेशानामिन्द्रियसम्प्रयोगः ॥
उपक्लेशानां पुनः
दौर्मनस्येन कौकृत्येमोर्ष्या क्रोधो विहिंसनम् ।
उपनाहः प्रदाशश्च,
'सम्प्रयुक्तानि' इति वर्तते । दैन्याकारवर्तित्वादेषाम् , मनोभूमिकत्वाच्च ।
मात्सर्यं तु विपर्ययात् ॥ ५७ ॥
सौमनस्येनेत्यर्थः । लोभान्वयत्वेन हर्षाकारवर्तित्वात् ॥ ५७ ॥
माया शाठ्यमथो म्रक्षो मिद्धं चोभयथा,
सौमनस्यदौर्मनस्याभ्याम् । कदाचिद्धि सुमनाः परं वञ्चयते, कदाचिद्
दुर्मनाः । एवं यावत् स्वपिति ।
शीलव्रतपरामर्शश्च । कथमुच्छेददृष्टिः सौमनस्येन सम्प्रयुक्ता ? तस्याभिन-
न्दत्वात् । उपेक्षा सन्तिष्ठत इति । विनाशावस्थायां मन्दत्वात् । यस्यां भूमौ
यावन्तीन्द्रियाणीति ।
सौमनस्यसुखोपेक्षाः उपेक्षा सुमनस्कजे ।
सुखोपेक्षे उपेक्षा च विदो ध्यानोपपत्तिषु ॥ इत्यवगन्तव्यम् ।
तत्राप्यूर्ध्वभूमिषु । चतुर्विज्ञानकायिकाः प्रथम एव ध्याने । चक्षुः-श्रोत्र-
काय-मनोविज्ञानभूमिकाः । प्रथमे हि ध्याने त्रिविज्ञानकायिकं सुखेन्द्रियमस्ति ।
मनोविज्ञानकायिकं सौमनस्येन्द्रियम् । चतुर्विज्ञानकायिकमुपेक्षेन्द्रियम् । तत
ऊर्ध्वं मनोभूमिकमेव । द्वितीये ध्याने सौमनस्योपेक्षेन्द्रिये । तृतीये सुखोपेक्षे-
न्द्रिये । चतुर्थे ध्याने आरूप्येषु चोपेक्षेन्द्रियमेव । तत्र सर्वेऽप्यनुशया यथायथं
वेदेनेन्द्रियेण सम्प्रयुक्ताः । तत्र शमथस्निग्धसन्तानत्वात् हर्षदैन्याकारव्यवस्था
नास्ति । दैन्याकारवर्तित्वादेषां कौकृत्यादीनां न सौमनस्येन सम्प्रयोगः । मनो-
भूमिकत्वाच्च दुःखेन्द्रियेण ॥ ५६ ॥

निर्देशः ] पञ्चमं कोशस्थानम् ८५१
मदः ।
सुखाभ्याम्,
तृतीये ध्याने सुखेनार्धस्तात्, सौमनस्येन ऊर्ध्वमुपेक्षया । यस्मात्
सर्वगोपेक्षा,
अतस्तया सर्वेऽनुशयाः सम्प्रयुज्यन्ते । न हि तस्याः क्वचित् प्रतिषेधोः,
यथाऽविद्यायाः ।
चत्वार्यन्यानि पञ्चभिः ।। ५८ ।।
आह्रीक्यमनपत्राप्यं स्त्यानमौद्धत्यं चैतानि चत्वारि पर्यवस्थानानि पञ्चभिर-
पीन्द्रियैः संप्रयुज्यन्ते; अकुशलमहाभूमिकत्वात्, क्लेशमहाभूमिकत्वाच्च ।। ५८ ।।
यानि सूत्रे पञ्च निवरणानि उक्तानि—कामच्छन्दः, व्यापादः, स्त्यान-
मिद्धम्, औद्धत्यकौकृत्यम, विचिकित्सा च । किं त्रैधातुक्यः स्त्यानौद्धत्य-
विचिकित्सा गृह्यन्ते ? अथ कामप्रतिसंयुक्ता एव ? “केवलोऽयं परिपूर्णोऽ-
कुशलराशियदुत पञ्च निवरणानि” इत्येकान्ताः; कुशलत्ववचनात् सूत्रे ।
कामे निवरणानि,
लोभान्वयत्वेनेति । लोभहेतुकत्वेन । लोभसमुत्थेनेत्यर्थः ।। ५७ ।।
“मदः सुखाभ्याम्” इति । सुख-सौमनस्याभ्याम् । तृतीये ध्याने सुखेनेति ।
मदस्य मानसत्वात् । यथा अविद्याया इति । न क्वचित् क्लेशे उपक्लेशे वा
सम्प्रयोगप्रतिषेधोऽस्ति । एवमुपेक्षाया अपीति । अकुशलमहाभूमिकत्वात्
आह्रीक्यानपत्राप्ययोः । “अकुशले त्वाह्रीक्यमनपत्रापा” (अभि० को० २.२७)
इति वचनात् । क्लेशमहाभूमिकत्वाच्च स्त्यानौद्धत्ययोः । षड्विज्ञानकाया
अकुशलाः क्लिष्टाः सम्भवन्तीत्यतः पञ्चभिरपीन्द्रियै सम्प्रयोग एषां
सम्भवतीति ।। ५८ ।।
किं त्रैधातुक्यः स्त्यानमिद्धविचिकित्सा गृह्यन्त इति । आसां त्रिधातुक्तवात्
ता एव निष्कृष्य पृच्छयन्ते । केवलोऽयमिति विस्तरः । अकुशला राशिरिति ।
“भिक्षवो यदुत पञ्चनिवरणानीति ते सम्यग् वदमाना वदेयुः । तत् कस्य हेतोः ?
केवलोऽयं भिक्षवः परिपूर्णाकुशलराशियदुत पञ्च निवरणानि” इति विस्तरेणै-
कान्ताकुशलत्ववचनात् । कामे निवरणानि नान्यत्रेति । वृत्तिसूत्रपदयोरेकवाक्यता ।
निवरणानीति ध्यानसम्पत्त्यादीनामावरणानीत्यर्थः ।
१. तत्र०—का० ।

८५२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ अनुशय-
नान्यत्र धातौ । किं पुनः कारणं द्वे स्त्यानमिद्धे एकं निवरणमुक्तम्, द्वे
चौद्धत्यकौकृत्ये एकम् ?
एकविपक्षाहारकृत्यतः ।
द्वयेकता²
द्वयोरेकता द्वयेकता । विपक्षः प्रतिपक्षोऽनाहार इत्येकोऽर्थः । स्त्यान-
मिद्धयोरेक आहारः सूत्रे, अनाहारश्च । कः स्त्यानमिद्धनिवरणस्याहारः ? पञ्च
धर्माः—तन्द्रा, अरतिः, विजृम्भिका, भक्तेऽसमता, चेतसो लीनत्वमिति । अथ
स्त्यानमिद्धनिवरणस्यानाहारः ? आलोकसंज्ञेति । कृत्यमनयोरप्येकम् । उभे अपि ह्येते
चित्तं लयं चोदयतः । औद्धत्यकौकृत्ययोरप्येक आहार उक्तः, एकोऽनाहारः ।
कश्चौद्धत्यकौकृत्यनिवरणस्याहारः ? चत्वारो धर्माः—जातिवितर्कः, जनपदवितर्कः,
अमरवितर्कः, पौराणस्य च हसितक्रीडितरमितपरिभाषितस्यानुस्मर्त्ता भवतीति ।
कश्चौद्धत्यकौकृत्यनिवरणस्यानाहारः ? शमथ इति । कृत्यमप्यनयोरेकम् । उभे
अपि ह्येते चित्तमव्युपशान्तं वर्तयतः । अत एकविपक्षाहारकृत्यत्वात् द्वयोरप्येकत्व-
मुक्तम् ।
यदि सर्वक्लेशा निवरणम्, कस्मात् पञ्चैवोक्तानि ?
पञ्चता स्कन्धविघातविचिकित्सनात् ॥ ५९ ॥
कामच्छन्दव्यापादाभ्यां शीलस्कन्धविघातः । स्त्यानमिद्धेन प्रज्ञास्कन्धस्य,
“एकविपक्षाहारकृत्यतः” इति । एकविपक्षाहारकृत्यत्वादित्यर्थः । अन्तरेणापि
हि भावप्रत्ययं भावप्रधाने निर्देशो भवेत् । अथवा—एकं विपक्षाहारकृत्यम् =
एकविपक्षाहारकृत्यम्, तत इति । विपक्षः प्रतिपक्ष इति । श्लोकबन्धानुगुण्येन
प्रतिपक्ष इह विपक्षोऽभिप्रेतः । क्लेशविरुद्धः पक्षो विपक्ष इति कृत्वा । अभिधर्मे
तु कृष्णः पक्षो विपक्षः, अशुक्लविरुद्धः पक्षो विपक्षः, शुक्लविरुद्धः पक्षो विपक्ष
इति प्रतीतम् ।
भक्ते असमतेति । अति बहु भुक्त्वा आहारस्य यः कायोपरोधः । अनाहार
इति प्रतिपक्षः ।
स्त्यानमिद्धेन प्रज्ञास्कन्धस्य । किम् ? विघात इति प्रकृतम् ।
२. कता—का० ।

निर्देशः ] पञ्चमं कोशस्थानम् ८५३
औद्धत्यकौकृत्येन समाधिस्कन्धस्य । समाधिप्रज्ञयोरभावे सत्येषु विचिकित्सको
भवतीत्यतः पञ्चोक्तानि ।
एतस्यां तु कल्पनायां समाधिस्कन्धविरोधिन औद्धत्यकौकृत्यावरणस्य पूर्वं
ग्रहणं प्राप्नोति । अतो यथासंख्यमेताभ्यां समाधिप्रज्ञास्कन्धोपघात इत्यपरे ।
समाधिप्रयुक्तस्य हि स्त्यानमिद्धाद् भयम्, धर्मप्रविचयप्रयुक्तस्यौद्धत्यकौकृत्यादिति ।
अन्ये त्वन्यथा वर्णयन्ति । कथं वर्णयन्ति ? चारगतस्य प्रियाप्रियरूपेषु
विषयेषु निमित्तग्राहाद् विहारगतस्य तत्पूर्वकौ कामच्छन्दव्यापादौ समाधिप्रवेशस्या-
दितोऽन्तरायं कुरुतः । ततः समाधिप्रविष्टस्याप्रयोगेण शमथविपश्यनासेवनात्
स्त्यानमिद्धमौद्धत्यकौकृत्यं विचिकित्सा च यथाक्रमं शमथविपश्यनयोरन्तरायं
कुरुतः । व्युत्थितस्यापि धर्मनिध्यानकाले विचिकित्सा अन्तरायं करोति । अतः पञ्च
निवारणान्युक्तानि ॥ ५९ ॥
एतस्यां तु कल्पनायामिति विस्तरः । शीलस्कन्धः, समाधिस्कन्धः, प्रज्ञास्कन्ध
इति यथानुपूर्व्या स्कन्धा व्यवस्थिताः, तथैवानुपूर्व्या तद्विपक्षभूतानि
निवारणानि पठेयेरन्— कामच्छ

८५४ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [अनुशय-
इदं विचार्यते—विसभागधातुसर्वत्रगाणां निरोधमार्गदर्शनप्रहातव्यानां च
सास्रवालम्बनानां यदालम्बनं परिज्ञायते ते१ तदा न१ प्रहीयन्ते, यदा प्रहीयन्ते
तदालम्बनं न परिज्ञायते इति कथमेषां प्रहाणम् ? नावश्यमालम्बनपरिज्ञानात्
क्लेशानां क्षयो भवति । किं तर्हि ? चतुर्भिः प्रकारैः । कतमैश्चतुर्भिः ?
दर्शनहेयानां तावत्—
आलम्बनपरिज्ञानात्, तदालम्बनसंक्षयात् ।
आलम्बनप्रहाणाच्च,
तत्रालम्बनपरिज्ञानाद् दुःखसमुदयदर्शनहेयानां स्वभूम्यालम्बनानामास्रवा-
लम्बनानां च । तदालम्बनसंक्षयाद् विसभागधातुसर्वत्रगाणाम् । तदालम्बना२
सभागधातुसर्वत्रगाः । तेषु प्रहीणेषु तेऽपि प्रहीणा भवन्ति । आलम्बनप्रहाणात्
विपश्यनायाः । विचिकित्सा च व्युत्थितस्य धर्मनिध्यानकालेऽन्तरायं
करोति ॥ ५६ ॥
विसभागधातुसर्वत्रगाणामिति विस्तरः । विसभागधातुसर्वत्रगाणां दुःख-
समुदयदर्शनहेयत्वेन द्विभेदानां मिथ्यादृष्ट्यादीनां यदालम्बनं परिज्ञायते दुःख-
समुदयान्वयज्ञानपक्षेण मार्गेण रूपारूप्य-धात्वालम्बनावस्थायाम्, न ते तदा
प्रहीयन्ते । दुःखधर्मज्ञानेन समुदयधर्मज्ञानेन च यथायोगं पूर्वमेव प्रहीणत्वात् ।
धर्मज्ञानवध्या हि ते, कामावचरत्वात् । निरोधमार्गदर्शनप्रहातव्यानां च सास्रवा-
लम्बनानां दृष्टिप्रहातव्यानां यदालम्बनं निरोधमार्गदृग्धेयं मिथ्यादृष्ट्यादिकं
दुःखसमुदयसत्यस्वभावं दुःखसमुदयधर्मज्ञानपक्षेणान्वयज्ञानपक्षेण वा यथाधातु
परिज्ञायते । न ते तदा परिहीयन्ते । निरोध-मार्गदर्शनप्रहेयत्वादिति । न च तथा
तेषामालम्बनं परिज्ञायते; पूर्वमेव ज्ञातत्वात् । कथमेषां प्रहाणम् आलम्बनपरिज्ञानात्
तत्प्रहाणं न युज्यत इत्यभिप्रायः । तत्रालम्बनपरिज्ञानात् कामावचराः स्वधात्वा-
लम्बना रूपारूप्यावचराश्च दुःखसमुदयदृग्धेयाः प्रहीयन्ते । तत्र विसभाग-
धात्वालम्बनानामालम्बनपरिज्ञया शमथप्रहाणम्; ३ दुःखसमुदयान्वयज्ञान-
क्षान्त्योर्युगपत् द्विधात्वालम्बनत्वात् ।
स्वभूम्यालम्बनानामिति विशेषणम् विसभागधातुसर्वत्रगनिरासार्थम् ।
तदालम्बनसंक्षयादिति । विसभागधातुसर्वत्रगा आलम्बनमेषां सत्काय-
दृष्ट्यादीनामिति । तदालम्बनाः सभागधातुसर्वत्रगाः । तेषां क्षयात्
प्रहाणात् । ते विसभागधातुसर्वत्रगाः प्रहीयन्ते । (तद्धेतुत्वेनोपस्तम्भप्रहाणाद्
१-१. तदा न—का० । २. तदालम्बना हि—का० । ३. पक्षय० —जा० ।

निर्देशः ] पञ्चमं कोशस्था
निरोधमार्गहेयानां सास्रवालम्बनानाम् । ते ह्यनास्रवालम्बनास्तेषामालम्बनम् ।
अतस्तेषु प्रहीणेषु तेऽपि प्रहीणा भवन्ति । भावनाहेयानां पुनः—
प्रतिपक्षोदयात् क्षयः ॥ ६० ॥
यस्य हि क्लेशप्रकारस्य प्रतिपक्षो मार्ग उत्पद्यते स प्रहीयते ।
कस्य पुनः कः प्रतिपक्षः ? अधिमात्राधिमात्रस्य मृदुमृदुरिति विस्तरेण
पश्चात् प्रवेदयिष्यामः ॥ ६० ॥
कतिविधश्च प्रतिपक्षः ? इत्याह—
प्रहाणाधारदूरत्वदूषणाख्यश्चतुर्विधः ।
प्रतिपक्षः,
प्रहाणप्रतिपक्षः आनन्तर्यमार्गः ।
आधारप्रतिपक्षस्तस्मात् परेणार्यो मार्गो येन तत्प्रापितं प्रहाणमाधार्यते ।
दूरीभावप्रतिपक्षो विमुक्तिमार्गात् परेण यो मार्गश्छिन्नप्राप्तिदूरीकरणात् ।
विसभागाधातुसर्वत्रगानां प्रहाणमालम्बनप्रहाणात्) । आलम्बनप्रहाणादिति ।
दृष्टिपरामर्शाद्यालम्बनानां निरोधमार्गदर्शनहेयानां मिथ्यादृष्ट्यादीनां प्रहाणात् ।
तेऽपि दृष्टिपरामर्शादयः सास्रवालम्बनाः प्रहीयन्ते ।
“प्रतिपक्षोदयात् क्षयः” इति । भावनाहेयानां प्रतिपक्षोदयादेव, नालम्बन-
परिज्ञानादिभ्य इति दर्शयति । पश्चात् प्रवेदयिष्याम इति । “नवप्रकारा दोषा
हि भूमौ भूमौ तथा गुणाः” (अभि० को० ६.३५) इत्यत्र वक्ष्यति ॥ ६० ॥
प्रहाणप्रतिपक्ष आनन्तर्यमार्ग इति । विपक्षप्रतिद्वन्द्वी पक्षः = प्रतिपक्षः ।
प्रहाणाय प्रतिपक्षः = प्रहाणप्रतिपक्षः । विमुक्तिमार्गोऽपि हि प्रतिपक्षो न तु
प्रहाणायेत्यत इत्थं विशेषणम् । प्रहीयते वाऽनेनेति प्रहाणम्, प्रहाणञ्चासौ
प्रतिपक्षः = प्रहाणप्रतिपक्षः । तद्यथा—दुःखधर्मज्ञानक्षान्तिः । आधारप्रति-
पक्षस्तस्मात् परेणेति । तस्मात् = आनन्तर्यमार्गात् परेण यो मार्गो विमुक्ति-
मार्गः, स ह्याधारप्रहाणस्य तत्प्राप्त्याधारणात् । आधार्यतेऽनेनेत्याधारः, स
एव प्रतिपक्षः आधारप्रतिपक्षः । तद्यथा—दुःखधर्मज्ञानक्षान्तेः परं दुःखधर्म-
ज्ञानमिति । तेनोच्यते येन तत्प्रापितमिति । विस्तरः—येन - मार्गेण
तत्प्रापितम् = आनन्तर्यमार्गप्रापितम् प्रहाणमाधार्यते, तत्प्राप्त्यनुच्छेदात्
आधारप्रतिपक्ष इति । दूरीभावप्रतिपक्ष इति । विस्तरः—क्लेशप्राप्तिर्दूरीभवति
येन सः = दूरीभावः, स एव प्रतिपक्षो दूरीभावप्रतिपक्षः । दूरीभवनं वा
दूरीभावः, तस्मिन् प्रतिपक्षो दूरीभावप्रतिपक्षः । विमुक्तिमार्गात् परेण यो मार्ग

८५६ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ अनुशय-
विमुक्तिमार्गोऽपीत्यपरे । सोऽपि हि तां क्लेशप्राप्तिं¹ दूरीकरोति ।
विदूषणप्रतिपक्षो येन मार्गेण तं धातुं दोषतो दर्शनाद् विदूषयति । अपि
त्वियमानुपूर्वी² साध्वी भवेत् ।
विदूषणप्रतिपक्षो दुःखसमुद्यालम्बनः प्रयोगमार्गः । प्रहाणप्रतिपक्षः सर्व
आनन्तर्यमार्गः । आधारप्रतिपक्षो विमुक्तिमार्गः । दूरीभाव प्रतिपक्षो विशेषमार्ग
इति ।
प्रहीयमाणः क्लेशः कुतः प्रहातव्यः ?
प्रहातव्यः क्लेश आलम्बनात् मतः ॥ ६१ ॥
न हि सम्प्रयोगात् क्लेशो विवेचयितुं शक्यते । आलम्बनाच्च शक्यते;
यस्मान्न पुनस्तदालम्ब्योत्पद्यते । अनागतस्तावच्छक्येतालम्बनाद् विवेचयितुम्,
अतीतस्तु कथम् ? अथालम्बनपरिज्ञानात् प्रहातव्य इत्ययमस्यार्थः ? एषोऽपि
इति । योऽसौ विमुक्तिमार्गः—दुःखे धर्मज्ञानम्, तस्मात् परेण यो मार्गो
दुःखेऽन्वयज्ञानक्षान्त्यादिः, स दूरीभावप्रतिपक्ष इति दर्शयति ।
विमुक्तिमार्गोऽपीत्यपर इति । स चाप्याद्यो विमुक्तिमार्गो दूरीभावप्रतिपक्ष
इत्युच्यते । सोऽपि हि तां क्लेशप्राप्ति दूरीकरोति । एवं च सति विमुक्तिमार्ग
आधारप्रतिपक्षो दूरीभावप्रतिपक्ष इति वचनमद्वयं लभत इत्युक्तं भवति । तं
धातुं दोषतो दर्शनात् विदूषयतीति । अनित्यादिभिराकारैर्यैन तं धातुं विदूषय-
तीत्यर्थः । तदेवं सति योऽपि दुःखसमुदयालम्बनः प्रहाणप्रतिपक्षः, स चापि
विदूषणप्रतिपक्ष इति दर्शितं भवति । अपि त्वियमानुपूर्वी साध्वी भवेदित्याचार्यः ।
सोपानन्यायसमाश्रयात्, लक्षणासाङ्कर्याच्चेयमानुपूर्वी साध्वीति दर्शयति ।
दुःखसमुद्यालम्बनः प्रयोगमार्ग इति । प्रयोगमार्ग एवोष्मगतादि गृह्यते,
नानन्तर्यमार्गादि ; प्रहाणप्रतिपक्षादित्वेन तद्व्यवस्थापनात् । सर्वानन्तर्यमार्ग
इति । पश्चात्कालीनोऽपि योऽन्यः । विमुक्तिमार्गः सर्व इत्येव चाधिक्रियते ।
विशेषमार्गस्तु य एतत्त्रयव्यतिरिक्तः, स इह गृह्यते ।
न हि सम्प्रयोगात् क्लेशो विवेचयितुं शक्यते इति । स्वकलापाद् विवेचना-
शक्यत्वात् । अनागतस्तावच्छक्यत आलम्बनाद् विवेचयितुम् । विवेचितस्य तस्य
न पुनस्तद् वस्त्वालम्ब्योत्पत्तिरित्यतः कारणात् । अतीतस्तु कथम् । यद्वस्त्वा-
लम्ब्योत्पन्नः, न ह्यालम्बितं वस्त्वालम्बनीकर्तुं शक्यते । एषोऽपि नैकान्त इति ।
१. प्राप्ति—का० । २. त्वेषामिय०—का० ।

निर्देशः ] पञ्चमं कोशस्थानम् ८५७
नैकान्तः। तस्माद् वक्तव्यमेतत्—कियता क्लेशः प्रहीणो वक्तव्यः ? स्वासान्तानिकः
प्राप्तिच्छेदात् । पारसान्तानिकस्तु क्लेशः सर्वं च रूपमक्लिष्टश्च धर्मः; तदालम्बन-
स्वासान्तानिकक्लेशप्रहाणात् ॥ ६१ ॥
चतुर्भिः प्रकारैः क्लेशानां क्षय इष्यते—
आलम्बनपरिज्ञानात् तदालम्बनसंक्षयात् ।
आलम्बनप्रहाणाच्च प्रतिपक्षोदयात् क्षयः ॥ (अभि० को० ५.६०)
इति । तस्मात् आलम्बनपरिज्ञानादिति नायमेकान्तः । तस्माद् वक्तव्यमेतदिति ।
प्रतिज्ञातमुच्यत इत्यर्थः ।
अत्राचार्यसङ्घभद्रः परिहरति—आलम्बनात् क्लेशाः प्रहातव्याः । आलम्बन-
परिज्ञानबलेन हि क्लेशाः प्रहीयन्ते । द्विविधं चानुशयालम्बनम्—संयोगवस्तु,
असंयोगवस्तु च । तत्र संयोगवस्तुविषयाणामनुशयानां तदनुशयबलोत्पादिताना-
मतद्विषयाणामपि पुद्गलस्य सन्ताने प्राप्तिः अक्लिष्टचित्तेष्वप्यविच्छेदेन
प्रवृत्तः अनागतातीतक्लेशहेतुफलभूता । एवम् असंयोगवस्तुविषयाणाम्, अत-
द्विषयाणामपि च तद्विषयक्लेशपृष्ठसमुदाचारिणां क्लेशानां प्राप्तिर्वेदितव्या । स
ह्यनागतानामुत्पत्तौ प्रत्ययगमाद्धेतुभूता भवति । अतीतानां च निष्यन्दभावात्
फलभूता । सा च तत्प्रहाणप्रतिपक्षनिष्यन्दप्राप्तिसमवधानविरुद्धा; तदाधारित्वात्
क्लेशानाम् । अतो येनालम्बनेनोत्पन्नाः क्लेशा अन्यालम्बनानपि क्लेशान्
प्रवर्त्तयन्ति, तदालम्बनप्रहाणप्रतिपक्षनिष्यन्दोत्पत्तौ तत्प्राप्तिविगमे ते क्लेशा-
न्तराणि अपि सन्तो हेतुफलापक्रान्ता प्रहीणा इत्युच्यन्ते । तद् यस्मात्-
पश्चात्ते कस्मिंश्चित् क्लेशविषयेऽतद्विषयाणामपि क्लेशानां तद्विषयक्लेशबले-
नाप्ताः सन्तोऽनागतातीतक्लेशहेतुफलभूता सन्ततौ प्रवर्त्तन्ते यथावस्तु । तस्माद्
आलम्बनात् क्लेशाः प्रहातव्या इत्यभिमतमिति ।
ननु च तदालम्बनप्रहाणादिभिरपि क्लेशाः प्रहीयन्त इत्यभिप्रेतम्,
किमिदमुक्तम्—आलम्बनपरिज्ञानबलेन क्लेशाः प्रहीयन्त इति ? तेऽपि
दुःखसत्यादिपरिज्ञानबलेनैव प्रहीयन्ते । तद्भावाभावयोगे तद्भावाभावयोगात् ।
येषामपि हि प्रतिपक्षोदयात् प्रहाणमुच्यते, तेऽपि भावनाहेयाः । क्लेशा
आलम्बनदुःखसत्यादिपरिज्ञानबलेनैव प्रहीयन्ते—इत्यवगन्तव्यम् । व्यवस्था-
मात्रं तु तद्, यदुक्तम् । तदालम्बनप्रहाणादिभिरपि क्लेशाः प्रहीयन्ते—
ऽभिप्रायो लक्ष्यते ।
स्वासान्तानिकः प्राप्तिच्छेदादिति । विस्तरः—स्वसन्तानक्लेशाः प्राप्तिविगमात्
प्रहीणो वक्तव्यः । परसन्तानक्लेशास्तु न प्राप्तिच्छेदात् ; स्वसन्ताने तत्प्राप्त्य-
भावात् । किं तर्हि ? तदालम्बनस्वासान्तानिकक्लेशप्रहाणात् । पारसान्तानिक-

८५८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ अनुशय-
दूरीभाव इत्युच्यते, कतिविधो दूरीभावः ? चतुर्विधा किल दूरता ।
वैलक्षण्याद् विपक्षत्वाद् देशविच्छेदकालतः ।
भूतशीलप्रदेशाध्वद्वयानामिव दूरता ॥ ६२ ॥
१. विलक्षणदूरता, यथा महाभूतानाम् । वैलक्षण्यात् सहजानामपि
दूरता ।
२. विपक्षदूरता, यथा शीलस्य दौःशील्यम् ।
३. देशविच्छेददूरता, यथा विप्रकृष्टदेशानां देशविच्छेदात् पूर्वपश्चिम-
समुद्रवत् ।
४. कालदूरता, यथा अतीतानागतदूरमुच्यते । कुतस्तद् दूरम् ?
वर्तमानात् ।
यदनन्तरातीतमुत्पद्यमानं च¹ तत् कथं दूरम् ? अध्वनानात्वेन तद् दूरं न
चिरभूतभावित्वेन । वर्तमानमप्येवं दूरं प्राप्नोति ? अकारित्रात् तर्हि तद् दूरम् ।
क्लेशालम्बनस्वासान्तानिकप्राप्तिच्छेदादित्यर्थः । सर्वं रूपं कुशलाकुशलाव्या-
कृतम् । अक्लिष्टाश्च धर्मा इत्यरूपी कुशलास्रवम्, अनिवृताव्याकृतश्च सः ।
तथैव तदालम्बनस्वासान्तानिकक्लेशप्रहाणात् प्रहीणो वक्तव्य इति ॥ ६१ ॥
"भूतशीलप्रदेशाध्वद्वयानामिव² दूरता" इति । इवशब्दाेऽत्रोदाहरणम् ।
तद्यथार्थे द्रष्टव्यः । वैलक्षण्यात् लक्ष्णदूरता । तद्यथा—भूतानाम् । भिन्नलक्षणो
हि पृथिवीधातोरब्धातुः, तस्मात् पृथिवीधातोरब्धातुर्दूरे भवति । विपक्षत्वाद्
विपक्षदूरंता । तद्यथा—शीलस्य दौःशील्यम् । देशविच्छेदाद् देशदूरता । तद्यथा—
प्रदेशस्य पश्चिमसमुद्रस्य पूर्वसमुद्रात् । कालतः कालदूरता । तद्यथा—अध्वद्वय-
स्यातीतानागतलक्षणस्य । तद्धि अतीतानागतं दूरमुच्यते । क्वोच्यते ? अभि-
धर्मे । एवं ह्याह—"दूरेधर्मा कतमे ? अतीतानागता धर्माः । सन्तिकेधर्माः
कतमे ? प्रत्युत्पन्नाः धर्माः, असंस्कृतं च" इति । तद् दूरमिति । अतीतानागतम् ।
उत्पद्यमानं चेति । उत्पादाभिमुखम्, अनागतं चेत्यर्थः । न चिरभूतभावि-
त्वेनेति । न चिरभूतत्वेनातीसम्, नापि चिरभावित्वेनागतं दूरमित्यर्थः ।
वर्तमानमप्येवं दूरं प्राप्नोति । अध्वनानात्वेन प्रत्युत्पन्नाख्यतया³ वर्तमानमपि
एवं दूरं प्राप्नोति । यथा अतीतानागतमतीतानागताध्वतया । अकारित्रात् तर्हि
१. वा—का० । २. भूत्वा शील०—जा० । ३. ०ख्याऽध्व०—जा० ।