अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 874, कुल 1258 में से
संदर्भ में पढ़ेंनिर्देशः ] पञ्चमं कोशस्था
निरोधमार्गहेयानां सास्रवालम्बनानाम् । ते ह्यनास्रवालम्बनास्तेषामालम्बनम् ।
अतस्तेषु प्रहीणेषु तेऽपि प्रहीणा भवन्ति । भावनाहेयानां पुनः—
प्रतिपक्षोदयात् क्षयः ॥ ६० ॥
यस्य हि क्लेशप्रकारस्य प्रतिपक्षो मार्ग उत्पद्यते स प्रहीयते ।
कस्य पुनः कः प्रतिपक्षः ? अधिमात्राधिमात्रस्य मृदुमृदुरिति विस्तरेण
पश्चात् प्रवेदयिष्यामः ॥ ६० ॥
कतिविधश्च प्रतिपक्षः ? इत्याह—
प्रहाणाधारदूरत्वदूषणाख्यश्चतुर्विधः ।
प्रतिपक्षः,
प्रहाणप्रतिपक्षः आनन्तर्यमार्गः ।
आधारप्रतिपक्षस्तस्मात् परेणार्यो मार्गो येन तत्प्रापितं प्रहाणमाधार्यते ।
दूरीभावप्रतिपक्षो विमुक्तिमार्गात् परेण यो मार्गश्छिन्नप्राप्तिदूरीकरणात् ।
विसभागाधातुसर्वत्रगानां प्रहाणमालम्बनप्रहाणात्) । आलम्बनप्रहाणादिति ।
दृष्टिपरामर्शाद्यालम्बनानां निरोधमार्गदर्शनहेयानां मिथ्यादृष्ट्यादीनां प्रहाणात् ।
तेऽपि दृष्टिपरामर्शादयः सास्रवालम्बनाः प्रहीयन्ते ।
“प्रतिपक्षोदयात् क्षयः” इति । भावनाहेयानां प्रतिपक्षोदयादेव, नालम्बन-
परिज्ञानादिभ्य इति दर्शयति । पश्चात् प्रवेदयिष्याम इति । “नवप्रकारा दोषा
हि भूमौ भूमौ तथा गुणाः” (अभि० को० ६.३५) इत्यत्र वक्ष्यति ॥ ६० ॥
प्रहाणप्रतिपक्ष आनन्तर्यमार्ग इति । विपक्षप्रतिद्वन्द्वी पक्षः = प्रतिपक्षः ।
प्रहाणाय प्रतिपक्षः = प्रहाणप्रतिपक्षः । विमुक्तिमार्गोऽपि हि प्रतिपक्षो न तु
प्रहाणायेत्यत इत्थं विशेषणम् । प्रहीयते वाऽनेनेति प्रहाणम्, प्रहाणञ्चासौ
प्रतिपक्षः = प्रहाणप्रतिपक्षः । तद्यथा—दुःखधर्मज्ञानक्षान्तिः । आधारप्रति-
पक्षस्तस्मात् परेणेति । तस्मात् = आनन्तर्यमार्गात् परेण यो मार्गो विमुक्ति-
मार्गः, स ह्याधारप्रहाणस्य तत्प्राप्त्याधारणात् । आधार्यतेऽनेनेत्याधारः, स
एव प्रतिपक्षः आधारप्रतिपक्षः । तद्यथा—दुःखधर्मज्ञानक्षान्तेः परं दुःखधर्म-
ज्ञानमिति । तेनोच्यते येन तत्प्रापितमिति । विस्तरः—येन - मार्गेण
तत्प्रापितम् = आनन्तर्यमार्गप्रापितम् प्रहाणमाधार्यते, तत्प्राप्त्यनुच्छेदात्
आधारप्रतिपक्ष इति । दूरीभावप्रतिपक्ष इति । विस्तरः—क्लेशप्राप्तिर्दूरीभवति
येन सः = दूरीभावः, स एव प्रतिपक्षो दूरीभावप्रतिपक्षः । दूरीभवनं वा
दूरीभावः, तस्मिन् प्रतिपक्षो दूरीभावप्रतिपक्षः । विमुक्तिमार्गात् परेण यो मार्ग