अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
निर्देशः ] पञ्चमं कोशस्थानम् ८०१
व्याकरणीयः प्रश्नः । कतमश्च भिक्षवो विभज्यव्याकरणीयः प्रश्नः ? 'सञ्चेतनीयं
कर्म कृत्वा किं प्रतिवेदयते' इत्ययं विभज्यव्याकरणीयः प्रश्नः । कतमश्च भिक्षवः
परिपृच्छ्यव्याकरणीयः प्रश्नः ? संज्ञासु पुरुषस्यात्मा, उताहोऽन्या संज्ञा अन्य
आत्मेति पृष्टेन सता परिप्रष्टव्यः—कतमं पुनरायुष्मानात्मानं प्रत्येति ? स चेदेवं
वदेद्—औदारिकं खल्वहमायुष्मन्नात्मानं प्रत्येमि । एवं सत्यन्या संज्ञा अन्य
आत्मेत्येवं वचनीयः । अयं हि परिपृच्छ्य व्याकरणीयः प्रश्नः । कतमश्च भिक्षवः
स्थापनीयः प्रश्नः ? तद्यथा—शाश्वतो लोकोऽशाश्वतः, शाश्वतश्चाशाश्वतश्च,
नैव शाश्वतो नाशाश्वतः ; अन्तवानन्तश्च नैवान्तवान्नानन्तवान् । भवति तथागतः
परं मरणान्न भवति तथागतः परं मरणात्, यावदन्यो जीवोऽन्यच्छरीरमित्ययं
भिक्षवः स्थापनीयः प्रश्नः” इति ॥ २२ ॥
यस्य पुद्गलस्य योऽनुशयो यस्मिन्नालम्बनेऽनुशेते स तेन तस्मिन्
सम्प्रयुक्तः । इदं तु वक्तव्यम्—अतीते न कस्मिन् यावत् प्रत्युत्पन्ने न कस्मिन्निति ?
समासतः इमे द्विविधाः क्लेशाः—स्वलक्षणक्लेशाश्च, रागप्रतिघमानाः ।
सामान्यक्लेशाश्च दृष्टिविचिकित्साऽविद्याः¹ । तत्र तावत्
सुखं दुःखम् अदुःखसुखम्' इत्येवं पृष्टेन विभज्य व्याकरणीयः प्रश्नः ।
सञ्चेतनीयस्य कुशलादिभेदात् । कुशलसास्रवं सञ्चेतनीयं कर्म कृत्वा
सुखमदुःखसुखं वा प्रतिसंवेदयते । अकुशलसञ्चेतनीयं कर्म कृत्वा दुःखं
प्रतिसंवेदयते इति । स चेदेवं वदेत्-औदारिकमिति रूपि । विस्तरः प्रभेदः । न भवति
यावदन्यो जीव इति । यावच्छब्देन सर्वं वक्तव्यम्—“न भवति तथागतः परं
मरणात्, भवति च न भवति तथागतः परं मरणात् । स जीवस्तच्छरीरम्,
अन्यो जीवः, अन्यच्छरीरम्” इति ॥ २२ ॥
स तेन तस्मिं संयुक्त इति । स पुद्गलस्तेनानुशयेन बद्ध इति
ज्ञायत एवेत्यर्थः । स्वलक्षणक्लेशाश्चेति । स्वलक्षणम्—सुखवेदनीयादि वस्तु,
तत्र रागः सुखवेदनीय एव वस्त्वावलम्ब्योत्पद्यत इति स्वलक्षणक्लेश इत्युच्यते ।
तेन सुखवेदनीयेनालम्ब्यमानेनोन्नतिर्भवतीति मानोऽपि स्वलक्षणक्लेशः । तथा
दुःखवेदनीयं वस्त्वावलम्ब्य प्रतिघ उत्पद्यते इति प्रतिघोऽपि स्वलक्षणक्लेश
इत्युच्यते । सामान्यक्लेशाश्च । दृष्टिविचिकित्सादयः । सामान्याः सामान्येन वा
१. ०कित्साऽविद्याः—का० ।
८०२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ अनुशय-
रागप्रतिघमानैः स्यादातीतप्रत्युपस्थितैः ।
यत्रोत्पन्नाऽप्रहीणास्ते तस्मिन् वस्तुनि संयुतः ॥ २३ ॥
अतीता प्रत्युत्पन्नाश्च रागप्रतिघमाना यस्मिन् वस्तुन्युत्पन्ना न च
प्रहीणास्तस्मिन् वस्तुनि तैः संयुक्तः । एते हि स्वलक्षणक्लेशत्वान्न सर्वस्यावश्यं
सर्वत्रोत्पद्यन्ते ॥ २३ ॥
सर्वत्रानागतैरेभिर्मानसैः,
'यत्राप्रहीणास्ते' इति वर्तते । अनागतैरेभिरेव रागप्रतिघमानैर्मनोभूमिकैः
सर्वत्र वस्तुनि संयुक्तस्त्रैयध्विके ; मानसानां त्र्यध्वविषयत्वात् ।
स्वाधिकै परैः ।
अन्यै रागप्रतिघैरनागतैरनागत एव वस्तुनि संयुक्तः । के पुनरन्ये ? ये पञ्च
विज्ञानकायिका रागाश्च प्रतिघाश्च । उत्पत्तिधर्मभिरेव । तैरेव तु
अजैः सर्वत्र,
अनुत्पत्तिधर्मभिः पञ्चविज्ञानकायिकैरपि सर्वत्र वस्तुनि संयुक्तः । त्रैयध्विकेऽपि
क्लेशाः सामान्यक्लेशाः । एते ह्यविशेषेण सुखवेदनीयादिके वस्तुन्युत्पद्यते
इति, अतस्तदालम्ब्य उत्पन्नाः क्लेशाः 'सामान्यक्लेशाः' इत्युच्यन्ते ।
अतीतप्रत्युपस्थितैरिति । अतीतवर्तमानैः । रागप्रतिघमाना यस्मिन् वस्तु-
न्युत्पन्ना इति विस्तरः । एते रागादयः षड्विज्ञानकायिका अप्यविशेषाभिधानाद्
यथायोगं यस्मिन् वस्तुन्युत्पन्नाः त्रैयध्विके दुःखदर्शनप्रहातव्ये यावद् भावना-
प्रहातव्ये । न च प्रहीणाः, तस्मिन् वस्तुनि तैः रागादिभिः संयुक्ताः, दाम्नेव
बलीवर्दाः कीलके। एते हि स्वलक्षणक्लेशत्वान्न सर्वस्य पुद्गलस्यावश्यं
सर्वत्रोत्पद्यन्ते इति । कस्यचित् कस्मिंश्चिदुत्पद्यन्त इत्यर्थः । अतो यत्रोत्पन्ना-
प्रहीणास्ते इति । तद्विशेषणम् । अप्रहीणा इति विशेषणम् । यस्माद् यै रागा-
दिभिर्यस्मिन् वस्तुनि संयुक्त आसीत्, यदि ते प्रहीणा भवेयुः न तैः सर्वत्र
प्रहीणेन निरनुशयविषयत्वात् ॥ २३ ॥
‘सर्वत्रानागतैरेभिर्मानसैः” इति । मानसग्रहणम् ।
स्वाधिकैः परैरिति । पञ्चविज्ञानकायिकानामन्यथा व्यवस्थाप्यमानत्वात् ।
राग-प्रतिघ-विशेषणं चैतत् । मानसस्यावश्यं मानसत्वात् । एभिरनागतैः सर्वत्र
त्रैयध्विके पञ्चनैकायिकेऽपि यथास्वं संयुक्तः । नहि तत् सास्रवं वस्तु, यत्
निर्देशः ] पञ्चमं कोशस्थानम् ८०३
शेषैस्तु सर्वैः सर्वत्र संयुतः ॥ २४ ॥
के पुनः शेषाः ? दृष्टिविचिकित्साऽविद्यास्त्रैयध्विकाः । तैः सर्वैरपि सर्व-
स्मिन् वस्तुनि संयुक्तः, सामान्यक्लेशत्वात् । 'यावदप्रहीणा.' इत्यधिकारोऽनुवर्त्तत
एव ॥ २४ ॥
किं पुनरिदमतीतानागतमुच्यतेऽस्ति, अथ न ? यद्यस्ति सर्वकालास्तित्वात्,
संस्काराणां शाश्वतत्वं प्राप्नोति; अथ नास्ति, कथं तत्र तेन च¹ संयुक्तो
भवति विसंयुक्तो वा ? न संस्काराणां शाश्वतत्वं प्रतिज्ञायते वैभाषिकैः संस्कृत-
लक्षणयोगात् । प्रतिज्ञायते तु विशदम्—
स्वलक्षणक्लेशोनापि रागेण न सरागम्, द्वेषेण च न सद्वेषम् । मानेन च न
समानम् । सर्वसास्रववस्त्वालम्बना हि यथास्वमपरिमता अनागता रागादयो
भवन्ति । अन्यै रागप्रतिघैरनागतैरनागत एव वस्तुनि संयुक्त इति । सर्वे चित्तचैत्ता
आलम्बने नियता इति तैरनुत्पत्तिधर्मिभिरनागत एव वस्तुनि संयुक्तः ;
वर्तमानविषयत्वात् पञ्चानां विज्ञानकायानाम् । रागप्रतिघैरिति । मानावचनं
म नसत्वात् । “समानमिद्धा दृग्घेया मनोविज्ञानभूमिकाः” (अभि० ५.५३)
इति वचनात् । पञ्चविज्ञानकायिकैरपि न केवलं मानसैरित्यपिशब्दो द्योतयति ।
तैरनुत्पत्तिधर्मिभिः सर्वत्र वस्तुनि त्रैयध्विके संयुक्तः । एते ह्यनुत्पत्तिधर्मिणोऽनागता
एवाध्वनि व्यवस्थाप्यन्ते । एषां चालम्बनानि सञ्चरन्ति । ससम्प्रयोगा हि
क्लेशा सुवर्चलावदनुत्पत्तिधर्मिणो विषयाभिमुखा एवावतिष्ठन्ते । तथा
ह्यनुत्पत्तिधर्मिणो नैवालम्बनमालम्ब्योत्पद्यन्त इति । अथ केषाञ्चिदालम्बन-
मतीतम्, केषाञ्चिद् वर्तमानम्, केषाञ्चिदनागतं भवति; न ह्यालम्बनानुत्पत्तिः ?
न ह्यालम्बनानुत्पत्तित एव तेषामनुत्पत्तिः, किं तर्हि ? प्रत्ययवैकल्यात् ।
अवस्थाफलं हि सामग्र्यां न द्रव्यफलम्—इति सिद्धान्तः ।
'शेषैस्तु सर्वैः सर्वत्र संयुतः' इति । त्रैयध्विकैरपि दृष्ट्यादिभिरनेकनैकायि-
कैरपि त्रैयध्विके पञ्चप्रकारेऽपि वस्तुनि संयुतः संयुक्त इत्यर्थः । किं कारणम् ?
इत्याह—सामान्यक्लेशत्वादिति । एते हि सर्वस्य सर्वस्मिन् संभवन्ति; पञ्चो-
पादानस्कन्द्धालम्बनत्वात् ॥ २४ ॥
कथं तत्र तेन च संयुक्त इति । कथमतीतानागते वस्तुनि । तेन चातीतानागते-
नानुशयेन संयुक्त इति । विसंयुक्तो वा । कथं वा अप्रहीण-प्रहीणावस्थायां
१. वा-का० ।
सर्वकालास्तिता,
किं कारणम् ?
उक्तत्वात्,
उक्तं हि भगवता—"अतीतं चेद् भिक्षवो रूपं नाभविष्यन्न श्रुतवानार्य-
श्रावकोऽतीते रूपेऽनपेक्षोऽभविष्यत् । यस्मात्तर्ह्यस्त्यतीतं रूपं तस्माच्छ्रुतवाना-
र्यश्रावकोऽतीते रूपेऽनपेक्षो भवति । अनागतं चेद्रूपं नाभविष्यत् न श्रुतवानार्य-
श्रावकोऽनागतं रूपं नाभ्यनन्दिष्यत् । यस्मात्तर्ह्यस्त्यनागतं रूपम्" इति विस्तरः ।
द्वयात्,
"द्वयं प्रतीत्य विज्ञानस्योत्पादः" इत्युक्तम् । द्वयं कतमत् ? चक्षू रूपाणि
यावन् मनो धर्मा इति । असति वाऽतीतानागते तदालम्बनं विज्ञानं द्वयं प्रतीत्य
न स्यात् । एवं तावदागमतोऽस्त्यतीतानागतम् । युक्तितोऽपि—
सद्विषयात्,
व्यवस्थाप्यन्ते ? संस्कृतलक्षणयोगादिति । यस्मात् संस्कृतलक्षणानि जात्यादीनि
संस्कृतानामर्थसञ्चाराय प्रवर्तन्ते, अतस्तेषामशाश्वतत्वं प्रतिज्ञायते । रूपं चेद्
भिक्षव इत्यस्य सूत्रस्यायमादितः पाठः—"रूपमनित्यमनागतम् । कः पुनर्वादः
प्रत्युत्पन्नस्य ! एवंदर्शी श्रुतवान् आर्यश्रावकोऽतीते रूपेऽनपेक्षो भवति, अनागतं
रूपं नाभिनन्दति, प्रत्युत्पन्नस्य रूपस्य निर्विदे विरागाय निरोधाय प्रतिपन्नो
भवति । अतीतं चेद् भिक्षवो रूपं नाभविष्यत्, न श्रुतवानार्यश्रावकोऽतीते
रूपेऽनपेक्षोऽभविष्यत् । यस्मात् तर्ह्यस्त्यतीतं रूपम्, तस्माच्छ्रूतवानार्यश्रावको-
ऽतीते रूपेऽनपेक्षो भवति । अनागतं चेद्रूपं नाभविष्यत्, न श्रुतवानार्यश्रावको-
ऽनागतं रूपं नाभ्यनन्दिष्यत् । यस्मात् तर्हि अस्त्यनागतं रूपम्, तस्मात्
श्रुतवानार्यश्रावकोऽनागतं रूपं नाभिनन्दिष्यति । प्रत्युत्पन्नं चेद् भिक्षवो रूपं
नाभविष्यदिति विस्तरः, न श्रुतवानार्यश्रावकोऽतीते रूपेऽनपेक्षोऽभविष्यद्" इति ।
निर्विषयत्वाद् वैराग्यकालेऽतीतविषयापेक्षार्यश्रावकस्यानपेक्षा मतिर्नस्यादित्यर्थः ।
यदातीतं रूपमपेक्ष्यते तदा तत्रासक्तिरिति । अभ्यनन्दिष्यदिति अभ्यलषिष्यत् ।
प्रत्युत्पन्नं चेद् भिक्षवो रूपं नाभविष्यत्, न श्रुतवानार्यश्रावकैः प्रत्युत्पन्नस्य
रूपस्य निर्विदे वैराग्याय निरोधाय प्रतिपन्नोऽभविष्यदित्येतन्नोक्तम्; उभय-
पक्षप्रसिद्धत्वात् ।
सति विषये विज्ञानं प्रवर्त्तते, नासति । यदि चातीतानागतं न स्यादसदा-
लम्बनं विज्ञानं स्यात् । ततो विज्ञानमेव न स्याद्; आलम्बनाभावात् ।
फलात् ।
यदि चातीतं न स्यात् शुभाशुभस्य कर्मणः फलमायत्यां कथं स्यात् ! न
हि फलोत्पत्तिकोले वर्त्तमानो विपाकहेतुरस्तीति । तस्मादस्त्येवातीतानागतमिति
वैभाषिकाः ।
अवश्यं च किलैतत् सर्वास्तिवादेन सताऽभ्युपगन्तव्यम् । यस्मात्
तदस्तिवादात् सर्वास्तिवादा इष्टाः,
ये हि सर्वमस्तीति वदन्ति अतीतमनागतं प्रत्युत्पन्नं च, ते सर्वास्तिवादाः ।
ये तु केचिदस्ति यत् प्रत्युत्पन्नमदत्तफलं चातीतं कर्म, किञ्चिन्नास्ति यद्दत्तफल-
मतीतमनागतं चेति विभज्य वदन्ति, ते विभज्यवादिनः ।
कति चैते सर्वास्तिवादाः ? इत्याह—
चतुर्विधाः ॥ २५ ॥
ते भावलक्षणावस्थाऽन्यथाऽन्यथिकसंज्ञिताः ।
भावान्यथिको भदन्तधर्मत्रातः । स किलाह—धर्मस्याध्वसु प्रवर्त्तमानस्य
भावान्यथात्वं भवति, न द्रव्यान्यथात्वम् । यथा सुवर्णभाजनस्य भित्त्वाऽन्यथा
क्रियमाणस्य संस्थानान्यथात्वं भवति, न वर्णान्यथात्वम् । यथा च क्षीरं दधित्वेन
द्वयादिति । पूर्वं कण्ठत उक्तमिति प्रदर्शितम् , इदानीमर्थतो न कण्ठत इति
विशेषः । न द्वयं प्रतीत्य मनोविज्ञानं स्यात् । यदतीतानागातालम्बनमिति
विशेषः ।
ततो विज्ञानमेव न स्यादालम्बनाभावादिति । विज्ञेये सति विज्ञानमिति
कृत्वा । साधनं चात्र—'सडालम्बनमेव मनोविज्ञानम्; उपलब्धिस्रभावत्वात् ,
चक्षुर्विज्ञानवत्' इति ।
फलादिति । विद्यमानस्वलक्षणं शुभाशुभमतीतं कर्म, विपाक्तिकाल उत्पद्यमान-
फलत्वात्, वर्तमानधर्मवदिति ॥ २५ ॥
भावान्यथात्वं भवतीति । अतीतानागतप्रत्युत्पन्नस्य भावस्यान्यथात्वं भवती-
त्यर्थः । न द्रव्यान्यथात्वम् । न रूपादिस्वलक्षणस्यान्यथात्वं भवतीत्यर्थः ।
अभि० को० ३ : ४
८०६ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ अनुशय-
परिणमद् रसवीर्यविपाकान् परित्यजति, न वर्णम् । एवं धर्मोऽप्यनागतादध्वनः
प्रत्युत्पन्नमध्वानमागच्छन्ननागतभावं जहाति, न द्रव्यभावम् । एवं प्रत्युत्पन्नादतीत-
मध्वानं गच्छन् प्रत्युत्पन्नभावं जहाति, न द्रव्यभावमिति ।
लक्षणान्यथिको भदन्तघोषकः । स किलाह—धर्मोऽध्वसु प्रवर्त्तमानोऽ-
तीतोऽतीतलक्षणयुक्तः, अनागतप्रत्युत्पन्नाभ्यामवियुक्तः । एवं प्रत्युत्पन्नोऽप्यतीता-
नागताभ्यामवियुक्तः । तद्यथा--पुरुष एकस्यां स्त्रियां रक्तः, शेषास्वविरक्त इति ।
अवस्थाऽन्यथिको भदन्तवसुमित्रः । स किलाह—धर्मोऽध्वसु प्रवर्त्तमानोऽ-
वस्थामवस्थां प्राप्यान्योऽन्यो निर्दिश्यते अवस्थान्तरतः, न द्रव्यान्तरतः । यथैका
गुलिका१ एकाङ्के निक्षिप्ता एकमित्युच्यते, शताङ्के शतम्, सहस्राङ्के सहस्रमिति ।
अनागतो हि वर्त्तमानमध्वानं प्रतिपन्नोऽनागतभावं जहाति । वर्तमानभावं प्रति-
लभते । वर्तमानोऽप्यतीतम् । सुवर्णं क्षीरं चेति दृष्टान्तद्वयं यथाक्रममाकृति-
गुणान्यथात्वज्ञापनार्थम् ।
लक्षणान्यथिकस्य लक्षणवृत्तिलाभापेक्षो व्यवहारः । अत एव आह—
धर्मोऽध्वसु प्रवर्त्तमानोऽतीतलक्षणयुक्तः, अनागतप्रत्युत्पन्नाभ्यां लक्षणाभ्यामवियुक्त
इति विस्तरः । यद्यनागतम् अतीतप्रत्युत्पन्नाभ्यां वियुक्तं स्यात्, एवं सति नाना-
गतमेवोत्पन्नमतीतं वेति स्यात् । अथातीतम् अनागतप्रत्युत्पन्नाभ्यां वियुक्तं
स्यात्, नानागतं वर्तमानं चातीतं स्यात् । वर्तमानम् अतीतानागताभ्यां
वियुक्तं अनागतमेव वर्तमानम्, वर्तमानमेवातीतं स्यात् । लब्धवृत्तिना हि
लक्षणेन युक्तो व्यवस्थाप्यते, तदन्येनावियुक्तो न विरहित इत्यर्थः । अत एवोदा-
हरति—तद्यथा पुरुष एकस्यां स्त्रियां रक्तः, शेषास्वविरक्त इति । एकस्यां
स्त्रियामस्य रागाध्यवसानं वर्तते । शेषासु स्त्रीषु रागप्राप्तिरेवास्ति, न समुदाचार
इति ।
अवस्थान्यथिकस्यावस्थापेक्षो व्यवहारः, यस्यामवस्थायां यो धर्मः कारित्रं
न करोति तस्याम् 'अनागतः' उच्यते, यस्यां करोति तस्यां 'वर्तमानः', यस्यां
कृत्वा निरुद्धः तस्याम् 'अतीतः' इत्यवस्थामवस्थां प्राप्य अन्योऽन्यो निर्दिश्यते ।
अनागतावस्थां प्राप्यानागतो यावदतीतावस्थां प्राप्यातीत इति । अवस्थान्तरतो
न द्रव्यान्तरत इति । अभिन्नलक्षणोऽनागतावस्थाप्राप्तोऽनागतादिशब्दनिर्देशः
केवलं भवतीत्यर्थः । अत एवोदाहरति—यथैका गुलिकेति विस्तरः । यथैका
१ वर्तिका-का० ।
'निर्देशः ] पञ्चमं कोशस्थानम् ८०७
अन्यथान्याथिको भदन्तबुद्धदेवः । स किलाह--धर्मोऽध्वसु प्रवर्तमानः
पूर्वापरमपेक्ष्यान्योऽन्य उच्यते अवस्थान्तरतः, न द्रव्यान्तरतः । यथैका स्त्री माता
०च्यते दुहिता चेति१ ।
इत्येते चत्वारः सर्वास्तिवादाः ।
एषां तु प्रथमः परिणामवादित्वात् सांख्यपक्षे निक्षेप्तव्यः । द्वितीयस्या-
ध्वसङ्करः प्राप्नोति, सर्वस्य सर्वलक्षणयोगात् । पुरुषस्य तु कस्याञ्चित् स्त्रियां रागः
समुदाचरति कस्याञ्चित् केवलं समन्वागम इति किमत्र साम्यम् ! चतुर्थस्याप्येक-
स्मिन्नेवाध्वनि त्रयोऽध्वानः प्राप्नुवन्ति । अतीतेऽध्वनि पूर्वपश्चिमौ क्षणावतीता-
नागतौ, मध्यमः क्षणः प्रत्युत्पन्न इति । एवमनागतेऽपि ।
गुलिका एकाङ्के निक्षिप्ता एकस्थाने स्थापिता एकमित्युच्यते, एवं शताङ्के शतम्,
सहस्राङ्के सहस्रम् इत्युच्यते, अवस्थान्तरापेक्षया । न पुनस्तस्याः स्वभावान्यथा-
त्वम्, किं तर्हि ? स्थानान्तरविशेषात् संख्याभियोतकं संज्ञामात्रमुत्पद्यत इति ।
पूर्वापरमपेक्ष्या अन्योन्य उच्यते इति । पूर्वम् अपरम् चापेक्ष्या अतीताना-
गतवर्तमाना उच्यन्त इत्यर्थः । पूर्वमेवातीतं वर्तमानं वापेक्ष्याऽनागत इति,
पूर्वं वाऽतीतम्, अपरं वाऽनागतम् अपेक्ष्य वर्तमान इति, अपरमेव वर्तमान-
मनागतं वा अपेक्ष्याऽतीत इति पूर्वापरापेक्षोऽन्याथिकस्य व्यवहारः । अत
एवोदाहरति-यथैका स्त्री माता वोच्यते दुहिता चेति । यथैका स्त्री दुहितरम-
पेक्ष्या मातेत्युच्यते, मातरमपेक्ष्या दुहिता चेति । पूर्वापरापेक्षया, न
द्रव्यान्तरतः ।
साङ्ख्यपक्षे निक्षेप्तव्य इति । यः साङ्ख्यपक्षे प्रतिषेधः, स एव तत्पक्षस्य
प्रतिषेधः । साङ्ख्यपक्षः पूर्वं प्रतिषिद्ध इत्याभिप्रायः२ ।
द्वितीयस्यापि भदन्तघोषकस्यापि अध्वसङ्करः प्राप्नोति । योऽतीताध्वा-
भिप्रेतः, स वर्तमान. अनागतोऽपि प्राप्नोति । कथं कृत्वा ? अतीतेऽतीतलक्षण-
युक्तो भवन्ननागतवर्तमानलक्षणाभ्यामवियुक्तः । युक्त एवेत्यर्थः । अनागतो-
ऽप्यनागतलक्षणयुक्तोऽतीतवर्तमानलक्षणाभ्यामवियुक्त इति कृत्वा । एकैकस्य
त्रिलक्षणयोगात् अतीतोऽनागतो वर्तमानश्च प्राप्नोति । इत्येवमनागतवर्तमानावपि
योज्यौ । किमत्र साम्यमिति । पुरुषस्य कस्याञ्चिन् केवलं समन्वागमः । किमेवं
धर्मस्यैकं लक्षणं विद्यते ? इत एव लक्षणे न विद्यते, यत एवमुदाह्रियते
त्यत्सामान्यम् ।
१. वो०-का० । २. द्र०-अभि० को० २. ३६; ३.२७ का० ।
[Page Header: ८०८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ अनुशय-]
अत एषां सर्वेषां
तृतीयः शोभनः,
योऽयमवस्थाऽन्यथिकः । तस्य किल
अध्वानः कारित्रेण व्यवस्थिताः ॥ २६ ॥
यदा स धर्मः कारित्रं न करोति तदा अनागतः । यदा करोति तदा
प्रत्युत्पन्नः । यदा कृत्वा निरुद्धस्तदा अतीत इति । परिगतमेतत् सर्वम् ।
इदं तु वक्तव्यम्—यद्यतीतमपि द्रव्यतोऽस्त्यनागतमिति कस्मात् तदतीत-
मित्युच्यते, अनागतमिति वा ? ननु चोक्तमध्वानः कारित्रेण व्यवस्थिता इति ?
यद्येवम्, प्रत्युत्पन्नस्य तत्सभागस्य चक्षुषः किं कारित्रम् ? फलदानप्रतिग्रहः ।
अतीतानामपि तर्हि सभागहेत्वादीनां फलदानात् कारित्रप्रसङ्गोऽर्धकारित्रस्य
वेति लक्षणसंकरः ॥ २६ ॥
चतुर्थस्यापि भदन्तबुद्धदेवस्यापि एकस्मिन्नेवाध्वनि त्रयोऽध्वानः प्राप्नुवन्ति ।
एकस्मिन्नेवातीतेऽध्वनि पूर्वापरक्षणव्यवस्थास्ति । तत्र पूर्वपश्चिमौ क्षणावतीता-
नागतौ । पूर्वः क्षणोऽतीतः, पश्चिमः क्षणोऽनागत . मध्यमः प्रत्युत्पन्नः ।
इत्यतीतेऽध्वनि त्रयोऽध्वानः प्राप्नुवन्ति ।
अत एषां सर्वेषां “तृतीयः शोभनः” इति वैभाषिकः । कथं कृत्वा शोभ .. ।
इत्याह—यस्मात् तस्य “अध्वानः कारित्रेण व्यवस्थिताः” । कारित्रं पुनः चक्षुरा-
दीनां दर्शनादीनीति । रूपादीनामपि स्वेन्द्रियगोचरत्वं कारित्रम् । यद्येवमिति
विस्तरः । यदि कारित्रेण व्यवस्थापिताः, तत्सभागस्य चक्षुषः किं कारित्रम् ।
यद्धि कारित्रलक्षणं स्वकर्म न करोति, तत् तत्सभागः । तस्य च नास्ति कारित्रं
दर्शनलक्षणम् । कथं तत् प्रत्युत्पन्नमित्यभिप्रायः । फलदानप्रतिग्रह इति
तच्चक्षुः स्वनिष्यन्दफलं परिगृह्णाति, आक्षिपति, फलं च ददाति, निष्यन्द-
फलमनन्तरं ददाति । पुरुषकारफलं च यद्यपि दर्शनकारित्रं न करोति, अन्यत्
फलं करोति । तस्य फलदानपरिग्रहसद्भावात् तत्प्रत्युत्पन्नमिति व्यवस्थाप्यते
अतीतानामपि तर्हि सभागहेत्वादीनामिति । आदिशब्देन विपाकहेत्वादीनां
परिग्रहणम्; तेषां फलदानात् । “वर्तमानाभ्यतीतौ द्वावेकोऽतीतः प्रयच्छति”
(अभि० को० २।५६) इति वचनात् ।
कारित्रप्रसङ्गः । कारित्रमस्तीति । ततश्चैषां सभागहेत्वादीनामतीतानां वर्त-
मानत्वप्रसङ्गः, वर्तमानवत् कारित्रसद्भावात् इति लक्षणसङ्करः ।
निर्देशः ] पञ्चमं कोशस्थानम् ८७९
इदं च वक्तव्यम्—तेनैवात्मना सतो धर्मस्य नित्यं कारित्रकरणे
किं विघ्नम् ?
येन कदाचित् कारित्रं करोति कदाचिन्नेति । प्रत्ययानामसामग्र्यमिति चेत् ?
न; नित्यमस्तित्वाभ्युपगमात् । यच्च तत् कारित्रमतीतानागतं प्रत्युत्पन्नं चोच्यते
तत् कथम् ?
किं कारित्रस्याप्यन्यदस्ति कारित्रम् ! अथ तन्नैवातीतं नाप्यनागतं न
प्रत्युत्पन्नमस्ति च । तेनासंस्कृतत्वान्नित्यमस्तीति प्राप्तम् । अतो न वक्तव्यम्—
यदा कारित्रं न करोति धर्मस्तदानागत इति ।
स्यादेष दोषो यदि धर्मात् कारित्रमन्यत् स्यात् , तच्च खलु—
ब्रूयास्त्वम्—'येषां फलपरिग्रहः, फलदानं चोभयमस्ति, ते वर्तमानाः; येषां
त्वेकतरम्, न ते वर्तमानाः' इति, तत इदमुच्यते--'अर्धकारित्रस्य वेति । प्रसङ्ग
इत्यधिकृतम् । अर्धकारित्रस्य वा प्रसङ्गः । अर्धवर्तमाना इति वा तेऽतीताः
प्रसज्यन्ते । उपरतफलपरिग्रहकारित्रत्वाद्वि तेऽतीत लक्षणयुक्ता, वर्तमानफलदान-
कारित्रत्वाच्च वर्तमानलक्षणयुक्ता इति स एव लक्षणसङ्करदोषः । एतद्ध्यतीता-
दीनामध्वनां लक्षणमिष्टम्—उपरतकारित्रमतीतम्, अप्राप्तकारित्रमनागतम्,
प्रत्युत्पन्नकारित्रं वर्तमानमिति ॥ २६ ॥
किं विघ्नमिति । नपुंसकलिङ्गमेतच्छब्दरूपम् । को विबन्ध इत्यर्थः । को
विघ्नोऽस्येति किंविघ्नं कारित्रमित्यपरे । प्रत्ययानामसामग्र्यमिति चेत् । तन्न तत्
स्यात्—प्रत्ययानां हेतुसमनन्तरादीनामसामग्र्यम्, अतो न सर्वदा कारित्रं
करोति । न, नित्यमस्तित्वाभ्युपगमात् । न प्रत्ययानामसामग्र्यं कल्पयितुं युज्यते;
यस्मादिह भवद्भिर्नित्यं प्रत्ययानामस्तित्वमभ्युपगम्यते; सतामविनाशात् ।
यच्च तत्कारित्रमतीतमिति विस्तरः । यच्च कारित्रमतीतमुच्यते, अनागतं
प्रत्युत्पन्नमिति चोच्यते; सिद्धान्ते 'उपरतकारित्रमतीतम्' इत्येवमादिवचनात् ।
किं कारित्रस्याप्यन्यत् कारित्रमस्ति; यतस्तस्यातीतादित्वं कथ्यते ? यद्यस्ति,
अनवस्थाप्रसङ्गः । न चेदस्ति, यथानागतादित्वं कारित्रस्य स्वरूपसत्तापेक्षया,
एवं भावानामप्यनागतादित्वं भविष्यति, किं कारित्रकल्पनया ! कथं तदतीत-
मित्यादि ! अथ तन्नैवातीतमिति विस्तरः । यन्नैवातीतं, नाप्यनागतम्,
न प्रत्युत्पन्नम्, तदसंस्कृतमिति असंस्कृतत्वान्नित्यमस्तीति प्राप्तम् । न करोति
धर्मस्तदानागत इति । कारित्रस्य कर्तुमशक्यत्वप्राप्तेः ।
स्यादेष दोष इति विस्तरः । स्यादेष दोषः कारित्रस्यान्यत् कारित्रमित्यादि-
८१० भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ अनुशय-
नान्यत्,
अतो न भवत्येष दोषः ।
एवं तर्हि स एव
अध्वायॊगः,
यदि धर्म एव कारित्रं कस्मात्स एव धर्मस्तेनैवात्मना विद्यमानः कदाचिदतीत
इत्युच्यते, कदाचिदनागत इत्यध्वनां व्यवस्था न सिध्यति । किमत्र न सिध्यति ?
यो ह्यजातो धर्मः सोऽनागतः, यो जातो भवति न च विनष्टः स वर्त्तमानः,
यो विनष्टः सोऽतीत इति । एतदेवात्र वक्तव्यम्-यदि यथा वर्त्तमानं द्रव्यतो-
ऽस्ति तथाऽतीतमनागतं चास्ति । तस्य
तथा सतः ।
अजातनष्टता केन ?
तेनैव स्वभावेन सतो धर्मस्य कथमिदं सिध्यत्यजात इति यो विनष्ट इति वेति ।
किमस्य पूर्वं नासीद् यस्याभावादजात इत्युच्यते ! किं च पश्चान्नास्ति यस्याभावाद्
विनष्ट इत्युच्यते ! तस्मान्न सिध्यति सर्वथाप्यत्राध्वत्रयम्, यद्यभूत्वा भवतीति
नेष्यते भूत्वा च पुनर्न भवतीति । यदप्युक्तम्-"संस्कृतलक्षणयोगान्न शाश्वतत्व-
प्रसङ्गः" इति । तदिदं केवलं वाङ्मात्रमुत्पादविनाशयोरयोगात् । नित्यं च नामास्ति
स धर्मो न च नित्य इत्यपूर्वैषा वाचोयुक्तिः । आह खल्वपि-
प्रसङ्गोऽसंस्कृतत्वप्रसङ्गो वा । यदि धर्मात् कारित्रमन्यत् स्यात् ? तत्तु खलु
नान्यदिति । नैष दोषः ।
तेनैवात्मनेति । यः प्रत्युत्पन्नस्य स्वभावस्तेनेत्यर्थः ।
किमस्य पूर्वं नासीदित्यनागतावस्थायां यदि कारित्रम्, अनन्यत्वाद्धर्म एव
नासीदित्युक्तं भवेत् । किञ्च पश्चान्नासीदित्यतीतावस्थायां यदि कारित्रम्, धर्म एव
नासीदित्युक्तं भवेत्; धर्मकारित्रयोरनन्यत्वात् । यद्यभूत्वा भवतीति नेष्यते,
प्रत्युत्पन्नो न सिद्धयति । भूत्वा च पुनर्नभवतीति यदि नेष्यते, अतीतोऽध्वा
न सिद्धयति । अनागतस्तु यो न तावदभूत्वा भवतीत्यर्थाद् गम्यते । एवं
अध्वत्रयं सिद्धयति, अतोऽन्यथा न सिद्धयतीति वाक्यार्थः ।
उत्पादविनाशयोरयोगादिति । सर्वकालास्तित्वादुत्पादविनाशयोरयोगः,
तस्माद् वाङ्मात्रमेतत्-संस्कृतलक्षणयोगान्न शाश्वतत्वप्रसङ्ग इति । अपूर्वैषा
निर्देशः ] पञ्चमं कोशस्थानम् ८११
“स्वभावः सर्वदा चास्ति भावो नित्यश्च नेष्यते ।
न च स्वभावाद् भावोऽन्यो व्यक्तमीश्वरचेष्टितम्” ॥
यत्तूक्तम्—उक्तत्वादिति । वयमपि ब्रूमोऽस्त्यतीतानागतमिति । अतीतं तु यद्
भूतपूर्वम्, अनागतं यत्सति हेतौ भविष्यति । एवं हि¹ कृत्वाऽस्तीत्युच्यते न तु
पुनर्द्रव्यतः । कश्चैवमाह—वर्त्तमानवत्तदस्तीति ? कथमन्यथाऽस्ति ? अतीता-
नागतात्मना । इदं पुनस्तवोपस्थितम्—कथं तदतीतमनागतं चोच्यते यदि नित्य-
मस्तीति । तस्मात् भूतपूर्वस्य च हेतोर्भाविनश्च फलस्य भूतपूर्वतां भवितां च
ज्ञापयितुं हेतुफलापवाददृष्टिप्रतिषेधार्थमुक्तं भगवता—“अस्त्यतीतमस्त्यनागतम्”
इति । अस्तिशब्दस्य निपातत्वात् । यथाऽस्ति दीपस्य प्रागभावोऽस्ति पश्चादभाव
वाचोयुक्तिरिति । पूर्वापरविरुद्धैषा वाचोयुक्तिरित्यर्थः । सर्वदा चास्ति, उत्पाद-
विनाशाभ्यां च युज्यत इति ।
स्वभावः सर्वदा चास्तीति । यद् रूपादेः स्वलक्षणम्, तत् सर्वस्मिन् काले
विद्यत इतीष्यते ।
यदि रूपादेः स्वभावः सर्वदास्ति, तेन रूपादिभावो नित्यः प्राप्नोति ? अत
आह—भावो नित्यश्च नेष्यते । एवं सति तस्मात् स्वभावाद् भावो नूनमन्य
इति ? अत आह—न च स्वभावाद् भावोऽन्य इति । तदिदमिच्छामात्रत्वात्
व्यक्तमीश्वरचेष्टितम् । नात्र युक्तिरस्ति ।
अतीतं तु यद् भूतपूर्वमिति । न स्वलक्षणेनास्तीति दर्शयति । अनागतं यत्
सति हेतौ भविष्यतीति । अविद्यमानमपि हेतुसद्भावाद् व्यवस्थाप्यत इति
दर्शयति । एवं हि कृत्वाऽस्तीत्युच्यत इति । भूतपूर्वम्, भविष्यति चेति कृत्वा ।
न तु पुनर्द्रव्यत एवं भवति । हेतुफलापवाददृष्टिप्रतिषेधार्थमिति । हेत्वपवाददृष्टि-
प्रतिषेधार्थम् ‘अस्त्यतीतम्’ इत्युक्तम् । फलापवाददृष्टिप्रतिषेधार्थमस्त्यनागतमिति ।
‘आसीदतीतम्’ ‘भविष्यत्यनागतम्’ इति वक्तव्ये ‘अस्ति’ इति वचनम्; अस्ति-
शब्दस्य निपातत्वात् । त्रिकालविषयो हि निपातः । आसीदर्थे भविष्यदर्थेऽपि
वर्तते ।
यथास्ति दीपस्येति विस्तरः । यथा ‘अस्ति दीपस्य प्रागभावः, अस्ति
१. च—का० ।
८१२ * भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ अनुशय-
इति वक्तारो भवन्ति, यथा चास्ति निरुद्धः स प्रदीपो१ न तु मया निरोधित इति ।
एवमतीतानागतमस्तीत्युक्तम्२ । अन्यथा ह्यतीतानागत३ एव न सिध्येत् ।
यत्तर्हि लगुडशिखीयकान् परिव्राजकानधिकृत्योक्तं भगवता—"यत्
कर्माभ्यतीतं क्षीणं निरुद्धं विगतं विपरिणतं तदस्ति" इति, किं ते तस्य तस्य कर्मणो
भूतपूर्वत्वं नेच्छन्ति स्म ? तत्र पुनस्तदाहितं तस्यां सन्ततौ फलदानसामर्थ्यं
सन्धायोक्तम् । अन्यथा हि स्वेन भावेन विद्यमानमतीतं न सिध्येत् । इत्थं
पश्चादभावः' इति वक्तारो भवन्ति, न च द्रव्यतोऽस्ति । यथा च 'अस्ति निरुद्धः
स प्रदीपः, न तु मया निरोधितः' इतिवक्तारो भवन्ति, न च 'अस्ति' प्रयोगात्रि-
रुद्धोऽप्यसावस्तीति । ननु च वैभाषिकस्य निरुद्धोऽप्यसावस्तीति ? सत्यमस्ति,
न तु प्रदीपरूपतामेव बिभ्राणः सोऽस्ति । एवमतीतागतमस्तीत्युक्तम् असत्यपि
द्रव्यसत्त्वे; अन्यथा हि अतीतानागत एव न सिद्धयेत् । यदि तेनैव लक्षणेन
विद्येत, अतीतानागत एव न सिद्धयेदित्यर्थः । यद्यतीतं भूतपूर्वम्, यत्तर्हि
लगुडशिखीयकानिति विस्तरः । लगुडशिखीयकैः परिव्राजकैर्नालन्दा निदानम् ।
नालन्दायां बुद्धभाषितं च सूत्रम्, संयुक्तागमे च । आर्यमहामौद्गल्यायनश्च
मारित इत्याहुरभियुक्ताः । यतो न मारित इत्यत्र सूत्र एवं पठ्यते—लगुडशि-
खीयकाः परिव्राजका आनन्तर्यकारिणो यत्कर्माभ्यतीतं तन्नास्तीत्येवंवादिन इति
विस्तरः । किं ते लगुडशिखीयकाः परिव्राजकाः तस्य कर्मणः आनन्तर्यस्य
भूतपूर्वत्वं नेच्छन्ति । एतदुक्तं भवति—इच्छन्ति स्म ते तस्य कर्मणो भूतपूर्वत्वम्,
किन्तु न द्रव्यमिति ते तस्मिन् कर्मणि विप्रतिपन्नाः । नास्ति तत् कर्माभ्यतीत-
मिति । यतो भगवता यत्र ते विप्रतिपन्नाः स्वभावे तत्कर्माभ्यतीतमस्तीति
विस्तरेण । तस्माद् अस्ति स्वभावेनातीतमिति विस्तरः ।
तत्र पुनः सूत्रे यद् भूतपूर्वं कर्म न तदेवातीतमित्यभिसन्धायोक्तम्—
तत्कर्मास्तीति, किं तर्हि ? तदाहितम् । भूतपूर्वेण कर्मणा आहितम् =
अर्पितम् । तस्यां सन्ततौ फलदानसामर्थ्यं सन्धायोक्तमित्यनेनाभिप्रायेणोक्तमिति ।
कथं गम्यते ? इत्याह—अन्यथा हि स्वेन भावेन विद्यमानमतीतं न सिद्धयेदिति ।
स्वलक्षणेन विद्यमानं तत् कर्म प्रत्युत्पन्नलक्षणेन विद्यमानमतीतमिति न सिद्धयेत् ।
प्रत्युत्पन्नमेव सिद्धयेदित्यभिप्रायः । तदाहितमिति विस्तरेणैवमुच्यमानेऽभ्यतीतं
तत् कर्मास्तीति सिद्धयति ।
१. दीपो—का० । २. ०मप्यस्ती०—का० ।
३. ०नागतभाव—का० ।
निर्देशः ] पञ्चमं कोशस्थानम् ८१३
चैतदेवं यत् परमार्थशून्यतायामुक्तं भगवता—"चक्षुरुत्पद्यमानं न कुतश्चि-
दागच्छति निरुध्यमानं न क्वचित् संनिचयं गच्छति। इति हि भिक्षवश्चक्षुरभूत्वा
भवति भूत्वा च प्रतिगच्छति” इति। यदि चानागतं चक्षुः स्यान्नोक्तं स्याद्—भूत्वा
न भवतीति। वर्त्तमानेऽध्वन्यभूत्वा भवतीति चेत् ? न; अध्वनो भावादनर्थान्तर-
त्वात्। अथ स्वात्मन्यभूत्वा भवति ? सिद्धमिदमनागतं चक्षुर्नास्तीति।
यदप्युक्तम्—"द्वयं प्रतीत्य विज्ञानस्योत्पादात्" इति, इदं तावदिह
सम्प्रधार्यम्—यन्मनः प्रतीत्य धर्मंश्चोत्पद्यते मनोविज्ञानम्, किं तस्य यथा मनोजनकः
प्रत्यय एवं धर्माः, आहोस्विदालम्बनमात्रं धर्मा इति। यदि तावत् जनकः प्रत्ययो
धर्माः, कथं यदनागतं सहस्रैर्भविष्यति१ वा, न वा तदिदानीं विज्ञानं जनयिष्यति।
निर्वाणं च सर्वप्रवृत्तिनिरोधाज्जनकं नोपद्यते। अथालम्बनमात्रं धर्मा भवन्ति ?
अतीतानागतमप्यालम्बनं भवतीति ब्रूमः। यदि नास्ति कथमालम्बनम् ? अत्रे-
दानीं ब्रूमः—यदा तदालम्बनं तथास्ति, कथं तदालम्बनम् अभूत् भविष्यति
चेति। न हि कश्चिदतीतं रूपं वेदनां वा स्मरन्नस्तीति पश्यति। किं तर्हि ?
इत्थं चैतदेवमिति। यथाऽनागतं द्रव्यतो नास्त्यतीतं चेति। वर्त्तमानेऽ-
ध्वनीति विस्तरः। वर्तमानभावेनाभूत्वा भवतीत्यर्थः। न, अध्वनो भावादनर्था-
न्तरत्वात्। नैव तदेवम्। अध्वनः प्रत्युत्पन्नस्य भावाच्चक्षुःसंज्ञाकादनर्थान्तर-
त्वाद्। अद्रव्यान्तरत्वादित्यर्थः। य एव वर्तमानोऽध्वा स एव भावः, तत् कथं
स एव वर्तमानः स्वात्मन्यध्वन्यभूत्वा भविष्यति। तथा ह्युक्तम्—"त एवाध्वा
कथावस्तु" (अभि० को० १.७) इति।
अथ स्वात्मनि चक्षुषि चक्षुर्भूत्वा भवति, सिद्धमिदम्—अनागतं चक्षुर्नास्ति।
आलम्बनमात्रमिति। मात्र-शब्दो जनकत्वव्यावर्त्तनार्थः। तद्रूपोत्पत्तेरालम्बनम्
धर्मा इत्यभिप्रायः। यदनागतं सहस्रैरिति। सन्निकृष्टमप्यनागतं जनकं न
युज्यते, किमङ्ग अतिचिरेण कालेन यद् भविष्यति ! नहि पूर्वकालीनस्य फलस्य
पश्चात्कालीनो हेतुर्युज्यत इति। निर्वाणं चेति। निर्वाणं हि विज्ञानं निरुद्धं न
जनयेत्। संसारप्रवृत्तिनिरोधदित्यभिप्रायः। अभूद् भविष्यति चेति। यद्
वर्तमानावस्थायां रूपमभूत्, भविष्यांत च तदालम्बनमित्यर्थः। कथं ज्ञायते
१. कल्पसहस्रेण ०---का०।
८१४ भाषस्फुटार्थासहितेऽभिधर्मकोशे [अनुशय-
अभूदिति । यथा खल्वपि वर्त्तमानं रूपमनुभूतं तथा तदतीतं स्मर्यते ।
यथा चानागतं वर्तमानं भविष्यति तथा बुद्ध्या गृह्यते । यदि च तत्तथैवास्ति
वर्त्तमानं प्राप्नोति, अथ नास्ति असदप्यालम्वनं भवतीति सिद्धम् ।
तदेव तद्विकीर्णमिति चेत् ? न; विकीर्णास्याग्रहणात् । यदि च तत्तदेव रूपं
केवलं परमाणुशो विभक्तम् ? एवं सति परमाणवो नित्याः स्युः१ । परमाणु-
सञ्चयविभागमात्रं चैवं सति प्रप्नोति । न तु किञ्चिदुत्पद्यते नापि निरुध्यत
इत्याजीविकवादः परिगृहीतो२ भवति ।
सूत्रं चापविद्धं भवति—"चक्षुरुत्पद्यमानं न कुतश्चिदागच्छति" इति
एवम्—तदालम्ब्यते, न पुनरस्तीति ? अत आह—नहि कश्चिदतीतं रूपं वेदनां
वा स्मरन्नस्तीति पश्यति, किं तर्हि ? अभूदिति स्मरति तद्रूपं यथा दृष्टं यथानुभूतां
च वेदनां चक्षुर्विज्ञानानुभवबलेन । यथा खल्वपीति । विस्तरेणाचार्य एवोपचय-
हेतुमाह। वर्तमानरूपमिव भूतं भविष्यच्च गृह्यत इत्यभिप्रायः । यदि च
तथैवास्तीति । यथा वर्तमानम् । वर्तमानं तत् प्राप्नोति । अथ नास्ति तत्तथैव,
असदप्यालम्बनं भवतीति सिद्धम्; वर्तमानवद् रूपस्याभावात् । तस्य च स्मर्य-
माणत्वात् । तदेव तद्विकीर्णमिति । यदेव तद् वर्तमानम्, तदेव विकीर्णमतीता-
नागतम् । न, विकीर्णास्याग्रहणादिति । न युक्तमेतत्; विकीर्णस्याग्रहणात् ।
पूर्वं न विकीर्णम्, इदानीं विकीर्णमेतद्रूपम्—इत्येवमस्याग्रहणात् । यदि च तत्
तदेवेति विस्तरः । यदि च वर्तमानावस्थायां पिण्डीभूतं रूपम्, तदतीतावस्थाया-
मनागतावस्थायां च परमाणुषु विभक्तम्, अतो न वर्तमानवद् गृह्यते । एवं सति
तादवस्थ्यान्नित्याः परमाणवः स्युः । अनागताः प्रत्युत्पन्ना अतीताश्च त एव त
इति । एवं च सति परमाणुसञ्चयविभागमात्रमेव प्राप्नोति, न तु कश्चिदुत्पादो
नापि निरोध इत्याजीविकानां पाषण्डिनां वादः परिगृहीतो भवति ।
तथा चेष्यमाणे सूत्रमपास्तं भवति—"चक्षुर्भिक्षवः उत्पद्यमानं न
कुतश्चिदागच्छति । निरुध्यमानं न क्वचित् सन्निचयं गच्छति । इति हि
भिक्षवः चक्षुरभूत्वा भवति, भूत्वा च प्रतिविगच्छति” ( ) इति ।
कथं पुनरिदं सूत्रमपविद्ध विरोधितं भवति ? यस्माच्चक्षुरुत्पद्यमानं स्वेन
रूपेण न कुतश्चिद् आगच्छतीत्येतत्पदं वाधितं भवति । निरुध्यमानं न क्वचित्
सन्निचयं गच्छतीत्येतदपि पदं बाधितं भवति; अतीतेऽध्वनि तत्परमाणूनां
१. प्राप्नुवन्ति—का० । २. आलम्बितो—का० ।
निर्देशः ] पञ्चमं कोशस्थानम् ८१५
विस्तरः । अपरमाणुसंचितानां वेदनादीनां कथं विप्रकीर्णत्वम्¹ । तेऽपि च यथो-
त्पन्नानुभूताः स्मर्यन्ते । यदि च ते तथैव सन्ति, नित्याः प्राप्नुवन्ति । अथ न
सन्ति, असदप्यालम्वनमिति सिद्धम् । यद्यसदप्यालम्वनं स्यात्, त्रयोदशमप्या-
लम्वनायतनं² स्यात् ।
अथ त्रयोदशमायतनं नास्तीत्यस्य विज्ञानस्य किमालम्बनम् ? एतदेव
नामालम्बनम् । एवं तर्हि नाम एव नास्तीति प्रतीयते । यश्च शब्दस्य प्राग-
भावमालम्बते किं तस्यालम्बनम् ? शब्द एव । एवं तर्हि यः शब्दाभावं प्रार्थयते
तस्य शब्द एव कर्तव्यः स्यात् । अनागतावस्थ इति चेत् ? सति कथं नास्ति-
बुद्धिः । वर्तमानो नास्तीति चेत् ? न; एकत्वात् । यो³ वा³ तस्य विशेषस्तस्या-
भूत्वाभावसिद्धिः । तस्मादुभयं विज्ञानस्यालम्बनम्—भावश्च, अभावश्च ।
विप्रकीर्णसञ्चितत्वाभ्युपगमात् । अपरमाणुसञ्चितानामिति । वेदनादीनामपर-
माण्वात्मनां कथं विप्रकीर्णत्वम् ? मूर्तानां हि सञ्चितत्वं विप्रकीर्णत्वं वा अभवत्
भवेत् , नामूर्तानाम् । तेऽपि च यथोत्पन्नानुभूताः स्मर्यन्ते इति । वर्तमानरूपा
एव स्मर्यन्ते । यदि च ते तथैव सन्ति यथा वर्तमानाः, नित्याः प्राप्नुवन्ति ।
अथ न सन्ति तद्रूपाः, असदप्यालम्बनमिति सिद्धम् ।
त्रयोदशमप्यायतनमालम्बनं स्यादिति । त्रयोदशानामायतनानां पूरणं
त्रयोदशमायतनम् । तद्विज्ञानस्यालम्बनं स्यात् । असदालम्बनत्व इष्यमाणे
तदालम्बनं वा विज्ञानं स्यात् । एवं वैभाषिकेनोक्ते आचार्य आह—अथ त्रयोदश-
मिति विस्तरः । एतदेव नामेति वैभाषिकः । यदेतन्नाम त्रयोदशमायतनमिति
तदालम्बनम् । एवं तर्हि नामैव नास्तीति प्रतीयते । नाभिधेयं त्रयोदशायतना-
भावलक्षणम् । किञ्च यश्च शब्दस्य प्रागभावमालम्बते, किं तस्यालम्बनम् ।
भवतीति वाक्यशेषः । एवं प्रकृते वैभाषिक आह—शब्द एव । आलम्बनमिति
प्रकृतम् । एवं तर्हीति विस्तरेणाचार्यः । यः शब्दस्य प्रागभावमालम्बते, शब्द
एव तेनालम्बितो भवति, न प्रागभावः । प्राप्तमिदं भवति—यः शब्दाभावं
प्रार्थयते, तस्य शब्द एव कर्तव्यः स्यादिति । अनागतावस्था इति चेत् ।
स्यान्मतम्—यस्यासौ प्रागभावः, सोऽनागतावस्थस्तेनालम्ब्यते । तस्माद् यः
शब्दाभावं प्रार्थयते, तस्य न शब्द एव कर्तव्यः स्यादिति । तदुच्यते—सति
कथं नास्तीति बुद्धिरिति । विद्यमाने तस्मिन् शब्दे यस्यासौ प्रागभावः कथमस्य
नास्तिबुद्धिः, या प्रागभावमालम्बते । वर्तमानो नास्तीति चेत् । तत्रैतत् स्यात्—
१. विकीर्णत्वम्—का० । २. ॰मप्यायतनं—का० । ३-३. यावता—का० ।
१६ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ अनुशय-
यत्तर्हि बोधिसत्त्वेनोक्तम्—"यल्लोके¹ नास्ति तदहं ज्ञास्यामि वा द्रक्ष्यामि
वा नेतं स्थानं विद्यते" इति । अपरे आभिमानिका भवन्त्यसन्तमप्यवभासं सन्तं
पश्यन्ति । अहं तु सन्तमेवास्तीति पश्यामीत्यर्थं तत्राभिप्रायः । इतरथा हि सर्व-
बुद्धीनां सदालम्बनत्वे कुतोऽस्य विमर्शः स्यात्, को वा विशेषः ! इत्थं चैतदेवम् ।
यदन्यत्र भगवतोक्तम्--"एतत् भिक्षुमम श्रावको यावत्स मया कल्प-
मवोदितः सार्थं विशेषाय परैष्यति । सायमवोदितः कल्पं विशेषाय परैष्यति ।
सच्च सतो ज्ञास्यति, असच्चासतः, सोत्तरं च सोत्तरतः, अनुत्तरं चानुत्तरतः"
इति । तस्मादयमप्यहेतुः, सदालम्बनत्वाद् विज्ञानस्येति ।
वर्तमानो नास्तीत्येवं तदालम्बनात् नास्तिबुद्धिस्तस्योत्पद्यत इति । न, एकत्वात् ।
यदेव तदनागतम् तदेव वर्तमानं भवति, न तस्मादन्यदिति व्यर्थं तस्मिन्नेव
वर्तमाने नास्तिबुद्धिरुत्पद्यते । यो वा तस्य विशेषः । यो वा तस्यानागतस्य
पश्चाद्विशेषो वर्तमानावस्थायां भवति, तत्र विशेषे वर्तमानो नास्तीति तद्बुद्धि-
रुत्पद्यते । तस्याभूत्वाभावसिद्धिः । तस्य विशेषस्याभूत्वा पूर्वं पश्चाद् भावः,
तस्य सिद्धिरिति । भावश्चाभावश्चेति। भावो वर्तमानावस्थायाम , अभावोऽतीता-
नागतावस्थयोः । इति विज्ञानस्योभयमालम्बनं भवति ।
यद्यभावो विज्ञानस्या लम्बनम्, यत्तर्हीति विस्तरः। बोधिसत्त्वेन चरम-
भविकेनैवमुक्तम्—'यल्लोकेनास्ति, तञ्ज्ञास्यामीत्येष सम्भवो नास्ति" इति
वचनात् अभावालम्बनं न भवतीति दर्शितं भवति ।
आचार्योऽन्याभिप्रायतामस्य सूत्रस्य दर्शयन्नाह -- अपरे आभिमानिका इति
विस्तरः। अपरिशुद्धसमाधयोऽपरे आभिमानिका भवन्ति । असन्तमप्यवभासम् ।
दिव्यचक्षुरवभासम् प्रयोगावस्थायां सन्तमित्येव पश्यन्ति । अहं तु सन्तमेवाव-
भासं पूर्वरूपं दिव्यचक्षुषोऽस्तीति पश्यामीति अयं तत्र सूत्रेऽभिप्रायः ।
कुतोऽस्य विमर्श इति । सर्वबुद्धीनां सद्विषयत्वे व्यवस्थाप्यमाने कुतोऽस्य विमर्शः
विचारः सन्देहो वा स्यात् यदुत लोके नास्तीति विस्तरेण य उक्तः । सद्सदा-
लम्बने तु बुद्धीनामयं विमर्शः सम्भवति, नान्यथा । को वा विशेष इति । को वा
बोधिसत्त्वस्यान्येभ्यो विशेषो यदि तेऽपि सन्तमेवावभासं पश्यन्ति, नासन्तम् ।
सदसदालम्बनत्वे हि बुद्धीनामयं विशेषो भवति । इत्थं चैतदेवं सत् । असदा-
लम्बना बुद्धय इति । सच्च सतो ज्ञास्यति, असच्चासत इतिदमत्रोदाहरणम् ।
१. यत्तत् लोके—का० ।
निर्देशः ] पञ्चमं कोशस्थानम् ८१७
यदप्युक्तम्—फलादिति। नैव हि सौत्रान्तिका अतीतात् कर्मणः फलोत्पत्तिं
वर्णयन्ति। किं तर्हि ? तत्पूर्वकात् सन्तानविशेषादित्यात्मवादप्रतिषेधे सम्प्रवेद्-
यिष्यामः ।
यस्य त्वतीतानागतं द्रव्यतोऽस्ति तस्य फलं नित्यमेवास्तीति किं तत्र
कर्मणः सामर्थ्यम् ? उत्पादने सामर्थ्यम् । उत्पादस्तर्ह्यभूत्वा भवतीति सिद्धम् ।
अथ सर्वमेवास्ति¹, कस्येदानीं क्व सामर्थ्यम् ? वार्षगण्यवादश्चैवं द्योतितो
भवति—"यदस्त्यस्येव तत् । यन्नास्ति नास्त्येव तत् । असतो नास्ति सम्भवः,
सतो नास्ति विनाशः" इति । वर्तमानीकरणे तर्हि सामर्थ्यम् । किमिदं वर्त्तमानी-
करणं नाम ? देशान्तराकर्षणं चेत्, नित्यं प्रसक्तम् । अरूपिणां च कथ तत् ?
यच्च तदाकर्षणं तदभूत्वाभूतम् । स्वभावविशेषणं चेत्, सिद्धमभूत्वा-
भवनम् ।
सच्च वस्तु सत्त्वतः परैष्यति, ज्ञास्यति; असच्चासत्त्वत इत्यसद्दालम्बना
बुद्धय इति सिद्धम् । 'सद्भूतम्' इत्यादि । यदेतद् बोधिसत्त्वेनोक्तमिति ।
तत्पूर्वकादिति । कर्मपूर्वकात् चित्तसन्तानविशेषात् । आत्मवादप्रतिषेध
इति । शास्त्रस्याने वात्सीपुत्रीयमतप्रतिषेधे । उत्पादस्तर्हि अभूत्वा भवतीति ।
उत्पादः पूर्वं नास्ति, इदानीं भवतीति सिद्धोऽपूर्वप्रादुर्भावः । उत्पादस्योत्पाद-
वता सह तुल्यवातेत्त्वात् । अथ सर्व एवास्तीति । उत्पादोऽपि यद्यस्ति, न
केवलं हेतुः, अनागतं च फलमित्यभिप्राय । कस्येदानीं क्व सामर्थ्यमिति । कस्य
हेतोः क्व फले सामर्थ्यम् । हेतुश्च यथोक्त उत्पादं फलं चानागतमस्तीति ।
वर्तमानीकरण इति वैभाषिकः । किमिदानीं वर्तमानीकरणमिति विस्तरेणाचार्यः ।
नोत्पादो वर्तमानीकरणम्; तस्य वर्तमानत्वात् । अत एवं पृच्छति । देशान्तरा-
कर्षणं चेत् । यदि मन्यसे—हेतुना फलस्य देशान्तराकर्षणं वर्तमानीकरणमिति ?
अत्र ब्रूमः—नित्यं प्रसक्तम् । फलमिति वाक्यशेषः । केवलं देशान्तराद् देशान्तरा-
कर्षणम् । न किञ्चिदपूर्वमुत्पद्यत इति । नित्यं प्रसक्तम् अरूपिणां च वेदनादीनाम्।
कथं तद्देशान्तराकर्षणा । अमूर्तत्वेनादेशस्थत्वान्न तद्युज्यत इत्यभिप्रायः ।
यच्च तदाकर्षणम् क्रियासंज्ञकम्, तदभूत्वा भूतमित्यभूत्वा-भावसिद्धिरित्यभि-
प्रायः । स्वभावविशेषणं चेत् । यदि मन्यसे—हेतुना स्वभावोऽस्य फलस्य
१-१. सर्वमेव चास्ति—का०-।
८१८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ अनुशय-
तस्मान्नैवं सर्वास्तिवादः शासने साधुर्भवति यदतीतानागतं द्रव्यतोऽ-
स्तीति वदति ।
एवं तु साधुर्भवति—यथा सूत्रे सर्वमस्तीत्युक्तं तथा वदति । कथं च
सूत्रे सर्वमस्तीत्युक्तम् ? "सर्वमस्तीति ब्राह्मण यावदेव द्वादशायतनानि" इति ।
अध्वत्रयं वा । यथात्र १ तदस्ति तथोक्तम् ।
अथासत्यतीतानागते कथं तेन तस्मिन् वा संयुक्तो भवति ? तज्जतद्धेत्वनुशय-
भावात् क्लेशेन तदालम्बनक्लेशानुशयभावाद् २ वस्तुनि संयुक्तो भवति । अस्त्येव
त्वतीतानागतमिति वैभाषिकाः । यत्र नेतुं शक्यते तत्रात्मकात्मनैवं वेदितव्यम् ।
गम्भीरा खलुधर्मता ॥२७॥
नावश्यं तर्कसाध्या भवतीति । अस्ति पर्यायो यदुत्पद्यते तन्निरुध्यते ।
रूपमुत्पद्यते रूपं निरुध्य
मुत्पद्यते वर्त्तमानं निरुध्यते । अध्वाऽप्युत्पद्यते; उत्पद्यमानस्याध्वसंगृहीतत्वात् ।
अध्वनोऽप्युत्पद्यते; अनेकक्षणिकत्वादनागतस्याध्वनः ॥ २७ ॥
गतमेतत् यत्प्रसङ्गेनागतम् ॥
इदानीमिदं विचार्यते—यद्वस्तु प्रहीणं विसंयुक्तः स तस्मिन् वस्तुनि; यत्र
वा विसंयुक्तः प्रहीणं तस्य तद्वस्त्विति । यत्र तावद्विसंयुक्तः प्रहीणं तस्य
तद्वस्तु । स्यात्तु प्रहीणं न च तत्र विसंयुक्तः, तद्यथा—
प्रहीणे दुःखदृग्ध्येये संयुक्तः शेषसर्वगैः ।
प्राक् प्रहीणे प्रकारे च शेषैस्तद्विषयैर्मलैः ॥ २८ ॥
दुःखज्ञाने समुत्पन्ने समुदयज्ञानेऽनुत्पन्ने दुःखदर्शनप्रहातव्यो निकायः प्रहीणो
भवति । तस्मिन् प्रहीणे तदालम्बनैः समुदयदर्शनप्रहातव्यैः सर्वत्रगैः संयुक्तः ।
भावनाप्रहातव्येऽपि निकाये नवानां प्रकाराणां यः प्रकारः प्राक् प्रहीणस्तस्मिन्
प्रहीणेऽपि शेषैस्तदालम्बनैः क्लेशैः संयुक्तो वेदितव्यः ॥ २८ ॥
कस्मिन् वस्तुनि कत्यनुशया अनुशेरत इति एतत्प्रतिपदमभिधीयमानं बहुतरं
वक्तव्यं जायते, तस्मात् पिण्डविभाषां कुर्वन्ति—कथमल्पेनाल्पेन यत्नेन महतो
महतः प्रश्नौघान् प्रतिपादयेमहीति ? समासतः इमे षोडश धर्माः कामरूपा-
(अभि० को० १.७) इति लक्षणात् । अध्वनोऽप्युत्पादनरूपादुत्पद्यते धर्मः ।
कस्माद् ? इत्याह—अनेकक्षणिकत्वादनागतस्याध्वन इति । यस्मादनेकेषां
क्षणानां राशिरूपाणां कश्चिदेव क्षण उत्पद्यते, अतोऽध्वनोऽप्युत्पद्यते—
इत्युच्यते ॥ २७ ॥
प्रसङ्गेनागतमिति । “शेषैस्तु सर्वैः सर्वत्र” (अभि० को० ५.२४) इति
प्रसङ्गेनागतमतीतानागतविचारणम् ।
यद् वस्तु प्रहीणमित्यादि । इह प्रहाणम्, प्राप्तिविगमात्, विसंयोगः
तदालम्बनक्लेशप्रहाणात्, दर्शनभावनामार्गावधिकृत्य । प्रहीणे दुःखदृग्हेय
इत्यादि । प्राक् प्रहीण इत्यादि । शेषसर्वगैरिति । समुदयदर्शनप्रहातव्यै
सर्वगैः । शेषैस्तद्विषयैर्मलैरिति । प्रहीणप्रकारविषयानुशयैरित्यर्थः । तद्यथा—
अधिमात्राधिमात्रे प्रकारे प्रहीणेऽधिमात्रमध्यादिभिः शेषैरपरीहीणैरनुशयैः
संयुक्तः । तथा हि असावधिमात्राधिमात्रेण प्रहीणेन क्लेशप्रकारेण विसंयुक्तो-
ऽपि संयुक्त एव तैः शेषैरिति ॥ २८ ॥
पिण्डविभाषां कुर्वन्ति । संक्षेपव्याख्यां कुर्वन्तीत्यर्थः । के ? वैभाषिकाः ।
रूप्यावचराः पञ्चप्रकाराः अनास्रवाश्च । चित्तान्यपि षोडश एतान्येव । तत्र
कतमो धर्मः कस्य चित्तस्यालम्बनमिति ज्ञात्वा 'अमुष्मिन्नियन्तोऽनुशया अनुशेरते'
इत्येतदभ्यूहितव्यम् । तत्र तावत् —
दुःखेहेतुदृगभ्यासप्रहेयाः कामधातुजाः ।
स्व*त्र्यैकरूपाप्तामलविज्ञानगोचराः ॥ २९ ॥
स्वकं च तत् त्रयं च स्वकत्रयम्, एकं च तद्रूपाप्तं च एकरूपाप्तम् — एषा
विग्रहजातिः ।
कामावचरास्तावद् दुःखसमुदयदर्शनहेया भावनाहेयाश्च धर्माः पञ्चानां
षोडशेति । कामावचराः पञ्चप्रकाराः—दुःख-समुदय-निरोध-मार्गदर्शनप्रहा-
तव्याः चत्वारः, भावनाप्रहातव्यश्च पञ्चमः । एवं यावद् आरूप्यावचरा पञ्च-
प्रकाराः इति पञ्चदश । अनास्रवश्च षोडश इति षोडश धर्मा । इमे च धर्मा
ये दर्शनप्रहातव्याः, ते चतुःस्कन्धस्वभावाः । ये भावनाप्रहातव्यास्ते पञ्च-
स्कन्धस्वभावाः । कथम् ? या वेदना यैर्दर्शनप्रहातव्यैरनुशयै सम्प्रयुक्ता, स
वेदनास्कन्धः । याः संज्ञाः संज्ञास्कन्धः । येऽनुशयाः, ये च तत्सम्प्रयुक्ताश्चेतना-
दयो यश्चैषां वेदनादीनां सर्वेषां चैतसिकानां प्राप्तयो जाति-जरा-स्थित्य-
नित्याश्च विप्रयुक्ताः, स संस्कारस्कन्धः । यच्चैभिः सम्प्रयुक्तं मनोविज्ञानम्, स
विज्ञानस्कन्धः । इति चतुःस्कन्धस्वभावाः दर्शनप्रहातव्याः । भावनाप्रहातव्याः
पुनरतोऽन्ये सास्रवा धर्माः । कथम् ? बाह्याध्यात्मिकं सर्वं सास्रवं रूपं रूप-
स्कन्धः । अनास्रवदर्शनप्रहातव्यवर्ज्याश्च वेदना-संज्ञा-संस्कार-विज्ञानस्कन्धा
इति पञ्चस्कन्धस्वभावा भावनाप्रहातव्या वेदितव्याः ।
चित्तान्यपि षोडशैतान्येवेति । कामावचरं दुःखदर्शनप्रहातव्यं यावद्
भावनाप्रहातव्यमिति पञ्च चित्तानि । एवं रूपावचराणि अरूपावचराणि च
पञ्च पञ्च, अनास्रवं च चित्तमिति षोडश चित्तानि । तानि तत्षोडशधर्मा-
लम्बनानि वर्ण्यन्ते । अमुष्मिन्नियन्ताऽनुशया इति । अमुष्मिन् धर्मे इयन्तो
ऽनुशयाः, ये तेन चित्तेन सम्प्रयुक्ता आलम्बनतः सम्प्रयोगतो वाऽनुशेरते—
इत्येतदभ्यूहितव्यम् ।
“दुःखेहेतुदृगभ्यासप्रहेयाः कामधातुजाः” इति । दुःखसमुदयदर्शनभावना-
प्रहातव्याः कामावचरा इत्यर्थः ।
एषा विग्रहजातिरिति । स्वकत्रयं चैकरूपाप्तं चामलं च स्वकत्रयैकरूपाप्ता-
मलानि विज्ञानानि । स्वकत्रयैकरूपाप्तामलविज्ञानानि तेषां गोचराः । कामावचरा-
स्तावदिति विस्तरः । कामावचराः दुःखसमुदयदर्शनप्रहातव्या दश-सप्तानुशयाः ।