सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 829, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 829

८१० भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ अनुशय-
नान्यत्,
अतो न भवत्येष दोषः ।
एवं तर्हि स एव
अध्वायॊगः,
यदि धर्म एव कारित्रं कस्मात्स एव धर्मस्तेनैवात्मना विद्यमानः कदाचिदतीत
इत्युच्यते, कदाचिदनागत इत्यध्वनां व्यवस्था न सिध्यति । किमत्र न सिध्यति ?
यो ह्यजातो धर्मः सोऽनागतः, यो जातो भवति न च विनष्टः स वर्त्तमानः,
यो विनष्टः सोऽतीत इति । एतदेवात्र वक्तव्यम्-यदि यथा वर्त्तमानं द्रव्यतो-
ऽस्ति तथाऽतीतमनागतं चास्ति । तस्य
तथा सतः ।
अजातनष्टता केन ?
तेनैव स्वभावेन सतो धर्मस्य कथमिदं सिध्यत्यजात इति यो विनष्ट इति वेति ।
किमस्य पूर्वं नासीद् यस्याभावादजात इत्युच्यते ! किं च पश्चान्नास्ति यस्याभावाद्
विनष्ट इत्युच्यते ! तस्मान्न सिध्यति सर्वथाप्यत्राध्वत्रयम्, यद्यभूत्वा भवतीति
नेष्यते भूत्वा च पुनर्न भवतीति । यदप्युक्तम्-"संस्कृतलक्षणयोगान्न शाश्वतत्व-
प्रसङ्गः" इति । तदिदं केवलं वाङ्मात्रमुत्पादविनाशयोरयोगात् । नित्यं च नामास्ति
स धर्मो न च नित्य इत्यपूर्वैषा वाचोयुक्तिः । आह खल्वपि-
प्रसङ्गोऽसंस्कृतत्वप्रसङ्गो वा । यदि धर्मात् कारित्रमन्यत् स्यात् ? तत्तु खलु
नान्यदिति । नैष दोषः ।
तेनैवात्मनेति । यः प्रत्युत्पन्नस्य स्वभावस्तेनेत्यर्थः ।
किमस्य पूर्वं नासीदित्यनागतावस्थायां यदि कारित्रम्, अनन्यत्वाद्धर्म एव
नासीदित्युक्तं भवेत् । किञ्च पश्चान्नासीदित्यतीतावस्थायां यदि कारित्रम्, धर्म एव
नासीदित्युक्तं भवेत्; धर्मकारित्रयोरनन्यत्वात् । यद्यभूत्वा भवतीति नेष्यते,
प्रत्युत्पन्नो न सिद्धयति । भूत्वा च पुनर्नभवतीति यदि नेष्यते, अतीतोऽध्वा
न सिद्धयति । अनागतस्तु यो न तावदभूत्वा भवतीत्यर्थाद् गम्यते । एवं
अध्वत्रयं सिद्धयति, अतोऽन्यथा न सिद्धयतीति वाक्यार्थः ।
उत्पादविनाशयोरयोगादिति । सर्वकालास्तित्वादुत्पादविनाशयोरयोगः,
तस्माद् वाङ्मात्रमेतत्-संस्कृतलक्षणयोगान्न शाश्वतत्वप्रसङ्ग इति । अपूर्वैषा