सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 834, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 834

निर्देशः ] पञ्चमं कोशस्थानम् ८१५
विस्तरः । अपरमाणुसंचितानां वेदनादीनां कथं विप्रकीर्णत्वम्¹ । तेऽपि च यथो-
त्पन्नानुभूताः स्मर्यन्ते । यदि च ते तथैव सन्ति, नित्याः प्राप्नुवन्ति । अथ न
सन्ति, असदप्यालम्वनमिति सिद्धम् । यद्यसदप्यालम्वनं स्यात्, त्रयोदशमप्या-
लम्वनायतनं² स्यात् ।
अथ त्रयोदशमायतनं नास्तीत्यस्य विज्ञानस्य किमालम्बनम् ? एतदेव
नामालम्बनम् । एवं तर्हि नाम एव नास्तीति प्रतीयते । यश्च शब्दस्य प्राग-
भावमालम्बते किं तस्यालम्बनम् ? शब्द एव । एवं तर्हि यः शब्दाभावं प्रार्थयते
तस्य शब्द एव कर्तव्यः स्यात् । अनागतावस्थ इति चेत् ? सति कथं नास्ति-
बुद्धिः । वर्तमानो नास्तीति चेत् ? न; एकत्वात् । यो³ वा³ तस्य विशेषस्तस्या-
भूत्वाभावसिद्धिः । तस्मादुभयं विज्ञानस्यालम्बनम्—भावश्च, अभावश्च ।
विप्रकीर्णसञ्चितत्वाभ्युपगमात् । अपरमाणुसञ्चितानामिति । वेदनादीनामपर-
माण्वात्मनां कथं विप्रकीर्णत्वम् ? मूर्तानां हि सञ्चितत्वं विप्रकीर्णत्वं वा अभवत्
भवेत् , नामूर्तानाम् । तेऽपि च यथोत्पन्नानुभूताः स्मर्यन्ते इति । वर्तमानरूपा
एव स्मर्यन्ते । यदि च ते तथैव सन्ति यथा वर्तमानाः, नित्याः प्राप्नुवन्ति ।
अथ न सन्ति तद्रूपाः, असदप्यालम्बनमिति सिद्धम् ।
त्रयोदशमप्यायतनमालम्बनं स्यादिति । त्रयोदशानामायतनानां पूरणं
त्रयोदशमायतनम् । तद्विज्ञानस्यालम्बनं स्यात् । असदालम्बनत्व इष्यमाणे
तदालम्बनं वा विज्ञानं स्यात् । एवं वैभाषिकेनोक्ते आचार्य आह—अथ त्रयोदश-
मिति विस्तरः । एतदेव नामेति वैभाषिकः । यदेतन्नाम त्रयोदशमायतनमिति
तदालम्बनम् । एवं तर्हि नामैव नास्तीति प्रतीयते । नाभिधेयं त्रयोदशायतना-
भावलक्षणम् । किञ्च यश्च शब्दस्य प्रागभावमालम्बते, किं तस्यालम्बनम् ।
भवतीति वाक्यशेषः । एवं प्रकृते वैभाषिक आह—शब्द एव । आलम्बनमिति
प्रकृतम् । एवं तर्हीति विस्तरेणाचार्यः । यः शब्दस्य प्रागभावमालम्बते, शब्द
एव तेनालम्बितो भवति, न प्रागभावः । प्राप्तमिदं भवति—यः शब्दाभावं
प्रार्थयते, तस्य शब्द एव कर्तव्यः स्यादिति । अनागतावस्था इति चेत् ।
स्यान्मतम्—यस्यासौ प्रागभावः, सोऽनागतावस्थस्तेनालम्ब्यते । तस्माद् यः
शब्दाभावं प्रार्थयते, तस्य न शब्द एव कर्तव्यः स्यादिति । तदुच्यते—सति
कथं नास्तीति बुद्धिरिति । विद्यमाने तस्मिन् शब्दे यस्यासौ प्रागभावः कथमस्य
नास्तिबुद्धिः, या प्रागभावमालम्बते । वर्तमानो नास्तीति चेत् । तत्रैतत् स्यात्—
१. विकीर्णत्वम्—का० । २. ॰मप्यायतनं—का० । ३-३. यावता—का० ।