सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 839, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 839

रूप्यावचराः पञ्चप्रकाराः अनास्रवाश्च । चित्तान्यपि षोडश एतान्येव । तत्र
कतमो धर्मः कस्य चित्तस्यालम्बनमिति ज्ञात्वा 'अमुष्मिन्नियन्तोऽनुशया अनुशेरते'
इत्येतदभ्यूहितव्यम् । तत्र तावत् —
दुःखेहेतुदृगभ्यासप्रहेयाः कामधातुजाः ।
स्व*त्र्यैकरूपाप्तामलविज्ञानगोचराः ॥ २९ ॥
स्वकं च तत् त्रयं च स्वकत्रयम्, एकं च तद्रूपाप्तं च एकरूपाप्तम् — एषा
विग्रहजातिः ।
कामावचरास्तावद् दुःखसमुदयदर्शनहेया भावनाहेयाश्च धर्माः पञ्चानां
षोडशेति । कामावचराः पञ्चप्रकाराः—दुःख-समुदय-निरोध-मार्गदर्शनप्रहा-
तव्याः चत्वारः, भावनाप्रहातव्यश्च पञ्चमः । एवं यावद् आरूप्यावचरा पञ्च-
प्रकाराः इति पञ्चदश । अनास्रवश्च षोडश इति षोडश धर्मा । इमे च धर्मा
ये दर्शनप्रहातव्याः, ते चतुःस्कन्धस्वभावाः । ये भावनाप्रहातव्यास्ते पञ्च-
स्कन्धस्वभावाः । कथम् ? या वेदना यैर्दर्शनप्रहातव्यैरनुशयै सम्प्रयुक्ता, स
वेदनास्कन्धः । याः संज्ञाः संज्ञास्कन्धः । येऽनुशयाः, ये च तत्सम्प्रयुक्ताश्चेतना-
दयो यश्चैषां वेदनादीनां सर्वेषां चैतसिकानां प्राप्तयो जाति-जरा-स्थित्य-
नित्याश्च विप्रयुक्ताः, स संस्कारस्कन्धः । यच्चैभिः सम्प्रयुक्तं मनोविज्ञानम्, स
विज्ञानस्कन्धः । इति चतुःस्कन्धस्वभावाः दर्शनप्रहातव्याः । भावनाप्रहातव्याः
पुनरतोऽन्ये सास्रवा धर्माः । कथम् ? बाह्याध्यात्मिकं सर्वं सास्रवं रूपं रूप-
स्कन्धः । अनास्रवदर्शनप्रहातव्यवर्ज्याश्च वेदना-संज्ञा-संस्कार-विज्ञानस्कन्धा
इति पञ्चस्कन्धस्वभावा भावनाप्रहातव्या वेदितव्याः ।
चित्तान्यपि षोडशैतान्येवेति । कामावचरं दुःखदर्शनप्रहातव्यं यावद्
भावनाप्रहातव्यमिति पञ्च चित्तानि । एवं रूपावचराणि अरूपावचराणि च
पञ्च पञ्च, अनास्रवं च चित्तमिति षोडश चित्तानि । तानि तत्षोडशधर्मा-
लम्बनानि वर्ण्यन्ते । अमुष्मिन्नियन्ताऽनुशया इति । अमुष्मिन् धर्मे इयन्तो
ऽनुशयाः, ये तेन चित्तेन सम्प्रयुक्ता आलम्बनतः सम्प्रयोगतो वाऽनुशेरते—
इत्येतदभ्यूहितव्यम् ।
“दुःखेहेतुदृगभ्यासप्रहेयाः कामधातुजाः” इति । दुःखसमुदयदर्शनभावना-
प्रहातव्याः कामावचरा इत्यर्थः ।
एषा विग्रहजातिरिति । स्वकत्रयं चैकरूपाप्तं चामलं च स्वकत्रयैकरूपाप्ता-
मलानि विज्ञानानि । स्वकत्रयैकरूपाप्तामलविज्ञानानि तेषां गोचराः । कामावचरा-
स्तावदिति विस्तरः । कामावचराः दुःखसमुदयदर्शनप्रहातव्या दश-सप्तानुशयाः ।