सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 836, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 836

निर्देशः ] पञ्चमं कोशस्थानम् ८१७
यदप्युक्तम्—फलादिति। नैव हि सौत्रान्तिका अतीतात् कर्मणः फलोत्पत्तिं
वर्णयन्ति। किं तर्हि ? तत्पूर्वकात् सन्तानविशेषादित्यात्मवादप्रतिषेधे सम्प्रवेद्-
यिष्यामः ।
यस्य त्वतीतानागतं द्रव्यतोऽस्ति तस्य फलं नित्यमेवास्तीति किं तत्र
कर्मणः सामर्थ्यम् ? उत्पादने सामर्थ्यम् । उत्पादस्तर्ह्यभूत्वा भवतीति सिद्धम् ।
अथ सर्वमेवास्ति¹, कस्येदानीं क्व सामर्थ्यम् ? वार्षगण्यवादश्चैवं द्योतितो
भवति—"यदस्त्यस्येव तत् । यन्नास्ति नास्त्येव तत् । असतो नास्ति सम्भवः,
सतो नास्ति विनाशः" इति । वर्तमानीकरणे तर्हि सामर्थ्यम् । किमिदं वर्त्तमानी-
करणं नाम ? देशान्तराकर्षणं चेत्, नित्यं प्रसक्तम् । अरूपिणां च कथ तत् ?
यच्च तदाकर्षणं तदभूत्वाभूतम् । स्वभावविशेषणं चेत्, सिद्धमभूत्वा-
भवनम् ।
सच्च वस्तु सत्त्वतः परैष्यति, ज्ञास्यति; असच्चासत्त्वत इत्यसद्दालम्बना
बुद्धय इति सिद्धम् । 'सद्भूतम्' इत्यादि । यदेतद् बोधिसत्त्वेनोक्तमिति ।
तत्पूर्वकादिति । कर्मपूर्वकात् चित्तसन्तानविशेषात् । आत्मवादप्रतिषेध
इति । शास्त्रस्याने वात्सीपुत्रीयमतप्रतिषेधे । उत्पादस्तर्हि अभूत्वा भवतीति ।
उत्पादः पूर्वं नास्ति, इदानीं भवतीति सिद्धोऽपूर्वप्रादुर्भावः । उत्पादस्योत्पाद-
वता सह तुल्यवातेत्त्वात् । अथ सर्व एवास्तीति । उत्पादोऽपि यद्यस्ति, न
केवलं हेतुः, अनागतं च फलमित्यभिप्राय । कस्येदानीं क्व सामर्थ्यमिति । कस्य
हेतोः क्व फले सामर्थ्यम् । हेतुश्च यथोक्त उत्पादं फलं चानागतमस्तीति ।
वर्तमानीकरण इति वैभाषिकः । किमिदानीं वर्तमानीकरणमिति विस्तरेणाचार्यः ।
नोत्पादो वर्तमानीकरणम्; तस्य वर्तमानत्वात् । अत एवं पृच्छति । देशान्तरा-
कर्षणं चेत् । यदि मन्यसे—हेतुना फलस्य देशान्तराकर्षणं वर्तमानीकरणमिति ?
अत्र ब्रूमः—नित्यं प्रसक्तम् । फलमिति वाक्यशेषः । केवलं देशान्तराद् देशान्तरा-
कर्षणम् । न किञ्चिदपूर्वमुत्पद्यत इति । नित्यं प्रसक्तम् अरूपिणां च वेदनादीनाम्।
कथं तद्देशान्तराकर्षणा । अमूर्तत्वेनादेशस्थत्वान्न तद्युज्यत इत्यभिप्रायः ।
यच्च तदाकर्षणम् क्रियासंज्ञकम्, तदभूत्वा भूतमित्यभूत्वा-भावसिद्धिरित्यभि-
प्रायः । स्वभावविशेषणं चेत् । यदि मन्यसे—हेतुना स्वभावोऽस्य फलस्य
१-१. सर्वमेव चास्ति—का०-।