सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 835, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 835

१६ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ अनुशय-
यत्तर्हि बोधिसत्त्वेनोक्तम्—"यल्लोके¹ नास्ति तदहं ज्ञास्यामि वा द्रक्ष्यामि
वा नेतं स्थानं विद्यते" इति । अपरे आभिमानिका भवन्त्यसन्तमप्यवभासं सन्तं
पश्यन्ति । अहं तु सन्तमेवास्तीति पश्यामीत्यर्थं तत्राभिप्रायः । इतरथा हि सर्व-
बुद्धीनां सदालम्बनत्वे कुतोऽस्य विमर्शः स्यात्, को वा विशेषः ! इत्थं चैतदेवम् ।
यदन्यत्र भगवतोक्तम्--"एतत् भिक्षुमम श्रावको यावत्स मया कल्प-
मवोदितः सार्थं विशेषाय परैष्यति । सायमवोदितः कल्पं विशेषाय परैष्यति ।
सच्च सतो ज्ञास्यति, असच्चासतः, सोत्तरं च सोत्तरतः, अनुत्तरं चानुत्तरतः"
इति । तस्मादयमप्यहेतुः, सदालम्बनत्वाद् विज्ञानस्येति ।
वर्तमानो नास्तीत्येवं तदालम्बनात् नास्तिबुद्धिस्तस्योत्पद्यत इति । न, एकत्वात् ।
यदेव तदनागतम् तदेव वर्तमानं भवति, न तस्मादन्यदिति व्यर्थं तस्मिन्नेव
वर्तमाने नास्तिबुद्धिरुत्पद्यते । यो वा तस्य विशेषः । यो वा तस्यानागतस्य
पश्चाद्विशेषो वर्तमानावस्थायां भवति, तत्र विशेषे वर्तमानो नास्तीति तद्बुद्धि-
रुत्पद्यते । तस्याभूत्वाभावसिद्धिः । तस्य विशेषस्याभूत्वा पूर्वं पश्चाद् भावः,
तस्य सिद्धिरिति । भावश्चाभावश्चेति। भावो वर्तमानावस्थायाम , अभावोऽतीता-
नागतावस्थयोः । इति विज्ञानस्योभयमालम्बनं भवति ।
यद्यभावो विज्ञानस्या लम्बनम्, यत्तर्हीति विस्तरः। बोधिसत्त्वेन चरम-
भविकेनैवमुक्तम्—'यल्लोकेनास्ति, तञ्ज्ञास्यामीत्येष सम्भवो नास्ति" इति
वचनात् अभावालम्बनं न भवतीति दर्शितं भवति ।
आचार्योऽन्याभिप्रायतामस्य सूत्रस्य दर्शयन्नाह -- अपरे आभिमानिका इति
विस्तरः। अपरिशुद्धसमाधयोऽपरे आभिमानिका भवन्ति । असन्तमप्यवभासम् ।
दिव्यचक्षुरवभासम् प्रयोगावस्थायां सन्तमित्येव पश्यन्ति । अहं तु सन्तमेवाव-
भासं पूर्वरूपं दिव्यचक्षुषोऽस्तीति पश्यामीति अयं तत्र सूत्रेऽभिप्रायः ।
कुतोऽस्य विमर्श इति । सर्वबुद्धीनां सद्विषयत्वे व्यवस्थाप्यमाने कुतोऽस्य विमर्शः
विचारः सन्देहो वा स्यात् यदुत लोके नास्तीति विस्तरेण य उक्तः । सद्सदा-
लम्बने तु बुद्धीनामयं विमर्शः सम्भवति, नान्यथा । को वा विशेष इति । को वा
बोधिसत्त्वस्यान्येभ्यो विशेषो यदि तेऽपि सन्तमेवावभासं पश्यन्ति, नासन्तम् ।
सदसदालम्बनत्वे हि बुद्धीनामयं विशेषो भवति । इत्थं चैतदेवं सत् । असदा-
लम्बना बुद्धय इति । सच्च सतो ज्ञास्यति, असच्चासत इतिदमत्रोदाहरणम् ।
१. यत्तत् लोके—का० ।