सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 828, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 828

निर्देशः ] पञ्चमं कोशस्थानम् ८७९
इदं च वक्तव्यम्—तेनैवात्मना सतो धर्मस्य नित्यं कारित्रकरणे
किं विघ्नम् ?
येन कदाचित् कारित्रं करोति कदाचिन्नेति । प्रत्ययानामसामग्र्यमिति चेत् ?
न; नित्यमस्तित्वाभ्युपगमात् । यच्च तत् कारित्रमतीतानागतं प्रत्युत्पन्नं चोच्यते
तत् कथम् ?
किं कारित्रस्याप्यन्यदस्ति कारित्रम् ! अथ तन्नैवातीतं नाप्यनागतं न
प्रत्युत्पन्नमस्ति च । तेनासंस्कृतत्वान्नित्यमस्तीति प्राप्तम् । अतो न वक्तव्यम्—
यदा कारित्रं न करोति धर्मस्तदानागत इति ।
स्यादेष दोषो यदि धर्मात् कारित्रमन्यत् स्यात् , तच्च खलु—
ब्रूयास्त्वम्—'येषां फलपरिग्रहः, फलदानं चोभयमस्ति, ते वर्तमानाः; येषां
त्वेकतरम्, न ते वर्तमानाः' इति, तत इदमुच्यते--'अर्धकारित्रस्य वेति । प्रसङ्ग
इत्यधिकृतम् । अर्धकारित्रस्य वा प्रसङ्गः । अर्धवर्तमाना इति वा तेऽतीताः
प्रसज्यन्ते । उपरतफलपरिग्रहकारित्रत्वाद्वि तेऽतीत लक्षणयुक्ता, वर्तमानफलदान-
कारित्रत्वाच्च वर्तमानलक्षणयुक्ता इति स एव लक्षणसङ्करदोषः । एतद्ध्यतीता-
दीनामध्वनां लक्षणमिष्टम्—उपरतकारित्रमतीतम्, अप्राप्तकारित्रमनागतम्,
प्रत्युत्पन्नकारित्रं वर्तमानमिति ॥ २६ ॥
किं विघ्नमिति । नपुंसकलिङ्गमेतच्छब्दरूपम् । को विबन्ध इत्यर्थः । को
विघ्नोऽस्येति किंविघ्नं कारित्रमित्यपरे । प्रत्ययानामसामग्र्यमिति चेत् । तन्न तत्
स्यात्—प्रत्ययानां हेतुसमनन्तरादीनामसामग्र्यम्, अतो न सर्वदा कारित्रं
करोति । न, नित्यमस्तित्वाभ्युपगमात् । न प्रत्ययानामसामग्र्यं कल्पयितुं युज्यते;
यस्मादिह भवद्भिर्नित्यं प्रत्ययानामस्तित्वमभ्युपगम्यते; सतामविनाशात् ।
यच्च तत्कारित्रमतीतमिति विस्तरः । यच्च कारित्रमतीतमुच्यते, अनागतं
प्रत्युत्पन्नमिति चोच्यते; सिद्धान्ते 'उपरतकारित्रमतीतम्' इत्येवमादिवचनात् ।
किं कारित्रस्याप्यन्यत् कारित्रमस्ति; यतस्तस्यातीतादित्वं कथ्यते ? यद्यस्ति,
अनवस्थाप्रसङ्गः । न चेदस्ति, यथानागतादित्वं कारित्रस्य स्वरूपसत्तापेक्षया,
एवं भावानामप्यनागतादित्वं भविष्यति, किं कारित्रकल्पनया ! कथं तदतीत-
मित्यादि ! अथ तन्नैवातीतमिति विस्तरः । यन्नैवातीतं, नाप्यनागतम्,
न प्रत्युत्पन्नम्, तदसंस्कृतमिति असंस्कृतत्वान्नित्यमस्तीति प्राप्तम् । न करोति
धर्मस्तदानागत इति । कारित्रस्य कर्तुमशक्यत्वप्राप्तेः ।
स्यादेष दोष इति विस्तरः । स्यादेष दोषः कारित्रस्यान्यत् कारित्रमित्यादि-