सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पञ्चाष्टाभिरपि स्यात्, कुशले मनोविज्ञाने द्विपञ्चाङ्गसमादाने युगपत् ॥ ८१ ॥
कस्यां गतौ कति कर्मपथा अकुशलाः कुशला वा सम्मुखीभावतः,
समन्वागमतो वा ?
सम्भिन्नालापपारुष्यव्यापादा¹ नरके द्विधा ।
इत्येते त्रयः कर्मपथा नरके द्वाभ्यां सप्रकाराभ्यां सन्ति—सम्मुखीभावतः,
समन्वागमभावतश्च । परिवेदनात् सम्भिन्नप्रलापः । परस्परपरितापनात् पारुष्यं
रूक्षसन्तानतया । परस्परद्वेषाद् व्यापादः ।
समन्वागमतोऽभिध्यामिथ्यादृष्टी,
न सम्मुखीभावतः । रञ्जनीयवस्त्वभावात्, कर्मफलप्रत्यक्षत्वाच्च । कर्मक्षयेण
मरणान्न प्राणातिपातः, द्रव्यस्त्रीपरिग्रहाभावान्नादत्तादानकाममिथ्याचारौ, प्रयोजन-
भावान्न मृषावादः । अत एव न पैशुन्यम्; नित्यभिन्नत्वाच्च ।
कुरौ त्रयः ॥ ८२ ॥
'समन्वागमतः' इति वर्तते । अभिध्याव्यापादमिथ्यादृष्टयो न सम्मुखीभावतः ।
अममपरिग्रहत्वात्² स्निग्धसन्तानत्वादाघातवस्त्वभावादपापाशयत्वाच्च ॥ ८२ ॥
चित्तस्य । क्लिष्टाव्याकृतचित्तस्येत्यर्थः । एकाङ्गविरतिसमादाने । प्राणातिपाता-
ङ्गविरतेः, अदत्तादानविरतेर्वा समादाने । तेनैकेन कर्मपथेन सह वर्तते । पञ्चाष्टा-
भिरपीति । कुशलमनोविज्ञानस्य पुद्गलस्य द्वयङ्गसमादाने युगपन्मानसैस्त्रिभिः ।
रूपिभ्यां द्वाभ्यामिति पञ्चभिः । पञ्चाङ्गसमादाने । युगपत्तैश्च रूपिभिः पञ्चभिः ।
मानसेश्च त्रिभिरित्यष्टाभिः । उदाहरणरूपं चेतदुक्तम् । अतोऽन्यथापि शक्यते
वक्तुम्—क्लिष्टाव्याकृतचित्तस्य संवरासंगृहीतपञ्चाङ्गसमादाने पञ्चभिः सह
वर्तते इति ॥ ८१ ॥
रञ्जनीयवस्त्वभावादिति । नरके रञ्जनीयवस्त्वभावात् न सम्मुखीभावतोऽ-
भिध्यास्ति । कर्मफलप्रत्यक्षत्वाच्च न मिथ्यादृष्टिः । अत एवेति । प्रयोजनाभा-
वान्न पैशुन्यम् । नित्यभिन्नत्वाच्च । अन्योन्यसौहार्दाद्यभावतः ।
अममपरिग्रहत्वान्न कुरौ सम्मुखीभावतोऽस्त्यभिध्याकर्मपथः । स्निग्ध-
सन्तानत्वादाघातवस्त्वभावाच्च न व्यापादः । अपापाशयत्वाच्च न मिथ्यादृष्टिः ।
त्रयोऽप्येतेऽभिध्यादयो न सन्ति ॥ ८२ ॥
१. भिन्नप्रला०—का० । २. अममा०—का० ।

निर्देशः ] चतुर्थे कोशस्थानम् ७०१
सप्तमः स्वयमप्यत्र,
असम्भिन्नप्रलापः सम्मुखीभावतोऽप्यास्त । ते हि क्लिष्टचित्ताः कदाचिद्
गायन्ति । अपापाशयत्वात् न प्राणातिपातादयः । नियतायुष्कत्वाद्, द्रव्यस्त्रीपरि-
ग्रहाभावात्, प्रयोजनाभावाच्च ।
कथमेषामब्रह्मचर्यम् ? ते खलु यया स्त्रिया सार्धं रन्तुकामा भवन्ति तां बाहौ
गृहीत्वा वृक्षमूलमुपसर्पन्ति । गम्या चेद्, वृक्षश्छादयतितां ते गच्छन्ति । अगम्या
चेन्न छादयति, तां ते न गच्छन्ति ॥
कामेऽन्यत्र दशाशुभाः ।
‘स्वयमपि’ इति वर्तते : नरकोत्तरकुरुभ्यामन्यत्र कामधातौ दशाकुशलाः
कर्मपथाः सम्मुखीभावतोऽपि विद्यन्ते । तिर्यक्प्रेतदेवेष्वसंवरनिर्मुक्ताः । मनुष्येष्व-
संवरसंगृहीता अपि ।
यद्यपि देवो देवं न मारयति, अन्यगतिस्थं तु मारयति ।
देवा अपि शिरोमध्यच्छेदाद् म्रियन्त इत्यपरे ।
उक्ता अशुभाः ॥
शुभास्त्रयस्तु सर्वत्र सम्मुखीभावलाभतः ॥ ८३ ॥
पञ्चसु गतिषु त्रैधातुके सर्वत्रानभिध्याऽव्यापादसम्यग्दृष्टयः सम्मुखीभावतः
समन्वागमतश्च विद्यन्ते ॥ ८३ ॥
“स्वयमपि” इति । अस्य सम्मुखीभावत इति व्याख्यानम् । अपापाशयत्वान्न
प्राणातिपातादयः । षडपि सम्मुखीभावतः सन्ति । नियतायुष्कत्वात् न प्राणाति-
पातः । द्रव्यस्त्रीपरिग्रहाभावाद् यथाक्रमं नादत्तादानम्, काममिथ्याचारश्च ।
प्रयोजनाभावाच्च न मृषावादपैशुन्यपारुष्याणि ।
यदि परिग्रहो नास्ति कथमेषामब्रह्मचर्यमिति पृच्छति ।
संवरनिर्मुक्ता इति । नैवसंवरसंगृहीता इत्यर्थः । अन्यगतिस्थं तु मारयतीति ।
प्रेतादिगतिस्थम् ।
देवा अपि शिरोमध्यच्छेदान्म्रियन्त इति । शिरश्छेदान्मध्यच्छेदाद् देवा अपि
म्रियन्ते । ‘देवो देवं न मारयति’ इत्युक्ते अवध्या देवा इत्यभिप्रेतम् । देवानां
ह्यङ्गप्रत्यङ्गानि छिन्नानि छिन्नानि पुनर्जायन्ते । यद्यप्येवम्, तथापि शिरोमध्य-
च्छेदाच्छिरश्छेदान्मध्यच्छेदाच्च न पुनः प्रतिसन्धानमित्यस्ति देवानां वधः
इत्यभिप्रायः ॥ ८३ ॥

Here is the line-by-line transcription of the Sanskrit text from the image:

७१० भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ कर्म-
आरूप्यासज्ञिसत्त्वेषु लाभतः सप्त,
कायिकवाचिकाः सप्त कुशला आरूप्येष्वसंज्ञिसत्त्वेषु समन्वार्गमत एव ।
आरूप्योपपन्नानामार्याणामतीतानागतानास्रवसंवरसमन्वागमात् । असंज्ञिसत्त्वानां
च ध्यानसंवरसमन्वागमात् ।
यद्भूभ्याश्रयमार्येणानास्रवं शीलमुत्पादितं निरोधितं भवति, तेनारूप्येष्व-
तीतेन समन्वागतो भवति । पञ्चभूम्याश्रयेण त्वनागतेन ।
शेषिते ।
सम्मुखीभावतश्चापि हित्वा सनरकान् कुरून् ॥ ८४ ॥
शेषः कृतः शेषिता । योऽन्यो धातुः शेषिता गतिर्वा, तत्रैते सप्त कुशलाः
कर्मपथाः सम्मुखीभावतोऽपि संविद्यन्ते, अन्यत्र नरकोत्तरकुरुभ्यः । ते पुन-
स्तिर्यक्प्रेतेषु संवरनिर्मुक्ता रूपधातौ तु संवरसंगृहीताः, अन्यत्रोभयथा ॥ ८४ ॥
त एते दशाकुशलाः कर्मपथाः कुशलाश्च
सर्वैर्धिपतिनिष्यन्दविपाकफलदा मताः ।
अकुशलैस्तावत् सर्वैरेवासेवितभावितबहुलीकृतैः नरकेषूपपद्यते । तदेषां
विपाकफलम् । स चेद्दित्यन्त्वमागच्छति मनुष्याणां सभागतां प्राणातिपातेनाल्पा-
युर्भवति, अदत्तादानेन भोगव्यसनी भवति, काममिथ्याचारेण ससपत्नदारः,
मृषावादेनाभ्याख्यानबहुलः, पैशुन्येन मित्रभेदोऽस्य भवति, पारुष्येणामनोज्ञ-
यद्भूभ्याश्रयमिति विस्तरः । पञ्च भूमयो यावच्चतुर्थध्यानभूमिः । यद् भूमि-
राश्रयोऽस्येति यद्भूभ्याश्रयम् । अनास्रवं शीलमार्येणोत्पादितं निरोधितम् ।
उत्पादितं वर्तमानमध्वानं गमितम् । निरोधितमतीतमध्वानं गमितम् । एक-
भूम्याश्रयं यावच्चतुर्भूभ्याश्रयं वा । तेनारूप्येष्वतीतेन समन्वागतो भवति । पञ्च-
भूम्याश्रयेण त्वनागतेन । कामावचराश्रयेण यावच्चतुर्थध्यानाश्रयेण च । यत्रोप-
पन्नो यत्र वा नोपपन्नस्तदाश्रयेण ।
अन्यत्र नरकोत्तरकुरुभ्य इति । तत्र समादानशीलाभावात् । अन्यत्रोभयथेति ।
अन्यत्र कामधातौ देवेषूत्तरकुरुवर्ज्येषु च मनुष्येषु उभयथा—संवरनिर्मुक्ताः,
संवरगृहीताश्च । त्रिविधः संवरः—प्रातिमोक्षसंवरः, ध्यानसंवरः, अनास्रव-
संवरश्च यथासम्भवं ग्रहीतव्यः ॥ ८४ ॥
आसेवितभावितबहुलीकृतैरिति । प्रयोग-मौल-पृष्ठावस्थासु ।

'निर्देशः ] चतुर्थं कोशस्थानम् ७११
शब्दश्रवणम्, सम्भिन्नप्रलापेनानादेयवाक्यः, अभिध्यया तीव्ररागः, व्यापादेन
तीव्रद्वेषः, मिथ्यादृष्ट्या तीव्रमोहः । तस्या मोहभूयस्त्वात् । इदमेषां
निःष्यन्दफलम् ।
अल्पमप्यायुर्मनुष्येषु कुशलफलम् । तत् कथं प्राणातिपातस्य निःष्यन्दफलं
भवति ? नोच्यते तदेवायुस्तस्य फलम्, किं तर्हि ? तेनाल्पायुर्भवतीति । अतो-
ऽन्तरायहेतुः प्राणातिपातस्तस्यायुषो भवतीति वेदितव्यम् । प्राणातिपातेनात्या-
सेवितेन बाह्या भावा अल्पौजसो भवन्ति । अदत्तदानेनाशनिरजोबहुलाः,
काममिथ्याचारेण रजोऽवकीर्णाः, मृषावादेन दुर्गन्धाः, पैशुन्येनोत्कूलनिकूलाः,
पारुष्येणोषरजङ्गला प्रतिकृष्टाः पापभूमयः, सम्भिन्नप्रलापे विषमर्तुपरिणामाः,
अभिध्यया शुष्कफलाः, व्यापादेन कटुकफलाः, मिथ्यादृष्ट्या अल्पफला अफला
वा । इदमाधिपत्यफलम् ।
किं तेनैव कर्मणायमिहाल्पायुर्भवति, अथान्येन ? तेनैवेत्येके । तद् विपाक-
फलम्, इदं निष्यन्दफलमिति ।
तत्र प्रयोगेनेह मौलेनेत्येके ।
किं तर्हि । तेनाल्पायुर्भवतीति । आयुषोऽल्पत्वात् निष्यन्दफलमिति दर्शयति ।
बाह्या भावाः । ओषधिभूम्यादयः । अल्पौजसः अल्पवीर्याः । अशनिरजोबहुला
इति । अशनिः शिलावर्षम् । रजो धूलिवृष्टिः, क्षारवृष्टिर्वा, यतः शस्यादिविनाशः ।
रजोऽवकीर्णा इति । धूलिव्युत्थिताः । उत्कूलनिकूलाः । उन्नतनिम्नाः । उषरजङ्गलाः ।
ऊषराश्च जङ्गलाश्च ते । बाह्या भावा इत्यधिकृताः । ता भूमय इहाभिप्रेताः ।
प्रतिकृष्टा विगर्हिताः । विषमर्तुपरिणामा इति । विषम ऋतुपरिणाम एषामिति
विषमर्तुपरिणामाः शस्यादय ओषधयः । यस्मिन्नृतौ वर्षितव्यं तत्र न वर्षति,
यस्मिन् शीतेन भवितव्यं तस्मिन् न शीतम्, यस्मिन्नुष्णेन भवितव्यं तन्न तन्न
भवतीति योज्यम् ।
तद्विपाकफलमिति सत्त्वसन्ताने । इदं निष्यन्दफलमिति । बाह्यं तद्वस्त्विति
न तद्विपाकफलम् ।
तत्र प्रयोगेनेति विस्तरः । नरके प्राणातिपातप्रयोगेण तीव्रं दुःखमनुभवति ।
प्राणातिपातप्रयोगेण हि वध्यस्य प्राणिनोऽतीव-तीव्रं दुःखं भवति । इह मौलेना-
ल्पायुर्भवति । यथा तस्य वध्यस्य प्राणिन आयुरुपद्रूत इति, तादृशमेवैतत् ।

७१२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ कर्म-

परे सपरिवारग्रहणात्तु प्राणातिपातेनेत्युक्तमिति ।
यदप्येतन्निष्यन्दफलमुक्तं नैतद् द्वयमतिवर्तते—विपाकफलमधिपतिफलं च ।
सादृश्यविशेषात्तु तथोक्तम् ।
किं पुनः कारणमेषां कर्मपथानामेतत् त्रिविधफलमभिनिर्वर्तते ? प्राणातिपातं
हि तावत् कुर्वता मार्यमाणस्य दुःखमुत्पादितम्, मारितम्, ओजो नाशितम्,
अतोऽस्य
दुःखान्मारणादोजोनाशनात् त्रिविधं फलम् ॥ ८५ ॥
परस्य दुःखनाद् विपाकफलेन नरके दुःखितो भवति । मारणान्निष्यन्द-
फलमल्पायुर्भवति । ओजोनाशनादधिपतिफलेनाल्पौजसो बाह्या ओषधयो
भवन्ति । एवमन्येष्वपि योज्यम् ।
क्षणिको हि मौलः कर्मपथः । तत्र च न दुःखा वेदनास्तीति युक्तमिह मौलेनेति
वक्तुम् ? आह—यदि तत्र प्रयोगेणेह मौलेन, कस्मादेवमुक्तम्—प्राणातिपातेना-
सेवितेन भावितेन बहुलीकृतेन नरकेषूपपद्यते, प्राणातिपातेन मौलेनेति सूत्रार्थं
पश्यन्नेवं पृच्छति । सपरिवारग्रहणादिति । मौल एव प्राणातिपातः, तस्य प्रयोगः
परिवारः । तस्मिन् प्रयोगे प्राणातिपातोपचारं कृत्वैवमुक्तम्—प्राणातिपातेनेति
विस्तरः ।
नैतद् द्वयमतिवर्तते । विपाकफलम्, अधिपतिफलं चेति । स्वसन्ताने विपाक-
फलमन्यत्राधिपतिफलमिति कृत्वा । सादृश्यविशेषात्तु तथोक्तमिति । इष्ट-
जीवितोपच्छेद भोगव्यसनादिलक्षणात् सादृश्यविशेषात्तु तथोक्तम् । स चेदित्य-
न्त्वमागच्छति मनुष्याणां सभागतां प्राणातिपातेनाल्पायुर्भवत्यदत्तादानेन भोग-
व्यसनो भवतीति विस्तरेण । भवति ह्यत्र हेतुविपाकफलयोः सादृश्यमिति ।
एवं कुशलेष्वपि वक्तव्यम् । निष्यन्दफलं फलद्वयं नातिवर्तते । सादृश्यविशेषात्तु
तथोक्तम् । स चेदित्थन्त्वमागच्छति मनुष्याणां सभागतां प्राणातिपातविरत्यां
दीर्घायुर्भवतीति विस्तरेण ।
ओजो नाशितमिति । ओजो हृदयप्रदेशे भवति । एवमन्येषामपि योज्यमिति ।
अदत्तादानं हि कुर्वता द्रव्यस्वामिनो दुःखमुत्पादितम्, भोगव्यसनं कृतम्, ओजो
नाशितम् । अतोऽस्य दुःखनाद्, भोगत्यजनाद्, ओजोनाशनाच्च त्रिविधं फलम् ।
कथमोजो नाशितम् ? तद्धेतुनाशनात्, भोगव्यसनेन च तस्योपघातात् ।
अत एवोक्तम्—अदत्तादानेनाशनिरजोबहुला इति तेन तदोजसः सोपघातता
भवतीति । एवं परदारमभिगच्छता परस्य दुःखमुत्पादितम्, ससपत्नदारता,
कृता, ओजो नाशितम् । येनौजसा तेजस्वीति लोके निरुच्यते । अत एवोक्तम्—

निर्देशः ] चतुर्थं कोशस्थानम् ७१३
एवं कुशलानामपि कर्मपथानां फलत्रयं वेदितव्यम् । प्राणातिपातविरत्या
आसेवितया भावितया बहुलीकृतया देवेषूपपद्यते । स चेदित्थन्त्वमागच्छति
मनुष्याणां सभागतां दीर्घायुर्भवतीत्यकुशलविपर्ययेण सर्वं योजयितव्यम् ॥ ८५ ॥
यद् भगवता—"मिथ्यावाङ्मिथ्याकर्मान्तो मिथ्याजीवः” इत्युक्तम्,
कोऽयमन्यस्ताभ्यां मिथ्याजीवः ? नायमन्योऽस्ति । तदेव तु
लोभजं कायवाक्कर्म मिथ्याजीवः,
द्वेषमोहजौ तु कायवाक्कर्मान्तौ । स चैष ताभ्याम्
पृथक् कृतः ।
दुःशोधत्वात्,
हारी हि लोभधर्मः । तत्समुत्थात् कर्मणश्चित्तं न सुरक्ष्यम् । अत आजीवो
दुःसशोध इत्यादरोत्पादनार्थं तत्रासौ पृथङ्निर्दिष्टः । आह चात्र—
“दुःशोधा गृहिणां दृष्टिनित्यं विविधदृष्टिना ।
आजीवो भिक्षुणा चैव परेष्वायत्तवृत्तिना ॥ ( ) इति ।
काममिथ्याचारेण रजोऽवकीर्णा इति । एवमन्येषामपि योज्यम् । एषा दिक् ।
अकुशलविपर्ययेण सर्वं योजयितव्यमिति । कथम् ? अदत्तादानाद्विरत्यासेवितया
भावितया बहुलीकृतया देवेषूपपद्यते । स चेदित्थन्त्वमागच्छति मनुष्याणां
सभागतां स न भोगव्यसनो भवतीति । एवं काममिथ्याचारविरत्यासेवितया
भावितयेति विस्तरेणोक्त्वा यावन्मनुष्याणां सभागतां नाभ्याख्यानबहुलो
भवतीति अनया दिशा सर्वं योजयितव्यम् । प्राणातिपाताद् विरमता—परस्य
दुःखं नोत्पादितम्, न मारितः, नौजो नाशितमित्यतस्त्रिविधं फलम् । एवमदत्ता-
दानात् प्रतिविरमता—नार्थस्वामिनो दुःखमुत्पादितम्, न भोगव्यसनं कृतम्,
नौजो नाशितमतोऽस्य त्रिविधं फलम् । काममिथ्याचाराद् विरमता—न परस्य
दुःखमुत्पादितम्, न ससपत्नदारः कृतः, नाप्योजो भ्रंसितम् । अतोऽस्य त्रिविधं
फलम् । एवमन्यत्रापि योजयितव्यम् ॥ ८५ ॥
विविधदृष्टिनेति । कौतुकमङ्गलतिथिमूहूर्तनक्षत्रादिदृष्टिना । परेष्यायत्तवृत्ति-
नेति । कायस्थितिहेतवश्चीवरपिण्डपातशयनासनादयो भिक्षोः परप्रतिबद्धाः ।
पिण्डपातं निःश्रित्येति वचनात् । तस्य पराधीनवृत्तेर्भिक्षोर्मिथ्याजीवा भवेयुः—
कुहना, लपना, नैमित्तिकता, नैष्पेषिता, लाभेन लाभनिश्रिकीर्षा च । तें
दुःशोधा भवन्ति । आजीवयोगा इति ।

७१४ भाष्यस्फुटार्थसहितमभिधर्मकोशे [ कर्म-
परिष्कारलोभोत्थं चेत्,
यो मन्यते—जीवित :भोत्थमेव कायवाक्कर्म मिथ्याजीवः,
नान्यत् ; न ह्यात्मरतिनिमित्तं नृत्तगीतादि आजीवयोग इति, तत्
न सूत्रतः ॥ ८६ ॥
शीलस्कन्धिकायां हि भगवता हस्तियुद्धदर्शनादीन्यपि मिथ्याजीवे
न्यस्तानि । किं कारणम् ? मिथ्याविषयपरिभोगात् ॥ ८६ ॥
गतमेतत् ॥
यानि पूर्वं पञ्च फलान्युक्तानि, तेषां कतमत् कर्म कतिभिः फलैः प्रहाणम् ?
प्रहाणमार्गे समले सफलं कर्म पञ्चभिः ।
प्रहाणार्थं मार्गः, प्रहीयन्ते वाऽनेन क्लेशा इति प्रहाणमार्ग आनन्तर्य-
मार्गः, तस्मिन् सास्रवे यत् कर्म तत् पञ्चभिः फलैः सफलम् । तस्य हि
शीलस्कन्धिकायामिति । शीलस्कन्धिका नाम निपातः । तत्रोक्तम्—"यथा
त्रिदण्डिन् एके श्रमणब्राह्मणाः श्रद्धादेयं परिभुज्य विविधदर्शनसमारम्भानुयोग-
मनुयुक्ता विहरन्ति । तद्यथा—हस्तियुद्धे, अश्वयुद्धे, रथयुद्धे, पत्तियुद्धे, यष्टियुद्धे,
मुष्टियुद्धे, सारसयुद्धे, वृषभयुद्धे, महिषयुद्धे, अजयुद्धे, मेषयुद्धे, कुक्कुटयुद्धे,
वर्तकयुद्धे, लावकयुद्धे१, स्त्रीयुद्धे, पुरुषयुद्धे, कुमारयुद्धे, कुमारिकायुद्धे, इङ्गल-
वशे, उत्सक्तिकायाम्, ध्वजाग्रे, बलाग्रे, सेनाव्यूहे, अनीकसन्दर्शने, महासमाजं
वा प्रत्यनुभवन्त्येके । इत्यप्येवंरूपाच्छ्रमणो विविधदर्शनसमारम्भानुयोगात्
प्रतिविरतो भवति । तथापि तत्र त्रिदण्डिन् एके श्रमणब्राह्मणाः श्रद्धादेयं परि-
भुज्य विविधशब्दश्रवणसमारम्भानुयोगयुक्ता विहरन्ति, तद्यथा—हस्तिशब्दे,
अश्वशब्दे, रथशब्दे, पत्तिशब्दे, शङ्खशब्दे, भेरीशब्दे, आडम्बरशब्दे, नृत्यशब्दे,
गीतशब्दे, शय्याशब्दे, अच्छटशब्दे, पाणिस्वरे, कुम्भतूणीरे, खचिते, चित्राक्षरे,
चित्रपदव्यञ्जने, लोकायतप्रतिसंयुक्ते, आख्यायिका वा श्रोतुमिच्छन्त्येके ।
इत्यप्येवंरूपाच्छ्रमणो विविधशब्दश्रवणसमारम्भानुयोगात् प्रतिविरतो भवति'
( ) इत्येवमादि । मिथ्याविषयपरिभोगात् । असम्यग्विषयपरिभोगात् ॥ ८६ ॥
यानि पूर्वं पञ्च फलान्युक्तानीति । अधिपतिफलम्, पुरुषकारफलम्, निस्यन्द-
फलम्, विपाकफलम्, विसंयोगफलञ्च । प्रहाणार्थं मार्ग इति । भावसाध-
नम्—प्रहाणाय मार्गः प्रहाणमार्ग इति । प्रहीयतेऽनेनेति । करणसाधनम् ।
१. लोचकयुद्धे—इति मुद्रितः पाठः ।

निर्देशः ] चतुर्थं कोशस्थानम् ७१५
विपाकफलम्—स्वभूमाविष्टो विपाकः । निष्यन्दफलम्—समाधिजा उत्तरे
सदृशा धर्माः । विसंयोगफलम्—विसंयोग एव यत्तत् प्रहाणम् । पुरुषकारफलम्—
तदाकृष्टा धर्माः, तद्यथा—अधिमुक्तिमार्गस्तत्सहभुवश्च, यच्चानागतं भाव्यते तच्च
प्रहाणम् । अधिपतिफलम्—स्वभावादन्ये सर्वसंस्काराः पूर्वोत्पन्नवर्ज्याः ।
चतुर्भिरमले,
अनास्रवे प्रहाणमार्गे यत् कर्मतत्चतुर्भिः फलैः सफलम्, विपाकफलं हित्वा ।
अन्यच्च सास्रवं यच्छुभाशुभम् ॥ ८७ ॥
यच्चान्यत् प्रहाणमार्गात् सास्रवं कुशलं कर्म यच्चाकुशलं तदपि, चतुर्भिर्वि-
संयोगफलं हित्वा ॥ ८७ ॥
अनास्रवं पुनः शेषं त्रिभिरव्याकृतं च यत् ।
प्रहाणे मार्ग इति च विग्रहः । समाधिजा उत्तरे सदृशा धर्मा इति ।
समाधिजग्रहणमसमाधिजनिरासार्थम् । सदृशग्रहणमनास्रवाव्याकृतनिरासार्थम् ।
सहभुव इति। सम्प्रयुक्ताश्च तत्र वेदनादयः, विप्रयुक्ताश्च जात्यादयः । यच्चानागतं
भाव्यत इति। अनागतो धर्मस्तद्बलेन प्राप्यत इति । तस्य तत् पुरुषकारफलम् ।
अत एव तच्च प्रहाणं पुरुषकारफले व्यवस्थाप्यते । न केवलं विसंयोगफलमिति ।
पूर्वोत्पन्नवर्ज्या इति। पूर्वोत्पन्नं फलं न युज्यत इति कृत्वा । तथा ह्युक्तम्—
'अपूर्वः संस्कृतस्यैव संस्कृतोऽधिपतेः फलम्” ( अभि० को० २.५८ ) इति ।
विपाकफलं हित्वेति । अनास्रवस्याविपाकत्वात् । तस्य हि निष्यन्दफलं
समाधिजा उत्तरे सदृशा धर्माः । विसंयोगफलं विसंयोग एव यत्तत् प्रहाणम् ।
पुरुषकारफलं तदाकृष्टा धर्माः । तद्यथा—विमुक्तिमार्गः, सहभुवः । यच्चाना-
गतं भाव्यते, तच्च प्रहाणम् अधिपतिफलम् । स्वभावादन्ये सर्वे संस्कृता
पूर्वोत्पन्नवर्ज्याः ।
“यच्छुभाशुभम्” इति । प्रहाणमार्गाद् यदन्यत्सास्रवं कर्म समाहितम्,
असमाहितञ्च । तदपि चतुर्भिः फलैः सफलम्, विसंयोगफलं हित्वा । अप्रहाण-
मार्गत्वादस्य विसंयोगफलं नास्ति । तस्य हि विपाकफलं स्वभूमाविष्टोऽनिष्टो
वा विपाकः । निष्यन्दफलमुत्तरे सदृशा धर्माः । पुरुषकारफलं तदाकृष्टाः धर्माः,
सहभुवोऽनन्तरभुवो वा । अधिपतिफलं शेषं पूर्ववत् ।। ८७ ।।
“अनास्रवं पुनः शेषम्” इति । शेषग्रहणं प्रहाणमार्गनिरासार्थम् । तत्
पुनः कथम् ? शेषं प्रयोगविमुक्तिविशेषमार्गेषु । तस्याप्रहाणमार्गत्वाद् विसंयोग-
अभि० को० २ : २२

प्रहाणमार्गान्यदनास्रवं कर्म अव्याकृतं च कर्म त्रिभिः, विपाक-
विसंयोगफले हित्वा ।
चत्वारि द्वे तथा त्रीणि कुशलस्य शुभादयः ॥ ८८ ॥
'अनुक्रमम्' इति पश्चाद् वक्ष्यति। कुशलस्य कर्मणः कुशला धर्माश्चत्वारि
फलानि, विपाकफलं हित्वा । अकुशला द्वे—पुरुषकाराधिपतिफले । अव्याकृता-
स्त्रीणि१, निःष्यन्दविसंयोगफले हित्वा ॥ ८८ ॥
अशुभस्य शुभाद्या द्वे त्रीणि चत्वार्यनुक्रमम् ।
यथाक्रममित्यर्थः । अकुशलस्य कर्मणः कुशला धर्मा द्वे पुरुषकाराधिपति-
फले । अकुशलास्त्रीणि, विपाकविसंयोगफले हित्वा । अव्याकृताश्चत्वारि,
विसंयोगफलं हित्वा । अव्याकृते हि सत्कायान्तग्राहदृष्टी अकुशलानां सर्वत्रगाणां
दुःखदर्शनहेयानां च निःष्यन्दफलम् ।
फलं नास्ति । अनास्रवत्वाच्च न विपाकफलम् । शेषं पूर्ववत् । अव्याकृतञ्च
यन्निवृत्ताव्याकृतमनिवृत्ताव्याकृतं च तदपि त्रिभिः सफलम् । अप्रहाणमार्ग-
त्वान्न तस्य विसंयोगफलम् । अव्याकृतत्वाच्च न विपाकफलम् । शेषं पूर्व-
वदेवास्ति ।
“चत्वारि द्वे तथा त्रीणि कुशलस्य” इति । यथाक्रममेतत् । कथम् ? कुश-
लस्य कुशला धर्माश्चत्वारि फलानि । तस्यैवाकुशला द्वे फले । तस्यैवाव्याकृता
स्त्रीणि१ फलानीति । विपाकफलं हित्वेति । विपाकस्याव्याकृतत्वात् ॥ ८८ ॥
अकुशला द्वे इति । पुरुषकाराधिपतिफले । न निष्पन्दफलम्; यस्मात्
कुशला धर्मा अकुशलानां न सभागहेतुरिति । न विपाकफलम्; अव्याकृत-
त्वाद् विपाकस्य, यस्माच्चाकुशला विपाकं प्रति व्याक्रियन्ते । न विसंयोग-
फलम्; अकुशलत्वात् । पारिशेष्यात् पुरुषकाराधिपतिफले एव । ते च पूर्व-
वद् व्याख्यातव्ये । अव्याकृताश्चत्वारीति । कथमकुशलस्याव्याकृता धर्मा निष्पन्द-
फलम् ? कथं च न भवितव्यम् ? विसदृशत्वात्, विसदृशा ह्यकुशलाव्याकृता
धर्माः; सविपाकाविपाकत्वात् ? नैष दोषः; अकुशलनिवृत्ताव्याकृतानां हि
धर्माणां क्लिष्टत्वात् किञ्चित् सादृश्यम् । तस्मादकुशलानां निवृताव्याकृताः,
निवृताव्याकृतानां चाकुशलाः निष्पन्दफलं युज्यन्ते । तेनाह—अव्याकृते
हीति विस्तरः । अकुशलानां सर्वत्रगाणां दुःखसमुदयदर्शनप्रहातव्यानाम् । दुःख-
१. अव्याकृत०—मुद्रितः पाठः ।

निर्देशः ] चतुर्थं कोशस्थानम् ७१७
अव्याकृतस्य द्वे त्रीणि त्रीणि चैते शुभादयः ॥ ८९ ॥
अव्याकृतस्य कर्मणः कुशला धर्मा द्वे पुरुषकाराधिपतिफले। अकुशलाः
त्रीणि, विपाकविसंयोगफले हित्वा । अकुशला हि दुःखादिदर्शनहेया'
अव्याकृतयोर्दृष्टयोर्निःष्यन्दफलम् । अव्याकृता धर्मा एतान्येव त्रीणि ॥ ८९ ॥
सर्वैऽतीतस्य चत्वारि,
सर्व इति त्रैयध्विकाः । अतीतस्य कर्मणस्त्रैयध्विकाः धर्माश्चत्वारि
फलानि, विसंयोगफलं हित्वा ।
मध्यमस्याप्यनागताः ।
प्रत्युत्पन्नस्यापि कर्मणोऽनागता धर्माश्चत्वारि फलान्येतान्येव ।
मध्यमा द्वे,
प्रत्युत्पन्ना धर्माः प्रत्युत्पन्नस्य द्वे पुरुषकाराधिपतिफले ।
दर्शनहेयानाञ्च रागादीनाम् । सत्कायान्तग्राहदृष्टी निष्यन्दफलम् । सभागसर्वत्र-
गयोर्निष्यन्दफलमिति ।
अकुशला हीति विस्तरः । अकुशला दुःखादिदर्शनहेयाः पञ्च नैकायिकाः ।
अव्याकृतयोः सत्कायान्तग्राहदृष्ट्योः निष्यन्दफलम् । एतान्येव त्रीणि । विपाक-
विसंयोगफले हित्वा ॥ ८९ ॥'
अतीतस्य कर्मणस्त्रैयध्विकाः । अतीतानागतप्रत्युत्पन्ना धर्माः । प्रत्येकं चत्वारि
फलानि । विसंयोगफलं हित्वा । तस्यानध्वपतितत्वात् । कथं कृत्वा ? अतीतस्य
कर्मणः पश्चादतीतस्तद्विपाको विपाकफलम्, तदाकृष्टः सहजातीताः पश्चाद-
नन्तरातीता वा पुरुषकारफलम्, स्वभाववर्ज्याः तेन सहोत्पन्नाः पश्चादुत्पन्ना-
श्चातीताः अधिपतिफलम्, पश्चादुत्पन्नातीताः सदृशा धर्मा निष्यन्दफलम् ।
अतीतस्यानागतस्तद्विपाको विपाकफलम्, यद्बलेन प्राप्यतेऽनागतो धर्मस्तत्
पुरुषकारफलम्, अधिपतिफलं यदनागतं तस्य फलम्, निष्यन्दफलं तत्सदृश-
मनागतम् । एवं प्रत्युत्पन्ना अपि तस्यातीतस्य चत्वारि फलानि योज्यानि ।
"मध्यमस्याप्यनागताः" इति । प्रत्युत्पन्नस्याप्यनागता धर्माश्चत्वारि फलानि
एतान्येव । विसंयोगफलं हित्वेत्यर्थः । तान्यप्येवमेव योज्यानि ।
प्रत्युत्पन्ना धर्माः प्रत्युत्पन्नस्य द्वे पुरुषकाराधिपतिफले इति । तस्य हि
सहोत्पन्नं तद्बलाब्जातमिति पुरुषकारफलम्, अधिपतिफलं च भवत्येव । अवि-
१. दुःखदर्शनादि०—का० ।

७१८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ कर्म-
अजातस्य फलानि त्रीण्यनागताः ॥ ९० ॥
अनागतस्यानागतानि त्रीणि फलानि, निःष्यन्दविसंयोगफले हित्वा ॥९०॥
स्वभूमिकस्य१ चत्वारि,
स्वभूमिकस्य कर्मणः स्वभूमिका धर्माश्चत्वारि फलानि विसंयोगफले
हित्वा ।
त्रीणि द्वे वाऽन्यभूमिकाः ।
अन्यभूमिका धर्मा अनास्रवाश्चेत् त्रीणि फलानि, विपाकविसंयोगफले
हित्वा; धात्वपतितत्वात् । सास्रवाश्चेद्, द्वे पुरुषकाराधिपतिफले ।
शैक्षस्य त्रीणि शैक्षाद्याः,
शैक्षस्य कर्मणः शैक्षा धर्मास्त्रीणि फलानि, विपाकविसंयोगफले हित्वा ।
अशैक्षा अप्येवम् । नैवशैक्षनाशैक्षा अपि विपाकनिःष्यन्दफले हित्वा
संयोगस्वभावान्न विसंयोगफलम् । पूर्वोत्तरताभावान्न निष्यन्दफलम् । प्रहाहा-
-पेक्षत्वाद् विपाकस्य न वर्तमानं वर्तमानस्य विपाकफलम् ।
निष्यन्दविसंयोगफले हित्वेति । अनागतोऽनागतस्य न निष्यन्दफलम्;
'यस्मात् सभागसर्वत्रगहेतू नानागतौ भवतः, तस्य विप्रकीर्णत्वात् । सादृश्येन
च 'अस्येदं फलम्' इति परिच्छेत्तुमशक्यत्वात् । न विसंयोगफलम्; यस्मादना-
गतो विसंयोगो न भवति । विपाकफलं तु भवेद्; अनागतस्य ह्यकुशलस्य
कुशलसास्रवस्य वानागतं पश्चादुत्पत्स्यमानञ्च विपाकफलम् । पुरुषकारफलं
सहजमनागतमनन्तरभावि चानागतम् । अधिपतिफलं तु सुगममिति न
पुनरुच्यते ॥ ९० ॥
स्वभूमिका धर्मा न विसंयोगफलम् । विसंयोगस्याभूमिस्वभावत्वात् ।
अनास्रवाश्चेत् त्रीणि फलानीति । निष्यन्दफलस्य तृतीयस्य सम्भवात् ।
"अन्योन्यं नवभूमिस्तु मार्गः" ( अभि० को० २.५२ ) इति हि सिद्धान्तः ।
शैक्षस्य कर्मणः शैक्षा धर्मास्त्रीणीति । यस्माद् विपाकफलं न शैक्षम् । विसं-
योगश्चापि न शैक्षः । नैवशैक्षनाशैक्षा अपि त्रीणि । न विपाकफलमस्यास्ति;
शैक्षस्याविपाकत्वात् । न निष्यन्दफलम् । नैवशैक्षनाशैक्षस्य शैक्षेणासदृशत्वाद्
विसंयोगफलं तु भवति; विसंयोगस्य नैवशैक्षनाशैक्षस्वभावत्वात् । पुरुषकार-
१. स्वभूमिधर्माः—का० ।

निर्देशः ] चतुर्थं कोशस्थानम् ७१९
अशैक्षस्य तु कर्मणः ॥ ९१ ॥
धर्माः शैक्षादिका एकं फलं त्रीण्यपि च द्वयम् ।
अशैक्षस्य कर्मणः शैक्षा धर्मा एकमधिपतिफलम् । अशैक्षास्त्रीणि, विपाक-
विसंयोगफले हित्वा । नैवशैक्यानाशैक्षा द्वे पुरुषकाराधिपतिफले ।
ताभ्यामन्यस्य शैक्षाद्या द्वे द्वे` पञ्च फलानि च ॥ ९२ ॥
शैक्षाशैक्षाभ्यामन्यस्य कर्मणो नैवशैक्यानाशैक्षस्य शैक्षा धर्मा द्वे पुरुष-
काराधिपतिफले । अशैक्षा अप्येवम् । नैवशैक्यानाशैक्षाः पञ्च फलानि ॥ ९१-९२ ॥
त्रीणि चत्वारि चैकं च' दृग्धेयस्य तदादयः ।
दर्शनहेयस्य कर्मणो दर्शनहेया धर्मास्त्रीणि फलानि, विपाकविसंयोगफले
हित्वा । भावनाहेयाश्चत्वारि, विसंयोगफलं हित्वा । अप्रहेया एकमधिपतिफलम् ।
ते द्वे' चत्वार्यथ त्रीणि भावनाहेयकर्मणः ॥ ९३ ॥
भावनाहेयस्य कर्मणो दर्शनहेया धर्मा द्वे पुरुषकाराधिपतिफले । भावना-
हेयाश्चत्वारि, विसंयोगफलं मुक्त्वा । अप्रहेयास्त्रीणि, विपाकनिःष्यन्दफले
मुक्त्वा ॥ ९३ ॥
फलमपि भवति; शैक्षेण नैवशैक्यानाशैक्षाकृष्टिसम्भवात् । अधिपतिफलं चास्त्येव
इति त्रीणि सम्भवन्ति ।
“अशैक्षस्य तु” इति विस्तरः । अशैक्षस्य शैक्षा धर्मा एकमधिपतिफलम् ।
न निष्यन्दफलम्; न्यूनत्वात् । “समविशिष्टयोः” ( अभि० को० २.५२ ) इति
वचनात् । न पुरुषकारफलम्, सहानन्तरोत्पादाभावात् । न ह्यशैक्षानन्तरं
शैक्षमुत्पद्यते; परिहाणिकालेऽपि क्लेशसमुदाचारव्यवहितत्वात् । विपाकफलं
विसंयोगफलं च नैवशैक्यानाशैक्षस्वभावमिति । न चाशैक्षस्य विपाको भवती-
त्यतो न विपाकफलम् । अशैक्षास्त्रीणीति, पुरुषकाराधिपतिनिष्यन्दफलानि ।
न विपाकविसंयोगफले । तयोर्नैवशैक्यानाशैक्षस्वभावत्वात् । यच्चाशैक्षस्वभावं
तदिह चिन्त्यते । नैवशैक्यानाशैक्षा द्वे पुरुषकाराधिपतिफले इति । पुरुषकारफलम् ।
तद्यथा—तदाकृष्टा अनन्तरभाविनो धर्माः । अधिपतिफलं पूर्ववत् । यथोक्त-
कारणत्वान्न फलत्रयम् ।
अशैक्षा अप्येवमिति । द्वे पुरुषकाराधिपतिफले इत्यर्थः ॥ ६१-९२ ॥
“तदादयः” इति । दर्शनहेयादयः । “ते” इति । दर्शनहेयादयः ॥ ९३ ॥
१. नैवशैक्षा०—का० । एवमुपर्यपि ।

अप्रहेयस्य ते त्वेकं द्वे चत्वारि यथाक्रमम् ।
अप्रहेयस्य कर्मणो दर्शनहेया धर्मा एकमधिपतिफलम् । भावनाहेया द्वे
पुरुषकाराधिपतिफले । अप्रहेयाश्चत्वारि, विपाकफलं मुक्त्वा ।
पुनर्यथाक्रमग्रहणमाद्यन्तवन्मध्येऽपि ज्ञापनार्थम् । एष हि पेयालधर्मः ।
कर्मनिर्देशप्रसङ्गेनेदमपि परिपृच्छयते—शास्त्रेषु अयोगविहितम्, योग-
विहितम्, नैवयोगविहितं नायोगविहितं च कर्मोक्तम्, तस्य किं लक्षणम् ?
अयोगविहितं क्लिष्टं विधिभ्रष्टं च केचन ॥ ९४ ॥
क्लिष्टं कर्मायोगविहितम्; अयोनिशोमनस्कारसम्भूतत्वादित्येके ।
विधिभ्रष्टमपीत्यपरे । येन यथा गन्तव्यं स्थातव्यं भोक्तव्यं प्रविचरित-
व्यमित्येवमादि, तच्चान्यथा विदधाति, तदयुक्तविधानादयोगविहितमिति ।
कुशलं कर्म योगविहितम्, अविधिभ्रष्टं चेत्यपरे ।
तदुभाभ्यामन्यत्¹ नोभयथा—नैवयोगविहितं नायोगविहितम् ॥ ९४ ॥
भावनाहेया द्वे इति । अनास्रवमार्गव्युत्थाने भावनाहेयाः कुशलाः पुरुष-
कारफलम् ।
आद्यन्तवदिति विस्तरः । आद्यन्तयोरिवाद्यन्तवत् । मध्येऽपि ज्ञाप-
नार्थम् पुनर्यथाक्रमग्रहणम् । कथम् ? आदौ यथाक्रमार्थोऽनुक्रमशब्दः प्रयुक्तः;
'अशुभस्य शुभाच्चा द्वे त्रीणि चत्वार्यनुक्रमम्” (अभि० को० ४.८९) इति
वचनात् । अन्तेऽपि प्रयुक्तः; 'अप्रहेयस्य ते त्वेकं द्वे चत्वारि यथाक्रमम्'
(अभि० को० ४.९२) इति । यथैवमाद्यन्तयोर्यथाक्रमार्थ उक्तः, तथा
मध्येऽप्यवगन्तव्यः । एष हि पेयालधर्म इति । एषोऽभिसंक्षेपन्यायः । अन्यथा
हि 'अव्याकृतस्य द्वे त्रीणि त्रीणि चैते शुभादयः” (अभि० को० ४.८६)
इत्येवमादिषु यथाक्रममिति सर्वत्र वक्तव्यम् ।
अयोनिशो मनस्कारसम्भूतत्वादिति । अयोन्या अन्यायेन क्लेशयोगेन यः
प्रवृत्तो मनस्कारः, तत्र सम्भूतः, तद्भावः, तस्मादिति ।
येन यथा गन्तव्यम् । येन पुद्गलेन यथा गन्तव्यं तथा न गच्छतीत्यस्या-
योगविहितं कर्म ।
विधिभ्रष्टमपीति । अपि-शब्देन क्लिष्टं चापीति गृह्यते । तदुभाभ्यामन्यन्नो-
१. उभाभ्या०—का० ।

निर्देशः ] चतुर्थं कोशस्थानम् ७२१
किमेकं कर्म एकमेव जन्माक्षिपति ? अथ नैकमपि ? तथा किमेकमपि
कर्मैकं जन्माक्षिपति ? अथानेकम् ? एष हि सिद्धान्तः—
एकं जन्माक्षिपत्येकम्,
एकमेव जन्माक्षिपति एकमेव च कर्म, नानेकम् । जन्मेति निकाय-
सभागस्याख्या । तत्र हि लब्धे जात इत्युच्यते ।
यत्तर्हि स्थविरानिरुद्धेनोक्तम्—“सोऽहं तस्यैकपिण्डपातस्य विपाकेन
सप्तकृत्वस्त्रयस्त्रिंशेषु देवेषूपपन्नो यावदेतर्हि शाक्यकुले जातः” ( )
इति ? तेन असौ समृद्धिं लब्ध्वा जातिस्मरः पुनरन्यत् पुण्यं कृतवान् । तत्
उत्थानं दर्शयति स्म । यथा मनुष्यो दीनारोत्थोऽनेन सहस्रं निर्वर्त्याह¹—
'एकेन दीनारेणाहमेतदैश्वर्यं² प्राप्तः' इति ।
अपरे त्वाहुः—तस्य तं पिण्डपातमधिष्ठानं कृत्वा दानचेतनानां प्रवाहो
महानुत्पन्नः कयाचित् किञ्चित् फलं परिगृहीतमिति । अनेकेनाप्येकमाक्षिप्यते—
मा भूत् खण्डशो निकायसभागस्याक्षेप इति । एकेन तु कर्मणा क्लिष्टस्य
निकायभागस्येष्यते कर्म ।
अनेकं परिपूरकम् ।
यथा चित्रकर एकया वर्त्त्या रूपमालिख्य बह्वीभिः परिपूरयति; तथा हि
तुल्येऽपि मानुष्ये कश्चित् सकलेन्द्रियाङ्गप्रत्यङ्गो भवति वर्णाकृतिप्रमाणबलसम्पदा
विभ्राजमानः, कश्चिदेषां केनचिद् विकलः ।
भयथेति । न योगविहितः, नायोगविहितः । किञ्च तदन्यदव्याकृतं कर्म
विधिभ्रष्टाविधिभ्रष्टाभ्यां चान्यदव्याकृतमिति ॥ ९४ ॥
जन्मेति निकायसभागस्याख्येति । चित्तविप्रयुक्तस्य संस्कारस्य, न तु
जातेरित्यभिप्रायः ।
यत्तर्हीति । यद्येकमेव कर्मैकमेव जन्माक्षिपति । यत् स्थविरानिरुद्धेनोक्तं
सोऽहं तस्येति विस्तरेण । तत् कथं न विरुध्यत इति वाक्यार्थः ।
तेन जन्मान्तरे तगरशिखिने प्रत्येकबुद्धाय पिण्डपातो दत्तः । तेनेवमुक्तम्—
“सोऽहं तस्य” इति विस्तरेण । निर्वर्त्येति । निष्पाद्येत्यर्थः ।
तुल्येऽपि मानुष्ये कश्चित् सकलेन्द्रियो भवति, कश्चिद् विकलेन्द्रियः । परिपूर-
१. निर्विश्याह—का० । २. ०दीश्वर्यं—का० ।

७२२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ कर्म-
न च केवलं कर्मैवाक्षेपकं जन्मनः । किं तर्हि ? अन्यदपि सविपाकम् ।
सर्वथा तु—
नाक्षेपिके समापत्ती अचित्ते प्राप्तयो न च ॥ ९५ ॥
सविपाकाभ्यामप्यचित्तसमापत्तिभ्यां निकायसभागो नाक्षिप्यते; कर्मसह-
भूत्वात्१, प्राप्तिभिश्च, कर्मणानेकफलत्वात्२ ॥ ९५ ॥
त्रीण्यावरणान्युक्तानि भगवता—कर्मावरणम्, क्लेशावरणम्, विपाकावरणं
च; तेषां कः स्वभावः ?
आनन्तर्याणि कर्माणि तीव्रक्लेशोऽथ दुर्गतिः ।
कौरवासंज्ञिसत्त्वाश्च मतमावरणत्रयम् ॥ ९६ ॥
पञ्चानन्तर्याणि कर्मावरणम् । तद्यथा—मातृवधः, पितृवधः, अर्हद्वधः,
सङ्घभेदः, तथागतशरीरे दुष्टचित्तरुधिरोत्पादनम् ।
तीव्रक्लेशता क्लेशावरणम् । द्विविधो हि क्लेशः—तीव्रश्च य आभीक्ष्णिकः,
तीक्ष्णश्च योऽधिमात्रः । तत्र यस्तीव्रः स आवरणम्, यथा षण्ढादीनाम् । शक्तो
ह्यधिमात्रवेगोऽपि क्लेशः कादाचित्को निहन्तुम्, न तु समूहोऽप्याभ्यसिकः ।
आभ्यसिके हि क्लेशे तन्निर्घाताय पराक्रमकालं न लभते । तस्य मृदुं प्रतीत्य ,
मध्य उपजायते । मध्यं प्रतीत्याधिमात्रः । तस्माद् एवावरणम् ।
त्रिविधा दुर्गतिः विपाकावरणम्—सुगतेश्च प्रदेशः, औत्तरकौरवाः,
कस्य कर्मणो भेदात् तदनुपपन्नम् । आक्षेपकर्मफलत्वाच्चक्षुरादीनाम् । षडायतनं
ह्याक्षिप्यत इति । वर्णादयस्तु परिपूरकस्य कर्मणः फलमिति । युक्तं वक्तुम्—
तुल्येऽपि मानुष्ये कश्चिद्वर्णवान्, कश्चिन्नेति । तदुत्पत्तिविरोधिप्रत्ययपरिहारे
परिपूरककर्मसामर्थ्यान्न विरोधः । अन्यथा हि न कश्चिद् विकलेन्द्रियः स्यात्
सति जन्माक्षेप इति ।
अन्यदपि सविपाकमिति । वेदनादिकम् । कर्मसहभूत्वादिति । यस्मात्
कर्मणा चेतनाख्येन सह ते समापत्ती न भवतः । नापि कायवाक्कर्मभ्याम्;
अचित्तकत्वात् । प्राप्तिभिश्च नाक्षिप्यते सविपाकाभिरपि । कर्मणाऽनेकफलत्वात् ।
तदाक्षेपकेण कर्मणा सह भवन्त्योऽपि प्राप्तयो न तेन सहैकफला इति । वृक्ष-
प्रपटिका इव हि प्राप्तयो बहिरवस्थायिन्यो भवन्ति ॥ ९५ ॥
कर्मावरणमिति । कर्मैवावरणम्, क्लेश एवावरणम्, विपाक एवावरणमिति ।
१. ०भूतत्वात्—का० । २. कर्मणोऽ०—का० ।

न् या न्ये व" -> wait, 'न्' + 'या' + 'न्ये' + 'व' -> "सुदर्शन्यान्येव" or "सुदर्शनान्येव"?
Wait, look at the glyphs:
"सु द र्श" then 'न्या' or 'ना'?
It is: 'न्' and 'या': "सुदर्शन्यान्येव"? Or "सुदर्शनान्येव"?
Wait, 'सुदर्शानि' is feminine/neuter plural? Neuter plural is सुदर्शानि.
If base is 'सुदर्शन', plural is 'सुदर्शनानि'.
Wait, look at line 15:
"सुदर्शानि, सुदर्शनान्येव सुदर्शकानि ।"
Wait, is that 'सुदर्शनान्येव' or 'सुदर्शन्यान्येव'?
Let's look at the letters:
स ु = सु
द
र् + श = र्श
then: न् + या ? Wait, is there a loop?
Wait, look at: 'सु', 'द', 'र्', 'श', then a letter, then 'न्ये', then 'व'.
Wait! "सुदर्शान्येव"!
Let's look really closely at line 15:
"सुदर्शानि, सुदर्शान्येव सुदर्शकानि ।"
YES!
सु (1) दर्शा (2) नि (3), [comma]
सु (4) दर्शा (5) न्ये (6) व (7

आनन्तर्याणीति कोऽर्थः ? नान्तरायितुं शक्यानि विपाकं प्रति जन्मान्तरफलेन
कर्मान्तरेणेत्यानन्तर्याणि । न तिरस्कर्तुमित्यर्थः । न वा तत्कारिणः पुद्गलस्येत-
श्च्युतस्यानन्तरमस्ति नरकोपपत्तिगमनं प्रतीत्यनन्तरः। तद्भाव आनन्तर्यम् । यस्य
धर्मस्य योगात् सोऽनन्तरो भवति, श्रामण्यवत् ॥ ९६ ॥
अथैषामावरणानां कतमत् कस्यां गतौ वेदितव्यम् ? एकान्तेन तावत्
त्रिषु द्वीपेष्वानन्तर्यम्,
नोत्तरकुरौ, नान्यासु गतिषु। कुत एवान्यत्र धातौ ? तेष्वपि स्त्रीपुरुषाणामेव ।
षण्ढादीनां तु नेष्यते ।
किं कारणम् ? यदेवासंवराभावे¹ कारणमुद्दिष्टम् । अपि च--
अल्पोपकारालज्जित्वात्,
यथाक्रमं मातापित्रोः, तेषां च । अल्पोपकारौ किलैषां मातापितरौ;
विकलात्मभावाधिपतित्वाद्, अल्पस्नेहत्वाच्च । तेषामपि न तीव्रं ह्यपत्राप्यं माता-
पित्रोरन्तिके प्रत्युपस्थितम्, यद्विपादनादानन्तर्येण स्पृश्येरन् ।
अत एव तिर्यक्प्रेतानामपि नेष्यते ।
यस्य धर्मस्य योगात् पितृवधादेः सोऽनन्तरो भवति । तस्याभिधाने
भावप्रत्ययः—आनन्तर्यमिति । श्रामण्यवत् । यथा येनानास्रवेण योगाच्छ्रमणो
भवति तदभिधाने भावप्रत्ययः—‘श्रामण्यममलो मार्गः’ (अभि० को० ६.५१)
इति, तद्वत् ॥ ९६ ॥
नोत्तरकुराविति । नियतायुष्कत्वात्, प्रकृतिशीलत्वात्, तत्र शासनाभावाच्च ।
यदेवासंवराभावे करणमिति । पापेऽप्यस्थिराशयत्वात् । यत्रैव च संवरस्तत्रा-
संवरोऽपि । प्रतिद्वन्द्वभावादित्यसंवरः । षण्ढादीनां न भवतीति ।
यद्विपादनादिति । यस्य ह्रीव्यपत्राप्यस्य विपादनाद् विकोपनादानन्तर्येण
स्पृश्येरन् षण्ढादयः । तेषां मातापित्रोरन्तिके न तीव्रं भवतीति । अतस्तेषामानन्तर्यं
नेष्यते । यदि विकलात्मभावहेतुत्वादल्पोपकारत्वमिति । अतस्तेषामानन्तर्यं नेष्यते ।
जात्यन्धादीनामपि स्त्रीपुंसानां मात्रादिवधादानन्तर्यं न स्यात् ? न; अधिगम-
धर्मविरुद्धस्यात्मभाववैकल्यस्य विवक्षितत्वात् । यद्वैकल्यमधिगमधर्मविरोधि,
तदधिकृतम् । तेनैव मात्राल्र्पस्नेहत्वम्, न जात्यन्धादिवैकल्येन ।
अतएव तिर्यक्प्रेतानामपि नेष्यते । अल्पोपकारालज्जित्वादेव ।
१. तदेवा०—का० ।

निर्देशः ] चतुर्थं कोशस्थानम् ७२५
पटुबुद्धीनां स्यादाजानेयवदिति भदन्तः । मनुष्यस्याप्यमानुषं¹ माता-
पितरं¹ मारयतो न स्यादानन्तर्यम् ॥
उक्तं कर्मावरणम् ॥
शेषे गतिषु पञ्चसु ॥ ९७ ॥
के पुनः शेषे ? क्लेशविपाकावरणे । मनुष्येषु विपाकावरणम् । कौरवा
देवेष्वसंज्ञिसत्त्वाः ।
किंस्वभावान्यानन्तर्याणि ? चत्वारि कायकर्म, एकं वाक्कर्म, त्रीणि
प्राणातिपातः, एकं मृषावादः, एकं प्राणातिपातप्रयोगः । अनुपक्रमधर्माणो हि
तथागताः ॥ ९७ ॥
हेतौ फलोपचारात् सङ्घभेद आनन्तर्यमुक्तम्, भिद्यते वा अनेनेति कृत्वा ।
सङ्घभेदस्त्वसामग्री स्वभावो विप्रयुक्तकः ।
अश्वाजानेयवदिति । पटुबुद्धीनां स्यादानन्तर्यम् । तिर्यक्प्रेतानामपीत्यधि-
कृतम् । अश्वाजानेयवदिति । श्रूयते यथा—कश्चिदेव विशिष्टाश्व आजानेयो मातरं
न गच्छतीति वाससा मुखं प्रच्छाद्य मातरं गमितस्तेन पश्चात् ज्ञात्वा
स्वमङ्गजातमुत्पाटितमिति । एवमाजानेयोऽश्वः पटुबुद्धिः । अस्यानन्तर्यं
स्यादित्यभिप्रायः । मनुष्यस्याप्यमानुषं मातापितरं मारयतो न स्यादानन्तर्यम् ।
नैव भवेदानन्तर्यमित्यर्थः । कथम् ? अल्पोपकारालज्जित्वादेव । न हि मनुष्या-
नुरूपमुपकारममनुष्ययोर्मातापित्रोरन्तिके तीव्रं ह्रीव्यपत्राप्यं सन्तिष्ठते; गति-
हैन्यविपर्ययहेतुत्वात् ।
चत्वारि कायकर्मेति । मातृवधादीनि । एकं वाक्कर्मेति । सङ्घभेदः । त्रीणि
प्राणातिपात इति । मातृवधादीनि । एकं मृषावादः । सङ्घभेदः । एकं प्राणाति-
पातप्रयोगः । तथागतशरीरे दुष्टचित्तरुधिरोत्पादनं कस्मान्न प्राणातिपातः ?
इत्याह—अनुपक्रमधर्माणो हि तथागता इति । अपरोपक्रम-मरणधर्माण
इत्यर्थः ॥ ९७ ॥
हेतौ फलोपचारादिति । मृषावादो हेतुः सङ्घभेदस्य चित्तविप्रयुक्तलक्ष-
णस्य, तस्मिन् हेतौ फलोपचारः । चित्तविप्रयुक्तो धर्मः फलमुपचर्यते । सङ्घभेद
इति । भिद्यते वानेनेति । करणसाधनपरिग्रहाद्वा मृषावादः सङ्घभेद इत्युच्यते ।
मृषावादेन हि सङ्घो भिद्यते, न तु सङ्घभेद इति भावसाधनपरिग्रहः ।
“सङ्घभेदस्त्वसामग्री” इति । मुख्यवृत्त्या वैभाषिकाणां द्रव्यसत्ता । तेनाह—
१. अमानुषो मातापितरौ—का० ।

७२६ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ कर्म-
अक्लिष्टाव्याकृतो धर्मः,
असामग्री नानाचित्तविप्रयुक्तः¹ संस्कारोऽनिवृताव्याकृतः सङ्घभेदः ।
स किमानन्तर्यं भविष्यति ? नैव च तेन भेत्ता समन्वागतः । किं तर्हि ?
सङ्घस्तेन समन्वितः ॥ ९८ ॥
यो हि भिन्नस्तस्य भेदः, न भेत्तुः ॥ ९८ ॥
अथ भेत्ता केन समन्वागतः
तदवद्यमृषावादस्तेन² भेत्ता समन्वितः ।
सङ्घभेदावद्येन भेत्ता समन्वागतः । तत् पुनर्मृषावादः । स पुनः सङ्घ-
भेदसहजे वाग्विज्ञप्त्यविज्ञप्ती । स च तेनावद्येन समन्वागतो भेत्ता ।
अवीचौ पच्यते कल्पम्,
अन्तरकल्पमवीचौ महानरके विपच्यते । अन्यैस्तु नावश्यमवीचौ ।
अथ येन बहून्यानन्तर्याणि कृतानि भवन्ति, अनन्तरमेव तानि विपच्यन्ते ।
किन्तु तैस्तस्य भवन्ति³
अधिकैरधिका रुजः ॥ ९९ ॥
स हि भूयोभिरानन्तर्यैस्तस्मिन्नवीचौ घनतरं सुकुमारतरं चाश्रयं लभते,
कारणाश्च बहुतरास्तीव्रतराश्च, येन द्वित्रिचतुष्पञ्चगुणां वेदनां वेदयते ॥ ९९ ॥
कः पुनरेष सङ्घं भिनत्ति ?
भिक्षुर्द्दृक्चरितो वृत्ती भिनत्ति,
भिक्षुर्भिनत्ति, न गृही न भिक्षुण्यादयः । स च दृष्टिचरित एव, न
“स्वभावोऽपि विप्रयुक्तकः । अक्लिष्टाव्याकृतो धर्मः” इति । स किमानन्तर्यं
भविष्यतीति । नैवासावेवंलक्षणमानन्तर्यं भवतीत्यर्थः । नैव च तेन विप्रयुक्तेन
धर्मेण भेत्ता समन्वागतः । तेन नासावानन्तर्यमित्यभिप्रायः ॥ ९८ ॥
स पुनर्मृषावादः सङ्घभेदसहजो विप्रयुक्तधर्मसहजो वाग्विज्ञप्त्यविज्ञप्तिस्वभाव
इत्यर्थः ॥ ९९ ॥
भिक्षुर्भिनत्तीति । बुद्धस्य भिक्षुत्वात् । तत्प्रतिस्पर्धिवृत्तित्वाच्च भेत्तुः । न
गृही न⁴ भिक्षुण्यादय इति । तेषामनादेयाश्रयत्वात् । स च दृष्टिचरित एव ।
दृढगूढाशयत्वात् । सत्कार्यदृष्ट्यादिषु पञ्चसु चरितः प्रवृत्तो दृष्टिचरितः ।
१. नाम०—का० । २. तदवद्यं—पाठा० ।
३. भवति—का० । ४. मुद्रितपुस्तके नास्ति ।

निर्देशः ] चतुर्थं कोशस्थानम् ७२७
तृष्णाचरितः । वृत्तस्थो न भिन्नवृत्तः, तस्यानादेयवाक्यत्वात् ।
क्व भिनत्ति ? यत्र भगवान् सन्निहितस्ततः
अन्यत्र,
नहि शास्तुरेव सन्निधौ शक्यो भेत्तुम्; तथागतानां दुष्प्रसहत्वाद्, आदेय-
वाक्यत्वाच्च ।
कान् भिनत्ति !
बालिशान् ।
पृथग्जनानेव, नार्यान् ; प्रत्यक्षधर्मत्वात् ।
तानपि न क्षान्तिलाभिन इत्यपरे ।
कियता भिन्नः सङ्घो भवति !
शास्तृमार्गान्तरक्षान्तौ¹ भिन्नः,
यदा तेभ्यस्तथागतादन्यः शास्ता क्षमते, तदुपदिष्टाच्च मार्गादन्यो मार्ग
इयता भिन्नः सङ्घो वक्तव्यः ।
कियन्तं कालं भिन्न आस्ते ? तामेव रात्रिं
न विवसत्यसौ ॥ १०० ॥
अपर्युषित एव हि सङ्घभेदे सङ्घोऽवश्यं प्रतिसन्धीयते ॥ १०० ॥
योऽयं सङ्घभेद उक्तः
चक्रभेदः स च मतः,
दृष्टिर्वा चरितमस्येति दृष्टिचरितः । स दृढोहापोहसामर्थ्यादन्यं शास्तारं मार्गा-
न्तरञ्च ग्राहयितुं समर्थः । न तृष्णाचरित इति । संक्लेशव्यवदानपक्षयोरस्थि-
राशयत्वात् ।
दुष्प्रसहत्वादिति । दुरभिभवत्वात् ।
प्रत्यक्षधर्मत्वादिति । आगमाधिगमधर्मयोः साक्षात्कारित्वादित्यर्थः ।
न क्षान्तिलाभिन इति । न निर्वेधभागीयक्षान्तिलाभिन इत्यर्थः । दृष्टि-
सत्यकल्पत्वात् ।
“न विवसत्यसौ” । न तां रात्रिं परिवसतीत्यर्थः ॥ १०० ॥
१. ०न्तरक्-शान्तो—स्फु० मू० पाठः ।