सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 737, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 737

७१८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ कर्म-
अजातस्य फलानि त्रीण्यनागताः ॥ ९० ॥
अनागतस्यानागतानि त्रीणि फलानि, निःष्यन्दविसंयोगफले हित्वा ॥९०॥
स्वभूमिकस्य१ चत्वारि,
स्वभूमिकस्य कर्मणः स्वभूमिका धर्माश्चत्वारि फलानि विसंयोगफले
हित्वा ।
त्रीणि द्वे वाऽन्यभूमिकाः ।
अन्यभूमिका धर्मा अनास्रवाश्चेत् त्रीणि फलानि, विपाकविसंयोगफले
हित्वा; धात्वपतितत्वात् । सास्रवाश्चेद्, द्वे पुरुषकाराधिपतिफले ।
शैक्षस्य त्रीणि शैक्षाद्याः,
शैक्षस्य कर्मणः शैक्षा धर्मास्त्रीणि फलानि, विपाकविसंयोगफले हित्वा ।
अशैक्षा अप्येवम् । नैवशैक्षनाशैक्षा अपि विपाकनिःष्यन्दफले हित्वा
संयोगस्वभावान्न विसंयोगफलम् । पूर्वोत्तरताभावान्न निष्यन्दफलम् । प्रहाहा-
-पेक्षत्वाद् विपाकस्य न वर्तमानं वर्तमानस्य विपाकफलम् ।
निष्यन्दविसंयोगफले हित्वेति । अनागतोऽनागतस्य न निष्यन्दफलम्;
'यस्मात् सभागसर्वत्रगहेतू नानागतौ भवतः, तस्य विप्रकीर्णत्वात् । सादृश्येन
च 'अस्येदं फलम्' इति परिच्छेत्तुमशक्यत्वात् । न विसंयोगफलम्; यस्मादना-
गतो विसंयोगो न भवति । विपाकफलं तु भवेद्; अनागतस्य ह्यकुशलस्य
कुशलसास्रवस्य वानागतं पश्चादुत्पत्स्यमानञ्च विपाकफलम् । पुरुषकारफलं
सहजमनागतमनन्तरभावि चानागतम् । अधिपतिफलं तु सुगममिति न
पुनरुच्यते ॥ ९० ॥
स्वभूमिका धर्मा न विसंयोगफलम् । विसंयोगस्याभूमिस्वभावत्वात् ।
अनास्रवाश्चेत् त्रीणि फलानीति । निष्यन्दफलस्य तृतीयस्य सम्भवात् ।
"अन्योन्यं नवभूमिस्तु मार्गः" ( अभि० को० २.५२ ) इति हि सिद्धान्तः ।
शैक्षस्य कर्मणः शैक्षा धर्मास्त्रीणीति । यस्माद् विपाकफलं न शैक्षम् । विसं-
योगश्चापि न शैक्षः । नैवशैक्षनाशैक्षा अपि त्रीणि । न विपाकफलमस्यास्ति;
शैक्षस्याविपाकत्वात् । न निष्यन्दफलम् । नैवशैक्षनाशैक्षस्य शैक्षेणासदृशत्वाद्
विसंयोगफलं तु भवति; विसंयोगस्य नैवशैक्षनाशैक्षस्वभावत्वात् । पुरुषकार-
१. स्वभूमिधर्माः—का० ।