सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 731, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 731

७१२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ कर्म-

परे सपरिवारग्रहणात्तु प्राणातिपातेनेत्युक्तमिति ।
यदप्येतन्निष्यन्दफलमुक्तं नैतद् द्वयमतिवर्तते—विपाकफलमधिपतिफलं च ।
सादृश्यविशेषात्तु तथोक्तम् ।
किं पुनः कारणमेषां कर्मपथानामेतत् त्रिविधफलमभिनिर्वर्तते ? प्राणातिपातं
हि तावत् कुर्वता मार्यमाणस्य दुःखमुत्पादितम्, मारितम्, ओजो नाशितम्,
अतोऽस्य
दुःखान्मारणादोजोनाशनात् त्रिविधं फलम् ॥ ८५ ॥
परस्य दुःखनाद् विपाकफलेन नरके दुःखितो भवति । मारणान्निष्यन्द-
फलमल्पायुर्भवति । ओजोनाशनादधिपतिफलेनाल्पौजसो बाह्या ओषधयो
भवन्ति । एवमन्येष्वपि योज्यम् ।
क्षणिको हि मौलः कर्मपथः । तत्र च न दुःखा वेदनास्तीति युक्तमिह मौलेनेति
वक्तुम् ? आह—यदि तत्र प्रयोगेणेह मौलेन, कस्मादेवमुक्तम्—प्राणातिपातेना-
सेवितेन भावितेन बहुलीकृतेन नरकेषूपपद्यते, प्राणातिपातेन मौलेनेति सूत्रार्थं
पश्यन्नेवं पृच्छति । सपरिवारग्रहणादिति । मौल एव प्राणातिपातः, तस्य प्रयोगः
परिवारः । तस्मिन् प्रयोगे प्राणातिपातोपचारं कृत्वैवमुक्तम्—प्राणातिपातेनेति
विस्तरः ।
नैतद् द्वयमतिवर्तते । विपाकफलम्, अधिपतिफलं चेति । स्वसन्ताने विपाक-
फलमन्यत्राधिपतिफलमिति कृत्वा । सादृश्यविशेषात्तु तथोक्तमिति । इष्ट-
जीवितोपच्छेद भोगव्यसनादिलक्षणात् सादृश्यविशेषात्तु तथोक्तम् । स चेदित्य-
न्त्वमागच्छति मनुष्याणां सभागतां प्राणातिपातेनाल्पायुर्भवत्यदत्तादानेन भोग-
व्यसनो भवतीति विस्तरेण । भवति ह्यत्र हेतुविपाकफलयोः सादृश्यमिति ।
एवं कुशलेष्वपि वक्तव्यम् । निष्यन्दफलं फलद्वयं नातिवर्तते । सादृश्यविशेषात्तु
तथोक्तम् । स चेदित्थन्त्वमागच्छति मनुष्याणां सभागतां प्राणातिपातविरत्यां
दीर्घायुर्भवतीति विस्तरेण ।
ओजो नाशितमिति । ओजो हृदयप्रदेशे भवति । एवमन्येषामपि योज्यमिति ।
अदत्तादानं हि कुर्वता द्रव्यस्वामिनो दुःखमुत्पादितम्, भोगव्यसनं कृतम्, ओजो
नाशितम् । अतोऽस्य दुःखनाद्, भोगत्यजनाद्, ओजोनाशनाच्च त्रिविधं फलम् ।
कथमोजो नाशितम् ? तद्धेतुनाशनात्, भोगव्यसनेन च तस्योपघातात् ।
अत एवोक्तम्—अदत्तादानेनाशनिरजोबहुला इति तेन तदोजसः सोपघातता
भवतीति । एवं परदारमभिगच्छता परस्य दुःखमुत्पादितम्, ससपत्नदारता,
कृता, ओजो नाशितम् । येनौजसा तेजस्वीति लोके निरुच्यते । अत एवोक्तम्—