अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 743, कुल 1258 में से
संदर्भ में पढ़ेंआनन्तर्याणीति कोऽर्थः ? नान्तरायितुं शक्यानि विपाकं प्रति जन्मान्तरफलेन
कर्मान्तरेणेत्यानन्तर्याणि । न तिरस्कर्तुमित्यर्थः । न वा तत्कारिणः पुद्गलस्येत-
श्च्युतस्यानन्तरमस्ति नरकोपपत्तिगमनं प्रतीत्यनन्तरः। तद्भाव आनन्तर्यम् । यस्य
धर्मस्य योगात् सोऽनन्तरो भवति, श्रामण्यवत् ॥ ९६ ॥
अथैषामावरणानां कतमत् कस्यां गतौ वेदितव्यम् ? एकान्तेन तावत्
त्रिषु द्वीपेष्वानन्तर्यम्,
नोत्तरकुरौ, नान्यासु गतिषु। कुत एवान्यत्र धातौ ? तेष्वपि स्त्रीपुरुषाणामेव ।
षण्ढादीनां तु नेष्यते ।
किं कारणम् ? यदेवासंवराभावे¹ कारणमुद्दिष्टम् । अपि च--
अल्पोपकारालज्जित्वात्,
यथाक्रमं मातापित्रोः, तेषां च । अल्पोपकारौ किलैषां मातापितरौ;
विकलात्मभावाधिपतित्वाद्, अल्पस्नेहत्वाच्च । तेषामपि न तीव्रं ह्यपत्राप्यं माता-
पित्रोरन्तिके प्रत्युपस्थितम्, यद्विपादनादानन्तर्येण स्पृश्येरन् ।
अत एव तिर्यक्प्रेतानामपि नेष्यते ।
यस्य धर्मस्य योगात् पितृवधादेः सोऽनन्तरो भवति । तस्याभिधाने
भावप्रत्ययः—आनन्तर्यमिति । श्रामण्यवत् । यथा येनानास्रवेण योगाच्छ्रमणो
भवति तदभिधाने भावप्रत्ययः—‘श्रामण्यममलो मार्गः’ (अभि० को० ६.५१)
इति, तद्वत् ॥ ९६ ॥
नोत्तरकुराविति । नियतायुष्कत्वात्, प्रकृतिशीलत्वात्, तत्र शासनाभावाच्च ।
यदेवासंवराभावे करणमिति । पापेऽप्यस्थिराशयत्वात् । यत्रैव च संवरस्तत्रा-
संवरोऽपि । प्रतिद्वन्द्वभावादित्यसंवरः । षण्ढादीनां न भवतीति ।
यद्विपादनादिति । यस्य ह्रीव्यपत्राप्यस्य विपादनाद् विकोपनादानन्तर्येण
स्पृश्येरन् षण्ढादयः । तेषां मातापित्रोरन्तिके न तीव्रं भवतीति । अतस्तेषामानन्तर्यं
नेष्यते । यदि विकलात्मभावहेतुत्वादल्पोपकारत्वमिति । अतस्तेषामानन्तर्यं नेष्यते ।
जात्यन्धादीनामपि स्त्रीपुंसानां मात्रादिवधादानन्तर्यं न स्यात् ? न; अधिगम-
धर्मविरुद्धस्यात्मभाववैकल्यस्य विवक्षितत्वात् । यद्वैकल्यमधिगमधर्मविरोधि,
तदधिकृतम् । तेनैव मात्राल्र्पस्नेहत्वम्, न जात्यन्धादिवैकल्येन ।
अतएव तिर्यक्प्रेतानामपि नेष्यते । अल्पोपकारालज्जित्वादेव ।
१. तदेवा०—का० ।