अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 729, कुल 1258 में से
संदर्भ में पढ़ेंHere is the line-by-line transcription of the Sanskrit text from the image:
७१० भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ कर्म-
आरूप्यासज्ञिसत्त्वेषु लाभतः सप्त,
कायिकवाचिकाः सप्त कुशला आरूप्येष्वसंज्ञिसत्त्वेषु समन्वार्गमत एव ।
आरूप्योपपन्नानामार्याणामतीतानागतानास्रवसंवरसमन्वागमात् । असंज्ञिसत्त्वानां
च ध्यानसंवरसमन्वागमात् ।
यद्भूभ्याश्रयमार्येणानास्रवं शीलमुत्पादितं निरोधितं भवति, तेनारूप्येष्व-
तीतेन समन्वागतो भवति । पञ्चभूम्याश्रयेण त्वनागतेन ।
शेषिते ।
सम्मुखीभावतश्चापि हित्वा सनरकान् कुरून् ॥ ८४ ॥
शेषः कृतः शेषिता । योऽन्यो धातुः शेषिता गतिर्वा, तत्रैते सप्त कुशलाः
कर्मपथाः सम्मुखीभावतोऽपि संविद्यन्ते, अन्यत्र नरकोत्तरकुरुभ्यः । ते पुन-
स्तिर्यक्प्रेतेषु संवरनिर्मुक्ता रूपधातौ तु संवरसंगृहीताः, अन्यत्रोभयथा ॥ ८४ ॥
त एते दशाकुशलाः कर्मपथाः कुशलाश्च
सर्वैर्धिपतिनिष्यन्दविपाकफलदा मताः ।
अकुशलैस्तावत् सर्वैरेवासेवितभावितबहुलीकृतैः नरकेषूपपद्यते । तदेषां
विपाकफलम् । स चेद्दित्यन्त्वमागच्छति मनुष्याणां सभागतां प्राणातिपातेनाल्पा-
युर्भवति, अदत्तादानेन भोगव्यसनी भवति, काममिथ्याचारेण ससपत्नदारः,
मृषावादेनाभ्याख्यानबहुलः, पैशुन्येन मित्रभेदोऽस्य भवति, पारुष्येणामनोज्ञ-
यद्भूभ्याश्रयमिति विस्तरः । पञ्च भूमयो यावच्चतुर्थध्यानभूमिः । यद् भूमि-
राश्रयोऽस्येति यद्भूभ्याश्रयम् । अनास्रवं शीलमार्येणोत्पादितं निरोधितम् ।
उत्पादितं वर्तमानमध्वानं गमितम् । निरोधितमतीतमध्वानं गमितम् । एक-
भूम्याश्रयं यावच्चतुर्भूभ्याश्रयं वा । तेनारूप्येष्वतीतेन समन्वागतो भवति । पञ्च-
भूम्याश्रयेण त्वनागतेन । कामावचराश्रयेण यावच्चतुर्थध्यानाश्रयेण च । यत्रोप-
पन्नो यत्र वा नोपपन्नस्तदाश्रयेण ।
अन्यत्र नरकोत्तरकुरुभ्य इति । तत्र समादानशीलाभावात् । अन्यत्रोभयथेति ।
अन्यत्र कामधातौ देवेषूत्तरकुरुवर्ज्येषु च मनुष्येषु उभयथा—संवरनिर्मुक्ताः,
संवरगृहीताश्च । त्रिविधः संवरः—प्रातिमोक्षसंवरः, ध्यानसंवरः, अनास्रव-
संवरश्च यथासम्भवं ग्रहीतव्यः ॥ ८४ ॥
आसेवितभावितबहुलीकृतैरिति । प्रयोग-मौल-पृष्ठावस्थासु ।