सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

निर्देशः ] चतुर्थं कोशस्थानम् ६६९
तत्र—
अशुभं रूपकामाप्तं शुभं चैव यथाक्रमम्।
कृष्णशुक्लोभयं कर्म तत्क्षयाय निरास्रवम्॥ ६०॥
अशुभं कर्म एकान्तेन कृष्णं क्लिष्टत्वात्, कृष्णविपाकं चामनोज्ञविपाकत्वात्।
रूपाप्तं शुभमेकान्तेन शुक्लम्; अकुशलेनाव्यतिभेदात्। शुक्लविपाकं च
मनोज्ञविपाकत्वात्।
आरूप्याप्तं कस्मान्नोच्यते, यत्र किल त्रिविधोऽस्ति विपाकः—आन्तरा-
भविकः, औपपत्तिकविपाकश्च? १[त्रिविधस्य च] कायवाङ्मनःकर्मणो यत्रैव सम्भवस्त-
त्रैवोक्तमिति।
तदपि तूक्तं सूत्रान्तरे—“कामाप्तं शुभं कर्म कृष्णशुक्लमकुशलव्यव-
कीर्णत्वात्, कृष्णशुक्लविपाकं व्यवकीर्णविपाकत्वात्”? सन्तानत एतद्व्यवस्थापितम्,
न स्वभावतः। न ह्येवञ्जातीयकमेकं कर्मास्ति विपाको वा यत् कृष्णं च स्यात्,
शुक्लं च; अन्योन्यविरोधात्।
ननु चैवमकुशलस्यापि कर्मणः कुशलव्यवकीर्णत्वात् कृष्णशुक्लत्वं प्राप्नोति?
कामाप्तमिति। अनेन शुभं विशिष्यते, नाशुभम्; तस्यावश्यं कामाप्तत्वात्।
आरूप्याप्तं कस्मान्नोच्यत इति। तदपि ह्यकुशलेन न व्यतिभिद्यते। न व्य-
तिमिश्रयत इत्यर्थः। यत्र किलेति विस्तरः। किलशब्दः परते। यत्र क्लान्तरा-
भविकः अन्तराभवे भवो विपाकः। एवमौपपत्तिकविपाकोऽपि। त्रिविधस्य च काय-
वाङ्मनस्कर्मणो विपाको ध्यानसंवरसंगृहीतयोः कायवाक्कर्मणोः द्वितीयादिष्वपि
ध्यानेषु सद्भावादस्ति। तत्रैवोक्तम्। शुक्लं शुक्लविपाकमिति।
तदपि तूक्तं सूत्रान्तर इति। तदप्यारूप्याप्तम्। अस्ति कर्म शुक्लं शुक्ल-
विपाकम्। तद्यथा—प्रथमे ध्याने। एवं यावद् भवाग्र इति। अनेन स्वाभिप्रायं
दर्शयति। येन किल-शब्दं प्रयुक्तवान्। सन्तानत एतद् व्यवस्थापितमिति।
एकस्मिन् सन्ताने कुशलं चाकुशलं च समुदाचरतीति कृत्वा कुशलमकुशलेन
व्यवकीर्यते। अन्योन्यविरोधादिति। कुशलमकुशलेन विरुध्यते, अकुशलञ्च
कुशलेनेति द्विरूपता न युज्यते।
१. का० पुस्तके नास्ति।

६७० भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ कर्म-
नावश्यमकुशलं कुशलेन व्यवकीर्यते; कामधातौ तस्य बलवत्त्वात् ।
कुशलं तु व्यवकीर्यते; दुर्बलत्वादिति ।
अनास्रवं कर्मैषां त्रयाणां कर्मणां क्षयाय प्रहाणाय संवर्तते । तद्यच्चकृष्णम-
क्लिष्टत्वाद्, अशुक्लं विपाकशुक्लताभावात् ।
आभिप्रायिको ह्येषोऽशुक्लशब्दः । उक्तं तु भगवता महत्यां शून्यताया-
मशैक्षान् धर्मानारभ्य —“इमे ते आनन्द धर्मा एकान्तकुशला एकान्तानवद्याः”
इति । शास्त्रे च —“शुक्ला धर्माः कतमे ? कुशला धर्मा अनिवृताव्याकृताश्च”
( ) इति । अविपाकं धात्वपतितत्वात्, प्रवृत्तिविरोधाच्च ॥ ६० ॥
किं पुनः सर्वमनास्रवं कर्म सर्वस्यास्य त्रिविधस्य कर्मणः क्षयाय संवर्तते ?
नेत्युच्यते । किं तर्हि ?
धर्मक्षान्तिषु वैराग्ये चानन्तर्यपथाष्टके ।
या चेतना द्वादशधा कर्म कृष्णक्षयाय¹ तत् ॥ ६१ ॥
नावश्यमकुशलं कुशलेन व्यवकीर्यत इति विस्तरः । व्यवकीर्यते, न त्ववश्यम् ।
यस्मात् कामधातौ प्रतिपक्षभूतस्य समाधेरभावादकुशलस्य बलवत्त्वम् । अत एव
च कुशलस्य दुर्बलत्वम् । तथा हि कामधातौ मिथ्यादृष्ट्या कुशलमूलसमुच्छेदो
भवति, न तु सम्यग्दृष्ट्या मिथ्यादृष्टिसमुच्छेदो भवति ।
आभिप्रायिको ह्येषोऽशुक्लशब्द इति । विपाकशुक्लताभावादशुक्लम्, न तु
नैव शुक्लमित्यर्थः । अपि च—यच्छुक्लमुक्तं तन्न भवतीत्यशुक्लम् । महत्यां
शून्यतायामिति । महाशून्यताधर्मसूत्रे । अनिवृताव्याकृताश्च शुक्लाः । अक्लिष्टत्वात् ।
अविपाकं धात्वपतितत्वादिति । अनास्रवा धर्माः, न धातुपतिताः । धातुपतितश्च
विपाक इत्यतोऽनास्रवं कर्माविपाकम् । कस्माद् ? इत्याह—प्रवृत्तिविरोधात
इति । अनास्रवं हि कर्म धातुपतितानां धर्माणां प्रवृत्तिं विरुणद्धि, न तु जन-
यतीत्यविपाकम् ॥ ६० ॥
“कर्म-कर्मक्षयाय” इति । द्विः कर्मग्रहणं यत्तत् कर्मास्तीत्युपदिष्टम् । तत्
कर्म सत् संविद्यमानमप्रच्युतस्वभावम् । कर्मक्षयाय संवर्त्तत इत्यस्य चतुर्थस्य
कर्मणो द्योतनार्थम् । अथवा वीप्साप्रयोग एषः । कर्मणः कर्मणः क्षयाय संवर्तत
१. कर्मक्षया—इति स्फुटार्या॒म्मतः पाठः प्रतिभाति ।

निर्देशः ] चतुर्थं कोशस्थानम् ६७१
दर्शनमार्गे चतसृषु धर्मज्ञानक्षान्तिषु कामवैराग्ये चाष्टास्वानन्तर्यमार्गेषु
या चेतना सेयं द्वादशविधा चेतना कृष्णस्य कर्मणः प्रहाणाय कर्म ॥ ६१ ॥
नवमे चेतना या सा कृष्णशुक्लक्षयाय च ।
नवमे कामवैराग्यानन्तर्यमार्गे या चेतना सा कृष्णशुक्लस्य कुशलस्य
कर्मणः कृष्णस्य चाकुशलस्य नवमस्य प्रकारस्य प्रहाणाय ।
शुक्लस्य ध्यानवैराग्येऽन्त्यानन्तर्यमार्गजा ॥ ६२ ॥
ध्यानाद्ध्यानाद् वैराग्यं कुर्वतो योऽन्त्यो नवम आनन्तर्यमार्गस्तत्र या चेतना
इयं चतुर्विधा चेतना शुक्लस्य कर्मणः प्रहाणाय ।
किं पुनः कारणमन्त्येनैवानन्तर्यमार्गेण कुशलस्य कर्मणः प्रहाणम्, नान्येन ?
न हि तस्य स्वभावप्रहाणम्; प्रहीणस्यापि सम्मुखीभावात् । किं तर्हि ? तदालम्बन-
क्लेशप्रहाणात् । अतो यावदेकोऽपि तदालम्बनक्लेशप्रकार आस्ते, तावदस्य प्रहाणं
नोपपद्यते ॥ ६२ ॥
अन्ये नरकवेद्यान्यकामवेद्यं द्वयं विदुः ।
अन्ये पुनराचार्याः पश्यन्ति—नरकवेदनीयं नरकाच्चान्यकामधातुवेदनीयं
कर्म यथाक्रमं कृष्णं कृष्णशुक्लं चेति । नरके ह्यकुशलस्यैव कर्मणो विपाकस्तेन
इत्यर्थः । चतसृष्विति विस्तरः । धर्मक्षान्तिग्रहणम्, कामवैराग्ये चानन्तर्यमार्गग्रहणं
कामावचरस्य कृष्णस्य कर्मणः प्रहाणमार्गत्वात् । अनास्रवमार्गस्यैवेहाभिकृत-
त्वाल्लौकिका आनन्तर्यमार्गास्तत्प्रहाणभूता अपि न गृह्यन्ते ॥ ६१ ॥
“शुक्लस्य ध्यानवैराग्येषु” इति । कुशलस्यैवेत्यवधार्यते; तत्र कृष्णाभावात् ।
क्लिष्टसंस्कारप्रहाणमष्टाभिः । नवमेन तु कुशलस्यापि ।
न हि तस्य स्वभावप्रहाणमिति । प्राप्तिच्छेदप्रहाणम् । प्रहीणस्यापि कुशलस्य
सम्मुखीभावात् । तदालम्बनक्लेशप्रहाणादिति । तदालम्बनस्य क्लेशस्य प्रहाणात्
तस्य कुशलस्य प्रहाणं भवति, तदालम्बनक्लेशप्रहाणं च नवमस्य तदालम्बन-
नरकवेदनीयक्लेशप्रकारस्य प्रहाणे सति भवतीति नवमानन्तर्यमार्गचेतनैव
कृष्णशुक्लस्य कर्मणः क्षयाय भवति । तदा हि नवमस्य क्लेशप्रकारस्य प्राप्तिच्छेदे
विसंयोगप्राप्तिरुपपद्यते । तस्य च कृष्णशुक्लस्य कर्मणोऽन्यस्यापि चानिवृताव्या-
कृतस्य सास्रवस्य धर्मस्य विसंयोगप्राप्तिरुत्पद्यते इति वर्णयन्ति । एवं चतुर्ध्यान-
वैराग्येष्वपि वक्तव्यम् ॥ ६२ ॥

६७२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ कर्म-
तद्वेदनीयं कृष्णमित्युच्यते। अतोऽन्यत्र कामधातौ कुशलाकुशलस्य कर्मणो
विपाकः, तेन तद्वेदनीयं कृष्णशुक्लमित्युक्तम्।
दृग्धेयं कृष्णमन्ये,
अन्ये पुनराहुः—दर्शनप्रहातव्यं कर्म कृष्णम्; कुशलेनामिश्रत्वात्।
अन्यत् कृष्णशुक्लं तु कामजम्॥ ६३ ॥
अन्यत्तु कामावचरं कर्म कृष्णशुक्लम्। किं तदन्यत् ? भावनाप्रहातव्यम्।
तद्धि कुशलं च, अकुशलं च सम्भवति ॥ ६३ ॥
सूत्र उक्तम्—"त्रीणि मौनेयानि—कायमौनेयम्, वाङ्मौनेयम्, मनो-
मौनेयं १"। तत्र—
अशैक्षं कायवाक्कर्म मनश्चैव यथाक्रमम्।
मौनत्रयम्,
अशैक्षे कायवाक्कर्मी काय-वाङ्मौनेये। अशैक्षं तु मन एव मनोमौनम्‌,
तेन तद्वेदनीयमिति। तेन नरकगतिनैयम्यकारणेन। तद्वेदनीयं नरकवेदनीय-
मित्यर्थः। अतोऽन्यत्रेति विस्तरः। ततो नरकगतेरन्यत्र कामधातौ मनुष्यादि-
गतावकुशलस्य कुशलस्य च कर्मणो विपाकः। तेन गतिनैयम्यकारणेन तदन्य-
कामधातुवेदनीयमुभयमप्यविशेष्य मिश्रीकृत्य कृष्णशुक्लमित्युक्तम्। न पुनरेवं
ग्रहीतव्यम्—कुशलमपि कृष्णशुक्लमेवमकुशलमपीति।
कुशलेनामिश्रत्वादिति। न हि कुशलं दर्शनप्रहातव्यमस्ति।
"न दृष्टिहेयमक्लिष्टम्" (अभि० को० १.३६) इति नियमादत्र चोद्यते—
कामावचरं दृग्धेयं कृष्णमिति विशेष्यं वक्तव्यम्, इतरथा हि रूप्यारूप्यावच-
रस्र्यापि दर्शनहेयस्य कृष्णविपाकत्ववचनप्रसङ्ग इति?
न वक्तव्यम्; "अन्यत् कृष्णशुक्लं तु कामजम्" इति। कामजमित्यस्योभय-
विशेषणत्वात्। कामजं दृग्धेयं कृष्णम्। कामजमन्यत् कृष्णशुक्लमिति। तद्धीति
विस्तरः। तद्धि कामावचरं भावनाप्रहातव्यम्। कुशलं चाकुशलं च सम्भवति।
तन्मिश्रीकृत्योभयमपि कृष्णशुक्लमित्युक्तम्। न पुनः प्रत्येकम् ॥ ६३ ॥
त्रीणि मौनेयानीति। मुनिता वा मुनिकर्म वा मौनेयम्, कापेयवत्। मौनत्रय-
मिति। मुनेरिदं मौनम्। अशैक्ष इति विस्तरः। अशैक्षं कायकर्माविज्ञप्तिस्वभावं
कायर्मौनम्। एवं वाङ्मौनम्। अथ कस्मादविज्ञप्तिरेव गृह्यते, न पुनर्विज्ञप्तिरपि?
१. मनोमौनेयं—का०।

निर्देशः ] चतुर्थं कोशस्थानम् ६७३
न मनस्कर्मेति । किं कारणम् ? चित्तं हि परमार्थमुनिः । तत् किल कायवाक्कर्म-
भ्यामनुमीयत इति ।
अपि खलु कायवाक्कर्माणी विरतिस्वभावम्, १ न मनस्कर्म; चित्ताविज्ञप्त्यभावात् ।
विरमार्थेन च मौनम् । अतो मन एव विरतं मौनमित्युच्यते ।
कस्मादशैक्षमेव, नान्यत्? अर्हतः परमार्थमुनित्वात्; सर्वक्लेशजल्पोपरतेः ॥
त्रीणि शौचेयानि उक्तानि सूत्रे—“कायशौचेयम्, वाक्शौचेयम्, मनः-
शौचेयं च” । तदेतत्—
त्रिधा शौचं सर्वं सुचरितत्रयम् ॥ ६४ ॥
सर्वं कायसुचरितं कायशौचम् । सर्वं वाङ्मनःसुचरितं वाङ्मनःशौचम् ।
दुश्चरितमलापकर्षणात् तावत्कालमत्यन्तं च२ ।
एषा च देशना मिथ्यामौनशौचाधिमुक्तानां३ विवेचनार्थम् ॥ ६४ ॥
विज्ञप्तेः सास्रवत्वेनाशैक्षत्वासम्भवात् । मन एव मनोमौनमिति । स्वार्थे वृद्धि-
विधानात् । चित्तं हि परमार्थमुनिरिति । सर्वक्लेशजल्पोपरतेरिति कारणं वक्ष्यते ।
तत् किल कायवाक्कर्मभ्यामशैक्षाभ्यामनुमीयते अशैक्षमिति । कथं तथागतोऽनु-
मातव्यः ? “प्रशान्तेन कायकर्मणा प्रशान्तेन वाक्कर्मणा” इति सूत्रे वचनात् ।
किलशब्देन वैभाषिकमतं द्योतयित्वाचार्यः स्वमतमाह—अपि खल्विति
विस्तरः । चित्ताविज्ञप्त्यभावादिति । यस्माच्चित्तस्याविज्ञप्तिर्नास्त्यतो न मनस्कर्म
विरतिस्वभावम् । विरमार्थेन च मौनमिति । विरमो विरतिः । सर्वाकुशलविर-
मार्थेन मौनमित्यभिप्रायः । अतो मन एव सर्वाकुशलेभ्यो विरतं मौनमित्युच्यते ।
सर्वक्लेशजल्पोपरतेरिति । वित्थालम्बनजल्पनात् क्लेशा जल्पा इत्युच्यन्ते ।
ते चार्हत उपरता इत्यर्हन् परमार्थमुनिः ।
शौचेयानीति । शुचिभावः शौचेयम्, शौचमित्यर्थः । सर्वग्रहणं सास्रवाना-
स्रवसुचरितपरिग्रहार्थम् । तावत्कालमत्यन्तं चेति । तावत्कालं दुश्चरितमलाप-
कर्षकं सास्रवेण सुचरितत्रयेण । अत्यन्तम् । अनास्रवेण । तद्धि “भिक्षवः प्रहीणं
यदार्यया प्रज्ञया” ( ) इति सूत्रात् ।
मिथ्यामौनशौचाधिमुक्तानां विवेचनार्थमिति । तूष्णीम्भावमात्रेण शुद्धिदर्शिनो
१. ०स्वभावेन—का० । २. वा—का० ।
३. ०धिमुक्तिकानां—का० ।

६७४ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ कर्म-
त्रीणि दुश्चरितान्युक्तानि। तत्र—
अशुभं कायकर्मादि मतं दुश्चरितत्रयम्।
अकुशलं कायवाङ्मनस्कर्म, यथाक्रमं कायवाङ्मनोदुश्चरितम्।
अकर्मापि त्वभिध्यादि मनोदुश्चरितं त्रिधा ॥ ६५ ॥
अकर्मस्वभावमप्यस्ति त्रिविधं मनोदुश्चरितं चेतनान्तरभूतम्—अभिध्या,
व्यापादः, मिथ्यादृष्टिश्च।
अभिध्यादय एव मनस्कर्मेति दार्ष्टान्तिकाः; सञ्चेतनीयसूत्रे वचनात्।
एवं तु सति कर्मक्लेशयोरैक्यं स्यात् ? किं स्याद्यदि कश्चित् क्लेशोऽपि
कर्म स्यात् ? नैतदस्ति; सूत्रं विरुद्धं स्यात्। सूत्रे तु चेतनायास्तन्मुखेन प्रवृत्ते-
स्तैस्तां दर्शयतीति वैभाषिकाः। अनिष्टफलत्वात् कुत्सितः कायवाङ्मनश्चारो
दुश्चरितम् ॥ ६५ ॥
विपर्ययात् सुचरितम्,
इष्टं कुशलं कायवाङ्मनस्कर्म—अनभिध्याऽव्यापादसम्यग्दृष्टयश्च।
मिथ्यामीनाधिमुक्ताः। कायमलापकर्षणमात्रेण शुद्धिदर्शिनो मिथ्याशौचाधि-
मुक्ताः। तेषां विवेचनं ततो दर्शनात् प्रच्यावनम्, तदर्थमेतानीति ॥ ६४ ॥
सञ्चेतनीयसूत्रे वचनादिति। "सञ्चेतनीयं कर्म कृत्वोपचित्य नरकेषूपपद्यते।
कथं च भिक्षवः सञ्चेतनीयं कर्म कृतं भवत्युपचितम् ? इह भिक्षव एकत्यः
सञ्चित्य त्रिविधं कायेन कर्म करोत्युपचिनोति, चतुर्विधं वाचा, त्रिविधं मनसा"
इति विस्तरेणोक्त्वाह—"कथं भिक्षवस्त्रिविधं मनसा सञ्चेतनीयं कर्म कृतं
भवत्युपचितम् ? यथापीहैकत्योऽभिध्यालुर्भवति व्यापन्नचित्तो यावन्मिथ्या-
दृष्टिः। खलु भिक्षव इहैकत्यो भवति विपरीतदर्शी" ( ) इति
विस्तरः। न चान्यदभिध्यादिव्यतिरिक्तं तत्र मनस्कर्मोक्तमिति अभिध्यादय एव
मनस्कर्मेति। दार्ष्टान्तिकाः सौत्रान्तिकविशेषा इत्यर्थः।
एवं तु सति कर्मक्लेशयोरैक्यं स्यादिति। अभिध्याव्यापादमिथ्यादृष्टयः
क्लेशाः, त एव कर्मेति तदैक्यं स्यात्। नैतदस्ति। कश्चित् क्लेशोऽपि कर्म
स्यादिति। "चेतना कर्म चेतयित्वा च" इति वचनात्। यद्येवं सञ्चेतनीयं सूत्रं
कथं नीयते ? इत्याह—सूत्रे त्विति विस्तरः। सूत्रे तु चेतनायास्तन्मुखेनाभिध्यादि-
मुखेन प्रवृत्तेस्तैरभिध्यादिभिस्तां चेतनां दर्शयति। "अभिध्यालुः खलु भिक्षवो
भवति" इति विस्तरेण। अन्यथा "चेतनामहं भिक्षवः कर्म वदामि चेतयित्वा

निर्देशः ] चतुर्थं कोशस्थानम् ६७५
परानुग्रहोपघाताभिसन्ध्यभावे कथं सम्यग्दृष्टिमिथ्यादृष्ट्योः कुशलाकुशलत्वम् ?
तन्मूलत्वात् ।
यानि चैतानि दुश्चरितसुचरितान्युक्तानि,
तदौदारिकसंग्रहात् ।
दश कर्मपथा उक्ता यथायोगं शुभाशुभाः ॥ ६६ ॥
तेषामेव सुचरितदुश्चरितानां चौदारिकसंग्रहेण दश कर्मपथाः सूत्र उक्ताः
यथायोगम्—कुशलाः सुचरितेभ्यः, अकुशला दुश्चरितेभ्यश्च¹ ।
किमत्र दुश्चरितमसंगृहीतम् ? किं वा सुचरितम् ? अकुशलेषु तत्कर्मपथेषु
कायदुश्चरितस्य प्रदेशो न संगृहीतः प्रयोगपृष्ठभूतः क्लिष्टश्चान्योऽपि वधबन्धनादिः²;
तस्य नात्यौदारिकत्वात् ।
यद्धि कायदुश्चरितं परेषां जीवितभोगदारेभ्यश्च्यावकं तत् कर्मपथ उक्तं
ततो विवेचनार्थम् । वाग्दुश्चरितमपि यदेव प्रशस्तं³ तत्कर्मपथ उक्तं तदर्थमेव ।
मनोदुश्चरितस्य च प्रदेशश्चेतना⁴ ।
कुशलेष्वपि कायसुचरितस्य प्रदेशः प्रयोगपृष्ठमद्यादिविरतिदानेज्यादिः,
वाक्सुचरितस्य प्रियवचनादिकः, मनःसुचरितस्य चेतना ॥ ६६ ॥
च” ( ) इत्येतद्विरुध्यते । कर्मक्लेशयोश्चैक्ये अभिधर्मविरोधः स्यात् ।
परानुग्रहोपघाताभिसन्ध्यभाव इति विस्तरः । परेषामनुग्रहोपघातयोरभिसन्ध्य-
भावे कथं सम्यग्दृष्टिमिथ्यादृष्ट्योर्यथाक्रमं कुशलाकुशलत्वमिति । अतो ब्रवीति—
तन्मूलत्वादिति । यस्मात् परानुग्रहाभिसन्धेः परोपघाताभिसन्धेश्च सम्यग्-
दृष्टिमिथ्यादृष्टी मूलं कारणमित्यर्थः । अतस्तयोः कुशलाकुशलत्वम् ॥ ६५ ॥
यथायोगमिति । यथासम्भवम् । कथम् ? इत्याह—कुशलाः सुचरितेभ्यः,
अकुशला दुश्चरितेभ्यश्चेति ।
क्लिष्टश्चान्योऽपीति । वधबन्धनादिः । तस्य नात्यौदारिकत्वादिति । तस्य
प्रयोगपृष्ठभूतस्य [xxxxxxxxx] अनत्यौदारिकत्वात् । मनोदुश्चरितस्य च
प्रदेशश्चेतना । न संगृहीतेति वर्तते ।
मद्यादिविरतिदानेज्यादिक इति । प्रथमेनादिशब्देन ताडनबन्धनादिविरति-
र्गृह्यते । द्वितीयेनापि स्नपनोद्वर्तनविषमहस्तप्रदानादिर्गृह्यते । प्रियवचनादिक
१. दुश्चरितेभ्यः—का० । २. बन्धादिः—का० ।
३. प्रशस्तं—का० । ४. प्रदेशचेतना—का० ।

३७६ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ कर्म-
एषां च कर्मपथानाम्
अशुभाः षडविज्ञप्तिः,
अकुशलाः षट् कर्मपथा अवश्यमविज्ञप्तिस्वभावाः प्राणातिपातादत्तादान-
मृषावाद-पैशुन्य-पारुष्य-सम्भिन्नप्रलापाः; परेण कारयतो मौलविज्ञप्त्यभावात् ।
द्विधैकः,
काममिथ्याचारो नित्यं विज्ञप्यविज्ञप्तिस्वभावः; तस्य स्वयमेव निष्ठापनात् ।
न हि तं परेण कारयतस्तादृशी प्रीतिर्भवतीति ।
तेऽपि कुर्वतः ।
तेऽपि षट् कर्मपथाः स्वयं कुर्वतो द्विविधा भवन्ति—विज्ञप्तिः, अविज्ञप्तिश्च ।
तत्कालमरणे पश्चान्मरणे त्वविज्ञप्तिरेव ।
कुशलानां पुनः कर्मपथानां
द्विविधाः सप्त कुशलाः,
कुशलाः सप्त रूपिणः कर्मपथा अवश्यं द्विपकाराः—विज्ञप्तिः, अविज्ञप्तिश्च;
विज्ञप्यधीनत्वात् समादानशीलस्य ।
अविज्ञप्तिः समाधिजाः ॥ ६७ ॥
ध्यानानास्रवसंवरसंगृहीताः समाधिजा उच्यन्ते । ते ह्यविज्ञप्तिरेव;
इति । आदिशब्देन धर्मदेशनादिमार्गकथनादिर्गृह्यते । मनःसुचरितस्य चेतना
न संगृहीतेति वर्तते ॥ ६६ ॥
षडविज्ञप्तिरिति । षडविज्ञप्तिरवश्यम्, न त्वविज्ञप्तिरेव षडित्यवधारणम् ।
मौलविज्ञप्त्यभावादिति । यस्मान्मौली कर्मपथसंगृहीता विज्ञप्तिर्नास्ति । आज्ञापन-
विज्ञप्तिस्त्वस्ति प्रयोगसंगृहीतेति वैभाषिकसिद्धान्तः ।
“द्विधैकः” इति । द्विधैवैक इत्यवधारणार्थ आरम्भः ।
तत्कालमरण इति । विज्ञप्तिकालमरणे । कालान्तरमरणे त्वविज्ञप्तिरेव
भवति ।
“द्विविधाः सप्तकुशलाः” इति । द्विविधा एवेत्यवधारणम् । विज्ञप्यधीन-
त्वात् समादानशीलस्येति । शीलं हि द्विविधम्—समादानशीलम्, प्रातिमोक्ष-
संवरः । धर्मताशीलं च ध्यानानास्रवसंवरौ । समादानशीलं विज्ञप्यधीनम्,
तद्धि परस्मादादीयते । धर्मताशीलं तु न विज्ञप्यधीनम्; चित्तमात्राधीनत्वात् ।

निर्देशः ] चतुर्थं कोशस्थानम् ६७७
चित्तमात्राधीनत्वात् ॥ ६७ ॥
सामन्तकास्तु विज्ञप्तिः,
कर्मपथसामन्तकास्तु विज्ञप्तिस्वभावा अवश्यम् ।
अविज्ञप्तिर्भवेन्न वा ।
यदि तीव्रेण पर्यवस्थानेन प्रमादेन वा घनरसेन प्रयोगमारभेत, स्याद्-
विज्ञप्तिः, अन्यथा न स्यात् ।
विपर्ययेण पृष्ठानि,
सामन्तकेभ्यो विपर्ययेण कर्मपथानां पृष्ठानि वेदितव्यानि । तानि
अवश्यमविज्ञप्तिस्वभावानि । विज्ञप्तिस्तु भवेन्न वा । यदि कर्मपथं कृत्वा
पुनस्तस्यानुधर्मं चेष्टेत; तस्य स्याद् विज्ञप्तिः, अन्यथा न स्यात् ।
अथ कुतो यावदेषां प्रयोग-मौल-पृष्ठानां व्यवस्थानम् ?
यदा तावदिह कश्चित् पशुं हन्तुकामो मञ्चकादुत्तिष्ठति, मूल्यं गृह्णाति,
गच्छति, आमृशति, पशुं क्रीणाति, आनयति, कुष्णाति१, प्रवेशयति, निहन्तुं शस्त्रमा-
दत्ते, प्रहारमेकं ददाति, द्वौ वा यावन्न जीविताद् व्यपरोपयति तावत् प्रयोगः ।
येन तु प्रहारेण जीविताद् व्यपरोपयति तत्र या विज्ञप्तिः, तत्क्षणिका
वाऽविज्ञप्तिरियं मौलः कर्मपथः ।
द्वाभ्यां हि कारणाभ्यां प्राणातिपातावद्येन स्पृश्यते—प्रयोगतः, मृते सति
फलपरिपूरितश्च । ततः परमविज्ञप्तिक्षणाः२ पृष्ठं भवन्ति । यावच्च तं पशुं
अत एवाह—"अविज्ञप्तिः समाधिजा" इति ॥ ६७ ॥
“सामन्तकास्तु विज्ञप्तिः” इति । कामावचरकर्मपथप्रयोगा अवश्यं विज्ञप्तिः,
न त्ववश्यमविज्ञप्तिरिति ।
अत एवाह—“अविज्ञप्तिर्भवेन्न वा” इति । पर्यवस्थानेनेति । आह्रीक्या-
दिना । घनरसेनेति । घनवेगेन । तस्यानुधर्मं चेष्टेतेति । तस्य कर्मपथस्यानुधर्म-
मनुसदृशं कर्म । तद्यथा—मृतेऽपि प्राणिनि पुनः प्रहारदानम्, कोषणम्, मांस-
च्छेदनमित्येवमादि ।
द्वौ कुष्णातीति शब्दौ । परस्य चर्मापनयनमर्थः । पूर्वस्यार्थान्तरं द्रष्टव्यम् ।
फलपरिपूरितश्चेति । प्रयोगस्य मौलः कर्मपथः फलपरिपूरिः । यो हि
प्रयुज्यते मौलं कर्मपथं न जनयति, तस्य प्रयोगफलमस्ति; न तु फलपरिपूरिः ।
१. पृष्णाति—का० । २. ऊर्ध्वं०—का० ।

६७८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ कर्म-
कुष्णाति, शोधयति, विक्रीणीते, पचति, खादयति, अनुकीर्तयति वा, तावदस्य
विज्ञप्तिक्षणा अपि पृष्ठं भवन्ति ।
एवमन्येष्वपि यथासम्भवं योज्यम् ।
अभिध्यादीनां नास्ति प्रयोगः, न पृष्ठम्; सम्मुखीभावमात्रात् कर्मपथः ।
इदमत्र वक्तव्यम्—किं तावत् मरणभवस्थे तस्मिन् प्राणिनि ये विज्ञप्त्य-
विज्ञप्ती ते कर्मपथः ? आहोस्विन्मृते ? किं चातः ? यदि तावन्मरणभवस्थे,
सहमृतस्यापि हन्तुर्घातयितुर्वा प्राणातिपातावद्येन योगः प्राप्नोति, न चैष
सिद्धान्तः ? अथ मृते, यदुक्तम्—“येन तु प्रहारेण जीविताद् व्यपरोपयति तत्र
या विज्ञप्तिस्तत्क्षणिका चाविज्ञप्तिरयं मौलः कर्मपथः” इति तन्न वक्तव्यम् ?
यच्चापीदं शास्त्र उक्तम्—“स्यात् प्राणी हतः प्राणातिपातश्चानिरुद्धः ।
स्याद्यथा हि स१ प्राणी२ जीविताद् व्यपरोपितो भवति प्रयोगश्चाप्रतिप्रस्रब्धः”
इति, अत्र पृष्ठं प्रयोगशब्देनोक्तमिति वैभाषिकोयोऽर्थविरोधः, मौलस्यैव
तदानीमनिरुद्धत्वात् ?
एवमन्येष्वपीति । यथा तावदिह कश्चित् परस्वं हर्तुकामो मञ्चादुत्तिष्ठति,
शस्त्रं गृह्णाति, परगृहं गच्छति, सुप्तो न वेत्याकर्णयति, परस्वं स्पृशति, यावन्न
स्थानात् प्रचयावयति तावत् प्रयोगः । यस्मिंस्तु क्षणे स्थानात् प्रचयावयति
तत्र या विज्ञप्तिस्तत्क्षणिका चाविज्ञप्तिरयं मौलः कर्मपथः । द्वाभ्यां हि कारणा-
भ्यामदत्तादानावद्येन स्पृश्यते—प्रयोगतः, फलपरिपूरितश्च । ततः परम-
विज्ञप्तिक्षणाः पृष्ठं भवन्ति । यावत्तत् परस्वं विभजते, विक्रीणीते, गोपायति,
अनुकीर्तयति वा, तावदस्य विज्ञप्तिक्षणा अपि पृष्ठं भवन्तीति । एवमन्येष्वपि
पञ्चसु यथासम्भवं योज्यम् ।
मरणभवस्थ इति । मृत एव । न चैष सिद्धान्त इति । “समं प्राक् च
मृतस्यास्ति न मौलोऽन्याश्रयोदयात्” (अभि० को० ४.७२) इति
सिद्धान्तात् । तन्न वक्तव्यमिति । व्यपरोपयतीति । विप्रकृतावस्थायामयोगात् ।
एवं तु वक्तव्यं स्यात्—मृते प्राणिनि या विज्ञप्तिस्तत्क्षणिका चाविज्ञप्तिरयं
मौलः कर्मपथ इति । यच्चापीदमिति विस्तरः । वैभाषिकैरस्य शास्त्रवाक्यस्यैव-
मर्थो व्याख्यातः । अत्र शास्त्रे प्रयोगशब्देन पृष्ठमुक्तमिति । प्रयोग इव प्रयोगः ।
प्रयोगसदृशी या क्रियेत्यर्थः । अस्यार्थस्य विरोधः । कस्मात् ? मौलस्यैव तदानीम्-
१. वा०—का० । २-२. तंत्राणी—का० ।

निर्देशः ] चतुर्थं कोशस्थानम् ६७९
यथा न दोषस्तथास्तु ।
कथं च न दोषः ? मौल एवात्र प्रयोगशब्देनोक्त इति ।
विज्ञप्तिस्तर्हि तदा कथं मौलः कर्मपथो भवति ? कथं च न भवितव्यम् ?
असामर्थ्यात् ।
अविज्ञप्तिरिदानीं कथं भवति ? तस्मात् प्रयोगफलपरिपूरिकाले तदुभयं
कर्मपथः स्यात् । कर्मपथोऽप्यन्यस्य प्रयोगः पृष्ठं च भवति । प्राणातिपातस्य
दशापि कर्मपथाः प्रयोगः । यथा च शत्रोर्वधार्थं कृत्यं समुपस्थापयन् पशुना
बलिं कुर्यात्, परकीयं कृत्वा दारेषु चास्य विप्रतिपद्येत तत्रैव तद्घातनार्थम् ।
अनृतपिशुनपरुषसान्त्वैश्चास्य मित्रभेदं कुर्याद्, 'यान्यस्य परित्राणाय कल्पेरन् ।
अभिध्यां च तत्स्वे' कुर्यात् तत्रैव च व्यापादं तद्वधार्थं च मिथ्यादृष्टिं बृंहयेदिति ।
एवमन्येष्वपि यथायोगं योज्यम् ।
निरुद्धात् । मृते प्राणिनि मौलकर्मपथव्यवस्थापनादित्यत्राभिप्रायः ।
वैभाषिक आह—यथा न दोषस्तथास्त्विति । कथं च न दोष इत्याचार्यः ।
वैभाषिकः पुनराह—मौल एवात्र प्रयोगशब्देनोक्त इति । कुत्र ? योऽयं प्रश्नः
स्यात्—'प्राणी हतः प्राणातिपातश्चानिरुद्धः' इत्यत्र । 'पृष्ठं प्रयोगशब्देनोक्तम्'
इति किमयं पक्षः परित्यक्त एव ? स च न परित्यक्त एव । उभयमपि हि
सम्भवति । यदि मरणभवान्तरक्षणवर्ती प्राणी भवति अत्र प्रयोगशब्देन
मौल उक्त इतीष्यते । ततः परेण तु पृष्ठ इति ।
आचार्य आह—विज्ञप्तिस्तर्हि तदा कथं मौलः कर्मपथो भवतीति । मृते हि
प्राणिनि विज्ञप्तिरकिञ्चित्करी । न हि तेन विज्ञप्तिप्रहारेण मृतस्य मारणं पुन-
रस्तीति मन्यमानोऽयं पृच्छति । कस्मादविज्ञप्तिं न पृच्छति ? यस्मादसाव-
निदर्शनत्वादप्रतिघत्वाच्च प्रहाराख्या न भवति । कथं च न भवितव्यमिति
वैभाषिकेनोक्ते । स्वाभिप्रायमाचार्यो विवृणोति—असामर्थ्यादिति । प्राणिनि
मृते तस्याः सामर्थ्यं न दृश्यत इति ।
वैभाषिक आह—अविज्ञप्तिरिदानीं कथं भवति । असति सामर्थ्ये मौलः कर्मपथ
इति । यस्मादेवमविज्ञप्तिरसामर्थ्येऽपि मौलः कर्मपथो भवति, तस्मात् प्रयोग-
फलपरिपूरिकाले मौलकर्मपथपरिसमाप्तिकाले प्राणिनो मृतत्वावस्थायाम् ।
तदुभयं विज्ञप्त्यविज्ञप्त्याख्यं कर्मपथः स्याद् । युज्येतेत्यर्थः ।
एवमन्येष्वपि यथायोगं योज्यमिति । यथा परस्वं हर्तुकामः कार्यसिद्धये
१. स्व०--का०' ।

६८० भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ कर्म-
न त्वभिध्यादयः प्रयोगा युज्यन्ते । न हि चित्तोत्पादमात्रेण प्रयुक्तो भवति;
क्रियानारम्भात् ।
सूत्र उक्तम्—"प्राणातिपातो भिक्षवस्त्रिविधः—लोभजः, द्वेषजः, मोहजो
यावन्मिथ्यादृष्टिः" ( ) इति । तत्र कीदृशः प्राणातिपातो लोभज
इत्येवमादि वक्तव्यम् । नात्र सर्वेषां कर्मपथानां लोभादिभिर्निष्ठा ?
प्रयोगस्तु त्रिमूलजः ॥ ६८ ॥
प्रयोगस्तेषामकुशलमूलत्रयाज्जात इत्यादिसमुत्थानवचनादेवमुक्तः ।
तत्र लोभजप्राणातिपातो यथा—तच्छरीरावयवार्थमर्थार्थं क्रीतार्थं च प्राणिनं
जीविताद् व्यपरोपयति आत्मसुहृत्परित्राणाय ।
द्वेषजो यथा—वैरनिपीडनार्थम् ।
मोहजो यथा—याज्ञिकानां धर्मबुद्ध्या राज्ञां च धर्मपाठक

निर्देशः ]        चतुर्थं कोशस्थानम्        ५८१
पाठकप्रामाण्यात् दुष्टनिग्रहार्थम् । यथा ब्राह्मणा आहुः—“सर्वमिदं ब्रह्मणा
ब्राह्मणेभ्यो दत्तं ब्राह्मणानां दौर्बल्याद् वृषलाः परिभुञ्जते । तस्मादपहरन् ब्राह्मणः
स्वमादत्ते, स्वमेव ब्राह्मणो भुङ्क्ते, ग्वं वस्ते, स्वं ददाति च” (       )
इति । न चैषामपरस्वसंज्ञा भवति । यच्च मिथ्यादृष्टिप्रवर्तितम् ।
लोभजः काममिथ्याचारः—परदारादिषु तत्संगादब्रह्मचर्यं लाभसत्कारार्थ-
मात्मसुहृत्परित्राणाय । द्वेषजः—वैरनिपीडनार्थम् । मोहजो यथा—पारसीकानां
मात्रादिगमनम्, गोसवे च यज्ञे । यथोक्तम्—“ब्राह्मणो गोसवेनेष्ट्वा संवत्सर-
गोव्रती भवति । उपहा उदकं चूषति, तृणानि च्छिनत्ति, उपैति मातरम्, उप
स्वसारम्, उप सगोत्राम्” (       ) इति । ये चाहुः—“उदूखल-
पुण्यफलपक्वान्नतीर्थमार्गप्ररुयो मातृग्रामः” इति । मृषावादादयो लोभजा द्वेष-
जाश्च पूर्ववत् । मोहजो मृषावादः, यथाह—
“न नर्मयुक्तमनृतं हिनस्ति न स्त्रीषु राजन् न विवाहकाले ।
प्राणात्यये सर्वधनापहारे पञ्चानृतान्याहुरपातकानि” ॥
(       ) इति ।
यश्च मिथ्यादृष्टिप्रवर्तितो मृषावादः । पैशून्यादयस्तु मिथ्यादृष्टिप्रवर्तिता
नास्ति परलोक इति कृत्वा निरपेक्षो हन्ति । अयमपि मोहजः—अन्यलाभस-
त्कारयशोऽर्थमिति । अन्यलाभस्यार्थे परस्वं हरति । यथाव्यवहारिकः । सत्-
कारस्य यशसो वार्थं हरति । इदमपि लोभजमदत्तादानम् । यच्च मिथ्यादृष्टिप्र-
वर्तितं तदपि मोहजमदत्तादानम्, तत्र मोहप्रवान्यात् ।
उपैति मातरम् । अब्रह्मचर्यार्थे । उपस्वसारम् । उपैतीति वर्तते । उपस्वसारं
भगिनीमित्यर्थः । उपसगोत्रामिति । समानगोत्रामित्यर्थः । उपहा=यजमानः ।
ये चाहुरिति विस्तरः । उदूखलादितुल्यो मातृग्रामः । यथोदूखलादयः साधारणा
उपभोग्याः, एवं स्त्रीजनः । तस्मान्न दोषोऽस्त्यभिगच्छतामिति । मृषावादादयो
लोभजा द्वेषजाश्च पूर्ववदिति । मृषावादपैशुन्यपारुष्यसम्भिन्नप्रलापा लोभजा
अन्यलाभसत्कारयशोऽर्थं वा, आत्मसुहृत्परित्राणार्थं वा । द्वेषजा वैर-
निर्यातनार्थम् ।
न नर्मयुक्तम् । न परिहासयुक्तम् ।
मिथ्यादृष्टिप्रवर्तित इति । 'नास्ति परलोकः' इति निर्मर्यादस्य यो मृषा-

६८२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ कर्म-
मोहजाः। यश्च वेदाद्यसच्छास्त्रप्रलापः ॥ ६८ ॥
अभिध्यादयः कथं लोभजाः ?
तदनन्तरसम्भूतैरभिध्याद्यास्त्रिमूलजाः
लोभादनन्तरमुत्पन्ना लोभजाः, द्वेषादनन्तरं द्वेषजाः, मोहादनन्तरं मोहजाः।
उक्ता अकुशलाः कर्मपथाः ॥
कुशलाः कथम् ? इत्याह—
कुशलाः सप्रयोगान्ता अलोभाद्वेषमोहजाः ॥ ६९ ॥
सप्रयोगपृष्ठाः कुशलाः कर्मपथा अलोभाद्वेषमोहजाः, कुशलचित्त-
समुत्थितत्वात्। तस्य च अवश्यमलोभादिभिः संप्रयोगात् तत्राकुशलकर्मपथ-
प्रयोगाद् विरतिः कुशलकर्मपथप्रयोगः। मौलाद् विरतिः मौलः। पृष्ठाद् विरति पृष्ठः।
तद्यथा श्रामणेर उपसम्पाद्यमानो नानावासं प्रविशति, भिक्षून् वन्दते, उपाध्यायं
याचते, यावदेकं कर्मवाचनं क्रियते द्वितीयं च— अयं प्रयोगः। तृतीयकर्मवाचने
या विज्ञप्तिस्तत्क्षणिका चाविज्ञप्तिः—अयं मौलः कर्मपथः। तत ऊर्ध्वं यावन्निश्रया
आरोच्यन्ते, तदधिष्ठानं च विज्ञपयति अविज्ञप्तिश्च यावदनुवर्तते—इदं पृष्ठम् ॥ ६९॥

वाद्योऽयं मोहजः। पैशुन्यादयस्तु। पैशुन्यपारुष्याबद्धप्रलापाः। मृषावादवत्
मोहजाः। यश्चेति विस्तरः। यश्च वेद-सांख्य-वैशेषिकाद्यसत्प्रलापः, स चापि
मोहजः सम्भिन्नप्रलापः ॥ ६८ ॥
तस्य चेति कुशलचित्तस्य। नानावासं प्रविशतीति। मण्डलं प्रविशतीत्यर्थः।
नानावासा हि तस्मिन् महासीमामण्डले भवन्ति। तृतीये कर्मवाचन इति।
ज्ञप्तिचतुर्थेन कर्मणा श्रामणेर उपसम्पाद्यते। तत्र ज्ञप्त्या इदन्नामानमुपसम्पाद-
येत् सङ्घ इति। लिङर्थ उच्यते। कर्मवाचनेन लडर्थ उच्यते— इमं सङ्घ
उपसम्पादयतीति। तत्र कर्मवाचनं निरुच्यते। तृतीयस्य कर्मवाचनस्यापरि-
समाप्तेः प्रयोगः कर्मपथस्यावगन्तव्यः। तस्यावसाने तु या विज्ञप्तिस्तत्क्षणिका
वाऽविज्ञप्तिरियं मौलः कर्मपथः। तत ऊर्ध्वं यावन्निश्रया आरोच्यन्त इति।
चत्वारो निश्रयाश्चीवरपिण्डपातशय्यासनग्लानप्रत्ययभैषज्यलक्षणा यथोक्तेन
विधिना तस्योपसम्पादितस्यारोच्यन्ते। तदधिष्ठानं च विज्ञापयति। निश्रया-
धिष्ठानं च विज्ञप्तिं करोतीत्यर्थः। अविज्ञप्तिश्च यावदनुवर्तते। यावत् संवरो न
हास्यत इत्यर्थः। इदं पृष्ठम् ॥ ६९ ॥

निर्देशः ] चतुर्थं कोशस्थानम् ६८३
यदुक्तम्—"न सर्वेषां कर्मपथानां लोभादिभिर्निष्ठा" इति, अथ कस्य
केन निष्ठा ?
वधव्यापादपारुष्यनिष्ठा द्वेषेण,
एषां प्राणातिपात-व्यापाद-पारुष्याणां द्वेषेण समाप्तिः; परित्यागपरुषचित्त-
सम्मुखीभावात् ।
लोभतः ।
परस्त्रीगमनाभिध्याऽदत्तादानसमापनम् ॥ ७० ॥
लोभेन काममिथ्याचाराभिध्याऽदत्तादानानां समाप्तिः ॥ ७० ॥
मिथ्यादृष्टेस्तु मोहेन,
अधिमात्रभूतो हि तां निष्ठापयति ।
शेषाणां त्रिभिरिष्यते ।
के पुनः शेषाः ? मृषावादपैशुन्यसम्भिन्नप्रल'पाः । एषां त्रिभिरपि निष्ठा—
लोभेन, द्वेषेण, मोहेन वा ।
य एते कर्मपथाश्चतुर्भिः काण्डैरुक्तास्त्रयस्त्रय एकश्चायश्च, एषा

६८४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ कर्म-
यः परं मरणान् नियमय्य समं तेन पूर्वं वा म्रियते, किमस्य मौलः कर्मपथो
भवति ? उताहो न ?
समं प्राक् च मृतस्यास्ति न मौलः,
अत एवोच्यते—"स्यात् प्रयोगं कुर्यात् फलं च परिपूरयेन्न च प्राणाति-
पातावद्येन स्पृश्यते ? आह—स्यात्, यथापि तद्वद्यपरोपकः पूर्वं स वा कालं
कुर्यात्" ( ) इति । किं पुनस्तत् कारणम् ?
न हि वध्ये जीवति हन्तुः प्राणातिपातावद्येनास्ति योगः, नापि सहमृतस्य
हन्तुः ।
अन्याश्रयोदयात् ।
येनाश्रयेण तत्प्रयोगः कृतः स उच्छिन्नः, अन्य एवाश्रयो निकायभागभिन्न
उत्पन्नः, तस्य प्रयोक्तृत्वात् कर्मपथेन योगो न उक्तः ।
यत्सेनापातमृगयावस्कन्धेषु परेषां वधार्थं बहवः समग्राः पतन्ति, एकश्च
प्राणातिपातं करोति, कस्तेन समन्वगतो भवति ?
सेनादिष्वेककार्यत्वात्¹ सर्वे कर्तृवदन्विताः² ॥ ७२ ॥
यथैव हि कर्त्ता, तथा सर्वे समन्वागता भवन्ति; एककार्यत्वात् । अर्थतो
हि तेऽन्योन्यं प्रयोक्तारो भवन्ति ।
यस्तर्हि बलान्नीयते, सोऽपि समन्वागतो भवति ? अन्यत्र य एवं निश्चित्य
यायात्—'यावज्जीवितहेतोरपि प्राणिनं न हनिष्यामि' इति ॥ ७२ ॥
कियता पुनः प्राणातिपातं स्वयं कुर्वतः कर्मपथो भवति ? कियता याव-
न्मिथ्यादृष्टिः कर्मपथः—इति लक्षणं वक्तव्यम् ? तदुच्यते—
“न मौलः” इति । प्रतिषेधात् पृष्ठमपि न भवतीति गम्यते । मौल-
पूर्वत्वात् पृष्ठस्य ।
न च प्राणातिपातावद्येन स्पृश्यत इति । न मौलेनेत्यभिप्रायः ।
“अन्याश्रयोदयात्” इति । विसभागाश्रयोदयादित्यर्थः ।
अर्थतो हि तेऽन्योन्यं प्रयोक्तार इति । न वाचा तेऽन्योन्यं प्रयोक्तारः, किं
तर्हि ? प्राणातिपातकारणाभ्युपगमादर्थत इति दर्शयति । एककार्यत्वात् ॥ ७२ ॥
१-१. सेनादेश्वैककार्यत्वात् सर्वकर्तृवदस्ति सः—इति पाठान्तरम् ।

निर्देशः ] चतुर्थं कोशस्थानम् ६८५
प्राणातिपातः सञ्चिन्त्य परस्याभ्रान्तिमारणम् ।
यदि 'मारयिष्याम्येनम्' इति संज्ञाय परं मारयति, तमेव च मारयति नान्यं
भ्रमित्वा—इयता प्राणातिपातो भवति । यस्तर्हि सन्दिग्धो मारयति—किमयं
प्राणी न प्राणीति, स एवान्यो वेति, सोऽप्यवश्यमेतं निश्चयं लब्ध्वा तत्र
प्रहरति । योऽस्तु सोऽस्त्विति कृतमेवानेन त्यागचित्तं भवति ।
कथं क्षणिकेषु स्कन्धेषु प्राणातिपातो भवति ? प्राणो नाम वायुः
कायचित्तसन्निश्रितो वर्तते, तमतिपातयति १ । यथा प्रदीपं निरोधयति,
घण्टास्वनं वा ।
जीवितेन्द्रियं वा प्राणः, तन्निरोधयति । यद्येकस्यापि जीवितक्षणस्योत्पद्य-
मानस्यान्तरायं करोति, प्राणातिपातावद्येन स्पृश्यते, नान्यथा ।
कस्य तज्जीवितं यस्तदभावान्मृतो भवति ? 'कस्य' इति षष्ठीं पुद्गलवादे
चिन्तयिष्यामि २ । उक्तं तु भगवता—
संज्ञाय परिच्छिद्येत्यर्थः । नान्यं भ्रमित्वेति । न भ्रान्त्या अन्यं मारयतीत्यर्थः ।
क्षणिकेषु स्कन्धेष्विति । स्वरसेनेव विनश्वराणां स्कन्धानां कथमन्येनेषां
निरोधः क्रियते इत्यभिप्रायः । प्राणो नाम वायुः कायचित्तसन्निश्रितो वर्तत
इति । कथं चित्तसन्निश्रितो वायुः प्रवर्तते ? चित्तप्रतिबद्धवृत्तित्वात् ।
तथा हि—निरोधासंज्ञिसमापत्तिसमापन्नस्य मृतस्य च न प्रवर्तते । शास्त्रेऽ-
प्युक्तम्—"ये इमे आश्वासप्रश्वासाः, किं ते कायसन्निश्रिता वर्तन्त इति
वक्तव्यम् ? चित्तसन्निश्रिता वर्तन्त इति वक्तव्यम् ? नैव कायचित्तसन्निश्रिता
वर्तन्त इति वक्तव्यम् ? कायचित्तसन्निश्रिता वर्तन्त इति वक्तव्यम् ? आह—
कायचित्तसन्निश्रिता वर्तन्त इति वक्तव्यमिति विस्तरः । तमतिपातयति
इति । तं प्राणं विनाशयतीत्यर्थः । उत्पन्नस्य स्वरसनिरोधादनागतस्योत्पत्तिं
प्रतिबध्नन् निरोधयतीत्युच्यते । यथा प्रदीपं निरोधयति । घण्टास्वनं वा ।
क्षणिकमपि सन्तम् । कथं च स निरोधयति ? अनागतस्योत्पत्तिप्रतिबन्धात् ।
जीवितेन्द्रियं वा प्राण इति । चित्तविप्रयुक्तस्वभावमेनं दर्शयति ।
कस्य तज्जीवितम् । यस्तदभावान्मृत इति । यः प्राणी जीवितस्याभावान्मृतो
भवति स बौद्धानां नास्ति; नैरात्म्यवादित्वात् । अत एवं पृच्छति । कस्येति
षष्ठीम् पुद्गलवादे पुद्गलप्रतिषेधप्रकरणे—"असत्यात्मनि कस्येयं स्मृतिः ?
१. तमभिपातयति—का० । २. विचारयिष्यामः—का० ।

१८४ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ कर्म-
"आयुरूष्माऽथ विज्ञानं यदा कायं जहात्यमी ।
अपविद्धस्तदा शेते यथा काष्ठमचेतनम्" ॥ ( ) इति
तस्मात् सेन्द्रियः कायो जीवतीत्युच्यते, अनिन्द्रियो मृत इति ।
"अबुद्धिपूर्वादपि प्राणिवधात् कर्तुरधर्मः, यथा—अग्निसंयोगाद् दाहः"
इति निर्ग्रन्थाः ।
तेषां परस्त्रीदर्शनसंस्पर्शन' एष' प्रसङ्गः । निर्ग्रन्थशिरोलुञ्चने च कष्ट-
तपोदेशने च शास्तुः, ²विसुचिकामरणे च दातुः, वैद्यानां चातुरपीडने, मरणे
च मातृ-गर्भस्थयोश्च; अन्योन्यदुःखनिमित्तत्वात् । वध्यस्यापि च तत्क्रियासम्ब-
न्धाद्, अग्निस्याश्रयदाहवत् । कारयतश्चाप्रसङ्गः; तदसम्बन्धात् । परेणाग्निं
स्पर्शयतस्तेनादाहवत् । अचेतनानां च काष्ठादीनां गृहपाते प्राणिनां वधात्
किमर्थैषा षष्ठी" इत्यत्र प्रदेशे चिन्तयिष्यामि । आस्तां तावदेतत् सामान्यासिक-
मित्यभिप्रायः ।
तस्मात् सेन्द्रियः कायो जीवतीति । सेन्द्रियस्यैव कायस्य तज्जीवितं नात्मन
इति दर्शयति । स एव चानिन्द्रियो मृत इति ।
अबुद्धिपूर्वादिति विस्तरः । असञ्चिन्त्यकृतादपि प्राणातिपातं कर्तुरधर्मो
यथाग्निसंस्पर्शादबुद्धिपूर्वदासञ्चिन्त्यकृताद् दाह इति । निर्ग्रन्था नग्नाटकाः । तेषां
निर्ग्रन्थानामेवंवादिनाम् । अबुद्धिपूर्वेऽपि परस्त्रीदर्शनसंस्पर्शन एष प्रसङ्गः । पाप-
प्रसङ्ग इत्यर्थः । अग्निदृष्टान्तात् । निर्ग्रन्थशिरोलुञ्चने वा निर्ग्रन्थशिरःकेशोत्पाटने
च । दुःखोत्पादनबुद्धयभावेऽप्यधर्मप्रसङ्गः । कष्टतपोदेशने च । निर्ग्रन्थशास्तुर-
धर्मप्रसङ्गो बुद्धयपेक्षयाम् । परस्य दुःखोत्पादनमधर्माय भवतीति कृत्वा ।
तद्विसूचिकामरणे च । निर्ग्रन्थानां विसूचिकया अजीर्णेन मरणे । दातुरन्न-
दातुरधर्मप्रसङ्गः । अन्नदानेन मरणकारणात् । अबुद्धिपूर्वोऽपि हि प्राणिवधः
कारणमधर्मस्येति । मातृगर्भस्थयोश्च मातुः, गर्भस्थस्य च । अन्योन्यदुःखनिमित्त-
त्वात् । अधर्मप्रसङ्गः; तत एवाग्निदृष्टान्तात् । वध्यस्यापि च तत्क्रियासम्बन्धात् ।
प्राणातिपातक्रियासम्बन्धात् अधर्मप्रसङ्गः । वध्ये हि सति प्राणातिपातक्रिया
वधकस्य भवति । अग्निस्याश्रयदाहवत् । अग्निर्हि न केवलमन्यजनं दहति,
किं तर्हि ? स्वाश्रयमपि इन्धनं दहतीति । तद्वत् । न हि तेषां चेतनावशेषो-
ऽपेक्ष्यते । कारयतश्च परेण वधादि अधर्मस्याप्रसङ्गः । परेणाग्निं स्पर्शयतः स्पर्श-
यितुस्तेनादाहवत् । आग्नेयधर्माभ्युपगमात् । अचेतनानां च काष्ठादीनां काष्ठ
१-१. परदारदर्शनेऽप्येष—का० । २. ०मरणेन—मुद्रितः पाठः ।

?
Wait, line 3 has:
"अदत्तादानमन्यस्वस्वीक्रिया बलचौर्यतः ।। ७२ ।।" ?? No, wait, why would line 3 have "।। ७३ ।।"?
Wait, look at line 3:
"अदत्तादानमन्यस्वस्वीक्रिया बलचौर्यतः ।। ७३ ।।"
Wait, does it say 73 or 72? Let me look at both digits 3 in the page:
Top: ३८७ -> the digit ३ has:
upper curve: ╭╮
indent: >
lower curve: ╰╯
Now look at line 3:
digit 1: ७
digit 2: it has an upper curve, then an indent, then a lower curve!
Wait, does it?
YES! Look at the right edge of that digit: it goes in! It has two curves! It is a ३!
Wait, why does line 3 have ।। ७३ ।। and line 9 have ॥ ७३ ॥?
Wait, look at line 9:
Is line 9 ॥ ७३ ॥?
Yes, line 9 is definitely ॥ ७३ ॥!
Wait, could line 3 be ॥ ७३ ॥? Yes! In Sanskrit texts (especially Shastri's Bauddha Bharati editions), sometimes a kārikā number is printed at the end of the first half (or after the first line), or it's a reprint error, or it's 7

६८८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ कर्म-
पथः । यद्यन्यः परस्त्रीसंज्ञायान्यामभिगच्छेत् परदारप्रयोगाद्, वस्तुपरिभोगाच्च
स्यादित्येके । अन्यत्र प्रयोगान्न स्यात् प्राणातिपातवदित्यपरे ।
भिक्षुणीं गच्छतः कस्यान्तिकात् काममिथ्याचारः ? विषयस्वामिनः । तस्य
हि तन्न मर्षणीयम् । तस्यापि सनियमा स्वभार्यैव तु सा न गम्या ।
कुमारीं गच्छतो यस्य निसृष्टा । नो चेद्यस्य रक्षा, अन्ततो राज्ञः ।
अन्यसंज्ञोदितं¹ वाक्यमर्थाभिज्ञे मृषावचः ॥ ७४ ॥
यदि यमर्थं ब्रवीति तस्मिन्नन्यथासंज्ञी भवति, यं चाधिकृत्य ब्रवीति स तस्य
वाक्यस्यार्थाभिज्ञो भवति, तद्वाक्यं मृषावादः । अनभिज्ञे किं स्यात् ? सम्भिन्न-
प्रलापः स्यात् ।
'वाक्यम्' इत्युच्यते, कदाचिच्च बहवो वर्णा वाक्यं भवन्तीति कतमस्तत्र
कर्मपथः ? पश्चिमः सहाविज्ञप्त्या, यत्र चार्थभिज्ञो भवति । पूर्वे तु वर्णाः प्रयोगः ।
'अर्थाभिज्ञे' इत्युच्यते, किं तावदभिज्ञातार्थे श्रोतरि ? आहोस्वित् अभिज्ञातुं
समर्थे ? किं चातः ? यद्यभिज्ञातार्थे मनोविज्ञानविषयत्वाद्, वाक्यार्थस्य श्रोतृ-
विज्ञानेन सह निरोधाच्च वाग्विज्ञप्तेरविज्ञप्तिरेव स्यात् कर्मपथः ? अथाभिज्ञातुं
समर्थे; एवं दोषो न भवति । कथं चाभिज्ञातुं समर्थोऽप्युत्पन्नभाव उत्पन्ने
श्रोत्रविज्ञाने ? यथा न दोषस्तथास्तु ॥ ७४ ॥
प्राणातिपातवदिति । यथा देवदत्तं मारयामीत्यभिप्रायेण यज्ञदत्तं मारयतो
प्राणातिपातो भवति, तद्वत् । इहान्यस्मिन् वस्तुनि प्रयोगोऽभिप्रेतः, अन्यच्च
वस्तु परिभुक्तमिति न स्यात् काममिथ्याचार इत्यपरे ।
अन्ततो राज्ञ इति । यद्यन्यः कश्चिद् रक्षिता नास्ति । अन्ततः सर्वपश्चाद्
राज्ञोऽन्तिकात् स काममिथ्याचारः । तस्य हि तन्न मर्षणीयमिति ।
आहोस्विदभिज्ञातुं समर्थ इति । योऽपि ह्यर्थमभिज्ञातुं समर्थः सोऽप्यर्था-
भिज्ञ इति शक्यते वक्तुम्—अर्थमभिजानीत इति; विप्रकृतावस्थायामभिप्रेत-
त्वात् । मनोविज्ञानविषयत्वाद् वाक्यार्थस्येति । 'नास्त्यत्र देवदत्तः', 'अस्ति वा'
इत्युच्यमाने शब्दः श्रोत्रा विज्ञायते । तदनन्तरं तु चक्षुरादिसमूहो देवदत्तो
वाक्यार्थो विकल्पेन मनोविज्ञानेन विज्ञायते, तेनाविज्ञप्तिरेव मौलः कर्मपथः
स्यात् । वाग्विज्ञप्तेः श्रोत्रविज्ञानेन सह निरोधात् । इष्यते च विज्ञप्त्यविज्ञप्ति-
१. अन्यथासंज्ञिनो—का ।