अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
ऽसंवरः स्यात् ? आशयस्याविपन्नत्वात् । मूकोऽपि च वाक्प्रापणीयमर्थं कायेन
प्रापयितुं शक्त इति ।
यस्तर्हि द्वे त्रीणि वा शिक्षापदानि समादत्ते । सर्वथा नास्ति विकलः
प्रादेशिकश्चासंवरिक इति वैभाषिकाः ।
यथाभ्युपगमं विकलोऽपि स्यात् प्रादेशिकोऽप्यसंवरः संवरश्च, अन्यत्राष्ट-
विधादिति सौत्रान्तिकाः; तन्मात्रशीलदौःशील्यप्रतिबन्धात् ॥ ३६ ॥
उक्तमिदमसंवरस्य येभ्यो लाभः ॥
कथं तु लाभ इति नोक्तम्, तत इदमुच्यते—
असंवरस्य क्रियया लाभोऽभ्युपगमेन वा ।
द्वाभ्यां कारणाभ्यामसंवरो लभ्यते— १. वधप्रयोगक्रियया तत्कुलीनैः;
२. तत्कर्माभ्युपगमाच्चान्यत्र कुलीनैः—वयमप्यनया जीविकया जीविष्याम इति ।
शेषाविज्ञप्तिलाभस्तु क्षेत्रादानादरेहणात् ॥ ३७ ॥
क्षेत्रं वा तद्रूपं भवति, यत्रारामादिप्रदानमात्रेणाविज्ञप्तिरुत्पद्यते ; यथा—
औपधिकेषु पुण्यक्रियावस्तुषु । अथ वा समादानमादत्ते-बुद्धमवन्दित्वा न
भोक्ष्ये, तिथिमासार्धमासभक्तानि वा नित्यं करिष्यामीत्यादि । आदरेण वा तद्रूपेण
क्रियामीहते कुशलामकुशलां वा, यतोऽस्याविज्ञप्तिरुत्पद्यते ॥ ३७ ॥
उक्तमेतद्यथा संवरासंवरेतराणां प्रतिलाभः ॥
विकलः । कर्मपथाङ्गतः । प्रादेशिकोऽपि स्यात् । एकस्यापि अङ्गस्य अवि-
रमात् । सत्त्वदेशकालसमयनियमयोगेन प्रदेशविरतत्वात् ।
संवरश्च तथैव विकलोऽपि प्रादेशिकोऽपि स्यात् । अन्यत्राष्टविधात् पूर्वोक्तात्
प्रातिमोक्षसंवरात् । कस्माद् ? इत्याह--तन्मात्रशीलदौःशील्यप्रतिबन्धादिति ।
असंवरस्तन्मात्रं शीलं प्रतिबध्नाति, संवरश्च तन्मात्रं दौःशील्यं प्रति-
बध्नातीति ॥ ३६ ॥
तत्कुलीनैरिति आसंवरिककुलीनैः ।
“क्षेत्रादानादरेहनात्” इति । आदरेण ईहनं क्रियारम्भः । क्षेत्रं चादानं च
आदरेहनं चेति समासः । तस्मादविज्ञप्तिरुत्पद्यते । तिथेति विस्तरः । तिथि-
भक्तम् । यावदर्धमासभक्तमित्यर्थगतिः । आदिशब्देन मण्डलकरणादि गृह्यते ।
आदरेण वा तद्रूपेणेति । तीव्रक्लेशतया, तीव्रप्रसादतया चेत्यर्थः ॥ ३७ ॥
निर्देशः ] चतुर्थं कोशस्थानम् ६४३
त्याग इदानीं वक्तव्यः । तत्र तावत्—
प्रातिमोक्षदमत्यागः शिक्षानिक्षेपणाच्च्युतेः ।
उभयव्यञ्जनोत्पत्तेर्मूलच्छेदान्निशात्ययात् ॥ ३८ ॥
दाम्यन्त्यनेनेति दमः संवरोऽभिप्रेतः, तेनेन्द्रियदमनात् । चतुर्भिः कारणैः
प्रातिमोक्षसंवरस्य त्यागः, स्थापयित्वोपवासम्—१. शिक्षापदानां विज्ञपुरुषस्यान्तिके
प्रत्याख्यानाद्, २. आशयतः निकायसभागत्यागात्, ३. युगपदुभयव्यञ्जनप्रादु-
र्भावात्, ४. कुशलमूलसमुच्छेदाच्च ।
उपवाससंवरस्य त्वेभिश्चतुर्भिः, ५. आरात्रिक्षयाच्च । तान्येतान्यभिसमस्य
पञ्च त्यागकारणानि भवन्ति ।
किं पुनः कारणमेभिः कारणैस्त्यागो भवति ? समादानविरुद्धविज्ञप्त्युत्पादात्,
आश्रयत्यागाद्, आश्रयविकोपनात्, निदानच्छेदात्, तावदेवाक्षेपाच्च ॥ ३८ ॥
पतनीयेन चेत्येके,
अन्ये पुनराहुः—चतुर्णां पतनीयानामन्यतमेन भिक्षुश्रामणेरसंवरत्याग इति ।
सद्धर्मान्तर्धितोऽपरे ।
सद्धर्मस्यान्तर्धानादित्यपरे; यस्मादन्तर्हिते सद्धर्मे सर्वशिक्षासीमाकर्मान्ताः
प्रतिप्रस्रभ्यन्त इति ।
समादानविरुद्धविज्ञप्त्युत्पादादिति । यावज्जीवं प्राणातिपातादिभ्यः प्रति-
विरमामीति यत् समादानं तेन विरुद्धाया विज्ञप्तेरुत्पादादिति प्रथमेन कारणेन
प्रातिमोक्षसंवरत्यागः । आश्रयत्यागादिति । येनाश्रयेण संवरो गृहीतस्तस्य
त्यागान्मरणादिति द्वितीयेन कारणेन तत्त्यागः । आश्रयविकोपनादिति ।
यादृशेन आश्रयेण संवर उपात्तस्तादृशो न भवति विकोपनात् इति तृतीयेन
कारणेन तत्त्यागः । निदानच्छेदादिति । निदानं कुशलमूलानि, तस्य छेदात्,
चतुर्थेन कारणेन तत्त्यागः । तावदेवाक्षेपाच्चेति । उपवाससंवरस्याहोरात्र-
माक्षेपः, इति पञ्चमेन कारणेन तस्योपवाससंवरस्य त्यागः पूर्वोक्तैश्चतुर्भिः
कारणैरिति ॥ ३८ ॥
पतनीयेन चेति । एभिश्च यथोक्तैः पञ्चभिः कारणैः । पतनीयेन चेति पत-
न्त्यनेनेति पतनीयम् । तच्चतुर्विधम्—अब्रह्मचर्यं यथोक्तप्रमाणम्, अदत्तादानम्,
मनुष्यवधः, उत्तरिमनुष्यधर्ममृषावादश्चेति ।
धनर्णवत्तु काश्मीरैरापन्नस्येष्यते द्वयम् ॥ ३९ ॥
काश्मीरास्तु खलु वैभाषिकाः एवमिच्छन्ति—न मौलीमप्यापत्तिमा-
पन्नस्यास्ति भिक्षुसंवरत्यागः । किं कारणम् ? न ह्येकदेशक्षोभात् कृत्स्नसंवर-
त्यागो युक्त इति । नैव चान्यामप्यापत्तिमापन्नस्यास्ति शीलच्छेदः । किं तर्हि ?
द्वयमस्य भवति—शीलम्, दौःशील्यं च । यथा कस्यचिद्धनं स्याद्, ऋणं
च । आविष्कृतायां तु तस्यामापत्तौ शीलवान् भवति, न दुःशीलः; यथा ऋणं
शोधयित्वा धनवान् भवति, न ऋणवान् इति ।
यत्तर्हि भगवतोक्तम्—“भिक्षुर्भवत्यश्रमणोऽशाक्यपुत्रीयो ध्वस्यते भिक्षु-
भावात्, कतमस्य भवति श्रामण्यं ध्वस्तं पतितं पराजितम्” इति ? परमार्थभिक्षुत्वं
सन्ध्यायैतदुक्तम् ।
इदमभिसाहसं वर्तते ? किमत्राभिसाहसम् ? यद् भगवता नीतार्थं पुन-
रन्यथा नीयते, दौःशील्याय च बहुक्लेशेभ्यो प्रत्यया दीयन्ते ।
कथमेतन्नीताथंम् ? एष हि विनये निर्देशः—“चतुर्विधो भिक्षुः—१. संज्ञा-
भिक्षुः, २. प्रतिज्ञाभिक्षुः, ३. भिक्षत इति भिक्षुः, ४. भिन्नक्लेशत्वात् भिक्षुः ।
“धनर्णवत्तु काश्मीरैरापन्नस्येष्यते” । आगमाद्, युक्तितश्च । तत्रायमागमः ।
विनये उक्तम्—“दुःशीलश्चेत् भिक्षुर्भिंक्षुणीमनुशास्ति संघावशेषमापद्यते”
( ) इति । आपन्नपाराजिको हि भिक्षुर्दुःशीलोऽभिप्रेतः, नाना-
पन्नपाराजिकः; प्रकृतस्थः शीलवानिति विपर्ययेण वचनात् । अतोऽवगम्यते—
अस्त्यस्य दुःशीलस्यापि सतो भिक्षुभावः, यस्मात् सङ्घावशेषमापद्यत इत्युक्त-
मिति । युक्तिरपि—न ह्येकदेशक्षोभात् सकलसंवरत्यागो युक्त इति । न मौली-
मप्यापत्तिम् आपन्नस्येति । पतनीयामप्यापत्तिमापन्नस्येत्यर्थः । नैव चान्यापत्ति-
मिति । सङ्घावशेषादिकम् । आविष्कृतायामिति । देशितायाम् ।
यत्तर्हि भगवतोक्तमिति विस्तरेण यावत् पराजितमिति । तत् कथमिति
वाक्याध्याहारः । परमार्थभिक्षुत्वं सन्ध्यायैतदुक्तमिति । सत्यदर्शनेऽभव्यत्वेन
तस्यापन्नस्य परमार्थभिक्षुत्वाप्राप्तेः ।
बहुक्लेशेभ्यो नन्दप्रभृतिभ्यो मौल्याप्यापत्त्या न भिक्षुत्वं नश्यति इति
विदित्वा तां कुर्युंरिति वाक्यार्थः ।
संज्ञाभिक्षुरिति । यस्यानुपपसम्पन्नस्य भिक्षुरिति नाम । प्रतिज्ञाभिक्षुरिति ।
अब्रह्मचर्यादिप्रवृत्तौ दुःशीलः । भिक्षत इति भिक्षुरिति । याचनकः । भिन्नक्लेश-
,निर्देशः ] चतुर्थं कोशस्थानम् ६४५
अस्मस्त्वर्थे ज्ञप्तिचतुर्थकर्मोपसम्पन्नो भिक्षुः" ( ) इति । न चासौ पूर्वं
परमार्थभिक्षुरासीद्यतः पश्चाद्भिक्षुर्भवत् ।
यच्चोक्तम्—एकदेशक्षोभादिति, अत्र शास्त्रैव दत्तोऽनुयोगः--"तद्यथा
तालो मस्तकाच्छिन्नोऽभव्योऽङ्कुरित्वाय, अभव्यो विरूढिं वृद्धिं विपुलतामाप्तुम्”
( ) इत्युपमां कुर्वता ।
कः पुनरुपमार्थः ? एकमेकदेशस्यापि मूलभूतस्य च्छेदादभव्यः संवरशेषो
विरोढुमिति । स च गुर्वी भिक्षुभावमर्यादामेदिनीं मौलीमापत्तिमपद्यमानस्तीव्रा-
नपत्रपायोगात् संवरस्य मूलं छिनत्तीति युक्तः कृत्स्नसंवरत्यागः ।
यस्य चैकग्रासपरिभोगोऽपि, एकपादपाष्णिप्रदेशपरिभोगोऽपि च नाभ्यनु-
ज्ञायते साङ्घिकयोराहारविहारयोः, सर्वभिक्षुसंभोगबहिष्कृतश्च शास्त्रा; यं चाधि-
कृत्वोक्तम्—
“नाशयत कारण्डवकं कशंवकमपकर्षत ।
अथोत्प्लाविनं वाहयत अभिक्षुं भिक्षुवादिनम्” ॥ ( ) इति ।
तस्य कीदृशो भिक्षुभावः ? यादृशोऽस्तु, अस्ति तु भिक्षुभावः ।
तथा हि—"चत्वारः श्रमणा न पञ्चमोऽस्ति चुन्द" इति ।
त्वाद भिक्षुरिति । अर्हन् ।
अस्मस्त्वर्थ इति । यद् भगवतोक्तम्— 'अभिक्षुर्भवत्यश्रमणः' इति विस्तरेण,
एतस्मिन्नर्थे । यथोक्तेभ्यश्चतुर्भ्यो भिक्षुभ्योऽन्य एवायं पञ्चमो ज्ञप्तिचतुर्थोप-
सम्पन्नो भिक्षुरिति । यदप्युक्तम्—परमार्थभिक्षुत्वं सन्धायेत्युक्तम्, तत् प्रत्याह –
न चासौ पूर्वे परमार्थभिक्षुरासीद्, यतः पश्चाद्भिक्षुर्भवित् । “अभिक्षुर्भवत्यश्रमणः"
इति वचनात् ।
इत्युपमां कुर्वतेति । मस्तकच्छिन्नतालोपमां कुर्वता शास्त्रैव दत्तोऽनुयोग इति
सम्बन्धनीयम् । परिहृतः प्रश्न इत्यर्थः । एकग्रासपरिभोग आहारस्य । एकपाष्णि-
प्रदेशपरिभोगो विहारस्येति सम्बन्धः । सर्वभिक्षुसम्भोगबहिष्कृतश्च शास्त्रेति ।
सर्वस्मात् भिक्षुभिः सहसम्भोगादेकपंक्तिभोजनादिकाद् बहिष्कृतो बुद्धेन ।
नाशयंत कारण्डवकमिति। कारण्डवको यवाकृतित्वाद् यवस्तृणविशेषो यो
यवदूषीत्युच्यते । एवमसावभिक्षुर्भिक्षुराकृतिरिति । कशंवकं नाम पूतिकाष्ठम् ।
एवमसौ पूतिभूतो भिक्षुः । तं शीलवत् सङ्घाद् यूयमपकर्षतेति भगवान् भिक्षून्
आज्ञापयामास । अथोत्प्लाविनं वाहयतेति । उत्प्लावी नाम व्रीहिमध्येऽभ्यन्तर-
६४६ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ कर्म-
भगवानवोचत्—
'मार्गजिनो मार्गदेशिको मार्गे जीवति यश्च मार्गदूषी' इति ? अस्त्ये-
तदुक्तम्; स त्वेष आकृतिमात्रावशेषत्वाच्छ्रमण उक्तो दग्धकाष्ठ-शुष्कह्रद-शुक-
नाशा-पूतिबीजालातचक्र-मृतसत्त्ववत् ।
यदि हि दौःशील्यादभिक्षुः स्यात् शिक्षादत्तको न स्यात् ?
न वयं ब्रूमः—सहाध्यापत्त्या सर्वः पाराजिको भवति । यस्तु पाराजिकः
सोऽवश्यमभिक्षुः । कश्चित्तु सन्तानविशेषान्न पाराजिक एकचित्तेनाप्यप्रतिच्छा-
दनादिति व्यवस्थापितं धर्मस्वामिना ।
यदि तर्हि पाराजिको न भिक्षुः, किं पुनर्न प्रव्राज्यते ? तीव्रानपत्राप्य-
विपादितत्वात् सन्ततेः संवराभव्यात् , न तु खलु भिक्षुभावापेक्षया । तथा ह्यसौ
तण्डुलहीनो व्रीहिरेव । तथासौ शीलसारहीनो भिक्ष्वाकृतिः, तं प्रवाहयत ।
निष्कामयतेत्यर्थः । इदमत्रोदाहरणम् ।
मार्गजिनः शैक्षाशैक्षः । मार्गदेशिको बुद्धः । मार्गे जीवति शीलवान् भिक्षुः,
मार्गनिमित्तं जीवनात् । मार्गदूषी दुःशीलः । दग्धकाष्ठेति विस्तरः । यथा यद्
दग्धं न तत् काष्ठम्; पूर्वकाष्ठाकृतिमात्रावशेषसाधर्म्यात् तद् दग्धकाष्ठम्
इत्युच्यते । ह्रदश्च शुष्कोऽपि ह्रद इत्युच्यते । शुकनासा गृहादिषु रूण्कारकृता
शुकनासाकृतित्वात् शुकनासेत्युच्यते । एवमसौ भिक्ष्वाकृतिसामान्यमात्रावशेषा
च्छ्रमण उक्तः । पूतिबीजम् । अङ्कुरजनकत्वात् अबीजमपि बीजमित्युच्यते;
तदाकारमात्रावशेषत्वात् । अलातचक्रं चक्रमिति । चक्राकृतित्वात् । मृतसत्त्वश्च ।
असत्त्वोऽपि सत्त्व इत्युच्यते; सत्त्वाकृतिमात्रावशेषत्वात् । तद्वदेष द्रष्टव्यः ।
शिक्षादत्तको नाम भिक्षुरधिमात्ररागतया स्त्रिया अब्रह्मचर्यं कृत्वा तद-
नन्तरमेव जातसंवेगः कष्टं मया कृतमित्येकस्मिन्नपि प्रतिच्छादनचित्तेऽनुत्पन्ने
भिक्षुसङ्घमुपगम्याविष्करोति—इदं मया पापं कृतमिति । स आर्यसङ्घोपदेशात्
सर्वभिक्षुनवकान्तिकत्वादि दण्डकर्म कुर्वाणः शिक्षादत्तक इत्युच्यते । तद् यदि
दौःशील्यादभिक्षुरेव स्यात् , स न स्यात् । न हि तस्य पुनरुपसम्पादनं क्रियते,
भिक्षुश्च स व्यवस्थाप्यते । तस्माद् न दौःशील्याद् अभिक्षुत्वमिति । न ब्रूम
इति विस्तरः । न वयं ब्रूमः—सहाध्यापत्त्याऽब्रह्मचर्यादेव सर्वःपाराजिको भवति ।
किं तर्हि ? प्रतिच्छादनचित्तेन ।
किं न पुनः प्रव्राज्यते । अनिक्षिप्तशिक्ष इत्यध्याहार्यम् । तीव्रानपत्राप्य-
विपादितत्वात् । तीव्रेणानपत्राप्येन विपादितास्य सन्ततिः, तस्याः सन्ततेरेवं
निर्देशः ] चतुर्थं कोशस्थानम् ६४७
निक्षिप्तशिक्षोऽपि न प्रव्राज्यते ।
कश्चायमनर्थे निर्बन्धो यद्यसौ तथाभूतोऽपि भिक्षुः, नमोऽस्तु तस्मै
तादृशाय भिक्षुत्वाय !
सद्धर्मान्तर्धाने तु विनयकर्माभावादपूर्वसंवरलाभो नास्ति । लब्धस्य तु
नास्ति त्यागः ॥ ३९ ॥
अथ ध्यानानास्रवसंवरयोः कथं त्यागः ?
भूमिसञ्चारहानिभ्यां ध्यानाप्तं त्यज्यते शुभम् ।
सर्वमेव ध्यानाप्तं कुशलं द्वाभ्यां कारणाभ्यां परित्यज्यते—१. उपपत्तितो
वा भूमिसञ्चारादूर्ध्वं चावश्यम्, २. परिहाणितो वा समापत्तेः, निकायसभाग-
त्वाच्च किञ्चित् ।
यथा च रूपाप्तं कुशलं भूमिसञ्चारहानिभ्यां त्यज्यते,
तथारूप्याप्तमार्यं तु फलाप्त्युत्तप्तिहानिभिः ॥ ४० ॥
अनास्रवं तु कुशलं त्रिभिः कारणैः परित्यक्ष्यते—१. फलप्राप्तितः पूर्वको
मार्गः परित्यक्ष्यते, २. इन्द्रियोत्तापनेन मृद्विन्द्रियमार्गः, ३. परिहाणित उत्तरो
मार्गः—फलम्, फलविशिष्टो वा । एवं यावत् संवरास्त्यज्यन्ते ॥ ४० ॥
विपादितत्वात् संवरस्याभव्यत्वम् । तस्मान्न पुनः प्रव्राज्यत इत्यधिकारः । न तु
खलु भिक्षुभावापेक्षया । न तु खलु तस्य भिक्षुभावोऽस्तीत्यपेक्षया न प्रव्राज्यते ।
तथा ह्यसौ पराजयिको निक्षिप्तशिक्षोऽपि न प्रव्राज्यते । तीव्रानपत्राप्यविपादि-
तत्त्वात् सन्ततेः ॥ ३९ ॥
“ध्यानाप्तम्” इति । रूपस्वभावं कुशलमरूपस्वभावं चाभिप्रेतम् । अत एव
च सर्वमेवेति व्याचष्टे । द्वाभ्यामिति । उपपत्तितो वा, परिहाणितो वा । तेनाह—
उपपत्तितो वेति विस्तरः । ऊर्ध्वमुपपद्यमानोऽधरं परित्यजति, अधश्चोपपद्यमान
उपरिभूमिकमिति । परिहाणितो वा समापत्तेः । तत्समापत्तिसंगृहीतं कुशलं
त्यज्यते । निकायसभागत्यागाच्च किञ्चिदिति । निर्वेधभागीयं यत् पृथग्जनावस्था-
यामुत्पादितं यावत् क्षान्तिरिति । तदसत्यपि भूमिसञ्चारे निकायसभागत्यागेन
त्यज्यते । यदा कामधातौ मृत्वा तत्रैवोपपद्यते । वक्ष्यति हि—‘भूमित्यागात्
त्यजत्यार्यस्तान्यानार्यस्तु मृत्युतः’ ( अभि० को० ६.२२ ) इति । पूर्वको मार्ग
इति । प्रयोगानन्तर्यविमुक्तिमार्गस्वभावः प्रतिपन्नकमार्गः । फलं फलविशिष्टो
६४८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ कर्म-
असंवरः संवरप्राप्तिमृत्युद्विव्यञ्जनोदयैः ।
त्रिभिः कारणैरसंवरच्छेदः—१. संवरप्राप्तितः । यदि संवरं समादत्ते
ध्यानसंवरं वा लभते, हेतुप्रत्ययबलेन समाधिलाभात्; तेनासंवरश्छिद्यते,
प्रतिद्वन्द्वबलीयस्त्वात् । २. मरणेनाश्रयत्यागात् । ३. द्विव्यञ्जनोत्पादेनाश्रयवि-
कोपनादिति ।
शस्त्रजालत्यागेऽप्यकरणाशयतः । संवरमन्तरेणासंवरच्छेदो नास्ति, निदान-
परिवर्जनेऽप्यौषधमन्तरेण प्रवृद्धरोगाविनिवृत्तिवत् ।
य आसंवरिक उपवासं गृह्णाति, किमसौ तस्मात् संवरात् पुनरसंवरं
गच्छति ? आहोस्विन्नैवसंवरं नासंवरम् !
असंवरमित्येके; त्यागाशयस्यानात्यन्तिकत्वात् ।
प्रदीप्त इवायःपिण्डः पुनः श्यामतां चाप्रयुज्यमानो गच्छतीत्यपरे; तल्लाभस्य
विज्ञप्त्यधीनत्वात् ।
अथ संवरासंवरविनिर्मुक्ता कथमविज्ञप्तिस्त्यज्यते !
वेगादानक्रियार्थायुर्मूलच्छेदैस्तु मध्यमा ॥ ४१ ॥
वेति । उत्तरो मार्गोऽधिकृतः । तद् यथानागामो यद्यनागामिफलात् परिहीयते
तेनानागामिफलमुत्तरो मार्गस्त्यज्यते । यदि त्वनागामी द्वितीयं ध्यानं लभते
तस्माच्च परिहीयते, स तस्य फलविशिष्टो मार्गो द्वितीयभूमिकस्त्यज्यते ॥ ४० ॥
हेतुप्रत्ययबलेनेति । सभागहेतुबलेन, परतो घोषबलेन चेत्यर्थः । ध्यानसंवरं
वा लभत इति । अनास्रवसंवरं वा लभत इति नोच्यते; ध्यानास्रवपूर्वोत्पा-
देनैव तत्यागात् । अकरणाशयतः इति । एतत् कर्म न करिष्यामीत्याशयतोऽपि
शस्त्रजालत्यागे विना संवरग्रहणेनासंवरच्छेदो न भवति । तद्यथा—रोगनिदानपरि-
हारेऽपि तस्य प्रवृद्धस्य रोगस्यौषधेन विना विनिवृत्तिर्न भवति, तद्वत् । तदुक्तं
भवति—असंवरत्यागेच्छायां संवरो ग्रहीतव्यः, नान्यथेति ।
तल्लाभस्येति । असंवरलाभस्य ।
कथमविज्ञप्तिरिति । विज्ञप्तिरपीति वक्तव्यम् । स्वसमुत्थापिताया अतीताया
विज्ञप्तेस्तत्काल एव प्राप्तिच्छेदात् ।
“वेगादानक्रियार्थायुर्मूलच्छेदैस्तु मध्यम” इति च पठितव्यम् । नैवसंवर-
नासंवर इत्यर्थः । अथाप्यविज्ञप्तिरपि केवलोच्यते ? तन्न विज्ञप्तेरवचने कारणं
वक्तव्यमित्युच्यते; विज्ञप्तेरनावश्यकत्वात् । तथा हि वक्ष्यति—“अशुभाः षड-
निर्देशः ] चतुर्थं कोशस्थानम् ६४९
येन ह्यसौ प्रसादक्लेशवेगेनाविज्ञप्तिराक्षिप्ता भवति, तस्य च्छेदात् सापि
च्छिद्यते । कुम्भकारचक्रेषुगतिवत् ।
आदानत्यागादपि च्छिद्यते । यदि समादानं त्यजति, अलं समादानेनेति ।
क्रियाविच्छेदादपि विच्छिद्यते यथासमात्तमकुर्वतः ।
अर्थविच्छेदादपि विच्छिद्यते । कतमस्यार्थस्य ? चैत्यारामविहारशयनासन-
यन्त्रजालादिनो वस्तुनः ।
आयुषोऽपि, कुशलमूलानामपि च्छेदाद् विच्छिद्यते । यदा कुशलमूलानि
समुच्छेत्तुमारभत इति । एभिः षड्भि कारणैरविज्ञप्तिर्मध्यमा त्यज्यते ॥ ४१ ॥
कामाप्तं कुशलारूपं मूलच्छे दोर्ध्वजन्मतः ।
कामावचरं कुशलमरूपस्वभावं द्वाभ्यां कारणाभ्यां परित्यज्यते—
१. कुशलमूलसमुच्छेदाद्, २. रूपारूप्यधातूपपत्तितो वा ।
प्रतिपक्षोदयात् क्लिष्टमरूपं तु विहीयते ॥ ४२ ॥
क्लिष्टं त्वरूपस्वभावं सर्वमेव प्रतिपक्षोदयाद् विहीयते । यस्योपक्लेश-
विज्ञप्तिद्विधैक" (अभि० को० ४.६८) इति । अविज्ञप्तिवचनेन च विज्ञप्ति-
वचनसिद्धेस्तदवचनम् ।
अन्ये त्वाहुः—न निरुद्धाया नैवसंवरनासंवरसंगृहीताया विज्ञप्तेरनुबन्धिनी
प्राप्तिरिति, अत एतदविज्ञप्तेरेव त्यागकारणमुच्यत इति ।
कुम्भकारचक्रेषुगतिवदिति । यथा कुम्भकारचक्रस्य इषोश्च गतिः । येन
कारणेन संस्कारविशेषेण आक्षिप्तो भवति, तस्य छेदात् सापि छिद्यते; तद्वत् ।
अलं समादानेनेति । प्रत्याख्यानवचनेन । यथा समात्तमकुर्वत इति । तद्
यथा बुद्धमवन्दित्वा मण्डलकमकृत्वा वा न भोक्ष्ये इति, तदकृत्वा भुञ्जानस्य
सा मध्यमा अविज्ञप्तिश्छिद्यते ।
यन्त्रजालादीति । आदिशब्देन शस्त्रविषादि गृह्यते ।
कुशलमूलानि समुच्छेत्तुमारभत इति । कुशलमूलसमुच्छेदप्रारम्भावस्थायामेव
छिद्यते, न समुच्छेदावस्थायामिति दर्शयति ॥ ४१ ॥
“कुशलारूपम्” इति । अरूपग्रहणं रूपच्छेदस्योक्तत्वात् । मूलच्छे दोर्ध्वजन्मत
इति । अत्र वैराग्यतश्च किञ्चिदिति वक्तव्यम् । यथा कुशलं दौर्मनस्येन्द्रियमिति ।
सर्वमेवेति । कामरूपारूप्यावचरम् । यः प्रहाणमार्ग इति । दर्शनमार्गः,
भावनामार्गश्च । लौकिको वा लोकोत्तरो वा यथासम्भवम् । असौ सपरिवार
६५० भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ कर्म-
प्रकारस्य यः प्रहाणमार्गस्तेनासौ सपरिवारः परित्यज्यते, नान्यथा ॥ ४२ ॥
अथ केषां सत्त्वानामसंवरो भवति ? केषां संवरः ?
नृणामसंवरो हित्वा षण्ढपण्डद्विधाकृतीन्¹।
कुरूंश्च,
मनुष्यगतावेवासंवरः, नान्यत्र। तत्रापि षण्ढपण्डकोभयव्यञ्जनानुत्तर-
कौरवांश्च हित्वा।
संवरोऽप्येवं देवानां च,
संवरो हि मनुष्याणामेव यथोक्तं हित्वा देवानां चेति गतिद्वये संवरः।
षण्ढादीनां संवरो नास्तीति कथं गम्यते ? सूत्राद्, विनयाच्च।
सूत्र उक्तम्—"यतश्च महानामन् गृही अवदातवसनः पुरुषः पुरुषेन्द्रियेण
समन्वागतो बुद्धं शरणं गच्छति यावद्वाचं भाषते—'उपासकं मा धारय', इयता
चोपासको भवति” ( ) इति।
विनयेऽपि तद्रूपो नाशयितव्य उक्तः।
किं पुनः कारणमेषां संवरो नास्ति ? उभयाश्रयक्लेशाधिमात्रतया प्रति-
संख्यानाक्षमत्वात्, तीव्रह्रीव्यपत्राप्याभावाच्च।
असंवरस्तर्हि कस्मान्नास्ति ? पापेऽप्यस्थिराशयत्वात्।
यत्रैव च संवरः, तत्रासंवरोऽपि; प्रतिद्वन्द्वभावात्।
इति। असावुपक्लेशप्रकारः स तत्सहभूप्राप्त्यनुचरः। उपक्लेशप्रकारस्येतिग्रहणं
कदेशस्याप्युपक्लेशशब्देन सर्वसंग्रहार्थम्। तथा हि शास्त्रे उक्तम्—"ये यावत्
क्लेशा उपक्लेशा अपि ते स्युः, उपक्लेशा न क्लेशाः” इति ॥ ४२ ॥
उभयाश्रय इति विस्तरः। स्त्रीपुरुषाश्रयस्य क्लेशस्याधिमात्रतया। प्रति-
संख्यानस्य तत्प्रतिपक्षभावनालक्षणस्याक्षमत्वात्। तीव्रस्य च हीव्यपत्राप्यस्या-
भावादेषां संवरो नास्तीति।
प्रतिद्वन्द्वभावादिति। यस्मात् संवरस्यासंवरः प्रतिद्वन्द्वभूतः, तस्मात् यत्रैव
संवरस्तत्रैवासंवर इति। तेषां षण्ढादीनामसंवराभावे द्वितीयं कारणम्।
१ षण्ढ०—का० ।
निर्देश: ] चतुर्थ कोशस्थानम् ६५१
उत्तरकौरवाणां समादानसमाध्यभावात्, पापक्रियाशायाभावाच्च संवरा-
संवराभावः ।
आपायिकानामपि तीव्रं ह्रीव्यत्राप्यं नास्ति; यद्योगाद् यद्विपादनाच्च
संवरासंवरौ स्याताम् ।
अपि खल्वाश्रय एव स तेषां तादृश ऊषरक्षेत्रभूतः षण्ढपण्डकोभयव्यञ्ज-
नोत्तरकौरवापायिकानाम्, यत्राश्रये संवरोऽपि न विरोहति, असंवरोऽपि, ऊषर
इव क्षेत्रे शस्यमप्यतिमात्रं कक्कवमपीति ।
यत्तर्हि सूत्र उक्तम्—"अण्डजो भिक्षवो नागोऽष्टम्यां पक्षस्य भावना-
दभ्युद्गम्याष्टाङ्गससमन्वागतमुपवासमुपवसति" ( ) इति !
सुचरितमात्रं तत् तेषाम्, न संवरः । तस्मादेव मनुष्याणामेव संवरः ।
तत्र पुनः—
नृणां त्रयः ॥ ४३ ॥
मनुष्याणां सर्वे त्रयः प्रातिमोक्षादिसंवराः संविद्यन्ते ॥ ४३ ॥
कामरूपजदेवानां ध्यानजः,
ध्यानसंवरः कामरूपधातूत्पन्नानां देवानाम्; ऊर्ध्वं नास्ति ।
अनास्रवः पुनः ।
ध्यानान्तरासंज्ञिसत्त्ववर्ज्यानामप्यहूपिणाम् ॥ ४४ ॥
अनास्रवसंवरस्तु कामरूपधातूत्पन्नानामप्यस्ति ध्यानान्तरिकासंज्ञिसत्त्वोप-
पन्नान् वर्जयित्वा ।
आरूप्योपपन्नानामपि तेषां तु समन्वागतोऽस्ति, न सम्मुखीभावतः ॥४४॥
समादानसमाध्यभावादिति । समादानाभावात् प्रातिमोक्षसंवरो नास्ति,
समाध्यभावाच्च ध्यानानास्रवसंवरी न स्तः । तदभावस्तु मान्द्येन कुशलेष्व-
व्युत्पत्तेः । पापक्रियाशायाभावाच्चासंवरो नास्ति ।
यद्योगाद् यद्विपादनाच्चेति । येन ह्रीव्यपत्राप्येण योगाद्, यस्य ह्रीव्यपत्रा-
प्यस्य विपादनाच्च । यथाक्रमं संवरासंवरौ स्याताम् । तत्तीव्रं ह्रीव्यपत्राप्यमापा-
यिकानां नास्तीति । यद्यापायिकानां संवरासंवरौ न स्तः ।
यत्तर्हि सूत्र उक्तमिति विस्तरः । तत् कथम् ? प्रातिमोक्षसंवरो मनुष्याणा-
मेव न देवानाम्; असंवेगात् । ध्यानानास्रवसंवरौ तु हेतुकर्मधर्मभावनाद् यथा-
सम्भवम् ॥ ४३-४४ ॥
अभि० को० २ : १८
अतः परमिदानीं कर्मनिर्देशाधिकारात् सूत्रोद्दिष्टानां कर्मणां निर्देश
आरभ्यते—
त्रीणि कर्माणि—कुशलं कर्म, अकुशलम्, अव्याकृतं कर्मेति। तत्र—
क्षेमाक्षेमेतरत् कर्म कुशलाकुशलेतरत्।
इदं कुशलादीनां लक्षणम्। क्षेमं कर्म कुशलम्, यदिष्टविपाकं निर्वाणप्रापकं
च; दुःखपरित्राणात्।
तत्कालमत्यन्तं च अक्षेममकुशलम्, क्षेमप्रतिद्वन्द्वभावेन यस्यानिष्टो विपाकः।
ताभ्यामितरत् कर्म नैव क्षेमं नाक्षेमम्, यत्तत् कुशलाकुशलाभ्यामितरद्
वेदितव्यम्। अव्याकृतमित्यर्थः। पुनः—
पुण्यापुण्यमनिञ्ज्यं च सुखवेद्यादि च त्रयम् ॥ ४५ ॥
त्रीणि कर्माणि—पुण्यम्, अपुण्यम्, आनिञ्ज्यं च। पुनः त्रीणि—सुख-
वेदनीयं कर्म, दुःखवेदनीयम्, अदुःखासुखवेदनीयं च ॥ ४५ ॥
तत्र तावत्—
कामधातौ शुभं कर्म पुण्यमानिञ्ज्यमूर्ध्वजम्¹।
'शुभम्' इति वर्तते। रूपारूप्यावचरं कुशलं कर्म आनिञ्ज्यम्।
ननु च त्रीणि ध्यानानि सेञ्जितान्युक्तानि भगवता—“यदत्र वितर्कितं
विचारितमिदमत्रार्या इञ्जितमित्याहुः” इत्येवमादि? समाधौ सापेक्षालतां तेषामधि-
कृत्यैवमुक्तम्। आनिञ्ज्यान्यपि तु तान्युक्तान्यानिञ्ज्यसूत्रे। आनिञ्ज्यप्रत्यय²-
गामिनीं प्रतिपदमारभ्य।
तत्कालमत्यन्तं चेति। यदिष्टविपाकं तत् तत्कालम्; दुःखपरित्राणात् क्षेमम्।
यन्निर्वाणप्रापकं तदत्यन्तं दुःखपरित्राणात् क्षेमम्। परिनिर्वृतस्य यन्नित्यकालं
दुःखं नास्ति ॥ ४५ ॥
ननु च त्रीणि ध्यानानि सेञ्जितान्युक्तानि भगवता। यदत्र वितर्कितं विचारित-
मिदमत्रार्या इञ्जितमित्याहुरिति। आदिशब्देन द्वितीय उक्तं यदत्र प्रीतिरविगता,
इदमत्रार्या इञ्जितमित्याहुः। तृतीयेऽपि यदत्र सुखं सुखमिति चेतस आभोगः,
इदमत्रार्या इञ्जितमित्याहुरिति। अथ कस्मात् सर्वमेव रूपारूप्यावचरं कुशलं
कर्मानिञ्ज्यमुच्यते ? आनिञ्ज्यप्रत्ययगामिनीमिति। आनिञ्ज्यानुकूलभागिनम्
१. ०मानेअ०—का०। एवमुपर्यपि। २. आनिअसमप्रेय—का०।
निर्देशः ] चतुर्थं कोशस्थानम् ६५३
किं पुनः कारणं सेञ्जितमेवान्यत्रानिञ्ज्यमुक्तम् !
तद्भूमिषु यतः कर्मविपाकं प्रति नेञ्जति ॥ ४६ ॥
कामावचरं हि कर्म विपाकं प्रति कम्पते । कथं कम्पते ? अव्यवस्थानात् ।
अन्यगतिकमपि ह्यन्यस्यां गतौ विपच्यते । अन्यदेवनिकायिकं चान्यदेवनिकाये ।
यदेव हि प्रमाणबलवर्णकर्मन्यभूमिकसुखभोगादि संवर्तनीयं कर्म देवेषु
विपच्यते, तदेव कदाचिदन्यप्रत्ययवशान्मनुष्यतिर्यक्प्रेतेषु विपच्यते ।
रूपारूप्यावचरं तु कर्मान्यभूमिकमन्यस्यां भूमौ विपक्तुं न जातूत्सहते ।
तस्माद् व्यवस्थितविपाकत्वाद् 'आनेञ्ज्यम्' इत्युच्यते । अपुण्यं तु कर्माकुशलमिति
प्रसिद्धं लोके । यश्च लोकतोऽर्थः प्रसिद्धः, किं तत्र यत्नेन ॥ ४६ ॥
कृतः पुण्यादीनां कर्मणां निर्देशः ॥
सुखवेदनीयादीनां कर्तव्यः । स एष क्रियते—
सुखवेद्यं शुभं ध्यानादातृतीयात्,
कुशलं कर्म सुखवेदनीयं यावत् तृतीयाद् ध्यानात् । एषा हि भूमिः
सुखाया वेदनाया यदुत कामधातुस्त्रीणि च ध्यानानि ।
अतः परम् ।
अदुःखासुखवेद्यं तु,
अकम्प्यानुकूलभागिनं मार्गमारभ्येति अर्थः ।
किं पुनः कारणं समाधिसापक्षालतया सेञ्जितमेवान्यत्रानिञ्ज्यमुक्तम् ?
इत्याह—"तद्भूमिषु यतः कर्म विपाकं प्रति नेञ्जति" इति ।
भोगादि संवर्तनीयमिति । भोगः = द्रव्यसम्पत् । आदिशब्देन सौरूप्य-
सौस्वर्यादिर्गृह्यते । तदेवेति विस्तरः । यत्तद् देवेषु विपच्येत । तद्बहुली-
कृतमेवं शीलमयं भावनामयम् । तस्य चैवं भवति—'अहो बताहं देव-
सुभगानं मनुष्यसुभगानां वा सभागतायामुपपद्येय' इति । यावत् स तत्रोप-
पद्यत इति ॥ ४६ ॥
कामधातुस्त्रीणि च ध्यानानीति । कामधातुप्रथमध्यानयोः कायिकं सुखं
चेतसिकं च सौमनस्यं सुखा वेदना। द्वितीये ध्याने सौमनस्यं सुखा वेदना ।
तृतीये ध्याने चेतसिकं सुखमिति ।
६५४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ कर्म-
'शुभम्' इति वर्तते । तृतीयध्यानात् परेण कुशलं कर्मादुःखासुखवेदनीयम् ;
सुखदुःखवेदनाभावात् ।
दुःखवेद्यमिहाशुभम् ॥ ४७ ॥
अकुशलं कर्म दुःखवेदनीयम् । इहग्रहणं कामधातावेव तद्भावज्ञापनार्थम् ।
न चैषां वेदनैव फलम् । किं तर्हि ? ससम्भारा ॥ ४७ ॥
अधोऽपि मध्यमस्त्येके,
अन्ये पुनराहुः—तदेतन्मध्यमदुःखासुखवेदनीयं कर्मोक्तम्, एतच्चतुर्थ-
ध्यानादधोऽप्यस्ति । किं कारणम् ?
ध्यानान्तरविपाकः ।
इतरथा हि ध्यानान्तरकर्मणो विपाको न स्याद्, ध्यानान्तरे वा कस्यचित्
कर्मणः; तत्र सुखदुःखयोरभावात् ।
ध्यानान्तरकर्मणो ध्यान एव सुखेन्द्रियं विपाक इत्येके ।
नैव तस्य वेदना विपाक इ
निर्देशः ] चतुर्थं कोशस्थानम् ६५५
तदेतदुच्छास्त्रम् । शास्त्रे हि पठितम्—"स्यात् कर्मणश्चैतसिक्येव वेदना
विपाको विपच्येत । स्यात् कुशलस्यावितर्कस्य कर्मणः" इति ।
अपूर्वाचरमः पाकस्त्रयाणां चेष्यते यतः ॥ ४८ ॥
यतश्चोक्तं सूत्रे—"स्यात् त्रयाणां कर्मणामपूर्वाचरमो विपाको विपच्येत ।
स्यात् सुखवेदनीयस्य रूपं दुःखवेदनीयस्य चित्तचैत्ता धर्माः । अदुःखसुख-
वेदनीयस्य चित्तविप्रयुक्ताः" इति, अतोऽप्यस्त्यदुःखसुखवेदनीयं कर्माधस्तात् ।
न हि कामधातोरन्यत्रास्ति युगपत् कर्मत्रयस्य विपाके संयोगः ।
किमिदानीं तत् कुशलम् ? आहोस्विदकुशलम् ? दुर्बलं तु तत् ।
एवं तर्हि "सुखवेद्यं शुभं ध्यानादातृतीयात्" ( अभि० को० ४.४७ ),
"इष्टविपाकं च कुशलम्" इत्यस्य विरोधः ? बाहुलिक एष निर्देशो द्रष्टव्यः ।
अत्राचार्य आह—तदेतदुच्छास्त्रम् । यदेतदुक्तम्—'ध्यानान्तरकर्मणो ध्यान
एव सुखेन्द्रियं विपाकः' इति, यच्चोक्तम्—'नैव तस्य वेदना विपाकः' इति,
तदेतदुभयमप्युच्छास्त्रम् । तत् प्रतिपादयन्नाह—शास्त्रे हि पठितमिति विस्तरः ।
अवितर्कस्य कर्मण इति । ध्यानान्तरकर्मण इत्यर्थः । अतः कुशलस्यावितर्कस्य
कर्मणश्चैतसिक्येव वेदना विपाको विपच्यत इत्यवधारणान्न तस्य कर्मणो ध्यान
एव सुखेन्द्रियं विपाकः, नापि वेदनातोऽन्य इति गम्यते । अवितर्कं हि कर्म
ध्यानान्तरात् प्रभृत्यूर्ध्वमिति ।
“अपूर्वाचरमः” इति । न पूर्वम्, न पश्चात् । युगपदित्यर्थः ।
सुखवेदनीयस्य रूपमिति चक्षुरादिकम् । दुःखवेदनीयस्य चित्तचैत्ता इति ।
पञ्चविज्ञानकायिकाः; दौर्मनस्यस्याविपाकत्वात् । अदुःखसुखवेदनीयस्य चित्त-
विप्रयुक्ता इति । जीवितेन्द्रियादयः । न हि कामधातोरन्यत्रेति । दुःखवेदनीयस्य
कर्मणोऽन्यत्राभावात् ।
किमिदानीं तदिति । अदुःखसुखवेदनीयम् । एवं तर्हीति विस्तरः । यद्यधोऽपि
चतुर्थाद् ध्यानाददुःखसुखवेदनीयं कर्मास्ति कुशलम् । सुखवेद्यं शुभं ध्यानादा-
तृतीयादिति अस्य विरोधः । न हि केवलं सुखवेदनीयं कुशलमातृतीयाद्ध्यानात्।
किं तर्हि ? अदुःखसुखवेदनीयमप्यस्तीति । इष्टविपाकं च कुशलमित्यस्य विरोधः ।
न हि केवलमिष्टविपाकं कुशलम्, इष्टानिष्टविपरीतविपाकमपि कुशलमस्तीति ।
बाहुलिक एष निर्देश इति । बाहुल्येनैव निर्दिष्टमित्यर्थः—सुखवेद्यं शुभं ध्यानादा-
तृतीयादिति, इष्टविपाकं च कुशलमिति ।
६५६ भाष्यस्फुटार्थासहिते ऽभिधर्मकोशे [ कर्म-
कथं पुनरवेदनास्वभावं कर्म सुखादिवेदनीयमित्युच्यते ? सुखवेदनायै हितं
सुखवेदनीयम्, सुखोऽस्य वेदनीय इति वा ।
कश्च वेदनीयः ? यो विपाकः । स यसौ विद्यते सुखस्य वा वेदनीयं
येन सुखं वेद्यते, स्नानीयकषायवत् ।
एवं दुःखवेदनीयम्, अदुःखासुखवेदनीयं च द्रष्टव्यम् ॥ ४८ ॥
अपि च—
स्वभावसम्प्रयोगाभ्यामालम्बनविपाकतः ।
सम्मुखीभावतश्चेति पञ्चधा वेदनीयता ॥ ४९ ॥
१. स्वभाववेदनीयता वेदनानाम्; स्वभावेनैव वेदनीयत्वात् ।
२. सम्प्रयोगवेदनीयता स्पर्शस्य; “सुखवेदनीयः स्पर्शः” इति ।
३. आलम्बनवेदनीयता विषयाणाम् । यथोक्तम्—“चक्षुषा रूपाणि
दृष्ट्वा रूपप्रतिसंवेदी भवति, नो तु रूपरागप्रतिसंवेदी” ( ) इत्येवमादि ।
वेदनया हि तामालम्बमानः प्रतिसंवेद्यते ।
कथं पुनरवेदनास्वभावमिति । सुखमनुभूयते, न कर्मेत्येवमभिसमीक्ष्य इति ।
सुखवेदनायै हितं सुखवेदनीयमिति । सुखवेदनोत्पत्त्यनुकूलमित्यर्थः । सुखोऽस्य
वेदनीय इति वेति । सुखोऽस्य विपाकोऽनुभवनीय इत्यर्थः ।
स्नानीयकषायवदिति । यथा येन स्नाति स स्नानीयः कषायः । एवं येन सुखं
विपाकं वेदयते तत् कर्म वेदनीयम् । सुखस्य विपाकस्य वेदनीयं कर्म सुखवेद-
नीयम् । करणेऽपि कृत्यविधानादेतत् । एवं दुःखवेदनीयमिति । दुःखवेदना-
हितं दुःखवेदनीयमिति विस्तरेण पूर्ववद् योज्यम् । एवमदुःखासुखवेदनीय-
मिति ॥ ४८ ॥
स्वभाववेदनीयतेति । स्वभाववेदनानुभवलक्षणेन वेदनीयस्वभावः । एवं
यावत् सम्मुखीभावेन वेदनीयतेति योज्यम् ।
सुखवेदनीयः स्पर्श इति । सुखवेदनाहितं सुखं वेदनीयमस्मिन्निति सुखवेदनीयः
स्पर्शः ।
आलम्बनवेदनीयतेति । वेदनीया विषयाः । आलम्बनीया इत्यर्थः ।
रूपप्रतिसंवेदी नो तु रूपरागप्रतिसंवेदीति । रूपं प्रत्यनुभवति । नो तु रूपरागं
प्रत्यनुभवतीत्यर्थः । अथवा नो तु स रूपं रागेण प्रत्यनुभवति, आलम्बत इति ।
निर्देशः ] चतुर्थं कोशस्थानम् ६५७
४. विपाकवेदनीयता कर्मणः; “दृष्टधर्मवेदनीयं कर्म” इति विस्तरः।
५. सम्मुखीभाववेदनीयता। यथोक्तम्—“यस्मिन् समये सुखां वेदनां
वेदयते, द्वे अस्य वेदने तस्मिन् समये निरुद्धे भवतः” इति। नहि यस्मिन् समये
सुखा वेदना वर्तते तस्मिन् पुनरन्या वेदनास्ति, स यां तां वेदयते। सम्मुखी-
कुर्वंस्तु तां वेदयत इत्युच्यते। अतो विपाकस्य वेदनीयत्वात् कर्माण्युच्यते
सुखवेदनीयमित्येवमादि ॥ ४९ ॥
नियतानियतं तच्च,
तच्चैतत् सुखवेदनीयादि त्रिविधं कर्म नियतं चानियतं च वेदितव्यम्।
नावश्यवेदनीयमनियतम्।
नियतं त्रिविधं पुनः।
दृष्टधर्मादिवेद्यत्वात्,
दृष्टधर्मवेदनीयम्, उपपद्यवेदनीयम्, अपरपर्यायवेदनीयं च—इत्येतत्
त्रिविधं कर्म नियतमिति। एतच्चतुर्विधं कर्म भवति सहानियतवेदनीयेन।
पञ्चधा कर्म केचन ॥ ५० ॥
अपरे पुनः पञ्चविधं कर्मेच्छन्ति—अनियतवेदनीयं द्विधा कृत्वा,
विपाकेन नियतमनियतं चेति।
तत्र दृष्टधर्मवेदनीयम्—यत्र जन्मनि कृतं तत्रैव विपच्यते। उपपद्यवेदनी-
यम्—द्वितीये जन्मनि। अपरपर्यायवेदनीयम्—तस्मात् परेण।
जन्मान्तरेऽप्यस्ति दृष्टधर्मवेदनीयस्य कर्मणो विपाक आरम्भवशात् तन्नाम-
व्यवस्थानमित्यपरे।
दृष्टधर्मवेदनीयमिति। दृष्टे जन्मनि वेदनीयं विपाकलक्षणमस्येति दृष्टधर्म-
वेदनीयं कर्मेति विस्तरः।
यस्मिन् समय इति विस्तरः। यस्मिन् समये सुखां वेदनां वेदयते अनुभवति।
द्वे अस्य वेदने¹ दुःखा, अदुःखासुखा च, तस्मिन् समये निरुद्धे भवत इति ॥४९॥
आरम्भवशादिति। दृष्ट एव जन्मनि विपाकारम्भादित्यर्थः। तन्नामव्यव-
स्थानमिति। ‘दृष्टधर्मवेदनीयम्’ इत्येवं नामव्यवस्थानमित्यर्थः।
१. वेदना—मुद्रितः पाठः।
६५८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ कर्म-
मा भूद् यदेवमिष्टकर्म तस्याल्पेच्छो विपाक इति ? तदेवं नेच्छन्ति
वैभाषिकाः । अस्ति हि कर्म सन्निकृष्टफलं न विप्रकृष्टफलम्, अस्ति विपर्ययाद्,
बाह्यबीजवत् । यथा त्रिपक्षा सुवर्चला त्रिभिः पक्षैः फलं दधाति, यवगोधूमादयः
षड्भिर्मासैरिति ॥ ५० ॥
चतुष्कोटिकमित्यन्ये,
दार्ष्टान्तिकास्तु चतुष्कोटिकं कुर्वन्ति—१. अस्ति कर्मावस्थानियतं
न विपाके नियतम् । यत् कर्म दृष्टधर्मादिवेदनीयं विपाकेऽनियतम् । २. अस्ति
विपाके नियतं नावस्थायाम् । यत् कर्मानियतवेदनीयं विपाके नियतम् । ३. अस्त्यु-
भयनियतं यद् दृष्टधर्मादिवेदनीयं विपाके नियतम् । ४. अस्ति नोभयनियतं
यत् कर्मानियतवेदनीयं विपाके अनियतम् ।
तेषां तत् कर्माष्टविधं दृष्टधर्मवेदनीयं नियतमनियतं च । एवं यावदनियत-
वेदनीयम् । नियतमेव तु दृष्टधर्मादिवेदनीयमनियतं चतुर्थमिति वर्णयन्ति ।
स्यादेकस्मिन् क्षणे चतुर्विधं कर्माक्षिपेत् । स्यात् त्रिषु परं प्रयोज्य काम-
मिथ्याचारे स्वयं प्रयुक्तस्तेषां युगपत् प[रिसमाप्तौ¹ ।
एषां च पुनश्चतुर्णां कर्मणां
निकायाक्षेपणं त्रिभिः ।
अस्ति हीति विस्तरः । सन्निकृष्टफलस्य कर्मणः सुवर्चला दृष्टान्तः । विप्रकृष्ट-
फलस्य यवगोधूमादयः ॥ ५० ॥
दार्ष्टान्तिकाः सौत्रान्तिकाः । तेषामेवं प्रथमद्वितीये कोट्यौ वर्णयतां कर्माष्ट-
विधम् । दृष्टधर्मवेदनीयं नियतमनियतं च विपाकं प्रति । एवं यावदनियतवेदनीय-
मिति । उपपद्यवेदनीयं नियतमनियतं च विपाकं प्रति, अपरपर्यायवेदनीयमपि-
नियतमनियतञ्च, अनियतवेदनीयमपि यो दृष्टधर्माद्यनियतवेदनीयं तन्नियतम्,
अनियतञ्च—इत्यष्टविधम् ।
चतुर्विधं कर्माक्षिपेदिति । दृष्टधर्मादिवेदनीयं चतुर्विधं कर्माक्षिपेदित्यर्थः ।
कथम् ? इत्याह—स्यात् त्रिषु प्राणातिपातादत्तादानमृषावादेषु परं प्रयोज्य काम-
मिथ्याचारे स्वयमात्मना प्रयुक्तः । तेषां कर्मणां युगपत् परिसमाप्तौ । एकं दृष्टधर्म-
वेदनीयम्, अपरमुपपद्यवेदनीयम्, अपरं चापरपर्यायवेदनीयम्, अन्यच्चानियत-
वेदनीयमिति ।
१. समाप्तौ—का० ।
निर्देशः ] चतुर्थं कोशस्थानम् ६५९
नहि दृष्टधर्मवेदनीयेन कर्मणा निकायसभाग आक्षिप्यते ।
कतमस्मिन् धातौ कतिविधं कर्माक्षिप्यते ? कस्यां वा गतौ ?
सर्वत्र चतुराक्षेपः,
सर्वेषु त्रिषु धातुषु सर्वासु च गतिषु चतुर्णां कर्मणामाक्षेपः कुशलाना-
कुशलानां च यथासम्भवम् ।
अस्योत्सर्गस्यायमपवादः—
शुभस्य नरके त्रिधा ॥ ५१ ॥
नरकेषु कुशलस्य कर्मणस्त्रिविधस्यैवाक्षेपः¹, न दृष्टधर्मवेदनीयस्य; अत्रेष्ट-
विपाकाभावात्² ॥ ५१ ॥
यद्विरक्तः स्थिरो बालस्तत्र नोत्पद्यवेद्यकृत् ।
यतो भूमेः वीतरागपृथग्जनो भवति, असौ च स्थिरो भवत्यपरिहाणधर्मा,
स तत्रोत्पद्यवेदनीयं कर्म न करोति ।
किमन्यत् करोति ?
नान्यवेद्यकृदप्यार्यः
कुशलानामकुशलानां च यथासम्भवमिति । यत्राकुशलस्य सम्भवः काम-
धातावेव, नान्यत्र ।
‘सर्वासु गतिषु’ इत्यस्योत्सर्गस्यायमपवादः—‘‘शुभस्य नरके त्रिधा³’’ इति ।
त्रिधेवेत्यवधारणम्। नरकेषु कुशलस्य कर्मणः त्रिविधस्यैवाक्षेपः, न चतुर्विधस्य ।
दृष्टधर्मवेदनीयं स्थापयित्वा । अत्र नरकेष्विष्टविपाकाभावात् । शुभग्रहणमशुभ-
निरासार्थम् । अकुशलस्य हि चतुर्विधस्यापि नरकेष्वाक्षेपः सम्भवति ॥ ५१ ॥
“यद्विरक्तः स्थिरो बालः” इति । यतो विरक्तो यद्विरक्त इति समासः ।
स्थिरग्रहणं परिहाणधर्मणो निरासार्थम् । तस्य हि तस्यां भूमौ उपपद्यवेदनीयं कर्म
सम्भवति । बालग्रहणमार्यनिवृत्त्यर्थम् । आर्यस्य हि तत्रोपपद्यवेदनीयम्, अपर-
पर्यायवेदनीयं च न सम्भवति; अनागामित्वात् ।
नान्यवेद्यकृदपीति । नापरपर्यायवेदनीयकृदपि । नोपपद्यवेदनीयकृदपीत्यर्थः ।
१. ०विधस्याक्षेपो—का० । २. तत्रे०—का० ।
३. त्रिविधेति—मुद्रितः पाठः ।
२६० भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ कर्म-
'स्थिरः' इति वर्तते । आर्यपुद्गलस्तु यतो वीतरागो न च परिहाणधर्मा,
स तत्रोपपद्यवेदनीयं चापरपर्यायवेदनीयं च कर्म न करोति । न ह्यसौ भव्यः
पुनराधस्तीं¹ भूमिमायातुमनियतं कुर्याद् दृष्टधर्मवेदनीयं चात्रोपपन्नः ।
कामेऽग्रे वाऽस्थिरोऽपि न ॥ ५२ ॥
परिहाणधर्मापि त्वार्यपुद्गलः कामधातोर्भवाग्राद् वा² वीतरागः तयोरुपपद्यापर-
पर्यायवेदनीयं कर्माभव्यः कर्तुम् । किं कारणम् ? फलाद्धि स परिहीणो भवति ।
न चास्ति फलपरिहीणस्य कालक्रियेति पश्चात् प्रवेदयिष्यामः ॥ ५२ ॥
किमन्तराभवेऽप्यस्ति कर्मण आक्षेपः ? अस्तीत्याह—
द्वाविंशतिविधं कामेष्वाक्षिपत्यन्तराभवः ।
कामावचरो ह्यन्तराभवो द्वाविंशतिविधं कर्माक्षिपति । कथं कृत्वा ?
पञ्च हि गर्भावस्थाः—कलल-अर्बुद-पेशी-घन-प्रशाखावस्थाः । पञ्च जातावस्थाः—
बाल-कुमार-युव-मध्य-वृद्धावस्थाः । तत्रान्तराभवः कललवेदनीयं कर्माक्षिपति
अनियतं नियतं च । एवं यावद् वृद्धवेदनीयमन्तराभववेदनीयं च ।
दृष्टधर्मफलं तच्च,
तच्चैतदन्तराभविकं कर्म यन्नियतमेकादशविधमुक्तं दृष्टधर्मवेदनीयं तद्
वेदितव्यम् । किं कारणम् ?
तत्र युक्तिं दर्शयन्नाह—न ह्यसौ भव्यः पुनराधस्तीं भूमिमायातुमिति । न ह्यसा-
वार्योऽपरिहाणधर्मा यतो वीतरागस्तत आधस्तांमधस्ताद्भूवां भूमिमायातुं
भव्यः । परिहाणधर्मा तु भव्यः । तद् यथा—यो भवाग्रलाभी परिहाणधर्मा
यः परिहाय रूपधातावुषपद्येत । तस्योपपद्यवेदनीयमपरपर्यायवेदनीयं चापि
सम्भवति, यथोक्तमुदायिसूत्रे अनियतं कुर्यादिति । अनियतवेदनीयमपरिहाण-
धर्मार्यो दृष्टधर्मवेदनीयं च यत्रोपपन्नस्तत्र कुर्यात् ।
कामधातोर्भवाग्राद्वा वीतराग इति । कामवीतरागः, भवाग्रवीतरागोऽर्हन् ।
तयोरिति कामधातुभवाग्रयोः । पश्चात् प्रवेदयिष्याम इति । 'म्रियते न फलभ्रष्टः'
( अभि० को० ६.६० ) इत्यादि ॥ ५२ ॥
अन्तराभववेदनीयं च । किम् ? नियतमनियतं चेति ।
यन्नियतमेकादशविधमुक्तम् । दृष्टधर्मवेदनीयं यत्तदिति । कललवेदनीयं
नियतम्, यावदन्तराभववेदनीयं नियतमिति ।
१. ०रधस्तनीं—का० । २. का० पुस्तके नास्ति ।
निर्देशः ] चतुर्थं कोशस्थानम् ६६१
निकायो ह्येक एव सः ॥ ५३ ॥
एक एव ह्यसौ निकायसभाग एककर्माक्षिप्तः, यश्चान्तराभवो याश्च
तदन्वया दशावस्थाः ।
अत एवान्यदन्तराभववेदनीयं कर्म नोक्तम्; उपपद्यवेदनीयेन एव¹
तस्याक्षेपात् ॥ ५३ ॥
कीदृशं पुनः कर्म नियतं वेदितव्यम् ?
तीव्रक्लेशप्रसादेन सातत्येन च यत्कृतम् ।
गुणक्षेत्रे च नियतं तत् पित्रोर्घातकं च यत् ॥ ५४ ॥
यद्धि कर्म तीव्रेण क्लेशेन कृतम्, यच्च तीव्रेण प्रसादेन, यच्च सातत्येन,
गुणक्षेत्रे च, तन्नियतं वेदितव्यम् ।
तत्र गुणक्षेत्रम्—त्रीणि रत्नानि । पुद्गलविशेषो वा कश्चित् फलसमापत्ति-
विशेषप्राप्तः । तत्र ह्यन्तरेणापि तीव्रक्लेशप्रसादानां सातत्यं च कुशलमकुशलं च
कर्म नियतं सम्पद्यते ।
पित्रौ पुनर्माता च पिता च, तयोश्चापि यत्² घातिकं कर्म यथा तथा
च³ तन्नियतं सम्पद्यते, नान्यत् ॥ ५४ ॥
याश्च तदन्वया दशावस्था इति । अन्तराभवपूर्विका इत्यर्थः ।
अत एवान्यदन्तराभववेदनीयं कर्म नोक्तमिति । चतुर्विधं कर्म—दृष्टधर्म-
वेदनीयम्, उपपद्यवेदनीयम्, अपरपर्यायवेदनीयम्, अनियतवेदनीयं चेति अत्र
नोक्तम्; उपपद्यवेदनीयेनैव तस्यान्तरा भवस्याक्षेपात् ॥ ५३ ॥
“नियतानियतं कर्म” (अभि० को० ४.५०) इत्युक्तम्, अतो ब्रवीति—
कीदृशं पुनः कर्म नियतमिति विस्तरः ।
फलसमापत्तिविशेषप्राप्त इति । दर्शनमार्गफलप्राप्तः, अर्हत्त्वफलप्राप्तश्च फल-
विशेषप्राप्त इष्यते । विशेषग्रहणमनास्रवमार्गप्राप्यफलग्रहणार्थम् । समापत्ति-
विशेषप्राप्तो निरोधधारणामैत्रीसमापत्तिलाभी । अत्रापि विशेषग्रहणं तदन्य-
लौकिकसमापत्तिविशेषणार्थम् । यथा तथा चेति । यदि पुण्यबुद्ध्या, यदि द्वेषा-
दिना । योऽपि हि पारसिकः पुण्यबुद्ध्या मातरं मारयति पितरं वा । तद-
कुशलमानन्तयं कर्म नियतं सम्पद्यते । नान्यदिति । यदतो विपरीतं मन्दक्लेश-
१. च—का० । २. यत्र—का० । ३. वा—का० ।