अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 674, कुल 1258 में से
संदर्भ में पढ़ेंनिर्देशः ] चतुर्थं कोशस्थानम् ६५५
तदेतदुच्छास्त्रम् । शास्त्रे हि पठितम्—"स्यात् कर्मणश्चैतसिक्येव वेदना
विपाको विपच्येत । स्यात् कुशलस्यावितर्कस्य कर्मणः" इति ।
अपूर्वाचरमः पाकस्त्रयाणां चेष्यते यतः ॥ ४८ ॥
यतश्चोक्तं सूत्रे—"स्यात् त्रयाणां कर्मणामपूर्वाचरमो विपाको विपच्येत ।
स्यात् सुखवेदनीयस्य रूपं दुःखवेदनीयस्य चित्तचैत्ता धर्माः । अदुःखसुख-
वेदनीयस्य चित्तविप्रयुक्ताः" इति, अतोऽप्यस्त्यदुःखसुखवेदनीयं कर्माधस्तात् ।
न हि कामधातोरन्यत्रास्ति युगपत् कर्मत्रयस्य विपाके संयोगः ।
किमिदानीं तत् कुशलम् ? आहोस्विदकुशलम् ? दुर्बलं तु तत् ।
एवं तर्हि "सुखवेद्यं शुभं ध्यानादातृतीयात्" ( अभि० को० ४.४७ ),
"इष्टविपाकं च कुशलम्" इत्यस्य विरोधः ? बाहुलिक एष निर्देशो द्रष्टव्यः ।
अत्राचार्य आह—तदेतदुच्छास्त्रम् । यदेतदुक्तम्—'ध्यानान्तरकर्मणो ध्यान
एव सुखेन्द्रियं विपाकः' इति, यच्चोक्तम्—'नैव तस्य वेदना विपाकः' इति,
तदेतदुभयमप्युच्छास्त्रम् । तत् प्रतिपादयन्नाह—शास्त्रे हि पठितमिति विस्तरः ।
अवितर्कस्य कर्मण इति । ध्यानान्तरकर्मण इत्यर्थः । अतः कुशलस्यावितर्कस्य
कर्मणश्चैतसिक्येव वेदना विपाको विपच्यत इत्यवधारणान्न तस्य कर्मणो ध्यान
एव सुखेन्द्रियं विपाकः, नापि वेदनातोऽन्य इति गम्यते । अवितर्कं हि कर्म
ध्यानान्तरात् प्रभृत्यूर्ध्वमिति ।
“अपूर्वाचरमः” इति । न पूर्वम्, न पश्चात् । युगपदित्यर्थः ।
सुखवेदनीयस्य रूपमिति चक्षुरादिकम् । दुःखवेदनीयस्य चित्तचैत्ता इति ।
पञ्चविज्ञानकायिकाः; दौर्मनस्यस्याविपाकत्वात् । अदुःखसुखवेदनीयस्य चित्त-
विप्रयुक्ता इति । जीवितेन्द्रियादयः । न हि कामधातोरन्यत्रेति । दुःखवेदनीयस्य
कर्मणोऽन्यत्राभावात् ।
किमिदानीं तदिति । अदुःखसुखवेदनीयम् । एवं तर्हीति विस्तरः । यद्यधोऽपि
चतुर्थाद् ध्यानाददुःखसुखवेदनीयं कर्मास्ति कुशलम् । सुखवेद्यं शुभं ध्यानादा-
तृतीयादिति अस्य विरोधः । न हि केवलं सुखवेदनीयं कुशलमातृतीयाद्ध्यानात्।
किं तर्हि ? अदुःखसुखवेदनीयमप्यस्तीति । इष्टविपाकं च कुशलमित्यस्य विरोधः ।
न हि केवलमिष्टविपाकं कुशलम्, इष्टानिष्टविपरीतविपाकमपि कुशलमस्तीति ।
बाहुलिक एष निर्देश इति । बाहुल्येनैव निर्दिष्टमित्यर्थः—सुखवेद्यं शुभं ध्यानादा-
तृतीयादिति, इष्टविपाकं च कुशलमिति ।